[highlight_content]

कौषीतकिब्राह्मणोपनिषत्-तृतीयोऽध्यायः

कौषीतकिब्राह्मणोपनिषत्

[ऋग्वेदीयोपनिषत्]

प्रकाशिका
श्रीमद्रङ्गरामानुजमुनीन्द्रानुगृहीता

तृतीयोऽध्यायः

[प्राणानां प्राशस्त्यम् , काम्यानामुपासनप्रकारश्च]
प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च ॥ १॥

दिवोदासस्यापत्यं दैवोदासिः । नाम्ना प्रतर्दनः युद्धसाधनबलेन शौर्येण च युक्तः इन्द्रस्य ‘प्रियं स्वर्गं उपगतः इत्यर्थः ।।

तं हेन्द्र उवाच, प्रतर्दन । वरं ददानीति ॥ २ ॥

तं – ददानीति । स्पष्टोऽर्थः ।।

स होवाच प्रतर्दनः, त्वमेव मे वरं वृणीष्व, यं त्वं मनुष्याय हिततमं मन्यसे
इति ॥ ३ ॥

सर्वज्ञः सः……मन्यसे । त्वं यं वरं मनुष्याय मे हिततमं मन्यसे, त्वमेव वृणीष्व ; नाहमज्ञः स्वहिततमं वरं वेद्मीति ॥

तं हेन्द्र उवाच, न वै वरं परस्मै वृणीते त्वमेव वृणीष्वेति ।। ४ ।।

न ह्यन्योऽन्यार्थं वरं वृणीते । अतः त्वदभिलषितं वरं त्वमेव मत्तः तं…… वृणीष्वेति । वृणीष्वेत्यर्थः ॥

‘अवरो वै तर्हि किल मे’ इति होवाच प्रतर्दनः ॥ ५ ॥

यदि हि त्वयाऽपि न व्रियते, तर्हि मम हिततमस्य वरस्यापरिज्ञानात् वराभाव एव प्राप्त इति प्रतर्दन इन्द्रमुवाच इत्यर्थः ॥

अथो खल्विन्द्रः सत्यादेव नेयाय ॥ ६ ॥

एवमुक्त इन्द्रः, ते वरं ददामीति सत्याद्वाक्यात् नापेतः ।।

सत्यं हीन्द्रः ॥ ७ ॥

तत्र हेतुमाह – इन्द्रस्य सत्यप्रधानत्वादित्यर्थः । ततश्च वरं ददानीति मदुक्तं वाक्यमसत्यं मा भूदिति अमन्यत इत्यर्थः।

केचित्तु – सत्या देवतेयाय सत्यं हीन्द्र इति पाठे, तं हेन्द्र उवाचेति शेषः । वचनप्रकारमेवाह – सत्या देवतेयाय सत्यं हीन्द्र इति । सत्या देवता – सत्यवाक्या परमात्मरूपा देवता त्वाम् इयाय – त्वामाविष्टवती । सत्यवाक्यपरमात्मावेशवशाद्धि, त्वमेव वरं वृणीष्व इति वाक्यं संप्रयुक्तवान् इति भावः । परमात्मनः सत्यवाक्यत्वप्रसिद्धिं दर्शयति सत्यं हीन्द्र इति । इन्द्रः – परमात्मेत्यर्थः – इति वदन्ति ।।

स होवाच मामेव विजानीहि । एतदेवाहं मनुष्याय हिततमं मन्ये, यन्मां विजानीयात् ॥ ८ ॥

यदि ते हिततममुपदेष्टव्यम् , तर्हि मदुपासनमेव हिततमं – मोक्षसाधनमिति मन्मतम् । अत इतरत् परित्यज्य मामुपास्वेत्यर्थः । अतः प्रसिद्धजीवभावस्येन्द्रस्य हिततमत्वलक्षणमोक्ष- साधनत्वाश्रयोपासनकर्मत्वासंभवात् मामिति शब्दः स्वात्मभूतं परमात्मानमभिदधाति । य आत्मनि तिष्ठन् , अन्तः प्रविष्ट: शास्ता जनानां सर्वात्मा (बृ.उ.मा.पा. ३,५-७-२२,२०) इति शास्त्रेण, स्वस्याप्यात्मभूत:। परमात्मा , अहम्बुद्धिशब्दाश्च परमात्मपर्यन्ता: इति जानत इन्द्रस्य स्वात्मभूते परमात्मनि मामिति शब्दप्रयोगे नानुपपत्तिः।

ननु स्वायते शब्दप्रयोगे असन्दिग्धं परमात्मवाचकमेव पदं प्रयुज्यताम् । कि न्यायलभ्यपरमात्मपर्यवसानेन मामिति शब्देनेति चेत् । स्यादेवम्, यदि परमात्मस्वरूपमात्रोपासन विधित्सितं स्यात् । अपितु स्वशरीरकतया । अतो मामिति निर्देशः उपपद्यते ।।

त्रिशीर्षाणं त्वाष्ट्रमहनम् ॥ ९ ॥

तत्क्रतुन्यायेन स्वोपासकस्य पापाश्लेषं वक्तुं स्वस्य पापाश्लेषं दर्शयति । त्रिशिरस्कं त्वष्ट्पुत्रं विश्वरूपं हतवानस्मि॥

अरुन्मुखान् यतीन् सालावकेभ्यः प्रायच्छम् ।। १० ।।

रौतीति रुत् वेदः । रुत् मुखे न विद्यते येषां ते अरुन्मुखाः । वेदान्तविमुखान् यतीन् वनश्चविशेषेभ्यः खादनाय प्रायच्छम् ।।

वह्नीः सन्धा अतिक्रम्य दिवि प्राह्वादीनतृणहम् , अन्तरिक्षे पौलोमान् । पृथिव्या कालकञ्जान् ॥ ११ ॥

न हनिष्यामीति कृता वह्नीः प्रतिज्ञा अतिक्रम्य दिवि वर्तमानान् प्रह्लादपुत्रान् अतृणहम् । तृण हिंसायाम् (धा.पा. १४४७) इति हि धातुः । अन्तरिक्ष पौलोमान् – पुलोमसुतान् , पृथिव्यां कालकजाख्यासुरांश्च हिसितवानस्मि ।।

तस्य मे तत्र न लोम चामीयत ॥ १२ ॥

एवं हिंसितवतो मे लोमापि नाहिंस्यत ; बहाविद्याप्रभावादित्यर्थः ।।

[इन्द्रेण स्वान्तर्याम्युपदेशः]

स यो मां विजानीयात् , नास्य केन च कर्मणा लोको मीयते ; न मातृवधेन,

न पितवधेन, न स्तेयेन, न भ्रूणहत्यया ; नास्य पापं चकृषो मुखं नीलं वेति ॥ १३ ॥

य एतादृशमात्मानं परमात्मानमुपास्ते, तस्य केनापि कर्मणा मातृवधपितृवधस्तेयभ्रूणहत्यादिलक्षणेन परलोकप्तिर्न विरुद्ध्यते । एवं पापं कृतवतोऽपि, मया ईदृशं पापं कृतम् इति निर्वेदीनतमुखवैवर्ण्यमपि नास्तीत्यर्थः । चकृष: इति तु क्वसन्तात् षष्ठी ॥

[अचेतनविशेषरूपप्राणविशिष्टोपासनम् ।

स होवाच, प्राणोऽस्मि प्रज्ञात्मा ; तं मामायुरमृतपित्युपास्स्व ॥ १४ ॥

एवं वेतनविशेषरूपवविशिष्टपरमात्मोपासनमुक्त्वा अचेतनविशेषरूपप्राणविशिष्टोपासमाह स होवाच… उपास्स्व इति । प्रज्ञारूप आत्मा – प्रज्ञात्मा जीवः । जीवशारीरक इत्यर्थः । जीवशरीरकोऽहम् । प्राणोऽस्मि – प्राणशरीरकोऽहमस्मि । तादृशं प्राणशरीरक माम् आयुरमृतमित्युमास्स्व।

आयुः प्राणः । प्राणो वा आयुः ; प्राण वा अमृतम् । यावद्धि अस्मिन्

शरीरे प्राणो वसति, तावदायुः । प्राणेन ह्येवामुष्मिन् लोकेऽमृतत्वमाप्नोति ॥ १५ ॥

कथं प्राणशरीरकस्यायुष्ट्वामृतत्वे इत्याशङ्क्याह – आयु: -आप्नोति । शरीरे प्राणस्थितेरुच्छ्वासादि- लक्षणायुस्साधनत्वादायुः प्राणः । लोकान्तरे चिरस्थायित्वरूपामृतत्वप्राप्तेः प्राणाधीनोपायानुष्ठानसाध्यत्वात् प्राणस्यामृतत्वम् । अत आयुष्ट्वामृतत्वे प्राणस्योपपद्येते । तद् द्वारा परमात्मनश्चोपपत्ते: आयुष्ट्वामृतत्वाभ्यां प्राणशरीरकब्रह्मण उपासनमुपपद्यते । यद्वा  व्यासार्योक्तरीत्या तं मामायुरिति वाक्ये मामिति जीविशिष्टता उच्यते आयुरिति प्राणविशिष्टता । आयुः प्राण इति ह्यनन्तरमेव श्रवणात् आयुरमृतमिति स्वेन रूपेणावस्थितिः । अतः (एवञ्च) अस्मित्रेव वाक्ये स्वेन रूपेण, चिदचिद्विशिष्टतया च त्रिविधोपासनं विधीयते । अतो नोपासनात्रयविधिकृतवाक्यभेद इति द्रष्टव्यम् ।।

प्रज्ञया सत्यं संकल्पमेति ॥ १६ ॥

प्रज्ञात्मत्वविशिष्टोपासनस्य फलमाह । अपहतपाप्मत्वादिगुणाष्टकविशिष्टलक्षणं ब्रहरूपमित्यर्थ:॥

[प्रतर्दनविद्योपासनस्य फलम् ]

स यो मामायुरमृतमित्युपास्ते सर्वमायुरस्मिन् लोक एति ।आप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके ॥ १७ ॥

आयुरमृतत्वगुणविशिष्टप्राणोपासनस्य फलमाह । अक्षितिं – चिरकालावस्थायित्वम् । ततश्च मधुविद्यायाः वस्वादिपदप्राप्तिपूर्वकब्रह्मप्राप्तिवत् अस्या अपि विद्यायाश्चिरायुष्ट्वपूर्वकचिरकाल- स्वर्गप्राप्तिपूर्वकब्रह्मप्राप्तिः फलमित्युक्तं भवति ।।

तद्धैक आहुः एकभूयं वै प्राणा गच्छन्तीति ॥ १८ ॥

उपास्यमानस्य प्राणस्य प्राणान्तरापेक्षया श्रेष्ठ्यं वक्तुं पूर्वपक्षमाह । तद्धैके…… गच्छन्तीति। मुख्यप्राणश्चेतराणि चेन्द्रियाणि एकैकस्मिन् कार्ये कर्तव्ये परस्परसाह्यलक्षणमेकभावं यान्ति । अतो मुख्यप्राणस्य प्राणान्तरसाम्यमेवेति केचिदाहुरित्यर्थः ।।

न हि कश्चन शक्नुयात् सकृद्वाचा नाम प्रज्ञापयितुम् , चक्षुषा रूपम् , श्रोत्रेण शब्दम् , मनसा ध्यातुमिति ॥ १९ ॥

तत्रोपपत्तिरुच्यते । न हि ध्यातुमिति । न हीन्द्रियजातं युगपदेव स्वकार्यं जनयितुमीष्ट इत्यर्थः॥

एक भूयं वै प्राणा एकैकं सर्वाण्येतानि प्रज्ञापयन्ति ॥ २० ॥

फलितमाह । एकभूयं..प्रज्ञापयन्ति। तस्मात् सर्वे प्राणा एकत्वं प्राप्य एकैकं सर्वाण्येतानि नामरूपशब्दादीनि प्रज्ञापयन्ति ॥

[प्राणजीवयोः एककार्यकरत्वम् ]

वाचं वदन्तीं सर्वे प्राणा अनुवदन्ति ।। २१ ।।

चक्षुः पश्यत् सर्वे प्राणा अनुपश्यन्ति । श्रोत्रं शृण्वत् सर्वे प्राणा अनुशृण्वन्ति । मनो ध्यायत् सर्वे प्राणा अनुध्यायन्ति । प्राणं प्राणन्तं सर्वे प्राणा अनुप्राणन्तीति । एवमुहैतदिति हेन्द्र उवाच ॥ २२ ॥

तदेव प्रपञ्चयति – वाचं…….अनुवदन्ति । सहायतया तिष्ठन्ति इत्यर्थः । एवमुत्तरत्रापि ।।

अस्ति त्वेव प्राणानां निश्श्रेयसम् ।। २३ ।।

अथापि मुख्यप्राणस्य विशेषं दर्शयति – प्राणानां मध्ये मुख्यप्राणस्य श्रेष्ठ्यमस्तीत्यर्थः ।।

[मुख्यप्राणस्य वैशिष्ट्यम् ]

जीवति वागपेतः, मूकान् हि पश्यामः ।। २४ ।।

तदेव प्रपञ्चयति – जीवति वागिन्द्रियराहित्येऽपि शरीरधारणमस्ति ; मूकानां दर्शनात् । एवमुत्तरत्रापि द्रष्टव्यम् ।।

जीवति चक्षुरपेतः ; अन्धान् हि पश्यामः । जीवति श्रोत्रापेतः ; बधिरान् हि पश्यामः । जीवति बाहुच्छिन्नः, जीवति उरश्छिन्नः इति ; एवं हि पश्यामः ।। २५ ।।

छिन्नोरस्को जीवति, छिन्नबाहुर्जीवतीति एवं ह्यनुभूयते ।।

अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति ।। २६ ।।

अथखलुशब्दः प्रसिद्धौ । मुख्यप्राण एव प्रज्ञात्मा । प्रज्ञाशब्दोऽत्र जीवपरः । स आत्मा सहायो यस्य स प्रज्ञात्मा । जीवसहायको मुख्यप्राण एव मृतप्रायं शयानं शरीरं परितो गृहीत्वा उत्थापयति ।।

तस्मादेतदेवोक्थमुपासीत ।। २७ ।।

तस्मादितरेन्द्रियाणि परित्यज्य मुख्यप्राणमेवोत्थापयितृत्वगुणविशिष्टमुपासीत ।।

यो वै प्राणः सा प्रज्ञा । या वै प्रज्ञा, स प्राणः । सह ह्येतावस्मिन् शरीरे वसतः ; सहोत्क्रामतः ।। २८ ॥

अत्रापि प्रज्ञाशब्देन जीव उच्यते । जीवप्राणावस्मिन् शरीरे सह वसतः ; सहोत्क्रामतः । ततो हेतोः जीव एव प्राणः ; प्राण एव जीवः ; उभावप्येककार्यकरावित्यर्थः । अतः परमात्मनः प्राणशरीरकत्वेन जीवशरीरकत्वेन चानुसन्धान युक्तमिति भावः ।।

तस्यैषैव दृष्टिः एतद्विजानाति ।। २९ ।।

तस्य मुख्यप्राणस्य ज्ञातृरूप आत्मा दृष्टिः – दर्शनसाधनम् । जडस्य प्राणस्य ज्ञातृरूपजीवसाहित्यादेव उत्थापनादिकार्यकरत्वादिति भावः ।।

यत्रैतत्पुरुषः सुप्तः स्वप्नं न ‘कथञ्चन पश्यति, अथास्मिन् प्राण एवैकधा भवति ॥ ३० ॥

यत्र – यदा एतत्पुरुषः – एष पुरुषः सुप्तस्सन् न कञ्चन स्वप्नं पश्यति, अथ – तदेत्यर्थः । अस्मिन् प्राणे – प्राणशरीरके परमात्मनि अयं सुप्तः पुरुषः एकधा भवति । एकधाभावप्रकारश्चोत्तराध्याये वक्ष्यते ॥

तदैनं वाक् सर्वैर्नामभिः सहाप्येति ।। ३१ ।।

परमात्मनैकीभूते जीवे स्वकार्येण नामाभिलपनेन सह वागिन्द्रियं लीनं भवति इत्यर्थः ॥

चक्षुः सर्वैः रूपैः सहाप्येति ॥ ३२ ।।

अत्र रूपशब्दो रूपज्ञानौपयिकव्यापारपरः । एवमुत्तरत्रापि द्रष्टव्यम् ।।

श्रोत्रं सर्वैः शब्दैः सहाप्येति । मनः सर्वैः ध्यानैः सहाप्येति ॥ ३३ ॥

ध्यानैः – ध्यानौपयिकव्यापारैरित्यर्थः । शिष्टं स्पष्टम् ।।

स यदा प्रतिबुध्यते – यथाऽग्ने: विस्फुलिङ्गा विप्रतिष्ठेरन् , एवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते ; प्राणेभ्यो देवाः ; देवेभ्यो लोकाः ॥ ३४ ॥

प्राणाः – जीवाः ; देवाः – इन्द्रियाणि ; लोकाः – ज्ञानानि ॥

तस्यैषैव सिद्धिः ॥ ३५ ॥

तस्य – एवम्भूतस्य मुख्यप्राणस्य सिद्धिः – कार्यसाधकम् ।।

एतद्विज्ञानम् ।। ३६ ॥

एतस्य जीवस्य यत् विज्ञानम् , तदेव साधकम् । अथवा विज्ञानलक्षणमेतदात्मत्वं साधकमित्यर्थः । प्राणजीवौ एकतामापन्नौ एककार्यसाधकाविति यावत् ।।

तस्यैषैव दृष्टिः ।। ३७ ॥

तस्यैषैव दृष्टिः एतद्विजानाति इत्युक्त एवार्थोऽनेनापि वाक्येन दार्ढ्यायोक्तः ।।

यत्रैतत्पुरुष आर्तो मरिष्यन् आबल्यं न्येति मोहं न्येति, तदाहुः उदक्रमीञ्चित्तम् । न शृणोति ; न पश्यति, न वाचा वदति – अथास्मिन् प्राण एवैकधा भवति ।। ३८ ॥

सुप्तौ मुख्यप्राणस्येतरप्राणाप्ययोद्गमनापादानहेतुत्वमुक्त्वा मूर्छायामपि तदाह – यत्रैतत्…भवति। यदा एष पुरुषः व्याध्यादिना पीडितो मरिष्यन् आबल्यम् – अबलस्य भावं आबल्यम् बलराहित्यंन्येति – नितरामेति गच्छति । मोहं – मूर्छा न्येति – प्राप्नोति ; तदा समीपवर्तिनः आहुः, चित्तमुदक्रमीत् । मनः निलीनमित्यर्थः । तत्र हेतुः न शृणोति न पश्यति न वाचा वदति इति । अथ – तदा अस्मिन् प्राणे – प्राणशरीरके परमात्मनि ऐकध्यं प्रयातीत्यर्थः ।।

तदैनं वाक् सर्वैर्नामभिः सहाप्येति । ‘चक्षुः सर्वैः रूपैः सहाप्येति, श्रोत्रं सर्वैः शब्दैः सहाप्येति, मनः सर्वैर्ध्यानैः सहाप्येति । स यदा प्रतिबुध्यते ॥ ३९ ॥

स यदा…… प्रतिबुध्यते । आयुश्शेषौषधवशादित्यर्थः ।।

यथाऽग्नेः विस्फुलिङ्गा विप्रतिष्ठेरन् , एवमेवैतस्मादात्मनः प्राणाः यथायतनं विप्रतिष्ठन्ते, प्राणेभ्यो देवाः, देवेभ्यो लोकाः ॥ ४० ॥

उत्क्रान्तावपि मुख्यप्राणस्य सर्वोपजीव्यतामाह यथाग्नेः ……लोकाः इति ॥

स यदाऽस्माच्छरीरादुत्क्रामति वागस्मात् सर्वाणि नामान्यभिविसृजते वाचा सर्वाणि नामान्याप्नोति स प्राणः ॥ ४१ ॥

स – प्राणः यदाऽस्माच्छरीरात् उत्क्रामति, तदा वागिन्द्रियमेतच्छरीरप्रयुक्तनामाद्यभिलपनं त्यजति ।।

वाचा सर्वाणि नामान्याप्नोति ॥ ४२ ॥

यत्र प्राणः स्वयं तिष्ठति, तत्रैव शरीरे स्वोपकरणभूतवागिन्द्रियेण सर्वनामाभिलपनरूपं व्यवहारं करोति । एवमुत्तरत्रापि द्रष्टव्यम् ॥

घ्राणजन्यज्ञानेन सर्वान् गन्धानभिविसृजते । घ्राणेन सर्वान् गन्धानाप्नोति ॥ ४३ ॥

घ्राणजन्यज्ञानेन सर्वान् गन्धान् विषयीकरोतीत्यर्थः ।।

चक्षुरस्मात् सर्वाणि रूपाण्यभिविसृजते । चक्षुषा सर्वाणि रूपाण्याप्नोति । श्रोत्रमस्मात् – सर्वान् शब्दानभिविसृजते । श्रोत्रेण सर्वान् शब्दानाप्नोति । मनोऽस्मात् सर्वाणि ध्यानान्यभिविसृजते । मनसा सर्वाणि ध्यानान्याप्नोति । सैषा प्राणेन सर्वाप्तिः ॥ ४४ ॥

सर्वेषां विषयाणां प्राणाधीनेन्द्रियजन्यज्ञानविषयत्वलक्षणा प्राणकर्तृकसर्वाप्तिरित्यर्थः ।।

यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः । सह ह्येतावस्मिन् शरीरे वसतः ; सहोत्क्रामतः ॥ ४५ ॥

उक्तोऽर्थः ।।

अथ खलु यथा प्रज्ञायां सर्वाणि भूतान्येकीभवन्ति, तद् व्याख्यास्यामः – वागेवास्या एकमङ्गमुदूढम् , तस्या नाम पुरस्तात् प्रतिविहिता भूतमात्रा ॥ ४६ ॥

प्राणस्य सर्वभूताश्रयत्वमुक्त्वा प्रज्ञाशब्दितस्य जीवस्य सर्वभूताश्रयत्व “प्रकारः” कथ्यत इत्याह – अथ खलु ……. व्याख्यास्यामः इति । वागेव…… उदूढम् । अस्याः – प्रज्ञायाः वागिन्द्रियमेकमङ्गम् – उदूढं – परिगृहीतमित्यर्थः । उद्वाहकर्मभूतपत्नीवत् परिगृहीतमित्यर्थः ; वस्तुतः तस्याङ्गाभावात् । तस्या नाम…… भूतमात्रा । तस्याः – वाचः पुरस्तात् – ग्राह्यत्वेन विषयत्वेन प्रतिविहिता –  प्रतिद्वंद्वितया प्रतिनियततया विहिता भूतमात्रा नाम । एवमुत्तरत्रापि द्रष्टव्यम् ।।

घ्राणमेवास्या एकमङ्गमुदूढम् , तस्य गन्धः पुरस्तात् प्रतिविहिता भूतमात्रा। चक्षुरेवास्या एकमङ्गमुदूढम् । तस्य रूपं पुरस्तात् प्रतिविहिता भूतमात्रा। श्रोत्रमेवास्या एकमङ्गमुदूढम् , तस्य शब्दः पुरस्तात् प्रतिविहिता भूतमात्रा। जिह्वैवास्या एकमङ्गमुदूढम् । तस्यान्नरसः पुरस्तात् प्रतिविहिता भूतमात्रा। हस्तावेवास्या एकमङ्गमुदूढम् , तयोः कर्माणि पुरस्तात् प्रतिविहिता भूतमात्रा। शरीरमेवास्या एकमङ्गमुदूढम् , तस्य सुखदुःखे पुरस्तात् प्रतिविहिता भूतमात्रा। उपस्थ एवास्या एकमङ्गमुदूढम् , तस्यानन्दो रतिः प्रजातिः पुरस्तात् प्रतिविहिता भूतमात्रा ॥ ४७ ।।

प्रजाति: – प्रजननमित्यर्थः ।।

पादावेवास्या एकमङ्गमुदूढम् , तयोरित्याः पुरस्तात् प्रतिविहिता भूतमात्रा ॥ ४८ ।।

इत्या: – गमनानीत्यर्थः ।।

प्रज्ञैवास्या एकमङ्गमुदूढम् , ‘तस्यै धियो विज्ञातव्यं कामाः पुरस्तात् प्रतिविहिता भूतमात्रा ॥ ४९ ॥

अथ प्रथमान्तः प्रज्ञाशब्दः मनःपरः, अस्या इति तु प्रज्ञारूपजीवपरः । उत्तरत्र, नेत्यां विजिज्ञासीत नेतारं विद्यात् इत्यनन्तरम् , न मनो विजिज्ञासीत इति मनश्शब्दप्रयोगात् स्थानप्रमाणेन प्रज्ञाशब्दस्य मन एवार्थः । धियो विज्ञातव्यम् मनोजन्यज्ञानविषयमित्यर्थः । कामाः – काम्यमाना इत्यर्थः ।।

प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति ।। ५० ॥

एवं नामगन्धरूपशब्दरसकर्मसुखदुःखानन्दगतिज्ञातव्याः दशभूतमात्राः वाग्घ्राणादिविषयत्वेनोक्त्वा प्रज्ञाशब्दितस्य जीवस्य नामादिदशविधभूतमात्राव्याप्तिप्रकारमाह – प्रज्ञाया वाचं……….। अत्र प्रज्ञाशब्दः अव्यवहितप्रज्ञाशब्दनिर्दिष्टमनःपरः । ततश्च मनसा वागिन्द्रियमधिष्ठाय तद्द्वारा सर्वाणि नामानि अभिलपनक्रियाद्वारा प्राप्नोति ।।

प्रज्ञया घ्राणं समारुह्य घ्राणेन सर्वान् गन्धानाप्नोति ।। ५१ ।।

प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति ॥ ५२ ॥

प्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वान् शब्दानाप्नोति । प्रज्ञया जिह्वां समारुह्य सर्वानन्नरसानाप्नोति । प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां ‘कर्माण्याप्नोति । प्रज्ञया शरीरं ‘समारुह्य उपस्थेनाऽऽनन्दं रतिं प्रजातिमाप्नोति । प्रज्ञया पादौ समारुह्य पादाभ्यां सर्वा इत्या आप्नोति । प्रज्ञयैव धियं समारुह्य प्रज्ञयैव धियो विज्ञातव्यं कामानाप्नोति ॥ ५३ ॥

मनसा घ्राणेन्द्रियमधिष्ठाय तद्द्वारा सर्वान् गन्धान् आप्नोति – ज्ञानेन व्याप्नोति । एवमुत्तरत्रापि द्रष्टव्यम् , मनसा चक्षुरिन्द्रियमधिष्ठाय तद्द्वारा सर्वाणि रूपाण्याप्नोतीति ज्ञानेन व्याप्नोतीति ।।

न हि प्रज्ञापेता वाक् नाम किञ्चन प्रज्ञापयेत् ॥ ५४ ॥

ननु मनोद्वारा नियमनं किमर्थमित्याशङ्क्याह – न हि…..प्रज्ञापयेता न हि मनोनधिष्ठितं वागिन्द्रियं नामप्रज्ञापनसमर्थ भवतीत्यर्थः ।।

अन्यत्र मे मनोऽभूदित्याह, नाहमेतन्नाम ‘प्राज्ञासिषमिति’ ॥ ५५ ॥

न हि प्रज्ञापेतो घ्राणो गन्धं कञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतं गन्धं प्राज्ञासिषमिति । न हि प्रज्ञापेतं चक्षूरूपं किञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूद इत्याह, नाहमेतद्रूपं प्राज्ञासिषमिति । न हि प्रज्ञापेतं श्रोत्रं शब्दं कञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतं शब्दं प्राज्ञासिषमिति । न हि प्रज्ञापेता जिह्वा अन्नरसं कञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतमन्नरसं प्राज्ञासिषमिति । न हि प्रज्ञापेतौ हस्तौ कर्म किञ्चनप्रज्ञापयेताम् । अन्यत्र मे मनोऽभूदित्याह, नाऽहमेतत् कर्म प्राज्ञासिषमिति । न हि प्रज्ञापेतं शरीरं सुखदुःखे किञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतत् सुखदुःखे प्राज्ञासिषमिति । न हि प्रज्ञापेत उपस्थः आनन्दं रति प्रजातिं कञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतमानन्दं रतिं प्रजातिं प्राज्ञासिषमिति । न हि प्रज्ञापेतौ पादावित्यां काञ्चन प्रज्ञापयेताम् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतामित्यां प्राज्ञासिषमिति । न हि प्रज्ञापेता धीः काचन सिद्ध्येत् ।। ५६ ॥

अत्र लोकमेव साक्षित्वेनोदाहरति – अन्यत्र मे…… इति । लोको हि अन्यत्र मे मनोऽभूदित्युक्त्वा, एतन्नाम न प्राज्ञासिषम् इति ह्याह । मनोव्यासङ्गवशात् ज्ञानपूर्वकनामाभिलपनलक्षणवागिन्द्रियव्यापारो नाभूदिति हि लोकः प्रत्येतीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ।।

न प्रज्ञातव्यं प्रज्ञायेत ।। ५७ ॥

एवं प्रज्ञाशब्दितस्य जीवस्य भूतमात्राव्याप्तिप्रकारकथनमुखेन आत्मानात्मविवेकं प्रदर्श्य, अन्या वाचो विमुञ्चथ (मुं.उ. २-२-५) इत्युक्तरीत्या भूतमात्राशब्दितानात्मविज्ञानं परिहर्तव्यमित्याह – न प्रज्ञातव्यं प्रज्ञायतेति । ज्ञात्रात्मव्यतिरिक्तः अनात्मभूतो विषयो न ज्ञातव्य इत्यर्थः ।।

न वाचं विजिज्ञासीत ; वक्तारं विद्यात् ॥ ५८ ।।

तदेव प्रपञ्चयति – न वाचं…… विद्यात् इति । अत्र वाक्छब्दः प्रकरणानुगुण्यात् नामपरः । वक्तारम् – उक्तरीत्या मनोधिष्ठितवागिन्द्रियजन्याभिलपनक्रियया नामव्याप्तारमात्मानमेव विद्यात् । वक्तृजीवशरीरकपरमात्मानं विद्यादिति यावत् । एवमुत्तरत्रापि द्रष्टव्यम् ।

न गन्धं विजिज्ञासीत ; घातारं विद्यात् । न रूपं विजिज्ञासीत ; रूपं विद्वांसं विद्यात् ।। ५९ ।।

रूपं विद्वांसं रूपं पश्यन्तं विद्यादित्यर्थः ।।

न शब्दं विजिज्ञासीत ; श्रोतारं विद्यात् । नान्नरसं विजिज्ञासीत ; अन्नरसविज्ञातारं विद्यात् । न कर्म विजिज्ञासीत ; कर्तारं विद्यात् । न सुखदुःखे विजिज्ञासीत ; सुखदुःखयोर्विज्ञातारं विद्यात् । नानन्दं न रतिं न प्रजातिं विजिज्ञासीत ; आनन्दस्य रतेः प्रजातेर्विज्ञातारं विद्यात् । नेत्यां विजिज्ञासीत ; एतारं विद्यात् । न मनो विजिज्ञासीत ; मन्तारं विद्यात् । ता वा एता दशैव भूतमात्रा: अधिप्रज्ञम् , दश प्रज्ञामात्रा अधिभूतम् । यद्धि (यदि) भूतमात्रा: न स्युः, प्रज्ञामात्रा: न स्युः । यदि प्रज्ञामात्रा न स्युः, न भूतमात्राः स्युः । न ह्यन्यतरतो रूपं किञ्चन सिद्ध्येत् । नो एवैतन्नाना ।। ६०॥

नामगन्धरूपशब्दरसकर्मसुखदुःखानन्दरतिप्रजातीत्याज्ञातव्यलक्षणा दश भूतमात्राश्च,  तद्ग्राहि वाग्ध्राणचक्षुश्रोत्रजिह्वाहस्तशरीरोपस्थपादमनोलक्षणाः दश प्रज्ञामात्राश्चान्योन्याधाराः । वागादीन्द्रियाणां अभावे नामादिसिद्धेरभावेन वागादिलक्षणप्रज्ञामात्राधीनसिद्धिकत्वात् नामादिभूतमात्राणाम् ; नामादिभूतमात्राणामभावे तद्व्यवहारफलकप्रज्ञामात्राशब्दित इन्द्रियाद्यनिष्पत्तेः । अतो ग्राह्यग्राहकोभयाधीनत्वात् सर्वलोकयात्रायाः नो एवैतन्नाना । नानाशब्दो विनार्थकः । एतत् ग्राह्यग्राहकजातं परस्पराविनाभूतमित्यर्थः । न हि ब्राह्मेण विनाकृतं ग्राहकं, ग्राहकेण विनाकृतं ग्राह्यं कार्यक्षमं भवति । तस्मात् प्रज्ञामात्राशब्दितमतिभूतमात्रान्तर्गतमित्यर्थः॥

तद् यथा रथस्यारेषु नेमिरर्पिता, नाभावरा अर्पिताः, एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्राः प्राणेऽर्पिताः ॥ ६१ ।।

यथा रथस्य नाभौ रथचक्रमध्यवर्तिसरन्धकाष्ठविशेषे अरशब्दिता अर्पिताः ; अत्र नेमिशब्दितं वलयाकारं काष्ठं यथा अर्पितम् – एवं प्राणशब्दितपरमात्मनि प्रज्ञामात्राशब्दनिर्दिष्टाश्चेतना अर्पिताः । तेषु च भूतमात्राशब्दितग्राह्यग्राहकजातं सर्वं समर्पितमित्यर्थः ।

नन्वत्र प्रज्ञामात्राशब्देन, यद्धि भूतमात्रा न स्युः न प्रज्ञामात्राः स्युः, यदि प्रज्ञामात्रा न स्युः न भूतमात्रा: स्युरिति पूर्ववाक्ये प्रज्ञामात्राशब्दनिर्दिष्टानां वागादीनां दशानामेव ग्रहणमुचितम् । न तु प्रज्ञात्माशया, यो वै प्राणः सा प्रज्ञा इति व्यवहितकेवलप्रज्ञाशब्दनिर्दिष्टजीवपरत्वमिति चेन्न । पूर्ववाक्ये अन्योन्याधाराधेयभावप्रतिपादनदर्शनात् । तत्र प्रज्ञामात्राशब्दस्य वागादिपरत्वेऽपि इह प्रज्ञामात्राशब्द निर्दिष्टस्य भूतमात्राश्रितत्वाप्रतिपादनात् प्राणशब्दितपरमात्माश्रितत्वस्यैव प्रतिपादनात् प्रज्ञामात्राशब्दो जीवपर एव । पूर्ववाक्ये बाधकबलात् प्रज्ञाशब्दस्य मुख्यार्थत्यागेऽपि इह मुख्यार्थत्यागे कारणाभावात्’ । यथाऽस्मिन् प्रकरणे, यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः, अथास्मिन् प्राण एवैकधा भवति, एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते इति त्रिष्वपि वाक्येषु मुख्यप्राणपरमात्मजीवपरत्वेन भिन्नार्थकत्वम् ; एवं, प्रज्ञैवास्या एकमङ्गमुदूढम् इत्यत्र न हि प्रज्ञापेता वाङ् नाम किञ्चित् प्रज्ञापयेत् , दशैव भूतमात्रा अधिप्रज्ञम् इति वाक्येषु जीवमनइन्द्रियरूपार्थत्रयविषये दृष्टप्रयोगस्य प्रज्ञाशब्दस्य अर्थोचित्यानुसारेणैवार्थस्य वर्णनीयत्वात् । न चैकवचनान्तप्रज्ञाशब्द निर्दिष्टस्य बहुवचनान्तप्रज्ञामात्राशब्देन परामर्शो न युक्त इति वाच्यम् – सद्विद्यायाम् , स्वमपीतो भवति इत्येकवचनान्तशब्दनिर्दिष्टस्य जीवस्य, सति संपद्य न विदुः इति बहुवचनान्तशब्देन निर्देशवदुपपत्तेः । एतत् सर्वं श्रुतप्रकाशिकायामिन्द्रप्राणाधिकरणे स्पष्टम् ।।

स एष प्राण एव प्रज्ञात्मा प्राज्ञ आत्मा आनन्दोऽजरोऽमृतः ॥ ६२ ॥

प्रज्ञ एव प्राज्ञः । निरुपाधिकसार्वज्ञ्याश्रयः निरुपाधिकानन्दत्वाजरत्वामृतत्वाश्रयः ॥

स न साधुना कर्मणा भूयान्; नो एवासाधुना कर्मणा कनीयान् ।। ६३ ॥

पुण्यपापकृतोत्कर्षापकर्षशून्य इत्यर्थः ॥

एष ह्येवैनं साधु कर्म कारयति तम् , यमेभ्यो लोकेभ्य उन्निनीषति ।। ६४ ॥

यं पुरुषं एभ्योऽण्डान्तर्गतेभ्यः लोकेभ्यः ऊर्ध्वं भगवल्लोकं नेतुमिच्छति, तं पुरुषं भगवल्लोकप्राप्तये साधुकर्म कारयति । कर्मणां भगवल्लोकप्राप्त्युपयोगित्वञ्च तद्धेतुभूतविद्याविरोधिपापनिरसनद्वारा ॥

एष होवैनमसाधु कर्म कारयति यमधो निनीषति ॥ ६५ ॥

यं पुरुषमेभ्यो लोकेभ्यः अधःपातयितुमिच्छति, तमसाधु कर्म कारयति । यथा साधुकर्मणां ब्रह्मोपासननिष्पादनद्वारा उन्नयनहेतुत्वम् , एवमसाधुकर्मणामप्युपासनप्रतिबन्धद्वारा अधोनयनहेतुत्वम् । उक्तश्च भगवता भाष्यकृता, पापस्य ज्ञानोदयविरोधित्वम् , एष एवासाधु कर्म कारयति तं यमधो निनीषति इति श्रुत्याऽवगम्यते इति । विवृतञ्च व्यासार्यै:, कर्मणामुन्नयनहेतुत्वमुपासननिष्पादनरूपमिति तद्विपरीतमधोनयनमुपासनप्रतिबन्धरूपमिति स्फुटतरमवगम्यते इति ।

एष लोकपाल एष लोकाधिपतिरेष सर्वेशः ॥ ६६ ॥

लोकपालः – लोकरक्षकः । अत्र व्यासार्याः, लोकाधिपतिः – लोकस्वामी । सर्वेश: सर्वनियन्ता । ननु पा रक्षणे (धा.पा. १०५६) इति धातोः पतिशब्दः । तत् कथमत्र शेषिवाचित्वम् ? उच्यते न हि सर्वत्रावयवशक्तिरेव रूढिशक्तिरित्यस्ति । गमेर्डो इति व्युत्पत्त्या गोशब्दस्य सकलजङ्गमवाचित्वप्रसङ्गात् ; स्थिताया गोः अवाचकत्वप्रसङ्गाच्च । अतः शेषिणि पतिशब्दो रूढः । अन्यथा, वृद्धौ च मातापितरौ साध्वी भार्यासुतः शिशुः। अप्यकार्यशतं कृत्वा भर्तव्या मनुरबवीत् ॥ (म.स्मृ. ११-१०/१) इति पितुः संरक्षके पुत्रे पतिशब्दव्यवहारप्रसङ्गात् इत्यूचुः ।।

स म आत्मेति विद्यात् । स म आत्मेति विद्यात् ।। ६७ ॥

॥ इति तृतीयोऽध्यायः॥

पूर्वोक्तगुणविशिष्टः स्वान्तर्यामीति प्रतिपत्तव्यः । यद्वा अस्मिन्नेव वाक्ये  पूर्वोक्तत्वाष्ट्रहननादि- कृतलेपशून्यत्ववक्तृत्वघ्नातृत्वादिगुणकजीवविशिष्टतया आयुष्ट्वेन्द्रियनिश्श्रेयसहेतुत्वशरीरोत्थापकत्वादि- गुणविशिष्ट प्राणविशिष्टतया आनन्दत्वामृतत्वादिस्वरूपेण च विशिष्टस्य स्वात्मत्वेनोपासनं विधीयते । एवं सति अनेकोपासनाविधानकृतवाक्यभेदशङ्काया नावकाश इति द्रष्टव्यम् । द्विरुक्तिरध्यायपरिसमाप्त्यर्था ।

[इन्द्रप्राणाधिकरणविचारः]

इदञ्च वाक्यं समन्वयाध्याये प्रथमपादे चिन्तितम् – प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व इत्यत्र मामिति शब्देन प्राणशब्देन च निर्दिश्यमान इन्द्र एव । इन्द्रप्रयुक्तस्य मामिति शब्दस्य तद्विषयत्वावश्यम्भावात् इति पूर्वपक्षे प्राप्ते – उच्यते । प्राणस्तथाऽनुगमात् । (ब.सू. १-१-२९) प्राणः – परमात्मा । परमात्मत्वसाधकानन्दत्वादिमत्त्वेन तस्यास्मिन् प्रकरणे अनुगतत्वात् । स एष प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृतः इति श्रूयते । न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् । (ब.सू.१-१-३०), त्वाष्ट्रवधादिना प्रज्ञातजीवभावस्येन्द्रस्य वक्तुः मामेव विजानीहि इति स्वात्मत्वेनोपदिश्यमानः नेन्द्रात् जीवादधिको भवितुमर्हतीति चेन्न – अस्मिन् प्रकरणे परमात्मसंबन्धिनां धर्माणां बहुत्वमुपलभ्यते । हिततमोपासनकर्मत्वम् , साध्वसाधुकर्मकारयितृत्वम् , भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः इति अचेतनवर्गाधारचेतनवर्गाधारत्वमानन्दत्वमजरत्वममृतत्वं लोकाधिपतित्वम् एवमादयो हि धर्माः परमात्मसंबन्धिन उपलभ्यन्ते । अतो भूयोधर्मानुग्रहायास्य प्रकरणस्य परमात्मपरत्वमेव वक्तव्यम् । तर्हि इन्द्रस्य मामुपास्स्व इति निर्देशः कथमुपपद्यत इत्यवाह – शास्त्रदृष्ट्या तूपदेशो वामदेववत् । (ब्र.सू. १-१-३१) य आत्मनि तिष्ठन् आत्मनोऽन्तरः (बृ.उ.मा.पा. ३,५-७-२२,३०) इत्यादिशास्त्रेण परमात्मानं स्वात्मानं दृष्ट्वा शरीरवाचिनाञ्च शब्दानां शरीरिपर्यन्ततां ज्ञात्वा, मामुपास्स्वेत्युपदिष्टवान् । यथा हि साक्षात्कृतस्वात्मभूतपरमात्मतत्त्वो वामदेवः, अहं मनुरभवं सूर्यश्च (ऋग्वेद.सं. ४-२६-१) इति स्वात्मनि मन्वादिभावमुपदिष्टवान् – न हि तत्र मन्वादिभावः स्वस्वरूपगतो वामदेवेनोपदिष्टः ; अपि तु स्वात्मभूतपरमात्मगतः तद्वदेवायमुपदेश इति भावः । जीवमुख्यप्राणलिङ्गात्रेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् । (ब्र.सू.१-१-३२) त्वाष्ट्रवधवक्तृत्वादिजीवलिङ्गानाम् आयुःप्रभुत्वशरीरोत्थापकत्वेन्द्रियाश्रयत्वादीनां मुख्यप्राणलिङ्गानां चोपन्यासः किमर्थ इति चेत् – इन्द्ररूपजीवशरीरकतया प्राणरूपाचेतनशरीरकतया स्वरूपेण चोपासनार्थं चेतनाचेतनधर्माणां ब्रह्मधर्माणाञ्च कीर्तनम् । त्रिविधञ्चोपासनं प्रकरणान्तरेष्वप्याश्रितम् , यथा तैत्तिरीयके, सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आन. २-१) इति स्वरूपेण, सच त्यचाभवत् (तै.उ.आन, ६-३) इति भोक्तृभोग्यलक्षणचेतनाचेतनशरीरकतया चोपासनम् । एवमिहाप्युपासनात्रैविध्यं युज्यत इति स्थितम् ।।

॥ इति तृतीयाध्यायप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.