कौषीतकिब्राह्मणोपनिषत्
[ऋग्वेदीयोपनिषत्]
प्रकाशिका
श्रीमद्रङ्गरामानुजमुनीन्द्रानुगृहीता
चतुर्थोऽध्यायः
गार्ग्यो हवै बालाकिरनूचान: संस्पष्ट आस ॥ १ ॥
बलाकस्यापत्यं बालाकिः, गोत्रतो गार्ग्य:, अनूचान: – अङ्गाध्यायी । अङ्गाध्याय्यनूचानः इति स्मृतेः । संस्पष्टः – सम्यक् विद्यया प्रख्यातः एवम्भूतस्सन् आस – बभूव ।।
सोऽवसदुशीनरेषु सत्त्वमत्स्येषु कुरुपाञ्चालेषु काशीविदेहेष्विति ॥ २ ॥
स: – बालाकिः उशीनरेषु सत्त्वप्रचुरमत्स्यदेशेषु कुरुपाञ्चालेषु काशीविदेहेषु उवास – उषितवान् । इतिशब्दः प्रकारवचनः । एवञ्जातीयकेष्वन्येष्वपीत्यर्थः ।।
स हाजातशत्रुं काश्यमेत्योवाच ॥ ३ ॥
अजातशत्रुनामानं “काशीराजम”भिगत्योवाच ।।
ब्रह्म ते ब्रवाणीति । तं होवाचाजातशत्रुः, सहस्रं दद्म एतस्यां वाचि ; जनको जनक इति ह वै जना धावन्ति इति ॥ ४ ॥
किमिति ? ब्रह्म ते ब्रवाणीति । एतस्यामेव वाचि निमित्ते गवां सहस्रं प्रयच्छामि । सर्वेऽपि ब्रह्मविदः, जनक एव ब्रह्म शुश्रूषुः दाता चेति जनकस्य समीपमेव धावन्ति । भवांस्तु मत्समीपमागत्य, ब्रह्म ते ब्रवाणीत्युक्तवान् । अनेनैव वाक्येन तोषिता वयं सहस्रं प्रयच्छाम इति भावः ।।
स होवाच बालाकिः, ‘य एवैष आदित्ये पुरुषः, तमेवाहमुपासे इति’ ॥ ५ ॥
आदित्यमण्डलान्तर्वर्तिनं पुरुषं ब्रह्मेत्यहमुपासे । अतः त्वमपि तमेवोपास्स्वेति भावः ।।
तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । बृहन् पाण्डरवासाः अतिष्ठाः सर्वेषां भूतानां मूर्धेति वा अहमेतमुपासे इति’ ॥ ६ ॥
मा – मां प्रति एतस्मिन् आदित्यवर्तिपुरुषविषये संवादं मा कारय । अज्ञाते हि विषये संवादः कारयितव्यः । अयं तु ज्ञात एव । कथमित्यवाह, बृहन् पाण्डरवासा: सर्वेषां भूतानां मूर्धेति वा अहमेतमुपास इति । वैशब्दोऽवधारणे । बृहन् महान् । पाण्डराणि किरणरूपाणि वासांसि यस्य सः पाण्डरवासाः । आदित्यकिरणानां नानारूपत्वात् पाण्डरवासस्त्वमिति द्रष्टव्यम् । बृहदारण्यके बालाक्यजातशत्रुसंवादे बृहत्त्वपाण्डरवासस्त्वे चन्द्रधर्मतया उक्ते ; इह तु आदित्यधर्मतया उक्ते इति विशेषः । अतिष्ठाः – सर्वमपि कार्यमतिक्रम्य तिष्ठतीति अतिष्ठाः । सर्वेषां भूतानां मूर्धा श्रेष्ठः ॥
स यो हैतमेवमुपास्ते, अतिष्ठाः सर्वेषां भूतानां मूर्धा भवति । स होवाच बालाकिः, य एवैष चन्द्रमसि पुरुषः, तमेवाहमुपास इति । तं होवाचाजातशत्रुः, मा मैतस्मिन् संवादयिष्ठाः । सोमो राजा अन्नस्यात्मेति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते, अन्नस्यात्मा भवति ॥ ७ ॥
तदुपासनस्यानुरूपं फलमाह – अन्नस्य – व्रीहियवादिरूपौषधिवर्गस्य । आत्मा। प्रियत्वाद्वा, चन्द्रमसः सर्वरसात्मत्वेन तत्स्वरूपत्वाद्वा, अमावास्यायां चन्द्रस्य सर्वोषध्यनुप्रवेशश्रवणाद्वा चन्द्रस्य अन्नात्मत्वम्।।
स होवाच बालाकिः, ‘य एवैष विद्युति पुरुषः, तमेवाहमुपासे इति । तं होवाचाजातशत्रुः, मा मैतस्मिन् संवादयिष्ठाः । तेजस्यात्मेति वा अहमेतमुपासे इति’ । स यो हैतमेवमुपास्ते, तेजस्यात्मा भवति ॥ ८॥
तेजस्यात्मा – तेजस्विस्वरूप इत्यर्थः । तेजस आत्मेति पाठेऽपि स एवार्थः ।।
स होवाच बालाकिः, य एवैष स्तनयित्नौ पुरुषः, तमेवाहमुपासे इति । तं होवाचाजातशत्रुः, मा मैतस्मिन् संवादयिष्ठाः । शब्दस्यात्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, शब्दस्यात्मा भवति ॥ ९ ॥
स्तनयित्नुसहितस्य मेघस्य शब्दप्रधानत्वात् शब्दात्मत्वम् । शिष्टं स्पष्टम् ।।
स होवाच बालाकिः, ‘य एवैष आकाशे पुरुषः, तमेवाहमुपासे इति । तं होवाचाजातशत्रुः, मा मैतस्मिन् संवादयिष्ठाः । पूर्णमप्रवर्ति ब्रह्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, पूर्यते प्रजया पशुभिः । नो एव स्वयम् । नास्य प्रजा पुरा कालात् प्रवर्तते ॥ १० ॥
पूर्णत्वविशिष्टोपासानायाः फलम् , पूर्यते प्रजया पशुभिरिति । पूर्णत्वप्रयुक्तनिर्व्या- पारत्वलक्षणाप्रवर्तित्वविशिष्टोपासनायाः फलम् , नो एव स्वयमित्यादि । स्वयमपि, तत्पुत्रपौत्रादिकं वा न शास्त्रानुशिष्टशतायुष्ट्वकालात् प्राक् अस्माल्लोकात् प्रवर्तते । नास्य सन्ततावपमृत्युः भवति इत्यर्थः ।।
स होवाच बालाकिः, ‘य एवैष वायौ पुरुष: तमेवाहमुपासे इति । तं होवाचाजातशत्रुः, मामैतस्मिन् संवादयिष्ठाः । इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास’ इति । स यो हैतमेवमुपास्ते, जिष्णुर्हवा अपराजिष्णुरन्यतस्त्यजायी भवति ।। ११ ॥
इन्द्रः – ईश्वरः । योऽयं पवते एष देवानां गृहाः ( ) इति वायोर्देवलोकत्वप्रसिद्धेः लोकत्वेन वैकुण्ठसादृश्याद्वैकुण्ठत्वम् । मरुतां गणत्वप्रसिद्धेः सेना । जिष्णु: – जयशीलः । अपराजिष्णुः – अपराजितः । अन्यतस्त्यजायी। अन्यतो भवा अन्यतस्त्याः । शत्रव इति यावत् । तान् जेतुं शीलमस्य । सुप्यजातो….. (पा.सू.३-५-७८) इति णिनिः । शिष्टं स्पष्टम् ।।
स होवाच बालाकिः, ‘य एवैषोऽग्नौ पुरुषः तमेवाहमुपासे इति । तं होवाचाजातशत्रू:, मा मैतस्मिन् संवादयिष्ठाः । विषासहिरिति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, विषासहिर्हैवैष भवति ॥ १२ ॥
विषासहिः । सोढुमशक्यः शत्रुभिरित्यर्थः । मर्षयितेति वाऽर्थः ।।
स होवाच बालाकिः, ‘य एवैषोऽप्सु पुरुषः, तमेवाहमुपास इति । तं होवाचाजातशत्रुः, मा मैतस्मिन् संवादयिष्ठाः । नाम्नस्त्वात्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, नाम्नस्त्वात्मा भवति’ ।। १३ ।।
नाम्नस्त्वात्मा। नामाधिष्ठात्री देवतेत्यर्थः । शिष्टं स्पष्टम् ।।
इत्यधिदैवतम् । अथाध्यात्मम् ।। १४ ।।
देवतायामुपासनप्रकार उक्तः । आत्मन्युपासनप्रकार उच्यत इत्यर्थः ।।
स होवाच बालाकिः, ‘य एवैष आदर्श पुरुषः, तमेवाहमुपास’ इति । तं होवाचाजातशत्रुः, मामैतस्मिन् संवादयिष्ठाः । प्रतिरूप इति वा अहमेतमुपास इति । ‘स यो हैतमेवमुपास्ते, प्रतिरूपो हैवास्य प्रजा स्वयमाजायते नाप्रतिरूप:’ ।। १५ ॥
प्रतिरूपः । प्रतिबिम्ब इत्यर्थः । अस्य सन्ततावनुरूप एव पुत्रो जायते । नाननुरूपः । प्रतिबिम्बस्य कार्यकारणसंघातलक्षणात्मशब्दिताभिन्नत्वादध्यात्मान्तर्गतत्वमिति द्रष्टव्यम् ।।
स होवाच बालाकिः, ‘य एवैष प्रतिश्रुत्कायां पुरुषः, तमेवाहमुपास’ इति । तं होवाचाजातशत्रुः, ‘मामैतस्मिन् संवादयिष्ठाः, द्वितीयोऽनपगम इति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते, विन्दते द्वितीयाम् ; द्वितीयवान् भवति’ ॥ १६ ॥
प्रतिश्रुत्कायां – प्रतिध्वनौ । द्वितीयः पूर्वशब्दापेक्षया द्वितीयः । अनपगम: – नापगच्छति इत्यनपगमः। द्वितीयाम् – आत्मापेक्षया द्वितीयां भार्यां विन्दते – लभत इत्यर्थः। द्वितीयवान् भवति। पुत्रेण द्वितीयवांश्च भवतीत्यर्थः । विन्दते द्वितीयमिति पाठे द्वितीयं पुत्रं विन्दते । अनपगमत्वोपासनाफलमुच्यते द्वितीयवान् भवतीति नित्ययोगे मतुप् । नित्यं पुत्रसहितो भवतीत्यर्थः ।।
स होवाच बालाकिः, ‘य एवैष शब्दः पुरुषमन्वेति, तमेवाहमुपासे’ इति । तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः, असुरिति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, नो एव स्वयम् , नास्य प्रजा पुरा कालात् संमोहमेति ।। १७ ॥
पुरुषमन्वेति । गुहादौ पुरुषशब्दानुकारिवर्णात्मकः प्रतिशब्द इत्यर्थः । असुरिति वा अहमेतमुपास इति तादृशशब्दस्य प्राणबललभ्यतया असुरित्युपासे इत्यर्थः । नो…… एति । स्वयं वा तत्सन्ततिर्वा अकाले मूर्छा मरणं न प्राप्नोति इत्यर्थः ।।
स होवाच बालाकिः, ‘य एवैष च्छायायां पुरुषः, तमेवाहमुपासे’ इति । तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । मृत्युरिति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, नो एव स्वयम् , नास्य प्रजा पुरा कालात् प्रमीयते’ ॥ १८ ॥
नीलत्वभयङ्करत्वादिमृत्युसादृश्यात् छायापुरुषस्य मृत्युत्वेनोपासनमिति द्रष्टव्यम् ।।
स होवाच बालाकिः, ‘य एवैष शारीरः पुरुषः, तमेवाहमुपासे’ इति । तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । प्रजापतिरिति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, प्रजायते प्रजया पशुभिः’ ॥ १९ ॥
शारीरः । शरीरे अहमित्यभिमन्यमानः पुरुषः शारीरः । तस्य पुत्रपौत्रादिलक्षणप्रजोत्पादकत्व- रक्षकत्वादिना प्रजापतित्वम् । प्रजया पशुभिः प्रजायते । प्रजया पशुभिश्च प्रकृष्टो जायत इत्यर्थः । शिष्टं स्पष्टम् ।।
स होवाच बालाकिः, ‘य एवैष प्राज्ञ आत्मा येनैतत् सुप्तः स्वमायाचरति, तमेवाहमुपासे’ इति । तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । यमो राजेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, सर्वं हास्मा इदं श्रैष्ठ्याय यम्यते’ ॥ २० ॥
प्राज्ञ: – जाग्रद्दशायां प्रज्ञाशाली अयमात्मा एतत्सुप्तः – एतत् सुप्तं यस्य – एतादृशसुप्तिविशिष्टस्सन् – उपरतबाह्येन्द्रिय इति यावत् – येन स्वप्नायाचरति – येन मनसा विशिष्टस्सन् स्वप्नाय प्रवर्तते स्वप्नात् पदार्थान् पश्यति, तत् मनो ब्रह्मोपास इत्यर्थः । यमः – सर्वेन्द्रिययमयितृत्वात् मनसो यमत्वम् , श्रैष्ठ्याय राजत्वं द्रष्टव्यम् । श्रैष्ठ्याय यम्यते । अस्य श्रैष्ठ्याय सर्वमपि भूतजातं यम्यते । यतत इति यावत् ।।
स होवाच बालाकिः, ‘य एवैष दक्षिणेऽक्षन् पुरुषः तमेवाहमुपासे’ इति । ते होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । नाम्न आत्मा अग्नेरात्मा ज्योतिष आत्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, एतेषां सर्वेषामात्मा भवति’ । स होवाच बालाकिः, ‘य एवैष सव्येऽक्षन् पुरुषस्तमेवाहमुपासे’ इति । । होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । सत्यस्यात्मा विद्युत आत्मा तेजस आत्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, एतेषां सर्वेषामात्मा भवति’ ॥ २१ ॥
दक्षिणाक्षिप्रतिबिम्बे नामाग्निज्योतिरात्मत्वदृष्टौ नामाग्निज्योतिरात्मत्वं भवति । सव्याक्षिप्रतिबिम्बे सत्यविद्युत्तेज आत्मत्वबुद्धौ सत्यविद्युत्तेज आत्मत्वं भवति ।।
ततो ह बालाकिस्तूष्णीमास ॥ २२ ॥
उत्तरापरिस्फूर्तेरिति शेषः॥
तं होवाचाजातशत्रुः, ‘एतावन्नु बालाके’ इति ॥ २३ ॥
हे बालाके ! एतावदेव खलु ते विदितमित्यर्थः ।।
एतावद्धीति होवाच बालाकिः ॥ २४ ॥
एतावदेव मे विदितमित्युवाचेत्यर्थः ।।
तं होवाचाजातशत्रुः, ‘मृषा वै किल मा संवादयिष्ठा: ब्रह्म ते ब्रवाणीति’ ॥ २५ ॥
ब्रह्म ते ब्रवाणीति मृषोक्त्या मां मृषैव संवादयिष्ठाः – संवादं कारितवानसि । एतावन्तं कालमब्रह्मवाद एव प्रवृत्त इत्यर्थः ।।
स होवाच, ‘यो वै बालाके एतेषां पुरुषाणां कर्ता, यस्य वैतत् कर्म, स वै वेदितव्यः’ इति ॥ २६ ॥
तर्हि किं तत् वेदितव्यं ब्रह्मेत्यत्राह स होवाच यो वै…..वेदितव्य इति । वैशब्दोऽवधारणे। त्वया ब्रह्मत्वेनोपदिष्टानामादित्यादिपुरुषाणां य: कर्ता – ते यत्कार्यभूताः ; किं विशिष्याभिधीयते ; यस्य प्रत्यक्षादिसन्निधापितं चिदचिदरूपं समस्तं जगत् कर्म – कार्यम् – क्रियत इति व्युत्पत्त्या कर्मशब्दः कार्यवचनः- स एव वेदितव्यः ; न तु त्वदुपन्यस्ता आदित्यादय इति भावः ।।
तत उ ह बालाकिः समित्पाणिः प्रतिचक्राम, उपायानीति ।। २७ ॥
उशब्दोऽवधारणे । हशब्दः प्रसिद्धौ । एवमजातशत्रुणोक्तो बालाकिः गताभिमानो, नीचादप्युत्तमां विद्याम् , आपत्कल्पो ब्राह्मणस्या ब्राह्मणात् विद्योपयोगः इति शास्त्रमनुसृत्य क्षत्रियादप्यजातशत्रोर्विद्यामुपादित्सुः, नानुपसन्नाय ब्रह्मोपदेष्टव्यम् इति शास्वं जानन् समिद्भारहस्तः शिष्यस्सन् , उपगच्छामीति प्रववृते ।।
तं होवाचाजातशत्रुः, ‘प्रतिलोमरूपमेव स्यात् यत् क्षत्रियो ब्राह्मणमुपनयेत् । एहि व्येव त्वा ज्ञापयिष्यामीति’ ॥ २८ ॥
क्षत्रियो ब्राह्मणमुपनयेत् इति यत् , तत् विपरीतरूपमेव स्यात् । अतः एहि त्वामुपनयनमन्तरेणैव ब्रह्म विज्ञापयिष्याम्येव ।।
तं ह पाणावभिपद्य प्रवव्राज ।। २९ ॥
तं बालाकिं पाणौ गृहीत्वा निर्गत इत्यर्थः ।।
[सुप्तप्रबोधनम् ]
तौ ह सुप्तं पुरुषमीयतुः ॥ ३० ॥
तौ- बालाक्यजातशत्रू राजभवने सुप्तं कञ्चित् पुरुषं प्राप्तवन्तावित्यर्थः । बालाक्यधिकरणभाष्ये, तौ ह सुप्तं पुरुषमाजग्मतुः (बृ.उ. ४-१-१५) इत्युदाहृतं वाक्यं बृहदारण्यकगतम् ; नैतच्छाखागतम् । अत एव तत्र व्यासार्यैः, तौ ह सुप्तं पुरुषमीयतुः इति श्रुतिः इत्युक्तम् ॥
तं हाजातशत्रुरामन्त्रयाञ्चक्रे, ‘बृहन् पाण्डरवासः सोमराजन्निति’ ।। ३१ ॥
प्राणो वाव ज्येष्ठः श्रेष्ठश्च (छां.उ. ५-१-१) इति ज्यैष्ठ्यश्रैष्ट्यगुणेन प्राणस्य बृहत्त्वात् बृहन्नित्यामन्त्रणम् । पाण्डरवासस्त्वं च प्राणधर्मः । किं मे वासः (बृ.उ. ८-१-१४) इति प्राणेन पृष्टे, आपो वासः (बृ.उ. ८-१-१४) इति अपां प्राणवासस्त्वोक्तेः । तासाञ्चापाम् , यच्छुक्लम् , तदपाम् (छां.उ. ६-४-४) इति शुक्लवर्णाश्रयत्वात् पाण्डरत्वं युक्तम् । सप्तानब्राह्मणे, अथैतस्य प्राणस्याऽऽपः (बृ.उ. ३-५-१३) शरीरं ज्योतीरूपमसौ चन्द्रः इति प्राणस्य चन्द्रसंबन्धप्रतीतेः लक्षणया सोमेति प्राणस्य संंबोधनम् । प्राणो वै सम्राट् (बृ.उ. ६-१-३) इति श्रवणात् राजन्नित्यामन्त्र्यत इति व्यासार्यैरुक्तम् ।।
स उ ह तूष्णीमेव शिश्ये ॥ ३२ ॥
अनुत्थित एव यथापूर्वमशयिष्टेत्यर्थः ।।
तत उ हैनं यष्ट्या चिक्षेप ॥ ३३ ॥
सुप्तं यष्ट्या ताडितवानित्यर्थः ।।
स तत एव समुत्तस्थौ ॥ ३४ ॥
दण्डताडनादेव समुत्तस्थौ । न तु प्राणनामामन्त्रणादिना इत्यर्थः । प्राणनामभिरामन्त्रणेऽप्यनुत्थानप्रदर्शनं प्राणान्यत्वज्ञापनार्थम् । सुषुप्तिदशायामुपरतव्यापारेभ्यः शरीरेन्द्रियेभ्योऽन्यत्वं सुज्ञानमपि ; तस्यामपि दशायामनुपरतव्यापारात् प्राणादन्यत्वं ज्ञापनीयमिति । प्राणनामभिरामन्त्रणेऽप्यनुत्थानेन दण्डताडनोत्थानेन च जीवस्य प्राणव्यतिरेको दर्शितः ।।
[स्वप्नस्थानविषयकप्रश्नः]
तं होवाचाजातशत्रुः, क्वैष एतद्बालाके पुरुषोऽशयिष्ट ? क्वैतदभूत् ? कुत एतदागादिति ॥ ३५ ॥
एवं देहेन्द्रियमनःप्राणव्यतिरिक्तं जीवं प्रदर्श्य ततोऽतिरिक्तं परमात्मानं बोधयितुमाह तं होवाच…। हे बालाके ! एष पुरुषः अशयिष्ट इत्येतत् क्व इति स्वप्नस्थानप्रश्नः । यद्वा, एतच्छब्दः स्वप्नपरः । अशयिष्टेत्येतत् प्रत्ययार्थमात्रपरम् । क्व एतत् स्वप्नमकृतेत्यर्थः । सर्वथा स्वप्नस्थानप्रश्नः । क्व वा एतदभूदिति सुषुप्तिस्थानप्रश्नः । एतच्छब्दस्य नपुंसकलिङ्गत्वेऽपि प्रकृतवाचिप्रकृतिस्वारस्यात् प्रकृतपुरुषशब्दितजीवपरः । ततश्च क्व सुप्तोऽभूद् इत्यर्थः । कुत एतदागादिति । अत्राप्येतच्छब्दो जीवपर एव । प्रबोधकालीनजीवोद्गमनापादानं किमित्यर्थः। ततश्च जीवस्य स्वप्नस्थानसुषुप्तिस्थानोद्गमनापादानानि पृष्टानि भवन्ति । यद्वा – त्रिष्वपि प्रश्नेषु एतच्छब्दः सप्तम्यन्तः । एतस्मिन् काल इत्यर्थः । सुपां सुलुक् (पा.सू. ७-१-३९) इति सुपः लुक् । एतस्मिन् काले क्व स्वप्नमनुभूतम् ; एतस्मिन् काले क्व सुप्तः ; एतस्मिन् काले कुतो निर्गत इति । एवञ्च त्रयाणामपि एतच्छब्दानामैकरूप्यञ्च सिध्यति ।।
तदु ह बालाकिर्न विजज्ञौ ॥ ३६ ॥
उत्तरं बालाकिर्न ज्ञातवानित्यर्थः ।।
तं होवाचाजातशत्रुः, यत्रैष एतद्बालाके पुरुषोऽशयिष्ट, यत्रैतदभूत् , कुत एतदागात् ॥ ३७॥
तं होवाचाजातशत्रुः इत्यादि । उच्यत इति शेषः ।।
[स्वप्नविषयकप्रश्नस्य उत्तरम् ]
हिता नाम हृदयस्य नाड्यो हृदयात् पुरीततमभिप्रतिष्टन्ति । यथा (च) सहस्रधा केशस्यापि पात: तावदण्व्यः पिङ्गळस्याणिम्ना तिष्ठन्ते शुक्लस्य कृष्णस्य पीतस्य लोहितस्येति । तासु तदा भवति ॥ ३८ ॥
स्वप्नस्थानप्रश्नं प्रतिवक्ति हिता ना तदा भवति – आत्मनो हितावहत्वात् हिता इति प्रसिद्धाः हृदयसंबन्धिन्यो नाड्यः हृदयात् पुरीततं पुरीतदाख्यं हृदयान्तर्वर्तिमांसपिण्डविशेषमाभप्रस्थिता भवन्ति । हृदये पुरीतति नद्धा भवन्ति । ततश्च यथा केशस्यापि सहस्रधा पातः अतिसूक्ष्मः, तावदण्व्यः तथा अण्व्यः – सूक्ष्माः पिङ्गळस्य शुकस्य कृष्णस्य पीतस्य लोहितस्य अन्नपीतादिरसस्य अणिम्ना – लेशेन पूर्णाः तिष्ठन्ति । अतिसूक्ष्मत्वात् लेशेनापि पूर्णाः भवन्ति । तासु नाडीषु तदा स्वप्नकाले आश्रितो भवतीत्यर्थः ॥
[सुषुप्तिविषयकप्रश्नस्य उत्तरम्]
यदा सुप्तः स्वप्नं न कथञ्चन पश्यति, अथास्मिन् प्राण एवैकधा भवति । तदैनं वाक् सर्वैः नामभिः सहाप्येति ; चक्षुः सर्वैः रूपैः सहाप्येति ; श्रोत्रं सर्वैः शब्दैः सहाप्येति ; मनःसर्वेः ध्यानैः सहाप्येतीति ।। ३९ ॥
सुषुप्तिस्थानप्रश्नस्योत्तरमाह यदा सुप्तः…… सहाप्येतीति । सुप्त: – वर्तमाने क्त: – स्वपन् सन् यदा उपरतस्वप्नप्रदर्शनो भवति । यदा शब्दानुरोधात् तदा शब्दोऽध्याहर्तव्यः – अथ स्वप्नानन्तरं अस्मिन् प्राणे प्राणशरीरके परमात्मनि एकधा भवति । एकधाभावो नाम जाग्रदाद्यवस्था- जनितदेहात्माभिमानकृतरागद्वेषादिलक्षणकालुष्यादिराहित्येनावस्थानम् । सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति (छा.उ. १-११-५) इत्यादौ प्राणशब्दस्य परमात्मनि प्रचुरप्रयोगात् , वाजसनेयके समानप्रकरणे, य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते (बृ.उ.६-४-२२) इति आकाशशब्दितस्य सुषुप्त्याधारत्वश्रवणाञ्च आकाशप्राणशब्दयोः परमात्मपरत्वमन्तरेणाविरोधासंभवात् , सता सोम्य तदा संपन्नो भवति, (छा.उ. ६-८-१), सति संपद्य न विदुः, (छां.उ. ६-९-२) प्राज्ञेनात्मना संपरिष्वक्तः (बृ.उ. ६-३-२१) इति परमात्मनः सुषुप्त्याधारत्वस्य श्रुत्यन्तरश्रवणाञ्च प्राणशब्दो योगेन वा अपर्यवसान वृत्त्या वा ब्रह्मपरः । परमात्मनो बुद्धिस्थत्वात् अस्मिन् इति निर्देशोऽप्युपपद्यते । अथ – तदुत्तरक्षण एव परमात्मानम् अपियन्तं जीवं वागादीन्द्रियाण्यपि (तत् ) स्वकार्येण सहापियन्तीत्यर्थः । नामशब्दो नामाभिलपनपरः । रूपशब्दशब्दौ तज्ज्ञानौपयिकव्यापारपरौ । रूपशब्दादीनां सुषुप्तौ लयासंभवात् । इन्द्रियव्यापारोपरतेरेव सुषुप्ति शब्दार्थत्वात् ॥
[ब्रह्मबोधनम् ]
स यदा प्रतिबुध्यते, यथा अग्नेर्विस्फुलिङ्गाः विप्रतिष्ठेरन् , एवमेवैतस्मादात्मनः प्राणाः यथायतनं विप्रतिष्ठन्ते । प्राणेभ्यो देवाः । देवेभ्यो लोकाः ॥ ४० ॥
उद्गमनापादानप्रश्रस्योत्तरमाह – जीवप्रबोधदशायां अग्नेर्विस्फुलिङ्गा इव एतस्मात् परमात्मनः प्राणशब्दिताः जीवाः यथास्थानं प्रस्थिता भवन्ति । तेभ्यश्च देवशब्दितानि इन्द्रियाणि, एतेभ्यश्च लोकशब्दितानि ज्ञानानि भवन्तीत्यर्थः ।।
तद्यथा क्षुरः क्षुरधाने अवहितः स्यात् , विश्वम्भरो वा विश्वम्भरकुलाये, एवमेवैष प्राज्ञ आत्मा इदं शरीरमात्मानमनुप्रविष्टः आ लोमभ्यः आ नखेभ्यः ॥ ४१ ॥
क्षुरो धीयतेऽस्मिन्निति क्षुरधानंक्षुरकोशः। तस्मिन् यथा क्षुरः अवहितः पिहितप्रविष्टः, – विश्वं बिभर्ति वैश्वानराग्न्यादि रूपेण इति विश्वंभरोऽग्निः – तस्य कुलाये नीडे – एवमेवैष परमात्मा इदं पुरोवर्तिशरीरम् आलोमभ्यः आनखेभ्यः । व्याप्त इत्यध्याहारः । व्याप्त्या आत्मानं जीवात्मानमनुप्रविष्टः अन्तर्यामितयाऽनुप्रविष्ट इत्यर्थः । तादृशस्य सुषुप्त्याधारत्वोद्गमनापादानत्वे संभवत इति भावः । यद्वा इदं वाक्यं जीवशरीरपरमेव व्याख्येयम् । आत्मानमिदं शरीरम् – आत्मत्वेनाभिमन्यमानमिदं शरीरम् आलोमभ्यः आनखेभ्यः जीवरूपेण प्रविष्ट इत्यर्थः ।।
तमेतमात्मानमेते आत्मानोऽन्ववस्यन्ति ॥ ४२ ॥
एतादृशं परमात्मानम् इतरे जीवाः अन्ववस्यन्ति – अनुवर्तन्ते ।।
यथा श्रेष्ठिनं स्वाः ॥ ४३ ॥
तत्र दृष्टान्तमाह यथा श्रेष्ठिनं स्वाः । यथा त्रैष्ठ्यवन्तं स्वाः ज्ञातयः अनुवर्तन्ते ।।
तद् यथा श्रेष्ठी स्वैर्भुङस्ते, यथा श्रेष्ठिनं स्वा: भुञ्जते एवमेवैष प्राज्ञ आत्मा एतैरात्मभिर्भुङ्क्ते । यथा श्रेष्ठी स्वैः, एवं वा एतमात्मानोऽन्ववस्यन्ति ॥ ४४ ॥
तद् यथा श्रेष्ठी….इति । यथा कश्चित् प्रभुः भोगोपकरणभूतैः स्वैः ज्ञातिभिः भोगान् भुङ्क्ते यथा स्वाश्च बन्धवः तं प्रभुमैश्वर्यादिसमग्रमनुभूय तद्दत्तानि वित्तादीनि चोपजीव्य हृष्यन्ति – एवमेवायं परमात्मा स्वोपकरणभूतैः, जीवात्मभिः लीलारसं भुङ्क्ते। ते चाऽऽत्मानः परमात्मदत्तभोगोपकरणाः सर्वैश्वर्यादिगुणविशिष्टं तमनुभूय हृष्टा भवन्तीत्यर्थः । यथा वा स्वा: श्रेष्ठिनं भुञ्जन्ति इति पाठे, यथा प्रधानपुरुषः स्वकीयैः भृत्यादिभिः भोगसाधनानि उपहरद्भिः हेतुभिः भोगान् भुङ्क्ते, यथा च भोगसाधनानि उपहरन्तः प्रधानपुरुषं पालयन्ति – एवमित्यर्थः । भुज पालने (धा.पा. १४५५) इति भुजेः परस्मैपदित्वादिति ध्येयम् । ईदृशं भोक्तृत्वं जीवद्वारा वा परमात्मनि योजनीयम् ।।
[बालाकीविद्याफलम् ]
स यावद्ध वा इन्द्र एतमात्मानं न विजज्ञौ, तावदेनमसुरा अभिबभूवुः । स यदा विजज्ञौ, अथ हत्वाऽसुरान् विजित्य सर्वेषां देवानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं परीयाय । सर्वान् पाप्मनोऽपहत्य सर्वेषां भूतानां श्रेष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति, य एवं वेद । य एवं वेद ।। ४५ ॥
की ॥ इति चतुर्थोऽध्यायः ।।
॥ कौषीतकिब्राह्मणोपनिषत् समाप्ता ।।
इन्द्रो ब्रह्मविद्यालाभात् प्रागसुरैः पीडितः इमां ब्रह्मविद्यां लब्ध्वा असुरहननेन विजयी सर्वदेवाधिपत्यं सर्वदेवश्रैष्ठ्यं स्वाराज्यशब्दिताकर्मवश्यत्वलक्षणं च प्राप । अतोऽन्योऽप्येवं वित् सर्वभूताधिपत्यं सर्वभूतश्रैष्ठ्यं पापाहतिपूर्वकमकर्मवश्यत्वलक्षणं स्वाराज्यशब्दितं मोक्षञ्च प्राप्नोतीत्यर्थः ।
[जगद्वाचित्वाधिकरणविचारः]
व्यासार्यैस्तु – सर्वान् पाप्मनोऽपहत्य – इत्यनेनापहतपाप्मत्वादिगुणाष्टकमुक्तम् ; जरादीनामपि पाप्मान्तर्गतत्वात् । उक्तं हि वाक्यकारैः, स्युः पाप्मानः कालजरामृत्युशोकादयः संख्यातत्वात् इति । स्वाराज्यम् – स्वाधीनत्वम् । अतः सत्यकामत्वं सत्यसंकल्पत्वञ्चोक्तं भवति । अतः स्वाराज्यं संसारिभ्योऽस्य श्रैष्ठ्यरूपम् आधिपत्यम् । अधिपतिः – परमात्मा ; सर्वस्याधिपतिः (बृ.उ. ६-४-२२) इति श्रुतेः । तत्संबन्धि आधिपत्यम् । गुणाष्टकं हि ब्रह्मसंबन्धितया ब्राह्ममुच्यते, ब्राह्मेण जैमिनिः (ब.सू. ४-४-५) इति । अतो ब्रह्मसंबन्धितया तत्साधर्म्यरूपं संसारिभ्यः श्रेष्ठतारूपं यत् स्वाराज्यम् , तदेतीति श्रुतेरर्थः इत्युक्तम् । अन्योऽपि य एतामुपनिषदं वेद, सोऽपि ईदृशं फलमाप्नोतीत्यर्थः ।।
एतत् प्रकरणं समन्वयाध्याये चतुर्थपादे चिन्तितम् । तत्र हि – यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत् कर्म स वै वेदितव्यः इत्यत्र आदित्यादिपुरुषाणां कर्ता, तत्कर्तृत्वनिर्वाहकञ्च पुण्यपापादिलक्षणं च कर्म यस्यास्ति, स वेदितव्य इत्यर्थप्रतीतेः, कर्मशब्दस्य पुण्यपापयोः रूढत्वात् , सुप्तपुरुषागमनयष्टिधातोत्थापनादीनाञ्च जीवलिङ्गत्वात् , तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते इति वाक्यप्रतिपाद्यभोक्तृत्वपरिपाल्यत्वयोर्जीव एव संभवात् जीव एव प्रकरणप्रतिपाद्य इति प्राप्ते – उच्यते, जगद्वाचित्वात् (ब.सू. १-४-१६) । यस्य वैतत्कर्म इत्यत्र कर्मशब्दस्य यद्यपि पुण्यपापादौ रूढिस्ति – तथापि चलनेऽपि रूढ्यविशेषेण रूढ्योः परस्परकलहायमानत्वेनार्थनिर्णयासामर्थ्यात् , एतच्छब्दस्य प्रत्यक्षादिसंनिधापितजगत्परत्वौचित्येन तत्समानाधिकृतकर्मशब्दस्यापि, क्रियत इति कर्मेति व्युत्पत्त्या जगद्वचनत्वमेवोचितम् । ततश्चायमर्थः – त्वदुक्तानामादित्यादिपुरुषाणां यः कर्ता, अन्ततो गत्वा, सर्वमपि जगत् यस्य कार्यम् , स एव वेदितव्यः । ततश्च नात्र जीवस्य प्रसक्तिः । यदि हि पुण्यापुण्यलक्षणकर्मसंबन्धी जीवोऽत्र वाक्ये प्रतिपाद्यः स्यात् – तदा आदित्यादिषु पुरुषवादिनं बालाकिमब्रह्मवादित्वेन प्रत्याख्यातवता अजातशत्रुणा स्वयमब्रह्मण उपदेश्यत्वासंभवात् । अतो नायं कर्मशब्दः पुण्यपापवचनः अपि तु जगद्वचनः । जीवमुख्यप्राणलिङ्गान्नेति चेत् तद् व्याख्यातम् (ब्र.सू. १-४-१७) । यष्टिघातोत्थापनभोक्तृत्वादिजीवलिङ्गात्, अथास्मिन् प्राण एवैकधा भवति इति प्राणशब्देन प्राणभृतं निर्दिश्य तत्र करणग्रामस्यैकधाभावश्रवणात् , प्राणभृत्त्वस्य जीवलिङ्गत्वाञ्च जीव एवात्र प्रतिपाद्यते । न च प्राणशब्दस्य मुख्यप्राण एवार्थः ; प्राणनामभिरामन्त्रणाश्रवणेन मुख्यप्राणव्यतिरिक्तत्वस्य ज्ञापितत्वेन मुख्यप्राणस्य एतत्प्रकरणप्रतिपाद्यत्वासंभवेन प्राणशब्दस्य प्राणसहचरितजीवलक्षकत्वस्यैव युक्तत्वात् । ततश्च यष्ट्यादिजीवलिङ्गात् प्राणशब्दसंकीर्तनाञ्च प्राणभृत् जीव एवात्र प्रतिपाद्यत इति चेत् – तत् व्याख्यातम् । प्रतर्दनविद्यायाम् , यत्र प्रकरणे ब्रह्मलिङ्गानि चिदचिल्लिङ्गानि चोपलभ्यन्ते, तत्र चिदचिल्लिङ्गानां चिदचिच्छरीरकान्वयसंभवात् चेतनाचेतनशरीरकब्रह्मोपासनं विधीयते इत्युक्तत्वात् । इहानन्यथासिद्धजीवलिङ्गमस्ति चेत् – तच्छरीरकब्रह्मोपासनार्थः तन्मध्यवर्तिजीवोपदेशः । अत्र च प्रकरणे उपक्रम एव, मृषा वै मा संवादयिष्ठाः इति अब्रह्मवादप्रत्याख्यानदर्शनात् पापापहति पूर्वकस्वाराज्यरूपब्रह्मविद्यैकान्तफलेनोपसंहारात् प्रकरणस्य ब्रह्मपरत्वेन निश्चितत्वात् मध्ये जीवोपदेशस्तच्छरीरकतया ब्रह्मोपासनार्थ इत्यध्यवसीयत इत्यर्थः । अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके (ब्र.सू. १-४-१८) । यष्टिघातेन जीवसंबोधनं जीवातिरिक्तब्रह्मस्वरूपप्रतिबोधनार्थमिति जैमिनिराचार्यो मन्यते । कुतः? प्रश्नव्याख्यानाभ्याम् प्रश्नप्रतिवचनाभ्याम्। यष्टिघातेनापि जीवप्रतिबोधनानन्तरम् , क्वैष एतद्वालाके पुरुषोऽशयिष्ट क्वैतदभूत् कुत एतदागात् इति जीवसुषुप्त्याधारप्रश्नस्य, अथास्मिन् प्राण एवैकधा भवति इति परमात्मवाचिप्राणशब्देन प्रतिवचनदर्शनाञ्च जीवातिरिक्त ब्रह्मप्रतिबोधन शेषतयैव जीवोपन्यासः । न तु तस्यैव शेषितया । ननु, क्वैतदभूत् इत्येतच्छब्देन न जीवोऽभिधीयते ; येन तत्प्रतिपादनं परमात्मप्रतिपत्तिशेषभूतं स्यात् । अपि तु एतच्छब्देन करणजातमभिधीयते। एतत् करणजातं सुषुप्तौ क्व लीनम् ; प्रबोधदशायां कुत उत्थितमिति प्रश्नः – अथास्मिन् प्राण एवैकधा भवति इति प्राणशब्दनिर्दिष्टे प्राणभृति लय इति प्रतिवचनतात्पर्यञ्च किं न स्यादिति चेत् , तत्राह, अपि चैवमेके । (ब.सू. ३-२-१३) । एके – वाजसनेयशाखिनः प्रश्नप्रतिवचनयोः जीवसुषुप्त्याधारविषयत्वं स्पष्टमामनन्ति । य एष विज्ञानमयः पुरुषः क्वैष तदाभूत् (बृ.उ. ४-१-१६) इति, य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते (बृ.उ. ४-१-१७) इति च अतो जीवप्रतिपादनस्य परमात्मप्रतिपादनशेषत्वात् परमात्मैवात्र प्रकरणे प्रतिपाद्यः ; न जीव इति स्थितम् ॥
क्षेमाय यः करुणाया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।।
॥ इति श्रीरङ्गरामानुजमुनीन्द्रविरचिता कौषीतक्युपनिषत्प्रकाशिका समाप्ता॥