कौषीतकिब्राह्मणोपनिषत्-द्वितीयोऽध्यायः

श्री:

कौषीतकिब्राह्मणोपनिषत्

[ऋग्वेदीयोपनिषत्]

[द्वितीयोऽध्यायः]

[प्राणस्य प्राशस्त्यम् ]
प्राणो ब्रह्मेति ह स्माह कौषीतकिः । तस्य ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं
चक्षुर्गोप्त्रृ श्रोत्रं संश्रावयितृ वाक् परिवेष्ट्री । स यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं
वेद, दूतवान् भवति । यश्चक्षुर्गोप्त्रृ, गोप्तृमान् भवति । यः श्रोत्रं संश्रावयितृ, संश्रावयितृमान्
भवति । यो वाचं परिवेष्ट्रीम् परिवेष्ट्रीमान् भवति । तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः
सर्वा देवता अयाचमानाय बलिं हरन्ति । एवं हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं
हरन्ति, य एवं वेद । तस्योपनिषत् न याचेदिति । तद् यथा ग्रामं भिक्षित्वाऽलब्ध्वोपविशेत्,
नाहमतो दत्तमश्नीयामिति । त एवैनमुपमन्त्रयन्ते, ये पुरस्तात् प्रत्याचक्षीरन् एष धर्मोऽयाचतो
भवति । अन्नादास्त्वेवैनमुपमन्त्रयन्ते, ददाम त इति ॥ १ ॥

[प्राणस्य श्रेष्ठता]
प्राणो ब्रह्मेति ह स्माह पैङ्ग्यः । तस्य ह वा एतस्य प्राणस्य ब्रह्मणो वाक्
परस्तात् चक्षुरारुन्धे ; चक्षुः परस्ताच्छ्रोत्रमारुन्धे ;, श्रोत्रं परस्तान्मन आरुन्धे ; मन:
परस्तात् प्राण आरुन्धे ; तस्मै वा एतस्मै प्राणस्य ब्रह्मण एताः सर्वा देवता अयाचमानाय
वलिं हरन्ति । एवं हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति, य एवं वेद ।
तस्योपनिषत्, न याचेदिति । तद् यथा ग्रामं भिक्षित्वाऽलब्ध्वा उपविशेत् , नाहमतो
दत्तमश्नीयामिति, त एवैनमुपमन्त्रयन्ते, ये पुरस्तात् प्रत्याचक्षीरन् । एष धर्मोऽयाचतो
भवति, अन्नादास्त्वेवैनमुपमन्त्रयन्ते, ददाम त इति ॥ २ ॥

[प्राणादिदेवतोद्देश्यक होमाद्यनुष्ठानफलम्]
अथात एकधनावरोधनम् , यदेकधनमभिध्यायात् , पौर्णमास्यां वाऽमावास्यायां
वा शुद्धपक्षे वा पुण्ये नक्षत्रे एतेषामेकस्मिन् पर्वण्यग्निमुपसमाधाय परिसमूह्य परिस्तीर्य
पर्युक्ष्य दक्षिणं जान्वाच्य स्रुवेणाज्याहुतीर्जुहोति, “वाङ्नाम देवताऽवरोधनी या
मेऽमुष्मादिदमवरुन्ध्यात् तस्यै स्वाहा”, “चक्षुर्नाम देवताऽवरोधनी सा
मेऽमुष्मादिदमवस्वरूप्यात् तस्यै स्वाहा”, “श्रोत्रं नाम देवताऽवरोधनी सा मेऽमुष्मादिदमवरुन्ध्यात् तस्यै स्वाहा”,
“मनो नाम देवताऽवरोधनी सा मेऽमुष्यादिदमवरुन्ध्यात् तस्यै स्वाहा”, “प्रज्ञा नाम
देवताऽवरोधनी सा मेऽमुष्पादिदमवरुन्ध्यात् तस्यै स्वाहा”, इति । अथ धूमगान्धं प्रजिघ्राय
आज्यलेपेनाङ्गान्यनुविमृज्य वाचंयमोऽभिप्रव्रज्यार्थं ब्रूयात्, दूतं वा प्रहिणुयात् , लभते हैव ।। ३ ।।

[प्राणादिदेवतोद्देश्यक होमबलेन परेषां स्वस्मिन् प्रीतिपूर्वकस्मरणसिद्धिः]
अथातो दैवः स्मरः यस्य प्रियो बुभूषेत्, यस्यै वा, येषां वा, यासां वा,
एतेषामेवैकस्मिन् पर्वण्येतयैवाऽऽवृता एता आज्याहुतीर्जुहोति, ‘वाचं ते मयि जुहोप्यसौ
स्वाहा’, ‘चक्षुस्ते मयि जुहोम्यसौ स्वाहा’, ‘श्रोत्रं ते मयि जुहोम्यसौ स्वाहा’,
‘मनस्ते मयि जुहोम्यसौ स्वाहा’, ‘प्रज्ञां ते मयि जुहोम्यसौ स्वाहा’, इति । अथ
धूमगधं प्रजिघ्रायाज्यलेपेनाङ्गान्यनुविमृज्य वाचंयमोऽभिप्रव्रज्य संस्पर्शं जिगमिषेत्,
अपि वाताद्वा तिष्ठेत् संभाषमाणः; प्रियो हैव भवति, स्मरन्ति हैवास्य ॥ ४ ॥

[अग्निहोत्रसंपत्तिः]
अथात: संयमनं प्रातर्दनमान्तरमग्निहोत्रमित्याचक्षते – यावद्वै पुरुषो भाषते, न
तावत् प्राणितुं शक्नोति । प्राणं तदा वाचि जुहोति । यावद्वै पुरुषः प्राणिति, न
तावद्भाषितुं शक्नोति, वाचं तदा प्राणे जुहोति । एते अनन्ते अमृते आहूती जाग्रञ्च स्वपंच
संततं जुहोति । अथ या अन्या आहुतयोऽन्तवत्यः, ता: कर्ममय्यो हि भवन्ति । तद्ध
स्मैतत् पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रुः ॥ ५ ॥

उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गारः । तत् ऋगित्युपासीत । सर्वाणि हास्मै
भूतानि श्रेष्ठ्यायाभ्यर्च्यन्ते । तत् यजुरित्युपासीत । सर्वाणि हास्मै भूतानि श्रैष्ठ्याय
युज्यन्ते । तत् सामेत्युपासीत । सर्वाणि हास्मै भूतानि श्रेष्ठ्याय संनमन्ते । तत्
श्रीरित्युपासीत, तत् यश इत्युपासीत, तत तेज इत्युपासीत । तद् यथैतत् श्रीमत्तमं
यशस्वितमं तेजस्वितममिति शस्त्रेषु भवति, एवं हैव स सर्वेषु भूतेषु श्रीमत्तमो
यशस्वितमस्तेजस्वितमो भवति, य एवं वेद । तदेतदैष्टिकं कर्ममयमात्मानमध्वर्युः
संस्करोति ; तस्मिन् यजुर्मयं प्रवयति ; यजुर्मये ऋङ्मयं होता ; ऋङ्मये साममयमुद्गाता ।
स एष त्रय्यै विद्याया आत्मा ; एष उ एवैतदिन्द्रस्यात्मा भवति य एवं वेद ।। ६ ।।

[आदित्योपासनम्]
अथातः सर्वजित: कौषीतकेस्त्रीण्युपासनानि भवन्ति । सर्वजिद्ध स्म
कौषीतकिरुद्यन्तमादित्यमुपतिष्ठते – यज्ञोपवीतं कृत्वोदकमानीय त्रिः प्रसिच्योदपात्रम् ,
‘वर्गोऽसि पाप्मानं मे वृङ्घि’ इति । एतयैवाऽऽवृता मध्ये सन्तम्, ‘उद्वर्गोऽसि
पाप्मानं मे उद्वृङ्घि’ इति । एतयैवाऽऽवृताऽस्तं यन्तम्, ‘संवर्गोऽसि पाप्मानं मे
संवृङ्घि’ इति । तद् यदहोरात्राभ्यां पापमकरोत्, सं तद् वृङ्घे । तथो एवैवं विद्वान्
एतयैवाऽऽवृताऽऽदित्यमुपतिष्ठते, यदहोरात्राभ्यां पापं करोति, सं तद् वृङ्घे ।। ७ ।।

[सोमोपासनम्]
अथ मासिमास्यमावास्यायां वृत्तायां पश्चाचन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवाऽऽवृता
हरिततृणे वा [चं] प्रत्यस्यति, ‘यन्मे सुसीमं हृदयं दिवि चन्द्रमसि श्रितम् । मन्येऽहं मां
तद्विद्वांसं माऽहं पुत्र्यमघं रुदम्’ इति । न ह्यस्मात् पूर्वा प्रजा प्रैति । इति नु जातपुत्रस्य ।।
अथाजातपुत्रस्य – ‘आप्यायस्व समेतु ते’, ‘सं ते पयांसि समु यन्तु वाजा’, ‘यमादित्या
अंशुमाप्याययन्ति’ इत्येतास्तिस्र ऋचो जपित्वा, ‘माऽस्माकं प्राणेन प्रजया
पशुभिराप्याययिष्ठाः, योऽस्मान् द्वेष्टि, यञ्च वयं द्विष्मः, तस्य प्राणेन प्रजया
पशुभिराप्याययस्व’ इति । ‘ऐन्द्रीमावृतमावर्ते आदित्यस्यावृतमावर्ते’ इति दक्षिणं
बाहुमन्वावर्तते ॥ ८ ॥

अथ पौर्णमास्यां पुरस्ताञ्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवाऽऽवृता, ‘सोमो
राजाऽसि विचक्षणः पञ्चमुखोऽसि । प्रजापतिर्बाह्मणस्त एकं मुखम् ; तेन मुखेन
राज्ञोऽत्सि; तेन मुखेन मामन्नादं कुरु । राजा तु एकं मुखम् , तेन मुखेन विशोऽत्सि
तेन मुखेन मामन्नादं कुरु । श्येनस्त एकं मुखम् ; तेन मुखेन पक्षिणोऽत्सि ; तेन
मुखेन मामन्नादं कुरु । अग्निष्ट एकं मुखम् ; तेनेमं लोकमत्सि ; तेन मुखेन
मामन्नादं कुरु । त्वयि पञ्चमं मुखम् ; तेन मुखेन सर्वाणि भूतान्यत्सि ; तेन मुखेन
मामन्नादं कुरु । माऽस्माकं प्राणेन प्रजया पशुभिरपक्षेष्ठाः । योऽस्मान् द्वेष्टि , यञ्च वयं
द्विष्मः, तस्य प्राणेन प्रजया पशुभिरपक्षीयस्व’ इति । दैवीमावृतमावर्त
आदित्यस्यावृतमन्वावर्त इति दक्षिणं बाहुमन्वावर्तते ।। ९ ।।

अथ संवेश्यन् जायायै हृदयमभिमृशेत्, ‘यत् ते सुसीमे हृदये श्रितमन्तः प्रजापतौ ।
तेनामृतत्वस्येशाने मा त्वं पुत्र्यमघं निगाः’ इति । न ह्यस्मात् पूर्वा प्रजा प्रैतीति ॥ १० ।।

अथ प्रोष्याऽऽयन् पुत्रस्य मूर्धानमभिजिघ्रेत्, ‘अङ्गादङ्गात् संभवसि हृदयादधिजायसे।
आत्मा वै पुत्रनामासि स जीव शरदः शतम्’ इति ; नामास्य दधाति । ‘अश्मा भर
परशुर्भव हिरण्यमस्तृतं भव । तेजो (वेदो) वै पुत्रनामासि स जीव शरदः शतम्’
इति ; नामास्य गृह्णाति । अथैनं परिगृह्णाति, ‘ये प्रजापतिः प्रजाः पर्यगृह्णात् तदरिष्ट्ये
तेन त्वा परिगृह्णाम्यसौ’ इति । अथास्य दक्षिणे कर्णे जपति, ‘अस्मै प्रयन्धि मघवन्नृजीषिन्’
इति । ‘इन्द्र श्रेष्ठानि द्रविणानि धेहि’ इति सव्ये। ‘मा छेत्था मा व्यथिष्ठाः शतं शरद
आयुषो जीवस्व पुत्र ते नाम्ना मूर्धानमभिजिघ्रामि’ इति त्रिरस्य मूर्धानमभिजिघ्रेत् ।
‘गवां त्वा हिङ्कारेणाभिहिङ्करोमि’ इति त्रिरस्य मूर्धानमभिहिङ्कुर्यात् ॥ ११ ॥

अथातो दैवः परिमरः – एतद्वै ब्रह्म दीप्यते यदग्निर्व्वलति ; अथैतन्म्रियते,
यन्न ज्वलति । तस्यादित्यमेव तेजो गच्छति ; वायुं प्राणः । एतद्वै ब्रह्म दीप्यते,
यदादित्यो दृश्यते ; अथैतन्म्रियते यन्न दृश्यते । तस्य चन्द्रमसमेव तेजो गच्छति ; वायुं
प्राणः । एतद्वै ब्रह्म दीप्यते, यच्चन्द्रमा दृश्यते ; अथैतन्म्रियते, यन्न दृश्यते । तस्य
विद्युतमेव तेजो गच्छति ; वायुं प्राणः । एतद्वै ब्रह्म दीप्यते, यद् विद्युद् विद्योतते
अथैतन्म्रियते, यन्न विद्योतते । तस्या दिश एव (वायुमेव) तेजो गच्छति ; वायुं प्राणः ।
ता वा एताः सर्वा देवता वायुमेव प्रविश्य वायौ मृत्वा न मूर्च्छन्ते ; तस्मादेव
पुनरुदीरत इत्यधिदैवतम् । अथाध्यात्मम् ॥ १२ ।।
.
एतद्वै ब्रह्म दीप्यते, यद्वाचा वदति । अथैतन्म्रियते, यन्न वदति । तस्य चक्षुरेव
तेजो गच्छति ; प्राणं प्राणः । एतद्वै ब्रह्म दीप्यते, यच्चक्षुषा पश्यति । अथैतन्म्रियते, यन्न
पश्यति । तस्य श्रोत्रमेव तेजो गच्छति ; प्राणं प्राणः । एतद्वै ब्रह्म दीप्यते, यच्छ्रोत्रेण
शृणोति । अथैतन्म्रियते, यन्न शृणोति । तस्य मन एव तेजो गच्छति ; प्राणं प्राणः ।
एतद्वै ब्रह्म दीप्यते, यन्मनसा ध्यायति । अथैतन्म्रियते, यन्न ध्यायति ; तस्य प्राणमेव
तेजो गच्छति ; प्राणं प्राणः । ता वा एताः सर्वा देवताः प्राणमेव प्रविश्य प्राणे मृत्वा
न मूर्च्छन्ते ; तस्मादेव पुनरुदीरते । तद् यदिह वा एवं विद्वांसमुभौ पर्वतौ अभिप्रवर्तेयातां
दक्षिणश्चोत्तरश्च तुस्तूर्षमाणौ, न हनं स्तन्वीयाताम् । अथ य एनं द्विषन्ति, यांश्च स्वयं द्वेष्टि
त एवैनं परिम्रियन्ते ।। १३ ॥

[प्राणस्य प्राशस्त्यकथनम्]
अथातो नि:श्रेयसादानम् एता ह वै देवता अहंश्रेयसे विवदमाना
अस्माच्छरीरादुञ्चक्रमुः । तद्धाप्राणत् शुष्कं दारुभूतं शिश्ये । अथैनद् वाक् प्रविवेश । तद्
वाचा वदत् शिश्य एव । अथैनञ्चक्षुः प्रविवेश । तद् वाचा वदत् चक्षुषा पश्यत् शिश्य
एव । अथैतच्छ्रोत्रं प्रविवेश । तद्वाचा वदत् चक्षुषा पश्यच्छ्रोत्रेण शृण्वत् शिश्य एव ।
अथैनन्मनः प्रविवेश । तद्वाचा वदत् चक्षुषा पश्यच्छ्रोत्रेण शृण्वन्मनसा ध्यायच्छिश्य
एव । अथैनत् प्राणः प्रविवेश । तत् तत एव समुत्तस्थौ । ता वा एताः सर्वा देवताः
प्राणे निःश्रेयसं विदित्वा प्राणमेव प्रज्ञात्मानमभिसंभूय सहैवैतैः सर्वैरस्माच्छरीरादुत्क्रामति ।
स वायुप्रतिष्ठ (विष्ट) आकाशात्मा स्वरेति । स तूद्गच्छति, यत्रैते देवाः, तत् प्राप्य यदमृता
देवाः तदमृतो भवति । य एवं वेद ॥ १४ ॥

[संप्रतिकर्मनिरूपणम् ]
अथात: पितापुत्रीयम् , संप्रदानमिति चाचक्षते । पिता पुत्रं प्रेष्यन् आह्वयति ।
नवैस्तृणैरगारं संस्तीर्याग्निमुपसमाधायोदकुम्भं सपात्रमुपनिधायाहतेन वाससा संप्रच्छन्न:
पिता शेते । एत्य पुत्र उपरिष्टादभिनिपद्यत इन्द्रियैरिन्द्रियाणि संस्पृश्य ।
अपिवाऽस्याभिमुखत एवासीत । अथास्मा आसीनायाभिमुखायैव संप्रदध्यात् ।
अथास्मै संप्रयच्छति, ‘वाचं मे त्वयि दधानि’ इति पिता ; ‘वाचं ते मयि दध’ इति
पुत्रः । ‘प्राणं मे त्वयि दधानि’ इति पिता ; ‘प्राणं ते मयि दध’ इति पुत्रः । ‘चक्षुर्मे
त्वयि दधानि’ इति पिता ; ‘चक्षुस्ते मयि दध’ इति पुत्रः । ‘श्रोत्रं मे त्वयि दधानि’
इति पिता ; ‘श्रोत्रं ते मयि दध’ इति पुत्रः । ‘कर्माणि मे त्वयि दधानि’ इति पिता
‘कर्माणि ते मयि दध’ इति पुत्रः । ‘सुखदुःखे मे त्वयि दधानि’ इति पिता ।
सुखदुःखे ते मयि दध’ इति पुत्रः । ‘आनन्दं रतिं प्रजातिं मे त्वयि दधानि’ इति पिता ;
‘आनन्दं रतिं प्रजातिं ते मयि दध’ इति पुत्रः। ‘इत्यां मे त्वयि दधानि’ इति पिता ; ‘इत्यां ते
मयि दधे’ इति पुत्रः । ‘मनो मे त्वयि दधानी’ ति पिता । ‘मनस्ते मयि दध’ इति पुत्रः।
‘प्रज्ञां मे त्वयि दधानि’ इति पिता ; ‘प्रज्ञां ते मयि दध’ इति पुत्रः । यद्यु वा उपाभिगदः
स्यात्, समासेनैव ब्रूयात् – ‘प्राणान् मे त्वयि दधानि’ इति पिता ; ‘प्राणांस्ते मयि
दधे’ इति पुत्रः । अथ दक्षिणावृदुपनिष्क्रामति । तं पिताऽनुमन्त्रयते, ‘यशो ब्रह्मवर्चसं
कीर्तिस्त्वा जुषताम्’ इति अथेतरः सव्यमन्वंसमभ्यवेक्षते ; पाणिनाऽन्तर्धाय वस्त्रान्तेन
वा प्रच्छाद्य, ‘स्वर्गान् लोकान् कामानामुही’ति । स यद्यगदः स्यात्, पुत्रस्यैश्वर्ये पिता
वसेत्, परि वा व्रजेत् । यधु वै प्रेयात्, तथैवैनं समापयेत्, यथा समापयितव्यो
भवति ॥ १५ ॥

॥ इति द्वितीयोऽध्यायः॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.