[highlight_content]

कठोपनिषत् – तृतीया वल्ली

कठोपनिषत्

 तृतीया वल्ली

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धये ।

छायातपौ ब्रह्मविदो वदन्ति पंचाग्नयो ये च त्रिणाचिकेताः ।। १ ।।

तृतीयावल्लीप्रकाशिका

‘क इत्था वेद यत्र सः’ इति अस्य दुर्ज्ञानत्वे, अत्र इत्थमास्ते’ इति अस्य अर्थस्य दुर्बोधत्वेन; न वयं तदुपासने शक्ताः? इति मन्यमानं प्रति उपास्योपासकयोः एकगुहानुप्रवेशेन परमात्मन: ‘सूपास्यत्वात् वयमपि उपासितुं शक्ता: द्वाभ्यां मन्त्राभ्यां दर्शयति – ऋतं पिबन्तौ इत्यादिना । सत्यपदवाच्यावश्यम् भावि कर्मफलमनुभवन्तौ सुकृतसाध्ये, लोके – अस्मिन्नेव लोके वर्तमानौ हृदयकुहरं प्रविष्टौ, तत्रापि परमाकाशे, परार्ध्ये संख्यायाः उत्तरावधिः, तदर्हति इति परार्ध्यम् । उत्कृष्ट इत्यर्थः । तादृशे हार्दाकाशे वर्तमानौ । छायातपशब्दाभ्यां ज्ञाज्ञौ लक्ष्येते । अज्ञशब्देन जीवनिर्देशस्य च । अयमभिप्रायः-उपास्य-उपासकयोः एकगुहावर्तित्वे, तयोरेव प्राप्य प्राप्यस्य च तत्प्राप्तिसाधनरथत्वेन रूपिते शरीरे अवस्थानम् अयुक्तम् । न हि रथेन प्राप्तव्योऽर्थः रथस्थो भवतीति शंका न कार्या । प्राप्यस्य परमात्मनः तत्र अवस्थित्वेऽपि, जीवस्य ‘पराभिध्यानात्तु तिरोहितम्’ (ब्र.सू.३-२-४) इत्युक्तरीत्या परमात्मसंकल्पमूलकर्मरूपाविद्यावेष्टिततया तदनुभवलक्षणतत्प्राप्तेः अभावेन प्राप्तृप्राप्ययोः, जीवपरयोः रथत्वरूपितशरीरान्तर्वत्येक गुहावर्तित्वकथने न अनुपपत्तिः इति । पंचाग्रयो ये च त्रिणाचिकेताः। पंचाग्निशुश्रूषापरिशुद्धान्तःकरणाः । त्रिणाचिकेताः उक्तोऽर्थः । एवंभूताः ब्रह्मविदः वदन्ति इत्यर्थः । केवलपंचाग्नित्रिणाचिकेतानाम्  ईदृशपरमात्मप्रतिपादनासामर्थ्यात्  ब्रह्मविदामेव पंचाग्नित्वत्रिणाचिकेतत्वे विशेषणे ।

अस्य मन्त्रस्य जीव-परमात्मपरत्वं सूत्रितम् – ‘गुहां प्रविष्टौ आत्मानौ’ (ब्र.सू.१-२-११) इति । ननु – कर्मफलभोगशून्ये परमात्मनि – ‘ऋतं पिबन्तौ’ इति निर्दिष्ट कर्म भोक्तृत्वासम्भवात्, सुकृतसाध्यलोकवर्तित्वगुहावच्छिन्नत्वयोः, सर्वगते परस्मिन् ब्रह्मणि असंभवात्, छायातपनिर्दिष्टाप्रकाशत्वप्रकाशत्वयोरपि जीवपरमात्मपरत्वेऽसम्भवात्। बद्धिजीवपरत्वे तु, तस्य सर्वस्यापि उपपत्तेः, कर्मफलभोगकरणे कर्तृत्वोपचारेण पिबन्तौ इति निर्देशस्यापि उपपत्तेः बुद्धिजीवपरत्वमेव अस्य मन्त्रस्य युज्यते – इति चेत्,

एवमेव हि ‘गुहां प्रविष्टौ’ इति सूत्रे आशंक्य, संख्याश्रवणे सति, एकस्मिन् सम्प्रतिपन्ने द्वितीयाकाङ्क्षायां प्रतिपन्नजातिमुपजीव्य व्यक्तिविशेषपरिग्रहे बुद्धिलाघवात्, विजातीयपरिग्रहे जातिव्यक्तिबुद्धिद्वयापेक्षया गौरवात् , सम्प्रतिपन्नजातीयपरिग्रहौ युक्तः । लोकेऽपि ‘अस्य गोर्द्वितीयो अन्वेष्टव्यः’ इत्यादौ तथा दर्शनात् । तथा च ऋतपानलिङ्गावगतस्य जीवस्य द्वितीयः, चेतनत्वेन तत्सजातीयः परमात्मैव ग्राह्यः; परमात्मनः प्रयोजककर्तृतया, ‘पिबन्तौ’ इति निर्देशस्यापि सम्भवात् । अन्तःकरणे स्वतन्त्रकर्तृत्वप्रयोजककर्तृत्वयोः अभावेन ‘पिबन्तौ’ इति निर्देशस्य, सर्वथाऽप्यसम्भवात्, सर्वगते ब्रह्मणि, सुकृतसाध्यलोकवर्तित्वस्यापि सम्भवात्, अस्मिन्नेव प्रकरणे ‘गुहाहितं गह्वरेष्ठम्’ (क.उ.२-१२) इति परमात्मनो गुहाप्रवेशश्रवणेन, गुहाप्रवेशस्यापि उपपत्तेः छायातपशब्दाभ्यां किञ्चिज्ज्ञसर्वज्ञयोः प्रतिपादनसंभवात्, जीवपरमात्मपर एवायं मन्त्रः इति समर्थितत्वात्, न त्वदुक्तशंकावकाशः । ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्’ इति पैङ्गिरहस्यब्राह्मणानुसारेण ‘द्वा सुपर्णा’ (मुं.उ.३-१-१) इति मन्त्रस्य बुद्धिजीवपरत्वात्, ‘इयदामननात्’ (ब्र.सू.३-३-३४) इत्यधिकरणे, ‘ऋतं पिबन्तौ’ इति मन्त्रस्य, द्वा सुपणा (मुं.उ.३-१-१) इति मन्त्रैकार्थ्यस्य प्रतिपादितत्वात् , अयमपि मन्त्रः बुद्धिजीवः परः इत्यस्याः शंकायाः, ‘गुहां प्रविष्टावात्मानौ’ (ब्र.सू.१-२-११) इति सूत्रकृतैव निराकृतत्वात् ।

किं च – जीवे गुहाप्रवेशस्य बुद्ध्युपाधिकत्या, स्वत: प्रवेशवत्या बुद्ध्या सह जीवस्य, ‘गुहां प्रविष्टौ’ इति गुहाप्रवेशवर्णनं न सङ्गच्छते । उपष्टम्भकाधीनगुरुत्वशालिनि सुवर्णे, गुरु सवर्णम् इति व्यवहारसम्भवेऽपि, उपष्टम्भकसुवर्णे गुरुणी इति व्यवहारदर्शनात् । अत एव परपक्षे सूत्रानुसारेण अस्य मन्त्रस्य जीवपरमात्मपरतया कृतं योजनान्तरमपि अनुपपन्नम् । अनेन जीवेनात्मनाऽनुप्रविश्य’ (छां.उ.६-३-२) इति श्रुत्यनुसारेण परमात्मनो जीवभावेन अनुप्रवेशाभावात् ‘जीवपरमात्मानौ गुहां प्रविष्टौ’ इति निर्देशानुपपत्तेः । जीवभावेन ब्रह्मण: संसारमभिप्रेत्य, ‘ब्रह्म संसरति’ इति व्यवहारसत्त्वेऽपि, जीवब्रह्मणी संसरतः इति व्यवहारासंभवात् । ‘जीवेशावाभासेन करोति माया च अविद्या च स्वयमेव भवति । कार्योपाधिरयं जीव: कारणोपाधिरीश्वरः’ (नृ.ता.उ.९) इति वचनानुसारेण प्रतिगृहीते, अविद्यया वा, अन्तकरणस्य वा जीवोपाधित्वम् इति पक्षद्वयेऽपि, न अविद्यान्तःकरणयोः प्रतिबिंबोपाधित्वं युज्यते । स्वच्छद्रव्यप्रतिबिम्बत्वासम्भवेन, अविद्याप्रतिबिम्बोऽन्तः – वा जीव इति पक्षद्वयमेव प्रतिहतिपरावृत्तनायनरश्मिगृह्यमास्यैव परिशिष्यते । तत्र च हृदयगुहायाम् अविद्यान्तःकरणाभ्याम् अवच्छिन्नत्वेन, अनवच्छिन्नपरमात्मनो गुहाप्रवेशवर्णनश्रुतेः वा अन्तर्यामिब्राह्मणस्य वा नांजस्यम् इति अलमतिचर्चया । प्रकृतमनुसरामः ।। १ ।।

यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।

अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ।।२।।

यस्सेतुः इति । यज्वनां य: सेतुः – आधारभूतः, कर्मफलप्रदः इत्यर्थः । ईजानानाम् इति कानजन्तश्शब्दः । अक्षरं ब्रह्म यत् परम् – यन्निर्विकारं परं ब्रह्म । अभयं तितीर्षता पारम् – संसारसागरं तितीर्षतां निर्भयं दृढं तीरम् । शकेमहि – नाचिकेताग्निप्राप्यमुपासितुं शक्ताः स्म इत्यर्थः । शके: व्यत्यनेन शप् । नाचिकेतं शकेमहि इत्यस्य मन्त्रखण्डस्य तथैव भाष्यकृता व्याख्यातत्वात् । अतः दुरुपास्यत्वबुद्धया न भेतव्यम् इति भावः ।। २ ।।

आत्मानं रथिनं विद्धि शरीरं रथमेव च ।

बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ।। ३ ।।

‘आत्मानं रथिनं विद्धि’ इत्यादिना ‘सोऽध्वनः पारमाप्नोति’ इत्यन्तेन संसाराध्वपारभूतवैष्णवपरमपदप्राप्तौ परिकरम् उपदिशन् प्राप्तस्वरूपम् उपदिशति – आत्मानं रथिनं विद्धि इति । शरीराधिष्ठातारं रथिनं विद्धि । शरीरमेव च रथं विद्धि इत्यर्थः । बुद्धिशब्दाध्यवसायाधीनत्वात् देहप्रवृत्ते: तस्याः सारथित्वम् इति भावः । प्रग्रहः – रशना ।। ३ ।।

इन्द्रियाणि हयानाहुविषयाँस्तेषु गोचरान् ।

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।। ४ ।।

इन्द्रियाणि हयानाहुः – स्पष्टोऽर्थः । विषयांस्तेषु गोचरान् – तेषु इन्द्रियेषु हयत्वेन रूपितेषु, गोचरान् = मार्गान् शब्दादिविषयान् विद्धि इत्यर्थः । रथसारथि-हय प्रग्रहत्वेन रूपितानां शरीरेन्द्रियमनोबुद्धीनामभावे, रथित्वेन रूपितस्य उदासीनस्य आत्मनो गमनरूपलौकिकवैदिकक्रियाकर्तृत्वमेव नास्ति इत्येतत् सुप्रसिद्धत्वेन दर्शयति – आत्मेन्द्रिय इति आत्मशब्दो देहपरः । मनः शब्दः तत्कार्यबुद्धेरपि उपलक्षकः; पूर्वमन्त्रे बुद्धेरपि सारथित्वेन निर्दिष्टत्वात् । भोक्ता- कर्तृत्वभोक्तृत्ववान् इत्यर्थः । न हि केवलस्यात्मनः कर्तृत्वं भोक्तृत्वं वा अस्तीति भावः ।। ४ ।।

यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।

तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ।। ५ ।।

यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।

तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ।। ६ ।।

शरीरादेः रथत्वादिरूपणस्य प्रयोजनमाह – यस्त्वविज्ञानवान् इत्यादिना मन्त्रद्वयेन । लोके हि; समीचीनसारथिप्रग्रहवत्तः अश्वाः वशीकृता भवन्ति; एवं सारथिप्रग्रहत्वेन रूपितयोः विज्ञान-मनसोः सामीचीन्ये, अश्वत्वेन रूपितानि इन्द्रियाणि वश्यानि भवन्ति; नान्यथा इत्यर्थः ।। ५-६ ।।

यस्त्वविज्ञानवान् भवत्यमनस्कस्सदाऽशुचिः ।

न स तत् पदमाप्नोति संसारं चाधिगच्छति ।। ७ ।।

यस्तु विज्ञानवान् भवति समनस्क: सदा शुचिः ।

स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ।। ८ ।।

हयत्वेन रूपितानाम् इन्द्रियाणां वशीकरणतदभावयोः प्रयोजनं दर्शयति मन्त्रद्वयेन – यस्त्वविज्ञानवान् इत्यादिना । अमनस्कः – अनिगृहीतमनाः । अत एव अशुचिः, सर्वदा विपरीतचिन्ताप्रवणत्वात् इत्यर्थः । न केवलं जिगमिषितप्राप्त्यभावमात्रम्, प्रत्युत गहनं संसारकान्तारमेव प्रापयति इत्यर्थः ।। ७-८।।

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।

सोऽध्वन: पारमाप्नोति तद्विष्णोः परमं पदम् ।। ९ ।।

किं तत् पदम् ? इत्याकाङ्क्षायां, तत्पदं दर्शयन् उपसंहरति – विज्ञानसारथि: इति समीचीनविज्ञानमनश्शाली संसाराध्वपारभूतं परमात्मस्वरूपं प्राप्नोति इत्यर्थः ।। ९ ।।

इन्द्रियेभ्य: परा ह्यर्था: अर्थेभ्यश्च परं मनः ।

मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ।। १० ।।

महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।

पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ।। ११ ।।

वशीकार्यत्वाय रथादिरूपितेषु शरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि, तानि उच्यन्ते – इन्द्रियेभ्यः पराः इत्यादिमन्त्रद्वयेन । अस्य मन्त्रद्वयस्यार्थो भगवता भाष्यकृता आनुमानिकाधिकरणे उक्तः । इत्थं हि तत्र भाष्यकृता – ‘तेषु रथादिरूपितशरीरादिषु, यानि येभ्यो वशीकार्यतायां प्रधानानि, तानि उच्यन्ते – इन्द्रियेभ्यः पराः इत्यादिना । तत्र हयत्वेन रूपितेभ्यः इन्द्रियेभ्यः गोचरत्वेन रूपिता विषयाः, वशीकार्यत्वे पराः; वश्येन्द्रियस्यापि विषयसन्निधौ इन्द्रियाणां दुर्निग्रहत्वात् । तेभ्योऽपि परं प्रग्रहरूपितं मनः, मनसि विषयप्रवणे विषयासन्निधानस्यापि अकिंचित्करत्वात् । तस्मादपि, सारथित्वरूपिता बुद्धिः परा । तस्या अपि, रथित्वेन रूपित आत्मा, कर्तृत्वेन प्राधान्यात्परः । सर्वस्य आत्मेच्छायत्तत्वात्, आत्मैव महान् इति विशेष्यते । तस्मादपि रथरूपितं शरीरं परम्; तदायत्तत्वात् जीवस्य सकलपुरुषार्थप्रवृत्तीनाम् । तस्मादपि परः सर्वान्तरात्मभूतः अन्तर्यामी अध्वनः पारभूतः परमपुरुषः; यथोक्तस्य आत्मपर्यन्तस्य तत्संकल्पायत्तप्रवृत्तित्वात् । स खलु अन्तर्यामितया उपासनस्यापि निर्वर्तकः । ‘परात्तु तच्छ्रुतेः’ (ब्र.सू.२-३-४०) इति हि जीवात्मनः कर्तृत्वं परमपुरुषायत्तम् इति वक्ष्यते । वशीकार्योपासननिवृत्त्युपायकाष्ठाभूतः परमप्राप्यश्च स एव । तदिदमुच्यते – पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः इति । तथा अन्तर्यामिब्राह्मणे – ‘य आत्मनि तिष्ठन्’ (बृ.उ.माध्यं.३-७-३०) इत्यादिभिः सर्वं साक्षात्कुर्वन्, सर्वं नियमयति इत्युक्त्वा, ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ.उ.५-७-२७) इति नियन्त्रन्तरं निषिध्यते । भगवद्गीतासु च –

‘अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।

विविधा च पृथक्चेष्टा दैवं चैवात्र पंचमम्’ ।। (भ.गी.१८-१४) इति ।

दैवमत्र पुरुषोत्तम एव । ‘सर्वस्य चाहं हृदि सन्नविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च’ (भ.गी.१५-१५) इति वचनात् । तस्य च वशीकरणं तच्छरणागतिरेव । यथा आह –

‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।

भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया’ ।। (भ.गी.१८-६१)

‘तमेव शरणं गच्छ’ । (भ.गी.१८-६२) इति । तदेवम् – ‘आत्मानं रथिनं विद्धि’ (क.उ. ३-३) इत्यादिना रथ्यादिरूपकविन्यस्ता इन्द्रियादयः इन्द्रियेभ्यः परा ह्यर्था: इत्यत्र स्वशब्दैरेव प्रत्यभिज्ञायन्ते; न रथरूपितं शरीरमिति परिशेषात् तत् अव्यक्तशब्देन उच्यते इति भाषितम् ।। १०,११ ।।

एष सर्वेषु भूतेषु गुढोत्मा न प्रकाशते ।

दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ।। १२ ।।

एष सर्वेषु भूतेषु इति । सर्वेषु भूतेषु आत्मतया वर्तमानः असौ गुणत्रयमायाति रोहितत्त्वेन, अजितबाह्यान्तःकरणानां, न यथावत् प्रकाशते । तु अग्र्यया-ऐकाग्नययुक्तया बाह्याभ्यन्तरव्यापाररहितया सूक्ष्मार्थविवेचनशक्त्या, सूक्ष्मदर्शनशीलै: दृश्यते इत्यर्थः।।१२।।

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यचेत् ज्ञान आत्मनि ।

ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आत्मनि ।। १३ ।।

बाह्याभ्यन्तरकरणव्यापारराहित्यप्रकारम्, ‘अध्यात्मयोगाधिगमेन’ इति निर्दिष्ट जीवस्वरूपज्ञानप्रकारं दर्शयति – यच्छेद्वाङ्मनसी इत्यादिना । इमं मन्त्रं प्रस्तुत्य इत्थं हि भाष्यकृता – ‘हयादिरूपितानाम् इन्द्रियाणां वशीकरणप्रकारोऽयम् उच्यते । यच्छेद्वाङ्मनसी वाचं मनसी नियच्छेत् । वाक्पूर्वकाणि ज्ञानेन्द्रियाणि च, मनसि नियच्छेत् इत्यर्थः । वाक्छब्दे द्वितीयायाः, ‘सुपां सुलुक्’ (पा.सू.७-१-३९) इत्यादिना लुक् । मनसी इति, सप्तम्याश्छान्दसो दीर्घः । तद्यच्छेत् ज्ञान आत्मनि-तत्-मन:, बुद्धौ नियच्छेत् । ज्ञानशब्देन अत्र पूर्वोक्ता बुद्धिः अभिधीयते । ज्ञान आत्मनि इति व्यधिकरणे सप्तम्यौ । आत्मनि वर्तमाने ज्ञाने नियच्छेत् इत्यर्थः । ज्ञानमात्मनि महति नियच्छेत् – बुद्धिकर्तरि महत्यात्मनि नियच्छेत् । तद्यच्छेच्छान्त आत्मनि – तम कर्तारं, परस्मिन् ब्रह्मणि सर्वान्तर्यामिणि नियच्छेत् । व्यत्ययेन तदिति नपुंसकलिङ्गता । एवंभूतेन रथिना वैष्णव पदं गन्तव्यम् इत्यर्थः’ इति भाषितम् । विवृतं च श्रतप्रकाशिकायाम्  – ‘वाचो मनसि नियमनं, मनोऽननुगुणप्रवृत्तिवैमुख्यापादनम् । मनसः बुद्धौ नियमनम् – व्यवसायानुगुण प्रवत्तितापादनम् । बुद्धिश्च अर्थेषु हेयताध्यवसायरूपा तस्या बुद्धेः आत्मनि नियमनं नाम स एवोपादेयतया साक्षात्कार्य इति एतदर्थविषयत्वापादनम् । शान्ते – स्वतः ऊर्मिषट्कप्रतिभटे । शान्त आत्मनि, महत आत्मनो जीवस्य नियमनं नामतच्छेषताप्रतिपत्तिः’, इति । आत्मशब्दस्य पुल्लिङ्गत्वात् , पुल्लिङ्गच्छब्देन निर्देष्टव्ये छान्दसत्वात् लिङ्गव्यत्यय इति ।

ननु भाष्ये – ‘ज्ञान आत्मनि’ इति व्यधिकरणे सप्तम्यौ । आत्मनि वर्तमाने ज्ञाने नियच्छत् इत्यर्थः, इत्युक्ति: अयुक्ता; अव्यावर्तकत्वात आत्मनि वर्तमान इति विशेषणस्य । आत्मन्यवर्तमानज्ञानस्यैव अभावात्  । न च – ‘तद्यच्छेत् ज्ञाने’ इत्येतावत्युक्ते, आत्मस्वरूपज्ञानभ्रान्तिः स्यात् । अतः ज्ञान आत्मनि इत्युक्तमिति वक्तुं शक्यम्; तथा सति तस्या एव भ्रान्ते सामानाधिकरण्ययोजनया दृढीकरणप्रसङ्गात् । न हि आत्मनि इत्यनेन आत्मभ्रान्ति: व्युदस्यते । न च – ‘आत्मनि वर्तमाने’ इति भाष्यस्य आत्मनि विषयविषयिभावलक्षणसम्बन्धेन वर्तमान इत्यर्थः । आत्मविषयज्ञाने इति यावत् । अतो व्यावर्तकतया, न वैयर्थ्यदोषः – इति वाच्यम्; तथा सति ज्ञानमात्मनि महति नियच्छेत् इत्यस्य वैयर्थ्यापातात् । तदर्थस्य अनेनैव सिद्धे इति चेत् –

उच्यते; अयमभिप्रायो भाष्यकारस्य – तद्यच्छेत् ज्ञान आत्मनि इत्यत्र आत्मनि इति विषयसप्तमी । तच्च आत्मविषयक ज्ञानम् – ‘आत्मा उपादेयः, तदतिरिक्ता अर्था हेयाः इत्येवंरूपम् । तच्च अर्थेषु हेयताध्यवसायरूपा बुद्धिः’ इति श्रुतप्रकाशिकायां व्यक्तम् । अस्य च आत्मानात्मविषयकाहेयहेयताध्यवसायरूपस्य ज्ञानस्य, महति आत्मनि नियमनं नाम – ‘स एव उपादेयतया साक्षात्कार्यः’ इति एतदर्थविषयत्वापादनम् इति तत्रैव श्रुतप्रकाशिकायाम् उक्तत्वात् वाक्यद्वयस्यापि स्वप्रयोजनतया त्वदुक्तवैयर्थ्य शंकानवकाश इति ।। १३ ।।

उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत ।

क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ।। १४ ।।

एवं वशीकरणप्रकारमुपदिश्य अधिकारिपुरुषान् अभिमुखी करोति – उत्तिष्ठत जाग्रत इति । आत्मज्ञानाभिमुखा भवत; अज्ञाननिद्रायाः भयं कुरुत । वरान् – श्रेष्ठान् आचार्यान् उपसङ्गम्य आत्मतत्त्वं निबोधत । यद्वा – उपासितात् भगवतो वा ब्रह्मविद्भ्यो वा, देवतापारमार्थ्यं च यथावत् वेत्स्यते भवान् इत्येवं रूपान् वरान्, प्राप्य ज्ञेयम्, आत्मतत्त्वं निबोधत – न उदासितव्यम् इति भावः । क्षुरस्य इति । ज्ञानिनः, तत् – आत्मतत्त्वं दुर्गमपन्थानं वर्णयन्ति । तत्कस्य हेतोः? यतः आत्मतत्त्वम्, क्षुरस्य – आयुधविशेषस्य, धारा – अग्रम्, निशिता – तीक्ष्णा, दुरत्यया – अनतिक्रमणीया । तीक्ष्णक्षुराग्रे संचरतः पुंसो यथा कियत्यप्यनवधाने आत्मनाशो भवति, एवम् इह आत्म स्वरूपावगतिदशायां स्वल्पेऽपि अनवधानापराधे आत्मनाशो भवतीति भावः ।। १४ ।।

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् ।

अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते ।। १५ ।।

उपसंहरति – अशब्दमस्पर्शम् इति । अत्र नित्यम् इत्येतत्, अशब्दम् इत्यादौ प्रत्येकमभिसम्बध्यते । अशब्दत्वादिवशादेव कालवत् अव्ययम् – अवयवापचयशून्यम् इत्यर्थः । महतः इत्यनेन, आत्मनि महति नियच्छेत्,’ इति पूर्वमन्त्रनिर्दिष्टो जीवो गृह्यते । ध्रुवम् – स्थिरम् । निचाय्य – दृष्ट्वा, दर्शनसमानाकारोपासनेन विषयीकृत्य इत्यर्थः । मृत्युमुखात् इति । भीषणात् संसारात् इत्यर्थः ।। १५ ।।

नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।

श्रुत्वा च मेधावी ब्रह्मलोके महीयते ।। १६ ।।

उपसंहरति – नाचिकेतम् इति । नचिकेतसा प्राप्तं नाचिकेतम् । मृत्युप्रोक्तम् – मृत्योः प्रवक्तृत्वमेव न स्वतन्त्रवक्तृत्वम् । अतः सनातनम् – अपौरुषेयत्वात् प्रवाहरूपेण नित्यमित्यर्थः ।। १६ ।।

य इदं परमं गुह्यं श्रावयेत् ब्रह्म संसदि ।

प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ।

तदानन्त्याय कल्पत इति ।। १७ ।।

इति कठोपनिषदि तृतीयावल्ली ।।

य इदम् इति । ब्रह्मसंसदि – ब्राह्मणसमाजे प्रयत: श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पते । प्रयत: शुद्धः ।। १७ ।।

।। इति तृतीयवल्ली प्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.