कठोपनिषत्
द्वितीया वल्ली
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषँ सिनीतः ।
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थात् य उ प्रेयो वृणीते ।।१।।
द्वितीयावल्ली प्रकाशिका
एवं शिष्यं परीक्ष्य, तस्य मुमुक्षा स्थैर्यं निश्चित्य, तस्य उपदेशयोग्यतां मन्वानः मुमुक्षां स्तौति – अन्यच्छ्रेयः इति । अतिप्रशस्तं मोक्षवर्त्माऽपि अन्यत्; प्रियत्वास्पदं भोगवर्त्मापि अन्यत् । ते – श्रेय:प्रेयसी, परस्परविलक्षणप्रयोजने सती, पुरुषं सिनीतः – बध्नीतः । पुरुषं स्ववशताम् आपादयतः इत्यर्थः । तयोः इति । तयोर्मर्ध्ये श्रेय आददानस्य मोक्षाय प्रयतमानस्य साधु – भद्रं भवति । यस्तु प्रेयो वृणीते, स पुरुषार्थाद्भ्रष्टो भवति । उ इत्यवधारणे ।। १ ।।
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ।। २ ।।
श्रेयश्च प्रेयश्चेति । श्रेयश्च प्रेयश्च मनुष्यं प्राप्नुवतः । तौ – श्रेय:प्रेयःपदार्थों सम्यगालोच्य, नीरक्षीरे हंस इव पृथक्करोति । धिया रमते इति धीरः – प्रज्ञाशाली, प्रेयोपेक्षया अभि – अभ्यर्हितं श्रेय एव वृणीते । मन्दमतिः योगक्षेमाद्धेतोः प्रेयो वृणीते । शरीरस्योपचयो योगः: क्षेमः परिपालनम् ।। २ ।।
स त्वं प्रियान् प्रियरूपाँश्च कामान् । अभिध्यायन् नचिकेतोऽत्यस्राक्षीः ।
नैताँ सृंकां वित्तमयीमवाप्तो यस्यां मजन्ति बहवो मनुष्याः ।। ३ ।।
सत्वं प्रियानिति । तादृशः त्वं स्वतोरूपतश्च प्रियान् – काम्यमानान् स्त्र्यादीनित्यर्थः । दुःखोदर्कत्व-दुःखमिश्रत्वादिदोषयुक्ततया निरूपयन् त्यक्तवानसि इत्यर्थः । नैताम् सृंकाम् इति । वित्तमयीम् – धनप्रायाम्, सृंकाम् – कुत्सितगतिं मूढजनसेवितां एतां न अवाप्तवानसि । यस्याम् इति । स्पष्टोऽर्थः ।। ३ ।।
दूरमेते विपरीते विषूची । अविद्या या च विद्येति ज्ञाता । विद्याभीप्सिनं(तं) नचिकेतसं मन्ये । न त्वा कामा बहवोऽलोलुपन्त ।। ४ ।।
दूरमेते इति । या अविद्या इति ज्ञाता – कामकर्मात्मिका, या च विद्या इति ज्ञाता वैराग्यतत्त्वज्ञानमयी, एते दूरम् – अत्यन्तम्, विषूची – विषूच्यौ भिन्नगती; परस्परविरुद्धे च । विद्याभीप्सिनम् -विद्यार्थिनम् । ‘विद्याभीप्सितम्’ इति पाठे आहिताग्नयादित्वात् निष्ठान्तस्य परनिपातः; छान्दसत्वाद्वा न त्वा कामा इति । कामाः बहवोऽपि त्वाम् न अलोलुपन्त – श्रेयोमार्गाद्विच्छेदं न कृतवन्तः । विषयवशगो न भवसि इत्यर्थः । ‘लुपसद’………(पा.सू. ३-१-२४) इति यङन्ताल्लङ् । छान्दसो यलोपः । यङ्लुगन्ताद्वा छान्दसमात्मनेपदम्, अडभावश्च ।। ४ ।।
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः ।
दन्द्रभ्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः ।। ५ ।।
‘अविद्या या च विद्येति ज्ञाता’ इत्युपात्तमार्गद्वये अविद्यामार्गं निन्दति – अविद्यायाम् इति । काम्यकर्मादिलक्षणायाम् अविद्यायां मध्ये, घनीभूत इव तमसि वर्तमानाः । स्वयमेव प्रज्ञाशालिनः शास्त्रकुशलाश्चेति मन्यमानाः । दन्द्रभ्यमाणाः – जरारोगादि दुःखपीडिताः अविवेकिनः परिभ्रमन्ति । अन्यत् स्पष्टार्थम् । केचित्तु दन्द्रव्यमाणाः इति पाठमाश्रित्य विषयकामाग्निना द्रुतचित्ताः इत्यर्थं वर्णयन्ति ।। ५ ।।
न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुन: पुनर्वशमापद्यते मे ।। ६ ।।
न साम्परायः इति । परलोकसाधनव्यापारः, अविवेकिनं प्रति न प्रकाशते । प्रमाद्यन्तम् – अनवहितमनस्कम् । वित्तमोहेन मूढम् – विषयाशावशीकृतमनोरथम् । अयं लोको नास्ति इति । अयमेव लोकोऽस्ति; परलोको नास्तीति मन्यमानः, मत्क्रियमाणयातना विषयो भवति इत्यर्थः । व्यासायैः, ‘संयमने त्वनुभूय’ (ब्र.सू. ३-१-१३) इति सूत्रे अयं लोको नास्ति पर उत मानी? इति पाठानुसारेण अयं च लोकः परश्च लोको नास्तीत्यर्थो वर्णितः । तत्र पक्षे ‘तस्य’ इति शेषः पूरणीयः च शब्दश्च अध्याहार्यः । ‘मानी’ इत्यस्य दुर्मानीत्यर्थः । शिष्टपरिग्रहाभावात्, ‘अयं लोको नास्ति’ इत्यस्य उपपत्तिर्द्रष्टव्या । दुर्मानी पुनः पुनर्वशमापद्यत इति उत्तरत्र सम्बध्यते ।। ६ ।।
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलो ऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ।। ७ ।।
श्रवणायापि – इति । यः प्रसिद्धः परमात्मा सः अनेकैः पुरुषैः, श्रोतुमपि न लभ्यः इत्यर्थः । श्रवणलाभोऽपि महासुकृतफलमिति भावः । शृण्वन्तोऽपि इति । न हि श्रोतृणां सर्वेषाम्, परमात्मप्रतिपत्तिः सुलभेति भावः । आश्चर्यो वक्ता इति । अस्य कुशलो वक्ता, कुशलः प्राप्ता च, दुर्लभः इत्यर्थः । आश्चर्यो ज्ञाता इति । कुशलेन अनुशिष्टा ज्ञाताऽपि आश्चर्यः ।। ७ ।।
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान् ह्यतर्क्यमणुप्रमाणात् ।। ८ ।।
__न नरेणावरेणेति । अवरेण – अश्रेष्ठेन प्राकृतेन पाण्डित्यमात्र प्रयोजनवेदान्तश्रवणेन, नरेण – देहात्माभिमानिना, एषः – आत्मा, सुविज्ञेयो न भवति । कुतो हेतोः? बहुधा चिन्त्यमानः । वादिभिः इति शेषः । अनन्यप्रोक्ते गतिरत्र नास्ति । अनन्येन – उच्यमानात्मनोऽनन्येन तदेकान्तिना ब्रह्मात्मसाक्षात्कारिणा, प्रोक्ते अत्र आत्मनि यादृशी अवगतिः, सा आत्मावगतिः अवरेण प्रोक्ते नास्तीत्यर्थः । यद्वा – अत्र = संसारे, गतिः – चङ्क्रमणं नास्तीत्यर्थः । यद्वा अनन्यप्रोक्ते – स्वयमवगते, गतिः – आत्मावगतिः, नास्ति इत्यर्थः । अन्यप्रोक्ते इति पाठे, अवरनरप्रोक्ते सति आत्मावगतिः नास्ति इत्यर्थः । ननु – येन केनचिदुपदिष्टेऽपि ऊहापोहशालिनः स्यादेव इत्यत आह – अणीयान् ह्यतर्क्यमणु प्रमाणात् । यतोऽणोरप्यणीयान् आत्मा, अतः तत्स्वरूपं तर्कागोचरम् ।। ८ ।।
नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्नोभूयानचिकत: प्रष्टा ।। ९ ।।
तदेवाह – नैषा तर्केण मतिः इति । एषा – आत्मविषयिणी मतिः, तर्केण प्रापणीया न इत्यर्थः । अत: तर्ककुशलेनापि स्वयं ज्ञातुं न शक्या इत्यर्थः । प्रोक्ताऽन्येनेति । हे प्रेष्ठ ! प्रियतम ! स्वस्मादन्येनैव गुरुणा, उपदिष्टैव मति: – मोक्षसाधनाय भवति । का पुनः सा मतिः? इत्यत्राह – यां त्वमापः इति । याम् – मतिम्, त्वमापः – प्राप्तवन् असि, सिषाधयिषिततया निश्चितवानित्यर्थः । सत्यधृतिरसि । सत्या – अप्रकंप्या धृतिः यस्य स तथोक्तः । बत इति अनुकम्पायाम् । त्वादृगिति । त्वादृशः शिष्यः अस्माकं भूयादित्यर्थः ।। ९ ।।
जानाम्यहँ शेवधिरित्यनित्यम् । न ह्यध्रुवै: प्राप्यते हि ध्रुवं तत् ।
ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्र्द्रव्यैः प्राप्तवानस्मि नित्यम् ।। १० ।।
पुनरपि तुष्टः आह – जानाम्यहँ इति । शेवधिः – निधिः, कुबेराद्यैश्वर्यम् । एवञ्जातीयकं कर्मफललक्षणम् अनित्यमिति जानामि । न ह्यध्रुवै: इति । ध्रुवं तत् – आत्मतत्त्वम् । अध्रुवैः – अनित्यफलसाधनभूतैः अनित्यद्रव्यसाध्यैर्वा कर्मभिः इत्यर्थः । ततो मयेति । एवं ज्ञातवता मया, ब्रह्मप्राप्तिसाधनज्ञानोद्देशेन अनित्यैः इष्टकादिद्रव्यैः नाचिकेतोऽग्निश्चितः । तस्माद्धेतो: नित्यफलसाधनं ज्ञानं प्राप्तवानस्मि इत्यर्थः । अतः ब्रह्मप्राप्तेः ज्ञानैकसाध्यत्वस्य न विरोध: ।। १० ।।
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् ।
स्तोमं महदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्त्राक्षीः ।। ११ ।।
‘त्वादृङ्नो भूयान् नचिकेत: प्रष्टा’ इति पूर्वमन्त्रोक्तं नचिकेतसः श्रवणाधिकारं विवृणोति – कामस्याप्तिम् इति । क्रतोः – कर्मणः, प्रतिष्ठाम् – फलभूताम् , जगत: कामस्याप्तिम् – चतुर्मुखस्थानपर्यन्तसर्वलोकसम्बन्धिस्त्र्यादिविषयात्मककामप्राप्तिं च दृष्ट्वा, मोक्षस्वरूपमाह – आनन्त्यमभयस्य पारम् इत्यादिना । अविनाशित्वम्, अत्यन्तनिर्भयत्वम्, अपहतपाप्मत्वसत्यसंकल्पत्वादिमहागुणगणरूपस्तोमं उरु – कीर्ति च, स्थैर्यञ्च मोक्षगतं दृष्ट्वा लौकिकान् कामान् प्रज्ञाशालित्वात् त्यक्तवानसि इत्यर्थः । यद्वा – मोक्षरूपपरमात्मस्वरूपे एव सर्वकामावाप्तिं, तत्रैव सकलजगदाधारत्वं क्रतो:अनन्तफलरूपताञ्च इत्येवं सर्वं परमात्मविषयतया योजनीयम् ।। ११ ।।
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति ।। १२ ।।
तृतीयं प्रश्न प्रतिवक्ति – तं दुर्दर्शम् इत्यादिना मन्त्रद्वयेन । दुर्दर्शम् ‘श्रवणायापि बहुभिर्यो न लभ्यः’ (क.उ.२-७) इत्युक्तरीत्या द्रष्टुमशक्यम्, गूढम् – तिरोधायककर्मरूपा विद्यातिरोहितम्, सर्वभूतानुप्रविष्टम्, गुहाहितम् – हृदयगुहावर्तिनम्, गह्वरेष्ठम् – आत्मान्तर्यामिणम्, पुराणम् – अनादिम्, अध्यात्मयोगाधिगमेन – विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समवधानम् ‘अध्यात्मयोगः, यच्छेद्वाङ्मनसी प्राज्ञः’ (क.उ.३-१३), ‘यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह’ (क.उ.६-१०) इत्यादिना वक्ष्यमाणः । तेन योऽयम् अधिगम: जीवात्मज्ञानम्, तेन हेतुना देवम् – परमात्मानं, मत्वा – ध्यात्वा इत्यर्थः । जीवात्मज्ञानस्य परमात्मज्ञानहेतुत्वादिति भावः । हर्षशोकौ – विषयलाभालाभप्रसक्त हर्षशोकौ जहाति इत्यर्थः ।। १२ ।।
एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य ।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ।। १३ ।।
एतच्छ्रुत्वा संपरिगृह्येति । एतत् – आत्मतत्त्वम् – श्रुत्वा सम्परिगृह्य – मननादिकं कृत्वा इत्यर्थः । धर्म्यम् – कर्मसाध्यं शरीरादि, प्रवृह्य – पृथक्कृत्य परित्यज्य इत्यर्थः । एतम् -स्वात्मभूतम् , अणुम् – सूक्ष्मतया चक्षुराद्यगोचरम् ‘अणीयान् ह्यतर्क्यम्’ (क.उ.२-८) इति निर्दिष्टं परमात्मानम्, देशविशेषे प्राप्य, सः – विद्वान्, मोदनियम् प्रीतिविषयम् – अपहतपाप्मत्वादिगुणाष्टकविशिष्टं स्वस्वरूपं लब्ध्वा, मोदते – आनन्दी भवति इत्यर्थः । ‘एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परञ्ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, (छां.उ.८-३-४) ‘स तत्र पर्येति जक्षत् क्रीडन् रममाणः’ (छां.उ.८-१२-३) इति श्रुत्यर्थोऽत्र अनुसन्धेयः । एवं प्रश्नोत्तरमुक्त्वा, नचिकेतसं मोक्षार्हत्वेन स्तौति विवृतं सद्मोति । नचिकेतसं प्रति ब्रह्मरूपं धाम – विवृतद्वारं प्रवेशार्ह मन्ये इत्यर्थः । ‘तस्यैष आत्मा विशति ब्रह्मधाम’ (मुं.उ.३-२-४) इति श्रुतेः ।
ननु ‘ब्रह्मजज्ञं देवमीड्यं विदित्वा’ (क.उ.१-१७) इति श्रुत्यैकार्थ्याय, ‘अध्यात्मयोगाधिगमेन मत्वा’ (क.उ.२-१२) इत्यत्रापि, परमात्मात्मक जीव: प्रतिपाद्यताम् । ततश्च, ‘तं दुर्दर्शम्’ (क.उ.२-१२) इति पूर्वखण्डोऽपि, जीवपर एवास्तु । ततश्च ‘श्रवणायापि बहुभियों न लभ्य:’ (क.उ.२-७) इति पूर्वसन्दर्भोऽपि, परिशुद्धजीवस्वरूपपर एवास्तु । ततश्च – आश्चर्यवत्पश्यति कश्चिदेनम् आश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित् ।। (भ.गी.२-२९) इति परिशुद्धात्मविषयगीतावचनैकार्थ्यमपि उपपद्यत इति चेत् –
न; ‘ब्रह्मजज्ञम्’ इति मन्त्रे ब्रह्मज्ञत्वरूपप्रक्रमश्रुतजीवलिङ्गबलेन चरमश्रुतदेवशब्दस्य देवात्मकत्वरूपार्थाश्रवणेऽपि, ‘तं दुर्दर्शम्’ (क.उ. २-१२) इति मन्त्रे तादृशजीवलिङ्गाभावेन देवम् इत्यस्य देवात्मकम् इति अर्थाश्रयणायोगात् । एतदेवाभिप्रेत्य भगवता भाष्यकृता ‘गुहां प्रविष्टौ…..’ (ब्र.सू. १-२-११) इति सूत्रे परमात्मनस्तावत् ‘तं दुर्दर्शं गूढमनुप्रविष्टम्’ (क.उ. २-१२) इति गुहाप्रवेशो दृश्यते इत्युक्तम् । तथैव अयं मन्त्रः परमात्मपरतया व्यासायैरपि विवृतः । ‘गह्वरेष्ठम्’ इति पदेन तु, परमात्मनः गह्वरशब्दित दुर्विज्ञेयपरिशुद्धात्मस्वरूपशरीरकत्वमपि उक्तम् । इयांस्तु विशेषः – ‘ब्रह्मजज्ञम्’ इति मन्त्रे परमात्मात्मकपरिशुद्धजीवस्वरूपं प्रतिपाद्यते; ‘तं दुर्दर्शम्’ इति मन्त्रे तु – जीवशरीरकपरमात्मस्वरूपं प्रतिपाद्यते इति, न तयोः ऐकार्थ्यहानिः ।। १३ ।।
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् ।
अन्यत्र भूताश्च भव्याच्च यत्तत्पश्यसि तद्वद ।। १४ ।।
‘न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्’ (क.उ.२-१०), ‘एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयं हि लब्ध्वा ‘ (क.उ.२-१३), ‘अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क.उ.२-१२) इति प्रदेशेषु धर्मफलविलक्षणतया ज्ञानसाध्यतया प्राप्यतया निर्दिष्टस्य प्राप्यस्य स्वरूपं च, उक्तप्रदेशेष्वेव धर्मविलक्षणतया मत्वा इति प्रतिपन्नस्योपायस्य स्वरूपञ्च, ‘धीरो हर्षशोकौ जहाति’ इत्यत्र धीर इति प्रतिपन्नस्य प्राप्तुश्च स्वरूपं च शोधयितुं पृच्छति – ‘अन्यत्र धर्मादन्यत्राधर्मात्’ – इत्यादिना ।
ननु भाष्ये – ‘देवं मत्वा’ (क.उ.२-१२) इत्युपास्यतया निर्दिष्टस्य प्राप्यभूतस्य देवस्य, अध्यात्मयोगाधिगमेन इति वेदितव्यतया निर्दिष्टस्य प्राप्तुः प्रत्यगात्मनश्च, ‘मत्वा धीरो हर्षशोकौ जहाति’ (क.उ.२-१२) इति निर्दिष्टस्य प्राप्तः इत्युच्यते इति चत्, मैवं वाचः – ‘अध्यात्मयोगाधिगमेन’ इति वेदितव्यतया निर्दिष्टस्य ब्रह्मोपासनस्य च स्वरूपशोधनाय, पुन: पप्रच्छ अन्यत्र धर्मादिति इत्युक्तेः, कथं तद्विरुद्धतया ‘धीर’ इति निर्दिष्टस्य प्राप्तुः निर्दिष्टम् आत्मशब्दवाच्यं प्रजापतिविद्याप्रतिपन्नम् उपास्यं प्राप्यभूतं परिशुद्धस्वस्वरूपमेव । अतः तस्यापि प्राप्यनिर्देशकत्वमेव । वस्तुगत्या तस्य प्राप्तुरभिन्नत्वात्, प्राप्तः प्रत्यगात्मनश्च इति भाष्यम्, न विरोत्स्यते । अतः ‘प्रथमं तावत् प्राप्तः प्रत्यगात्मनः’ स्वरूपमाह – ‘न जायते म्रियते वा विपश्चित्’ (क.उ.२-१८) इति इत्युत्तरभाष्यमपि न विरोत्स्यते । न हि ‘न जायते म्रियते वा विपश्चित्’ इति मन्त्रप्रतिपाद्यस्य विपश्चिच्छब्दितपरिशुद्धस्वरूपस्य, प्राप्तृरूपतोपपत्तिः । ‘आत्मेन्द्रियमनोयुक्तं भोक्ते त्याहुर्मनीषिणः’ (क.उ.३-४), ‘विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वन: पारमाप्नोति तद्विष्णोः परमं पदम् ।। (क.उ.३-९) इति मन्त्रप्रतिपाद्यस्यैव प्राप्तृरूपत्वात् । तथैव ‘विशेषणाच्च’ (ब्र.सू.१-२-१२) इति सूत्रभाष्ये प्रतिपादितत्वात् । अत एव प्राप्यप्राप्तैकाधिकरण्यनिर्देशपरे गुहामन्त्रे, छायातपौ इत्यत्र अज्ञत्ववाचिना छायाशब्देन निर्देशो दृष्टः न त विपश्चिच्छब्देन । अतः यथोक्त एवार्थः ।
अयं मन्त्रः व्यासार्यै: ‘त्रयाणाम्……’ (ब्र.सू.१-४-६) इति सूत्रे विवृतः – धर्मः उपायः । धर्मादन्यत्र – प्रसिद्धोपायविलक्षण उपायः इत्यर्थः । अधर्म: – धर्मेतर उपेयः । अधर्मादन्यत्र – प्रसिद्धसाध्यविलक्षणं फलमित्यर्थः । अस्मात् इति बुद्धिस्थः तत्साधको विवक्षितः । स एवोपेता । स हि प्रसिद्धोपेतृसाधकविलक्षणः, साधकावस्थायाम् इतरफलविरक्तत्वात् , फलदशायाम् आविर्भतगुणाष्टकविशिष्टस्वरूपत्वाच्च । कृताकृतादिति
धर्मादीनाम् विशेषणम् । कृताकृतात् धर्मादेर्विलक्षणं भूताञ्च भव्याञ्च धर्मादेर्विलक्षणं यदित्यर्थ: इत्येकाम् व्याख्यां कृत्वा, तस्मिन् पक्षे तु कृताकृतात् भूताद्भव्याञ्च धर्मादन्यत्र, तादृशादधर्मादन्यत्र, तादृशादस्माच्चान्यत्र इति अन्यत्रशब्दत्रयेणैव उपपत्तौ, ‘अन्यत्र भूताद्भव्याञ्च’ इत्यन्यत्रशब्दवैयर्थ्यम, उपायस्य कालत्रयपरिच्छिन्नतया तत्र कालत्रयपरिच्छिन्न वैलक्षण्यानन्वयं च पर्यालोच्य, यद्वा इत्यादिना अपरा व्याख्या कृता । तदुच्यते – यद्वा धर्मादधर्माच्च अन्यत्र इति उपासनप्रश्नः; पुण्यपापरूपसाधनविलक्षणत्वात् उपासनस्य, कृताकृतात् भूतात् भव्याञ्चान्यत्र यत् इति कालापरिच्छिन्नमुपेयं पृष्टम् । उपेतुरपि चेतनस्य नित्यत्वात्, प्राप्यान्तर्भावाञच्च, तत एव तस्यापि तन्त्रेण प्रश्नः । तदन्तर्गतं च प्राप्तु: स्वरूपम् इति हि वक्ष्यते । तत्र (त्रय इति?) यत्तच्छब्दौ त्रितयपराविति भावः इति ।
ननु अस्मिन्नपि पक्षे – प्रष्टव्यद्वयपरत्वाश्रयणमपि क्लिष्टमेव; अन्यत्र धर्मादन्यत्राधर्मादिति प्रक्रमस्थान्यत्रशब्दद्वयसामानाधिकरण्यवत् अन्यत्रास्मात्कृताकृतात्, अन्यत्र भूतादित्युपरितनान्यत्रशब्दद्वयस्यापि सामानाधिकरण्यस्यैव प्रतीतेः । यदि तत्र धर्माधर्मविलक्षणं यच्च, कालत्रयपरिच्छिन्नविलक्षणं यच्च इति च शब्दद्वयम् अश्रोष्यत, तदा. अन्यत्र शब्दयुगद्वयस्य स्वरसतः प्रतीतं सामानाधिकरण्यम्, पर्यत्यक्ष्यत । अतः प्रक्रमरीत्यनुसारिप्रतीतसामानाधिकरण्यभङ्गे कारणाभावात्, अन्यत्र धर्मादन्यत्रा धर्मादित्ययमप्यंशः प्राप्यब्रह्मपर एवाऽस्तु ।
न च ‘नायमात्मा प्रवचनेन लभ्यो न मेधया’ (क.उ.२-२३) इति उपायविशेष प्रतिवचनदर्शनेन उपायविशेषप्रश्नस्यापि अत्रैव अन्तर्भाव्यतया च शब्दाभावोऽपि अन्यत्र शब्दयुगद्वयस्य सामानाधिकरण्यं भञ्जनीयम इति चेन्न; प्रतिवचनेऽपि ‘नायमात्मा प्रवचनेन लभ्यः’ इति प्रीतिरूपापन्नज्ञानैकलभ्यत्वलक्षणप्राप्यधर्मविशेषोपदेशस्यैव दर्शनेन उपायप्रधानप्रतिवचनादर्शनात् । ‘नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्’ (क.उ.२-२४) ‘यस्त्वविज्ञानवान् भवति अमनस्कः सदाऽशचिः । न स तत्पदमाप्नोति (क.उ.३-७) इति प्रतिवचनदर्शनादन्यत्र धर्मादन्यत्रेति प्रसिद्धोपायविरोधिप्रश्नः इत्यपि कि न स्यात् । प्राप्यस्य प्रीतिरूपापन्नज्ञानैकोपायकत्वकथनेन, उपाये प्रीतिरूपापन्नत्वरूपविशेषः फलिष्यति इति चेत्, फलतु नाम । न एतावतोपायस्य प्रश्नप्रतिवचनप्रधानविषयत्वम् वक्तव्यम् इत्यस्ति ।
किं देवदत्तभवनम् ? इति प्रश्नस्य वा, बहुचम्पकालंकृतनिष्कुटं द्वारोपान्तलिखित शङ्खचक्रपद्मकं देवदत्तभवनम् इति तत्प्रश्नप्रतिवचनस्य वा, निष्कुटद्वारोपान्तप्रधानकत्वं कश्चिदभ्युपैति । अतः अन्यत्रधर्मादन्यत्राधर्मात् इत्यपि अन्यत्रशब्दचतुष्टयसामानाधिकरण्य लिप्सया, धर्माधर्मसाध्यविलक्षणब्रह्मविषय एवायम् इति चेत् –
अत्रोच्यते – असौ देवदत्तादुत्पन्नो न भवति; अपि तु यज्ञदत्तात् इति वाक्यं श्रुत्वा, देवदत्तादन्यं यं पश्यसि तं मे ब्रूहि इति प्रवृत्तस्य प्रतिवचनस्य, देवदत्तान्ययज्ञदत्तपरत्ववत्, लक्षणया देवदत्तपुत्रान्यप्रश्नपरत्वस्याप्रतीतेः; तद्वत् कर्मसाध्यं न;अपि तु ज्ञानसाध्यम् इति उपदेशानन्तरप्रवृत्तस्य धर्मादन्यत्र इति प्रश्नस्य,
धर्मविलक्षणज्ञानरूपोपायपरत्वमेव युक्तम् न तु धर्मशब्दलक्षणया धर्मसाध्यविलक्षण ब्रह्मपरत्वम् । तथा अधर्मादन्यत्र इत्यत्रापि सामानाधिकरण्येन उपायपरत्वमेव निश्चितम् । कालत्रयपरिच्छिन्नविलक्षणवाचके उपरितनान्यत्रशब्दद्वये कालत्रयापरिच्छिन्नोपायपरामर्शा। सम्भवात्, सामानाधिकरण्यभङ्गेन प्राप्यपरत्वमेव युक्तम् । नीलो दीर्घो रक्तो ह्रस्वः कः? इत्युक्ते, नीलदीर्घपदयोः अविरोधात् . सामानाधिकरण्यं सिद्ध्यति । रक्तह्रस्वयाश्च परस्पराविरोधात्, सामानाधिकरण्यं सिद्ध्यति । न तु चतुर्णां च शब्दाभावेऽपि सामानाधिकरण्यं दृष्टम् । अपि तु पुरुषद्वयप्रश्नपरत्वमेव । एवम इहापि यच्छब्दान्वित च शब्दद्वयाभावेऽपि, न सामानाधिकरण्यम् अवगाह्यते । अस्तु वा भवदुक्तरीत्या सामानाधिकरण्यम् अथापि प्रश्नप्रतिवचनयोः, द्वितीयव्याख्यायां उपेयप्रश्ने उपेत्रन्तर्भाववत्, उपायस्यापि अन्तर्भूतत्वात् ‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ (ब्र.सू.१-४-६) इति सूत्रनिर्दिष्टोपायोपेतृप्रश्नप्रतिवचनस्य सुघटिततया क्षतेः अभावात् ‘तत ते पदं सग्रहेण ब्रवीमि’ (क.उ.२-१५) इति पदशब्दितप्राप्यस्यैव प्रत्द्मिावचनप्रतिपाद्यत्वस्य स्पष्टं प्रतीतेः इत्यलं प्रसक्तानुप्रसक्तया । प्रकृतमनुसरामः ।। १४ ।।
सर्वे वेदा यत्पदमामनन्ति तपाँसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि ओमित्येतत् ।। १५ ।।
एवं पृष्टो मृत्युः ‘न जायते म्रियते’ (क.उ. २-१८) इत्यादिना विस्तरेण प्रतिपिपादयिषुः इदानीं श्रोतु: आदरातिशयसिद्ध्यर्थं प्राप्यवैभवं प्रकाशयन्, सङ्ग्रहोक्तिं प्रतिजानीते सर्वे वेदा इति । पद्यते गम्यते इति व्युत्पत्त्या, पदशब्दः प्राप्यत्स्वरूपवाचि यत्स्वरूम् सर्वे वेदाः साक्षात्परंपरया वा प्रतिपादयन्ति इत्यर्थ: ।
अनेन अस्या उपनिषदः, प्रजापतिविद्यावत् परिशुद्धात्मस्वरूपविषयतैवास्तु – ‘न जायते म्रियते वा विपश्चित् ‘ (क.उ.२-१८) ‘हन्ता चेन्मन्यते हन्तुम् (क.उ.२-१९) इति मन्त्रद्वयस्य परिशुद्धात्मस्वरूपपरत्वस्य सम्प्रतिपन्नत्वात् ; ‘अणोरणीयान् इति मन्त्रद्वयस्यापि अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्’ (भ.गी.२-१७), निर्व्यापारमनाख्येयम् व्याप्तिमात्रमनूपमम्’ (पांचरात्रे) इति स्मृतिवचनाभ्यां, सर्वान्तःप्रवेशयोग्यातिसूक्ष्मतया व्यापकतया च प्रतिपादिते प्रत्यगात्मनि उपपन्नत्वात् , ‘सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत्’ (भ.गी.१३-१५) इति गीतानुसारेण ‘आसीनो दूरं व्रजति शयानो याति सर्वतः’ (क.उ.२-२१) इति वचनस्यापि तत्रैव युक्तत्वात्, ‘ग्रसिष्णु प्रभविष्णु च’ (भ.गी.१३-१६) इति उपबृंहणानुसारात् ‘यस्य ब्रह्म च क्षत्रं च’ (क.उ.२-२५) इति मन्त्रस्यापि तत्र सङ्गतार्थत्वात्, ‘द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदम्’ (वि.पु.६-७-६९), ‘प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत् परमं च यत्पदम्’ (वि.पु.१-४-३१) इति स्मृत्यनुसारेण, ‘सोऽध्वन: पारमाप्नोति तद्विष्णोः परमं पदम्’ (क.उ.३-९) इति मन्त्रस्यापि शुद्धात्मस्वरूपे सङ्गतार्थत्वात्, ‘अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्’ (भ.गी.८-२१) इति स्मृत्यनुसारेण ‘सा काष्ठा सा परा गतिः’ (क.उ.३-११) इति मन्त्रस्यापि परिशुद्धात्मविषयत्वसम्भवात्, ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (भ.गी.१३-२७) इति स्मृत्यनुसारेण, ‘एष सर्वेषु भूतेषु’ (क.उ.३-१२) इति मन्त्रस्यापि शुद्धस्वरूपपरत्वोपपत्तेः, ‘पराञ्चि खानि’ (क.उ.४-१) इति मन्त्रे परागर्थनिन्दाद्वारेण प्रत्यगर्थस्यैव प्रकरणप्रतिपाद्यत्वाविष्करणात ‘तिष्ठन्तं परमेश्वरम्’ इति गीतानुसारेण, ‘ईशानो भूतभव्यस्य’ (क.उ.४-१२) इति मन्त्रस्यापि शद्धात्मस्वरूपे सङ्गतार्थत्वात् . भेदप्रसक्तिमति प्रत्यगात्मस्वरूपे एव ‘नेह नाना’ (क.उ.४-११) इति निषेधस्यापि सङ्गतार्थत्वात्, ‘अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः’ (वि.पु.२-१४-३२) स्मृतिप्रत्यभिज्ञापकस्य वायुर्यथैको भुवनम् प्रविष्ट: (क.उ.५-१०) इति मन्त्रस्यापि शुद्धस्वरूपपरत्वसम्भवात् , ‘सर्वतः पाणिपादम् (भ.गी.१३-१३) इति गीताभाष्ये, ‘ब्रह्मणा परमसाम्यमापन्ने शुद्धात्मस्वरूपे, सर्वतः पाणिपादादिकार्यकर्तृत्वं सम्भवति’ इति उपपादितत्वात् , ‘एकं बीजं बहुधा यः करोति’ (क.उ.५-१२) इति मन्त्रस्यापि परिशुद्धपरत्वेऽनुपपत्त्यभावात्, ‘न तत्र सूर्यो भाति’ (क.उ.५-१५) इति मन्त्रस्यापि, ‘न तद्भासयते सूर्यः’ (भ.गी.१५-६), ‘ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते’ (भ.गी.१३-१८) इति गीतावचनेन परिशद्धात्मस्वरूपपरत्वस्य युक्तत्वात्, ‘तं स्वाच्छरीरात्प्रवृहेत्’ (क.उ.६-१७) इति औपसंहारिकमन्त्रस्य शुद्धात्मपरत्व एव स्वारस्यात्, कृत्स्नाया अप्युपनिषदः, प्रजापतिवाक्यवत् प्रत्यगात्मस्वरूपमात्र परत्वोपपत्तौ, प्रत्यगात्मपरमात्मरूपप्राप्यद्वयपरत्वक्लेशाश्रयणं वृथा – इति शंका प्रत्युक्ता । सर्ववेदप्रतिपाद्यस्यैव, ‘तत्ते पदं सङ्ग्रहेण ब्रवीमि’ इति वक्तव्यत्वेन प्रतिज्ञानात्, परमात्म स्वरूपप्रतिपादकवेदभागप्रतिपाद्यत्वस्य शुद्धस्वरूपे असम्भवात् शुद्धस्वरूपस्य अन्तर्यामिण: परमात्मस्वरूपस्य, शुद्धस्वरूपप्रतिपादकभागेनापि प्रतिपाद्यत्वसम्भवादिति द्रष्टव्यम् ।
‘तपाँसि सर्वाणि च’ इति । तपाँसि – ‘तपः प्रधाना उपरितनभागाः’ इति व्यासार्यै: व्याख्यातम् । यदिच्छन्तः ब्रह्मचर्यं चरन्ति । ब्रह्मचर्यम् – गुरुकुलवासस्त्रीसङ्गराहित्यादिलक्षणं यदिच्छन्तः अनुतिष्ठन्ति । तत्ते पदम् इति । सङ्गृह्यते अनेन इति सङ्ग्रहः शब्दः । प्राप्यवक्तव्यत्वप्रतिज्ञापरे अस्मिन्मन्त्रे अर्थात् प्रणवप्रशंसाया लाभात् प्रणवं प्रशस्य इति भाष्यस्य च सर्व वेदा इत्यादिपादत्रयोक्तब्रह्मप्रतिपादकतया प्रशस्य इत्यर्थः इति श्रुतप्रकाशिकावचनस्य च न अनुपपत्तिः इति द्रष्टव्यम् । सङ्क्षेपेण तत्प्रतिपादकम् किमित्यत आह – ओमित्येतत् इति । ‘ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधस्स्मृतः’ (भ.गी.१७-२३) इति प्रणवस्य ब्रह्मवाचकत्वात् प्रणवावयवयोः अकारमकारयोः परजीववाचितया उपायोपेत्रोः अपि उपदिष्टत्वम् अस्तीति द्रष्टव्यम् ।। १५ ।। .
एतद्ध्येवाक्षरं ब्रह्म एतद्धयेवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ।। १६ ।।
एवं वाचकं प्रणवं द्वाभ्यां मन्त्राभ्यां स्तौति – एतद्धयेवाक्षरं ब्रह्म इति । ‘ओमित्यनेनैवाक्षरेण परमपुरुषम् अभिध्यायीत’ (प्र.उ.५-५) इति ब्रह्मप्राप्तिसाधन ध्यानालम्बनत्वात् इदमेवाक्षरम्, ब्रह्मप्राप्तिसाधनत्वात् ब्रह्म । एतद्धयेवाक्षरं परम् – जप्येषु ध्येयेषु च श्रेष्ठम् इत्यर्थः । एतद्धयेवाक्षरम् इति । एतदक्षरमुपासमानः अनेन उपासनेन इदं फलं मे भूयादिति यत्कामयते, तस्य तद्भवति …..द्मइत्यर्थः ।। १६ ।।।
एतदालम्बनम् श्रेष्ठमेतदालम्बनम् परम् ।
एतदालम्बनम् ज्ञात्वा ब्रह्मलोके महीयते ।। १७ ।।
एतदालम्बनम् श्रेष्ठम् । एतत् – ओंकाररूपमालम्बनम्, श्रेष्ठम् ध्यानादेरिति शेषः । अत एव एतदालम्बनम् परम् – एतदालम्बनकं ध्यानादि सर्वोत्कृष्टम् इत्यर्थः । उत्तरार्धस्य स्पष्टोऽर्थः ।। १७ ।।
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।। १८ ।।
प्रथमं तावत् प्रत्यगात्मस्वरूपमाह – न जायते म्रियते वा इत्यादिना मन्त्रद्वयेन । इदं च प्रस्तुत्य व्यासार्यै: इत्थं हि उक्तम् – इदं मन्त्रद्वयं तावत् एकविषयम् । ‘न हन्यते हन्यमाने शरीरे’ इत्येतद्विवरणरूपत्वात् द्वितीयमन्त्रस्य । ‘हन्ता चेत्’ (क.उ.२-१९) इति मन्त्रश्च जीवविषय एव; लोकस्य परमात्मनि हन्तृहन्तव्यभावप्रतिपत्त्यभावात् । परमात्मा हि प्रत्यक्षागोचरः कथं तस्मिन् वध्यतादिप्रतिपत्ति:? ‘अहमेनं हन्मि, अयं मां हन्तुम् आगच्छति’ इति वध्यघातुकभावाभिमानो हि देहिनां जीवविषय एव । ‘ननु नास्य जरयैतज्जीर्यति’ (छां.उ.८-१-५) इतिवत् परमात्मनोऽपि हननप्रतिषेधः उपपद्यते । सत्यम् दहराकाशस्य देहान्तःस्थित्या शंकितविकारनिषेधः उपपद्यते । इह तु लोकसिद्धा भ्रान्तिः अनूद्य निरस्यते । न हि परमात्मनि वध्यधातुकभावभ्रान्तिः कस्याप्यस्ति । अतः अनुवादनिषेधौ अनुपपन्नौ । ‘न जायते’ इति मन्त्रश्च तेनैकार्थः । अत: मन्त्रद्वयमपि जीवविषयकमेव इति । अक्षरार्थस्तु – न जायते म्रियते वा विपश्चित् विपश्चित्वार्होऽयम्, इदानीमपि जननमरणशून्यः इत्यर्थः । नायं कुतश्चित् – उत्पादकशून्यः । न बभूव कश्चित् – पूर्वमपि मनुष्यादिरूपेण जननशून्यः । ‘न जायते’ इत्यत्र हेतुमाह – अजः इति । ‘न म्रियते’ इत्यत्र हेतुमाह – नित्यः इति । ‘न कुतश्चित्’ इत्यत्र हेतुमाह – शाश्वतः इति । ‘पूर्वं न बभूव’ इत्यत्र हेतुमाह – पुराणः इति । ननु कथमस्य नित्यत्वम् ? शरीरान्तर्वर्तिनः शरीरविनाशानुविनाशित्वावश्यम्भावात् इत्यत आह – न हन्यते इति । स्पष्टोऽर्थः ।। १८ ।।
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ।। १९ ।।
तदेव उपपादयति – हन्ता चेत् इति । अहमेनं हनिष्यामि इति देहात्मदृष्ट्या मन्यते चेत् इत्यर्थः । हतश्चेन्मन्यते हतम् – छिन्नदेहावयवः देहात्मदृष्ट्या आत्मानम्, हतोऽहमिति मन्यते चेदित्यर्थः । उभौ तौ न विजानीतः । आत्मस्वरूपमिति शेषः । नायं हन्ति । आत्मानमिति शेषः । न हन्यते आत्मस्वरूपमिति शेषः । ननु – वेदान्तवेद्यपरिशुद्धात्मस्वरूपे कथं हननादिप्रसक्तितत्पूर्वकनिषेधौ इति वाच्यम्। तस्यैव क्षेत्रीभूततया तत्प्रयुक्ततत्सम्भवादिति द्रष्टव्यम् ।
इमौ मन्त्रौ प्रस्तुत्य वियत्पादे चिन्तितम् । तत्र हि ‘वायुश्चान्तरिक्षं च एतदमृतम्’ (बृ.उ.४-३-३) इति वाय्वन्तरिक्षयोः नित्यत्वश्रवणेऽपि ‘आत्मन आकाश: सम्भूतः, आकाशाद्वायुः (तै.आन.२१-१) इति तयोः उत्पत्तिश्रवणात्, एकविज्ञानेन सर्वविज्ञानसिद्ध्यर्थं सर्वस्य वस्तुनो ब्रह्मविकारत्वस्य अवश्याश्रयणीयत्वाच्च यथोत्पत्तिः अङ्गीक्रियते, एवं जीवानां नित्यत्वश्रवणेऽपि ‘तोयेन जीवान् व्यससर्ज भूम्याम्’ (महा.ना.१-४), ‘प्रजापतिः प्रजा असृजत’ (तै.ब्रा.१-१-१०) इति जीवानामपि सृष्टिश्रवणात्, एकविज्ञानेन सर्वविज्ञान सिद्ध्यर्थं जीवस्यापि सृष्टिः अभ्युपगन्तव्या इति पूर्वपक्षे प्राप्ते – ‘नात्मा श्रुतेः नित्यत्वाच्च ताभ्यः’ (ब्र.सू.२-३-१८) इति सूत्रेण सिद्धान्तितम् । आत्मा न उत्पद्यते; ‘न जायते म्रियते वा विपश्चित्’ (क.उ.२-१८), ‘ज्ञाज्ञौ द्वावजौ’ (श्वे.उ.१-९) इत्युत्पत्तिनिषेधश्रुतेः । ताभ्य एव श्रुतिभ्यः नित्यत्वावगमाच्च । न च उत्पत्ति श्रुतिसर्वविज्ञानप्रतिज्ञाविरोध शंक्यः । स्वरूपस्य नित्यत्वेऽपि ज्ञानसंकोचविकासलक्षणान्यथाभावरूपावस्थान्तरापत्तिसत्त्वेन उत्पत्तिश्रुतेः सर्वविज्ञानप्रतिज्ञायाश्च उपपत्तेः । उत्पत्तिनिषेधश्रुतेश्च स्वरूपान्यथाभाव लक्षणोत्पत्त्यभावपरतया अविरोधात् ।
इयांस्तु विशेष:- चिदचिदीश्वराणां त्रयाणामपि अवस्थान्तरापत्तिलक्षणोत्पत्तिरूपों विकारः अस्त्येव । तथापि अचेतनानां स्वरूपान्यथाभावलक्षणोत्पत्तिः । जीवानां तु सा नास्ति । अपि तु ज्ञानसंकोचविकासलक्षणस्वभावान्यथाभावरूपा उत्पत्तिः । ईश्वरस्य तु तन्नियन्तृत्वाद्यवस्थासत्त्वेऽपि उक्तलक्षणानिष्टविकारद्वयाभावात् ‘नित्यो नित्यानाम् (श्वे.उ.६-१३) इति परमात्मनः इतरविलक्षणनित्यत्वोक्तिः इति द्रष्टव्यम् । वर्णितश्च सूत्रार्थः ।
ननु – ‘न जायते म्रियते वा’ (क.उ.२-१८) इति श्रुतिप्रतिषिद्धा जीवोत्पत्तिः ‘वासुदेवात्संकर्षणो नाम जीवो जायते’ (परमसंहिता) इति प्रतिपादयतः पाञ्चरात्रस्य कथं प्रामाण्यम् ? इति चेत् – अस्याः शंकायाः तर्कपादे निराकृतत्वात् । तथाहि – ‘वासुदेवात्संकर्षणो नाम जीवो जायते’ इति जीवोत्पत्तिः पाञ्चरात्रे प्रतिपाद्यते । सा च जीवे न सम्भवति । तथा संकर्षणात् प्रद्यम्नसंज्ञं मनो जायते (परमसंहिता) इति कर्तुर्जीवात् करणस्य मनसः उत्पत्तिः श्रूयमाणाऽपि न सम्भवति । कर्तुर्जीवात्करणोत्पत्तेः ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ (मुं.उ.२-१-३) इति मनसो ब्रह्मोत्पत्तिप्रतिपादकश्रुतिविरुद्धत्वात् इति, ‘उत्पत्त्यसम्भवात्’ (ब्र.सू.२-२-३९) ‘न च कर्तः करणम्’ (ब्र.सू.२-२-४०) इति सूत्रद्वयेन पूर्वपक्षं कृत्वा, ‘विज्ञानादिभावे वा तदप्रतिषेधः’ (ब्र.सू.२-२-४१) ‘विप्रतिषेधाच’ (ब्र.सू.२-२-४२) इति सूत्राभ्यां सिद्धान्तितम् । वाशब्दः पूर्वपक्षव्यावृत्त्यर्थः । विज्ञानं च तदादि च विज्ञानादि ।
ननु च ‘क्यन्तोघुः’ (लिङ्गानु.सू.४१) इति आदिशब्दस्य नित्यपुल्लिङ्गत्त्वात् कथमेतदिति चेत्-नायं घुः, अपि तु ‘अद भक्षणे’ (धा.पा.१०११) इत्यस्मादावश्यकार्थे ‘णिनि’ प्रत्यये द्रष्टव्यम् । आदिविज्ञानम् – परमात्मा इत्यर्थः । ‘संकर्षणो नाम जीवो जायते’ इति श्रुतस्य जीवशब्दार्थस्य तदभिमानिपरमात्मभावे सति शास्त्रप्रामाण्याप्रतिषेधस्सिद्ध्यति । परमात्मनश्च जननं नाम स्वेच्छाधीनशरीरपरिग्रहः । तस्मिन्नेव पाञ्चरात्रतन्त्रे, ‘स ह्यनादिरनन्तश्च’ इति जीवोत्पत्तेः विशेषेणप्रतिषिद्धतया तद्विरुद्धाभिधानासम्भवात्, ‘संकर्षणों नाम जीवो जायते’ (परमसंहिता) इत्यनेन जीवाभिमानिसंकर्षणस्य इच्छाधीन शरीरपरिग्रहरूपोत्पत्तिः प्रतिपाद्यते इति न पाञ्चरात्रप्रामाण्यमिति सूत्रयोरर्थः।
ननु सांख्यपाशुपताद्यधिकरणवत् इदमप्यधिकरणं पाञ्चरात्रप्रामाण्यप्रतिषेधकं किम् ? न स्यादिति चेत् – वेदोपबृंहणाय भारतसंहितां कुर्वता बादरायणेन -“
‘इदं शतसहस्राद्धि भारताख्यानविस्तरात् ।
आमथ्य मतिमन्थानं दध्नो घृतमिवोद्धृतम्’ ।। (महा.भा.शां.३३१-२)
‘नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ।
आरण्यकं च वेदेभ्यः ओषधीभ्यो यथाऽमृतम्’ ।। (महा.भा.शां.३३१-३)
‘इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
सांख्ययोगकृतान्तेन पाञ्चरात्रानुशब्दितम्’ ।। (महा.भा.शां.३२६-१००)
‘इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।
ऋग्यजुस्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा’ ।। (महा.भा.शां.११-८)
‘भविष्यति प्रमाणं वै एतदेवानुशासनम् ।
ब्राह्मणैः क्षत्रियैर्वैश्यै: शूरैश्च कृतलक्षणैः’ । (महा.भा.शां.३२२-४१)
‘अर्चनीयश्च सेव्यश्च पूजनीयश्च माधव: I
सात्वतं विधिमास्थाय गीतस्संकर्षणेन यः’ ।। (महा.भा.शां.६६-४०)
‘अस्मात्प्रवक्ष्यते धर्मान् मनुस्स्वायंभुवस्तथा’ ।। (महा.भा.शां.३२२-४१)
इत्यादिभिर्वचनैः बहुषु स्थलेषु पाञ्चरात्रप्रामाण्यं प्रतिष्ठापितवता, शारीरकशास्त्रे तत्प्रामाण्यं निराक्रियते – इत्यस्य असङ्गतत्वात् । नन्वेवम् –
‘एवं तत्त्वमिदं कृत्स्नं सांख्यानां विदितात्मनाम्।
यदुक्तं यतिभिर्मुख्यैः कपिलादिभिरीश्वरैः ।।
यस्मिन्न विभ्रमा: केचित् दृश्यन्ते मनुजर्षभ ।
गणाश्च यस्मिन् बहवो दोषहानिश्च केवला ।। (महा.भा.शां.२९०-४)
इति कापिलमतस्य भारते भ्रमादिदोषाभावप्रतिपादनात्,
‘सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ।
यथागमं यथान्यायं निष्ठा नारायणः प्रभुः’ ।। (महा.भा.शां.३३७-६३)
इति सांख्ययोगपाशुपतादीनामपि नारायणनिष्ठत्वप्रतिपादनात्, ‘तमेव शास्त्रकर्तारः प्रवदन्ति मनीषिणः’ (महा.भा.शां.मो.३५९-७०) इति तच्छास्त्रकर्तृणामपि नारायणप्रतिपादकत्वस्य प्रतिपादनात्,
‘सांख्यं योगः पाञ्चरात्रं वेदा: पाशुपतं तथा ।
आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः’ ।। (महा.भा.शां.३३७-१)
इति सर्वेषामपि आत्मप्रमाणत्वप्रतिपादना्च्च, ‘सर्वे प्रमाणं’ हि तथा यथैतच्छास्त्रमुत्तमम् इति पाञ्चरात्रदृष्टान्तेन इतरशास्त्राणामपि प्रामाण्यप्रतिपादनाच्च तत्पादे सांख्यपाशुपताद्या गमानामपि प्रामाण्यं न निराक्रियत इति चेत् – सत्यम्। भ्रमविप्रलिप्सादिराहित्यं शास्त्रकर्तृृणाम्, परमतात्पर्य ‘नारायण एव इति च समानम् । तथाऽपि अबहुश्रुततया तद्वक्तृणां हृदयमजानन्तः आपातप्रतिपन्नमेवार्थं तात्त्विकं मन्यमाना ये प्रत्यवतिष्ठन्ते, तान् प्रति सांख्याद्यागमानामापातप्रतिपन्नार्थमात्रपरत्वम् अन्वारुह्य सूत्रकृता तन्निरसनं कृतम् । पाञ्चरात्रशास्रं तु परतत्त्वहितपुरुषार्थानामेव आपाततोऽपि प्रतीते: वेदविरुद्धनिमित्तोपादानभेदाद्यप्रतीतेश्च, कृत्स्नं प्रमाणमेवेति न एकदेशेऽपि अप्रामाण्य शंकावकाशः इति द्रष्टव्यम् । एवमेव व्यासार्यः उक्तम् । प्रकृतमनुसरामः ।। १९ ।।
अणोरणीयान् महतो महीयान् आत्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ।। २० ।।
एवं मन्त्रद्वयेन प्रत्यगात्मस्वरूपं विशोध्य, तदात्मभूतपरमात्मस्वरूपमाह – अणोरणीयान् इत्यादिना । अणोः – सर्वाचेतनापेक्षया सूक्ष्माच्चेतनात्, अणुतरः ततोऽपि सूक्ष्मः तदन्तःप्रवेशयोग्यः इत्यर्थः । महतः – आकाशादेरपि महत्तरः । स्वाव्याप्तवस्तुरहित इत्यर्थः । अस्य जन्तोः – ‘न जायते म्रियते वा’ (क.उ.२-१८) इति मन्त्रद्वयनिर्दिष्टस्य, आत्मा – अन्तःप्रविश्य नियन्ता इत्यर्थः ।
अतश्च पूर्वमन्त्रद्वयनिर्दिष्टात् प्रत्यगात्मस्वरूपात्, अणरिणायान् इति मन्त्रसन्दर्भप्रतिपाद्योऽन्य एवेति सिद्धम् । न च – अस्य जन्तोः इत्यस्य, हृदयगुहावाचिना सम्बन्धसापेक्षेण, ‘गुहायाम्’ इत्यनेनैव अन्वितत्वेन न आत्मा इत्यनेन अन्वयः – इति शंक्यम् ; आत्मशब्दान्वितस्यैव ‘काकाक्षिन्यायेन’ उभयत्रान्वये दोषाभावात् । मूलतः शाखां परिवास्योपवेषं करोति’ इत्यत्र, शाखां मूलतः परिवास्य, मूलतः उपवेषं करोति इति परिवासनान्वितस्यापि मूलतः इत्यस्य ‘उपवेषं करोति’ इत्यनेनाऽपि अन्वयस्य अङ्गीकृतत्वात् जीवहृदयगुहावर्तित्वप्रतिपादनेऽपि जीवभेदसिद्धेश्च । न हि जीवस्यैव जीवगुहावर्तित्वप्रतिपादने प्रयोजनमस्ति ।
ननु ‘न जायते’ इत्युपन्यस्तस्य आत्मन:: जायमानवाचिजन्तुशब्देन परामर्शस्य अनुपपन्नतया, ‘अस्य जन्तोः’ इत्यस्य प्रत्यक्षादिसन्निधापितदेहपरताया एव वक्तव्यत्वेन, तद्गुहाहित आत्मा प्रागुपन्यस्तो जीव एवास्तु । न च कर्तृत्वभोक्तृत्वादिविशिष्टतया सदा अहमिति भासमाने जीवे, ‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ (क.उ.२-२१), ‘क इत्था वेद यत्र सः’ (क.उ.२-२५) इति उत्तरसन्दर्भप्रतिपाद्यदुर्विज्ञानत्वम्, कथमन्वेतीति वाच्यम्; जीवस्य कर्तृत्वादिविशिष्टतया सर्वलोकविदितत्त्वेऽपि, मुक्तप्राप्यब्रह्म स्वरूपविशिष्टतया दुर्विज्ञानत्वसम्भवादिति चेत् –
न: ‘प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः’ (अ.को.१-४-३०) इति जन्तुशब्दस्य चेतनपर्यायतया प्रकृतजीववाचित्वसम्भवात् । अस्येति शब्दस्य च पूर्वसन्दर्भोपस्थापित प्रत्यगात्मविषयत्वसम्भवे; प्रत्यक्षाद्युपस्थापितदेहविषयत्वाश्रयणस्य अयुक्तत्वात् । अत्यन्ताणुत्वमहत्त्वयोः, ‘एष में आत्माऽन्तर्हृदये अणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा, एष मे आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षात् ज्यायान् दिवो जायानेभ्यो लोकेभ्यः (छां.उ.३-१४-३) इत्यादिषु परमात्मधर्मतया, ‘अणोरणीयान्’ इति मन्त्रप्रतिपाद्यस्य जीवत्वशंकायाः असम्भवात् ।
नन – ‘नेतरोऽनुपपत्तेः’ (ब्र.स.१-१-१७) इति सत्रे ‘सह ब्रह्मणा विपश्चिता (तै.आन.१-१) इति वाक्यश्रुतविपश्चित्त्वस्य ब्रह्मासाधारणलिङ्गत्वस्य भाष्ये प्रतिपादितवात् , ‘न जायते म्रियते वा विपश्चित्’ (क.उ.२-१८) इति मन्त्रस्यापि पररीत्या परमात्मपरत्वमेवास्तु । एव सति अन्यत्र धर्मात्’ (क.उ.२-१४) इति प्रश्नस्य प्राप्यद्वयपरत्वं प्रतिवचनस्य प्राप्यद्वयपरत्वमाश्रित्य, ‘न जायते’ इत्यादिमन्त्रद्वयस्य प्राप्यजीवस्वरूपपरत्वम्, ‘अणोरणीयान्’ इति सन्दर्भस्य च परमात्मपरत्वम् इत्यादिपरिकल्पनक्लेशो नाऽऽश्रयणीय इति चेत् –
न; हननादिप्रतिषेधाद्यनुपपत्त्या विपश्चिच्छब्दे मुख्यार्थत्यागस्य अवश्यकत्वेन तन्मन्त्रद्वयस्य ‘अणोरणीयान्’ इत्यादिमन्त्रसन्दर्भस्य च एकविषयत्वासम्भवात् । शिष्टम् उत्तरत्र स्पष्टयिष्यते ।
तमक्रतुः पश्यति इति । तम् – तादृशं परमात्मानम्, अक्रतुः – काम्यकर्मादि रहितस्सन्, धातो: – धारकस्य परमात्मनः, प्रसादात् आत्मन: महिमानम् – महत्त्वसंपादकं स्वसार्वज्ञ्यादिगुणाविर्भावहेतुभूतं परमात्मानं यदा पश्यति, तदा वीतशोको भवति इत्यर्थः । धुभ्वाद्यधिकरणे ‘जुष्टं यदा पश्यत्यन्यमीशम्’ (मुं.उ.३-१-२) इति मन्त्रखण्डं प्रस्तुत्य, ‘अयं यदा स्वस्मादन्यं सर्वस्येशं प्रियमाणम्, अस्येश्वरस्य महिमानं च निखिलजगन्नियमनरूपं पश्यति, तदा वीतशोको भवति’ इति भगवता भाष्यकृता व्याख्यातत्वात्, तदनुसारेणाऽपि परमात्मनः निखिलजगन्नियमनरूपं महिमानं च यः पश्यति, स: वीतशोको भवतीत्यर्थः । धातुप्रसादात् वीतशोको भवति इति वा अन्वयः । ‘प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः’ () इति स्मृतेः इति द्रष्टव्यम्; अक्रतुं पश्यति धातुः प्रसादान्महिमानम् ईशम् इति पाठे अक्रतुम् – कर्मकृतोत्कर्षापकर्षशून्यमित्यर्थः । धातुः – भगवतः ।। २० ।।
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।। २१ ।।
धातुप्रसादशब्दितभगवदनुग्रहशून्यस्य परमात्मतत्त्वम् अत्यन्तालौकिकत्वात् दुरधिगममिति दर्शयति – आसीन: दूरं व्रजति शयान: याति सर्वत: इति । परमात्मनः सर्वात्मकत्वेन, इतरत्र विरुद्धतया प्रतीयमानाऽपि आसीनत्वदूरगन्तृत्वादिधर्माः जीवद्वारा तत्र सन्ति इति भावः । कस्तम् इति । हर्षाहर्षविरुद्धधर्ममध्यस्थं तम्, परमात्म प्रसादानुगृहीतमादृशजनादन्यः को वा ज्ञातेत्यर्थः ।। २१ ।।
अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।। २२ ।।
अशरीरम् इति । कर्मकृतशरीररहितम्, अनवस्थेषु – अस्थिरेषु, शरीरेषु नित्यत्वेन तत्र स्थितम् । महान्तं विभुम् – महावैभवशालिनं आत्मानं मत्वा धीरो न शोचति ।। २२ ।।
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूँ स्वाम् ।। २३ ।।
ईदृशात्मप्राप्त्युपायं दर्शयति – नायमात्मा इति । अत्र प्रवचनशब्देन, मननस्यैव ग्रहीतुमुचितत्त्वात् अध्यापनरूपस्य प्रवचनस्य हेतुत्वाप्रसक्तेश्च; तथैव व्यासायैः विवृतत्वाच्च प्रवचनं मननम् । यमेवैष वृणुते तेन लभ्यः । एषः – परमात्मा, यम् – साधकं प्रार्थयते, तेन लभ्य: – प्रार्थनीयपुंसा लभ्यः इत्यर्थः । तत् प्रार्थनीयत्वं च, तत्प्रियतमस्यैव पुंसः । तत्प्रियतमत्वं च, तत्प्रीतिमत एव । ततश्च भगवद्विषयिणी उपासकस्य प्रीतिः, भगवतः उपासके प्रीतिमुत्पाद्य तत्प्राप्तिहेतुः भवतीत्यर्थः । तस्यैष आत्मा विवृणुते तनूँ स्वाम् । तस्य – उपासकस्य, एष आत्मा – परमात्मा, स्वरूपं प्रकाशयति, स्वात्मानं प्रयच्छति इत्यर्थः । वृणुते इति पाठेऽपि स एवार्थः ।। २३ ।
नाविरतो दुश्चरितानाशान्तो नासमाहितः ।
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ।। २४ ।।
परमात्मप्राप्तिहेतुभूतोपासनाङ्गतया कांश्चिद्धर्मान् उपदिशति नाविरतः दुश्चरितात् इति । परदारपरद्रव्यापहारात् अनिवृत्तः,अनुपशान्तकामक्रोधवेगः, नानाविधव्यापारविक्षिप्ततया अनवहितचित्तः, अनिगृहीतमनाश्च, एनम् – परमात्मानम्, प्रज्ञानेन नाप्नुयादित्यर्थः । पुरुषार्थस्यैव अनृतवदननिषेधस्य, दर्शपूर्णमासप्रकरणे क्रत्वङ्गतया, ‘नानृतं वदेत्’ इति निषेधवत्, पुरुषार्थस्यापि दुश्चरितविरत्यादेः उपासनाङ्गतया विधानम् उपपद्यते । ततश्च, यस्तु – पुरुषार्थमपि दुश्चरितनिषेधम् अतिलङ्घय परमात्मोपासनम् अविगुणं चिकीर्षति, तस्य, दुश्चरितनिषेधरूपाङ्गवैगुण्यात् उपासनसाद्गुण्यं न सिद्धयति इत्यर्थः ।। २४ ।।
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ।। २५ ।।
।। इति कठोपनिषदि द्वितीयावल्ली ।।
यस्य ब्रह्म च इति । ब्रह्म च क्षत्रं च – ब्रह्म – क्षत्राख्यवर्णद्वयोपलक्षित कृत्स्नचराचरात्मकमिदं जगत् । यस्य ओदनो भवति – यस्य विनाश्यो भवतीत्यर्थः । यस्य मृत्युः स्वयमद्यमानत्वे सति अन्यस्यादनहेतुर्भवति, सः = निखिलचराचरसंहर्ता परमात्मा, यत्र – यस्मिन् प्रकारे स्थितः, यत्प्रकारविशिष्टः, तं प्रकारम् इत्थम् इति को वेद इत्यर्थः ।
ननु – ब्रह्मक्षत्रपदेन कृत्स्नचराचरग्रहणे किं बीजम् ? इति चेत्, उच्यते – ब्रह्म च क्षत्रं च ओदनः इत्युक्ते, ब्राह्मणक्षत्रियवर्णयोः किंचित्प्रति ओदनशब्दमुख्यार्थत्वासम्भवात्, ओदनशब्देन भोज्यत्वं वा, भोग्यत्वं वा, विनाश्यत्वं वा लक्षणीयम् । न हि ब्रह्मक्षत्रमात्रभोक्ता तन्मात्रसंहर्ता वा, कश्चिज्जीवो वा, परमात्मा वा अस्ति।
ननु अन्तरादित्यविद्यायां ‘ये च अमुष्मात्परांचो लोकाः तेषां चेष्टे'(छां.उ.१-६-८) इति सर्वलोकेश्वरे परमात्मन्युपासनार्थं लोकविशेषेशितृत्वश्रवणवत्, सर्वसंहर्तर्यपि परमात्मनि ब्रह्मक्षत्रसंहरणमुपासनार्थमुपदिश्यतामिति चेन्न; तद्वदस्योपासनाप्रकरणत्वासम्भवात् । अतः ब्रह्मक्षत्रग्रहणस्य चराचरमात्रोपलक्षणत्वं युक्तम् । उक्तं च ‘अत्ता चराचरग्रहणात् (ब्र.सू.१-२-९) इति ।।
ननु एवमपि ओदनशब्देन किमिति विनाश्यत्वं लक्ष्यते? गौणत्वमपि शब्दस्य साधारणगुणमपहाय असाधारणगुणेनैव निर्वाह्यम् । नहि अग्निर्माणवकः इत्यत्र अग्निशब्देन, पैङ्गल्यादेरिव द्रव्यत्वादेः उपस्थितिः अस्ति । अत एव ‘प्रैतु होतुश्चमसः प्र ब्रह्मणः प्राद्गातृृणां प्र यजमानस्य’ (पू.मी.३-५-७) इति अध्वर्युप्रैषे उद्गातृशब्दस्य बहुवचनानुरोधेन बहुषु वृत्तौ वक्तव्यायाम् , षोडशर्त्विक्साधारणाकारं विहाय, उद्गातृगणमात्रलक्षणा पूर्वतन्त्रे (३-५-७) वर्णिता । तद्वदिहापि ब्रह्मक्षत्रवाक्ये प्रतीयते इति चेत्
उच्यते; यद्यपि – विनाश्यत्वं साधारणाकारः; तथापि – मृत्युर्यस्योपसेचनम् (क.उ.२-२४) इति वाक्यशेषानुरोधात्, साधारणोऽपि, गौण्या वृत्त्या लक्षयितुम् उचितः ।
ननु – उपसेचनशब्दापेक्षया ओदनशब्दस्य मुख्यत्वात्, ओदनशब्दस्वारस्यानुरोधेन, असाधारणाकाररूपभोग्यत्वे लक्षिते, जघन्यम् उपसेचनपदम् अबाधकत्वाभिप्रायेण कथंचित् नीयताम् । अत: ब्रह्मक्षत्रभोक्ता यः, यस्य च मृत्युः अबाधकः, सः अस्मिन् मन्त्रे प्रतिपाद्यः । भोक्तृत्वं च जीवस्यैव इति, स एव अस्मिन्मन्त्रे प्रतिपाद्यताम् इति चेत् ;
उच्यते -उपसेचनत्वेन रूपितस्य मृत्योः, ओदनत्वरूपितेन ब्रह्मक्षत्रशब्दितेन, दध्यन्नवत् प्रतीतसम्बन्धस्य, सर्वात्मना बाधप्रसङ्गात् । न हि यस्य ब्रह्म च क्षत्रं च भोग्यम्, यस्य च मृत्युः अबाधकः इत्युक्ते, मृत्योः ब्रह्मक्षत्रस्य च सम्बन्धः प्रतीयते । अतः उपसेचनशब्दस्य ओदनशब्दापेक्षया जघन्यत्वेऽपि, अबाधकत्वरूपसाधारणगुणं विहाय, स्वयम् अद्यमानत्वे सति अन्यादनहेतुत्वरूपा साधारणरूप एव ग्राह्यः । ततश्च एकवाक्यान्तर्गतचरमश्रतोपसेचनपदानुसारेण, ओदनशब्देनाऽपि विनाश्यत्वमेव लक्षणीयम् । स्वबुद्ध्युपस्थापनीयविशेषाकाररूपगुणग्रहणादपि, एकवाक्यतापन्नपदान्तरोपस्थापितगुण ग्रहणस्यैव बुद्धिलाघवेन एकवाक्यतासामर्थ्यानुरोधेन च न्याय्यत्वादिति अस्यार्थस्य अत्रधिकरणे निर्णीतत्वात् इत्यलं पल्लवितेन ।। २५ ।।
॥ इति द्वितीयवल्ली प्रकाशिका ।।