श्री:
कौषीतकिब्राह्मणोपनिषत्
(ऋग्वेदीयोपनिषत् )
शान्तिपाठः
ओम्
वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् । आविरावि(वी)र्म एधि ।
वेदस्य म आणी स्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् संदधामि । ऋर्तं
वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद् वक्तारमवतु । अवतु माम् । अवतु
वक्तारम् । अवतु वक्तारम् ।।
। ओं शान्तिः शान्तिः शान्तिः ।।
मे – मम वाग् – वागिन्द्रियं मनसि प्रतिष्ठिता – भवतु । मनसा वक्तव्यतया सङ्कल्पितामेव वाच्यम् उच्चारयतु नापराम् । मे मनः – अन्तःकरणं वाचि – वागिन्द्रिये प्रतिष्ठितम् – भवतु यद्यद् वाक्यजातं विद्याप्रतिपादकमस्ति वागिन्द्रियसमुचार्य तदेव सङ्कल्पयतु नान्यदिति । आवि:शब्देन स्वप्रकाशरूपं ब्रह्म विवक्षितं तच्च प्रथमं सम्बोधनान्तम् । हे आवि: – हे ब्रह्मन् मे – मह्यम् आवीरेधि – आविर्भूतं भव । दीर्घश्छान्दसः । वाङ्मनसे प्रति प्रार्थयते । हे वाङ्मनसे अन्योन्यप्रतिष्ठिते युवां वेदस्य – आत्मतत्वप्रतिपादकस्य वेदभागस्योपनिषत्स्वरूपस्य मे – मह्यं आणी: – आनयनसमर्थे स्थः – भवतम् । तादृशं वेदभागं मदर्थमुपस्थापयेत्यर्थः । मे – मम सम्बन्धि श्रुतं – श्रोत्रेन्द्रियद्वाराऽवगतम् उपनिषदर्थजातं मा प्रहासी: – मां न कदाचित् त्यजतु । कदापि तद् विस्मृतिं न गच्छेत् इत्येतत् । अनेन अधीतेन – अचिरादेव गुरुमुखादवगतेन आत्मप्रतिपादकवेदभागात्मकेन ग्रन्थेन निरन्तरं समभ्यस्यमानेन अहोरात्रान् – अहानि च रावयचाहोरात्राः तान् सर्वाण्यहानि सर्वा रात्रीश्च अनुसन्दधामि – संयोजयामि । रात्रिन्दिवम् आलस्यादिपरिहारपूर्वकं गुरुमुखाधीत आत्मतत्त्वावबोधकग्रन्थाभ्यासपरो भवामि इत्येतत् । ऋतं वदिष्यामि परमार्थभूतमेव आचार्यमुखाधीतग्रन्थार्थं व्याख्यास्यामि न विपरीतार्थम् । सत्यं वदिष्यामि – मनसा सम्यगालोच्य सत्यभूतामेव वाचं निगदिष्यामि नासत्यभूताम् । ऋतपदेन मानसं सत्यं विवक्षितम् । सत्यपदेन तु वाचिकं सत्यमुच्यत इति विवेकः । तन्मामवतु । तद् ब्रह्म प्रज्ञानरूपं माँ – शिष्यं, अवतु गुरुमुखाचीतवस्तुनः सम्यग्बोधप्रदानेन परिपालयतु । तद्वक्तारमवतु । तद्विज्ञानात्मकं ब्रह्म समुपास्यमानमात्मतत्त्वमिति यावत् । वक्तारं – मदीयमाचार्यं अवतु – शिष्यजिज्ञासाशमनसमर्थबोधजनकशक्तिप्रदानेन पालयतु।
एतत् प्रार्थनाद्वयं विद्याग्रहणोत्तरकालाभिप्रायेण । अवतु माम् । अवतु वक्तारमिति – पदव्यत्पासेन क्रियमाणं प्रार्थनाद्वयन्तु विद्याग्रहणोत्तरकालाभिप्रायेण बोध्यम् । अवतु माम् । अवतु – स्वतन्त्रात्मकभ्रमादिनिवृत्या समुत्पत्रपरमात्मस्वरूपयथार्थाऽवबोधपरिरक्षणेन च परिपालयतु माँ – शिष्यम् । अवतु वक्तारम् । अवतु – योग्यशिष्यलाभप्रयुक्त विद्यासम्प्रदायप्रवर्तनजन्य- स्वात्मतोषरूपफलप्रदानेन परियोषयतु । वक्तारम् मदीयाचार्यम् । अवतु वक्तारम् – इत्यस्य पुनः पाठोऽध्यायसमाप्तिसूचनाय । ओं शान्तिरिति – वाक्ये ओंकारपाठेन परमात्मनः स्मरणात् स्वरूपतोऽर्थतश्च ग्रन्थान्ते समाचरणीयं मङ्गलमाचरितम् तादृशमङ्गलाचरणस्यापि शिष्टाचारपरिप्राप्तत्वात् तदाचरणं पश्चाद्भाविभिरपि शिष्याचार्यै: करणीयमित्येतदर्था ज्ञाप्यते । शान्तिशब्दस्य त्रिधापाठस्तु आध्यात्मिकाधिदैविकाधिभौतिकरूपाणां विविधतापानां शमनं भवन इत्यभिप्रायेण कृतः॥
श्री:
कौषीतकिब्राह्मणोपनिषत्
[ऋग्वेदीयोपनिषत्]
[प्रथमोऽध्यायः]
हरिः ओम् । चित्रो ह वै गार्ग्यायणिर्यक्ष्यमाण आरुणिं वव्रे ॥ १ ॥
प्रकाशिका
श्रीमद्रङ्गरामानुजमुनीन्द्रानुगृहीता
[मङ्गलाचरणम् ]
अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया।
अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।।
[आचार्यवन्दनम् ]
व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।
कौषीतकि(की)श्रुतिव्याख्यां करवाणि यथामति ।।
अर्चिरादिगति तत्प्राप्यदेशविशेष – तद्विशिष्टब्रह्मानुभवप्रकारोपदेशाय आख्यायिकेयमारभ्यते – चित्रो ह……वव्रे। नाम्ना चित्रः गार्ग्यस्यापत्यं गार्ग्यायणिः क्षत्रियः आरुणिं गौतमं याजनाय प्रार्थितवान् इत्यर्थः ।।
स ह पुत्रं श्वेतकेतुं प्रजिघाय, याजयेति ॥ २ ॥
स तु श्वेतकेतुनामानं पुत्रं, त्वमेव गत्वा याजयेति प्राहिणोत् – प्रेषितवान् इत्यर्थः ।।
तं हासीनं पप्रच्छ, गौतमस्य पुत्र ! अस्ति संवृतं लोके यस्मिन् मा धास्यस्यन्यमहो
वाऽध्वा तस्य यस्मिन् ? लोके धास्यसीति ॥ ३ ॥
हे गौतमपुत्र ! यस्मिन् लोके मां वा अन्यं वा यज्ञाद्यनुष्ठापनेन स्थापयिष्यसि, तस्मिन् लोके रहस्यमुपदेश्यं किञ्चिदस्ति किम् ? यस्मिन् लोके मां स्थापयिष्यसि, स्थापयितुमिच्छसि, तस्याध्वा वा कश्चिदान किमित्यर्थः ।।
स होवाच, नाहमेतत् वेद, हन्ताचार्यं पृच्छानीति । स ह पितरमासाद्य
पप्रच्छ ॥ ४ ॥
स्पष्टोऽर्थः ।।
इति ह माऽप्राक्षीत् ; कथं प्रतिब्रवाणीति ॥ ५ ।।
इतीत्येतत् उक्तार्थप्रकारवचनम् । एवंप्रकारेण मां पृष्टवान् ; कथमस्योत्तरं ददामीति।।
स होवाच, अहमप्येतन्न वेद । सदस्येव वयं स्वाध्यायमधीत्य हवामहे यत्र:
परे ददति, एह्युभौ गमिष्याव इति ॥ ६ ॥
स ह…… गमिष्याव इति अहमपि न जाने । गुरुं रहसि गत्वा रहस्यान् अर्थान् पृष्ट्वा सदस्येव स्वाध्यायमधीत्य परे यजमानाय यत् द्रव्यं होतव्यमिति प्रयच्छन्ति, तत् जुहुमः । अस्माकं रहस्यार्थपर्यन्तज्ञान नास्ति । त्वमप्यागच्छ । आवाभ्यां गत्वा स प्रष्टव्य इत्यर्थः ।।
स ह समित्पाणिश्चित्रं गार्ग्यायणिप्रतिचक्रम, उपायानीति ॥ ७ ॥
समिद्भारहस्तस्सन् चित्रनाम्नः क्षत्रियस्य समीपे, शिष्यस्सन् उपगच्छामीति प्रववृते ।।
तं होवाच – ब्रह्मार्ध्योऽसि गौतम ! यो न मानमुपागाः । एहि व्येव त्वा
ज्ञापयिष्यामीति ॥ ८ ॥
यस्त्वमभिमान नोपागाः – त्यक्ताभिमान एव सन् शिष्योऽहमित्यागतोऽसि, स त्वं ब्रह्मार्ध्योऽसि । ब्रह्मत्वेन – ब्राह्मणत्वेन अर्ध्योऽसि – पूज्योऽसि । ब्राह्मणस्त्वं क्षत्रियेण मया उपनीय शिष्यभावं प्रापयितुमयोग्यः । तूष्णीमेवाऽऽयाहि, त्वां ब्रह्म विज्ञापयिष्यामि इति ।।
स होवाच – ये वै के चास्माल्लोकात् प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति ॥ ९॥
स ह…… गच्छन्तीति । ये केचन इष्टापूर्तादिकारिणः विद्वांसश्च, ते सर्वे चन्द्रमसं गच्छन्तीत्यर्थः । इयांस्तु विशेषः – इष्टादिकारिणस्तु धूमरात्र्यपरपक्षदक्षिणायनपितृलोकाकाशक्रमेण चन्द्रमसमायान्ति । विद्वांसस्तु अर्चिर्दिनपूर्वपक्षोदगयनसंवत्सर वायुलोकादित्यक्रमेण चन्द्रमसमुपयान्तीति ।
इदञ्च वाक्यं तृतीयाध्याये वैराग्यपादे चिन्तितम् । तत्र हि – अनिष्टादिकारिणामपि च श्रुतम् । (ब.सू. ३-१-१२) ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीत्यविशेषश्रवणात् इष्टादिकारिणामिव अनिष्टादिकारिणामपि चन्द्रप्राप्तिरस्त्येवेत्यर्थः । तर्हि सुकृतकारिणां दुष्कृतकारिणाञ्च चन्द्रप्राप्तिसत्त्वे, को विशेष इत्यत्राह संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् (ब.सू. ३-१-१३) तुशब्दः शङ्कां व्यावर्तयति । संयमने – यमशासने सति इतरेषां अनिष्टादिकारिणां यमयातनाः अनुभूय चन्द्रारोहावरोहौ । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे (कठ.उ. २-६) इति अनिष्टादिकारिणां यमवश्यतादर्शनात् । स्मरन्ति च । (ब्र.सू. ३-१-१४) सर्वे चैते वशं यान्ति यमस्य भगवन् किल (वि.पु. ३-५-७) इति यमवश्यतास्मरणात् । अपि सप्त । (ब.सू. ३-१-१५) पापकृतां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपि स्मरन्ति । ननु सप्तषु लोकेषु गच्छतां कथं यमसदनप्राप्तिः ? तत्राह – तत्रापि तद्व्यापारादविरोधः । (ब.सू. ३-१-१६) तेष्वपि सप्तषु यमाज्ञयैव गमनादविरोधः । अतः अनिष्टादिकारिणामपि यमलोकं प्राप्य स्वकर्मानुरूपं यातनाश्चानुभूय पश्चात् चन्द्रारोहावरोहौ स्तः ।
इति प्राप्ते उच्यते – विद्याकर्मणोरिति तु प्रकृतत्वात् । (ब्र.सू. ३-१-१७) तु शब्दः शङ्कानिवृत्त्यर्थः । देवयानपितृयाणे हि फलभूते विद्याकर्मणोरित्यवसीयते । तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्ति, अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते, ते धूममभिसंभवन्ति (छां.उ. ५-१०-१-३) इति विद्याकर्मणी प्रकृत्य हि देवयानपितृयाणे आम्नायेते । अतो विद्याकर्मविधुरेष्वनिष्टादिकारिषु देवयानपितृयाणासंभवात् न चन्द्रप्राप्तिः। ये वै के चास्माल्लोकात् प्रयन्ति इति वचनम् इष्टादिकारिसर्वविषयं नेतव्यम् ।
नन्वनिष्टादिकारिणां चन्द्रप्राप्त्यभावे पञ्चमाहुत्यसंभवात् शरीरारम्भ एव नोपपद्यते । तत्राह न तृतीये तथोपलब्धेः । (ब्र.सू. ३-१-१८) तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्व इत्येतत् तृतीयं स्थानम् (छां.उ. ५-१०-८) इति तृतीयस्थानशब्दितानामनिष्टादिकारिणां क्षुद्रजन्तूनां न पञ्चमाहुत्यपेक्षा । तथा ह्युपलभ्यते, तेनासौ लोको न संपूर्यते (छां.उ. ५-१०-८) इति । तृतीयस्थानेन हि असौ चन्द्रलोको न प्राप्यत इति हि तस्यार्थः । स्मर्यतेऽपि च लोके। (ब्र.सू. ३-१-१९) केषाञ्चित् पुण्यकर्मणामपि द्रौपदीधृष्टद्युम्नप्रभृतीनां पञ्चमाहुत्यनपेक्षयैव देहारम्भो भारतादिषु स्मर्यते । दर्शनाच । (ब.सू. ३-१-२०)
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति “आण्डज” जीवजं उद्भिज्जम् । (छां.उ. ६-३-१) इति श्रुत्युपात्ताण्डजजीवजोद्भिज्जलक्षणभूतजातिमध्ये केषाश्चिदुद्धिज्जानां वृक्षादीनां पञ्चमाहुत्यनपेक्षा लोके दृष्टा । ननु, तेषां खल्वेषां भूतानां त्रीण्येव इत्यवधारणं नोपपद्यते । स्वेदजानामत्रानुपात्तत्वात् । तत्राह – तृतीयशब्दावरोधः संशोकजस्य । (ब.सू. ३-१-२१) संशोकजस्य – स्वेदजस्यापि “आण्डजं” उद्भिज्जम् इत्यत्र तृतीयेनोद्भिज्जशब्देनावरोधः – संग्रहो विद्यत इत्यर्थः । अतः केवलपापकर्मणां चन्द्रप्राप्तिर्न भवतीति स्थितम् । प्रकृतमनुसरामः॥
तेषां प्राणैः पूर्वपक्ष आप्यायते । तानपरपक्षेण प्रजनयति ।। १० ॥
तेषाम् – इष्टादिकारिणां प्राणैः – इन्द्रियैः मनोहस्तादीन्द्रियजन्यदानहोमादिभिः पूर्वपक्षे चन्द्रः आप्यायते – संवर्ध्यते । ओ प्यायी वृद्धौ (धा.पा. ४८८) इति हि धातुः । अग्नौ हुतञ्च दत्तञ्च सर्व सोमगतं भवेत् इति स्मरणात् । तान् – इष्टादिकारिणः अपरपक्षेण – पञ्चदशभिर्दिनैः प्रजनयति – ग्राहयति । स्वावयवभूताः कलाः आशयति इत्यर्थः । कलाभिस्तर्पणं करोतीति यावत् । पुरोवातो गाः
प्रजनयति इत्यत्र प्रजनयतीत्यस्य गन्धं ग्राहयतीत्यर्थपरत्वदर्शनाद् इहापि प्रजनयतीत्यस्य ग्राहयतीत्यर्थ उपपद्यते । अपरपक्षेनेति पाठे णत्वाभावश्छान्दसः ॥
एतद्वै स्वर्गस्य लोकस्य द्वारं यश्चन्द्रमाः ।। ११ ।।
स्वर्गस्य लोकस्य – भगवल्लोकस्य द्वारं दौवारिकप्राय इत्यर्थः ॥
[जीवस्य नानाविधयोनिषु जननम् ]
तं यः प्रत्याह, तमतिसृजते । य एनं न प्रत्याह, तमिह वृष्टिभूत्वा वर्षति । स
इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलो वा सिंहो वा मत्स्यो वा परस्वान् वा
पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायते ।। १२ ।।
य एनं न…… प्रत्याजायते । चन्द्रः स्वप्रश्नस्य यः सदुत्तरं प्रयच्छति, तमतिसृजते – भगवल्लोकगमनाय तमनुजानाति । यस्तु प्रतिवक्तुमशक्तः, तम् अविद्वांसम् , यावत्संपातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुम् । वायुर्भूत्वा धूमो भवति धूमो भूत्वा अभं भवति । अभं भूत्वा मेघो भवति । मेघो भूत्वा प्रवर्षति । त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते । (छां.उ. ५-१०-५,६) तद्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्ययोनि वा । य इह कपूयचरणा अभ्याशो ह यत् ते कपूयां योनिमापद्येरन् श्वयोनि वा सूकरयोनि वा चण्डालयोनि वा । (छा.उ, ५-१०-७) इति श्रुत्यर्थोऽत्रानुसन्धेयः । परस्वान् – पशुविशेषः । एतेषु स्थानेषु जायते ।।
यथाकर्म यथाविद्यं तमागतं पृच्छति, कोऽसीति । तं प्रतिब्रूयात् ।। १३ ।।
इष्टादिकर्मानुसारेण वा ब्रह्मविद्यानुसारेण वा आगतं पुमासं पृच्छति कोऽसीति । तं प्रतिब्रूयात् । त वक्ष्यमाणप्रकारेण यः प्रतिब्रूयात् , तमतिसृजत इत्युत्तरेणान्वयः ।।
[प्रकृतिविविक्तात्पस्वरूपम् ।
विचक्षणादृतवो रेत आभृतं पञ्चदशात् प्रसूतात् पित्र्यावतस्तस्मात् ।। १४ ।।
प्रतिवचनप्रकारमाह विचक्षणात्…… तस्मात् । मासादिकालपरिच्छेदकत्वात् चन्द्रस्य ऋतुशब्देन संबोधनम् । एकस्मिन् औपचारिको बहुवचनप्रयोगः । दिवसपूर्वपक्षोत्तरायणादिलक्षण- कालाभिमानिदेवतासाहित्याभिप्रायेण वा ऋतव इति बहुवचनप्रयोगः । हे ऋतवः । कालप्रवर्तकाः इत्यर्थः । पित्र्यावत: – पितुः कर्म पित्र्यं निषेकादि । तद्वान् । छान्दसो मती दीर्घः निषेकादिकर्तुः विचक्षणात् तस्मात् प्रसूतात् । प्रसूतम् उत्पन्नम् । सुपां सुलुक…… (पा.सू. ७-१-३९) इत्यादिना आदादेशः । पञ्चदशम् – पञ्च दशाः – अवस्थाः यस्य तत् पञ्चदशम् । श्रद्धासोमवृष्ट्यत्ररेतोरूपावस्थापञ्चकयुक्तम् आभृतं – शोणितेन संभृतं रेतोऽस्मि । रेतश्शरीरकः अहमित्यर्थः । अनेन पञ्चाग्निविद्याप्रकारोपन्यासात् स्वस्य प्रकृतिविविक्तात्मस्वरूपमुपन्यस्तं भवति ।।
पुंसि कर्तरि मेरयध्वम् । पुंसा क; मातरि मा निषिक्तम् ।। १५ ।।
हे ऋतवः ! यूयमितः परं निषेककर्तरि पुंसि रेतोरूपतया अवस्थानाय मेरयध्वम् – मा प्रेषयत । प्रेषणं मा कुरुत इत्यर्थः । उत्तरत्र मा इत्यस्य अत्राप्यनुषङ्गः । पुंसा निषेककर्त्रा मम शरीरपरिग्रहाय (मातरि मा निषिक्तम् ) निषेकं मा कुरुत । छान्दसः शपो लुक् ।।
स जायमुपजायमानो द्वादशत्रयोदशोपमासः ।। १६ ।।
सोऽहं जायं – जनित्वा – आभीक्ष्ण्ये णमुल्, गर्भे गर्भे जनित्वा जनित्वा उपजायमान: – गर्भात् निर्गच्छन् द्वादश त्रयोदशो वा उपमासः अन्तिममासो यस्य सः द्वादशत्रयोदशोपमासः । यद्यपि मनुष्याणां गर्भे दशैव मासाः, अथापि योनिविशेषेषु द्वादशत्रयोदशमासपर्यन्तस्थितिरस्तीति तथोक्तम्। द्वादश वा त्रयोदश वा मासान् गर्भे उषित्वेत्यर्थः ।।
द्वादशत्रयोदशेन पित्राऽऽसं तद्विदेऽहं प्रति तद्विदेऽहम् ॥ १७ ॥
अहं द्वादशेन वा त्रयोदशेन वा मासेन पित्रा आसं – प्रादुरासम् । पितृशब्दः मातुरप्युपलक्षकः । तद्विदे प्रति तद्विदे । अत्र तच्छब्दः पूर्वोक्तरेतःपरामर्शी । तद्विदे – रेतस्सिचे । तद्विदे प्रति – प्रतिरेतस्सिक् – पुरुषमित्यर्थः । चतुर्थी तादार्थ्यार्था । तेषां पितॄणां शेषभूत एवासमित्यर्थः ।।
तन्मा ऋतवो मर्त्यव आभरध्वम् ।। १८ ॥
हे ऋतव ! इति पूर्वतत् संबोधनम् । तत् – तस्मात् कारणात् मर्त्यवे – मृत्यवे जननमरणलक्षणसंसाराय मा आभरध्वम् – इतः परं मा समर्पयत ।।
तेन सत्येन तपसर्तुरस्म्यार्तवोऽस्मि कोऽस्मि त्वमस्मीति ॥ १९ ॥
तत्र हेतुमाह तेन सत्येन……त्वमस्मीति । तस्मान्न्यासमेषां तपसामतिरिक्तमाहुरिति श्रुतेः तच्छरणवरणलक्षणेन तपसा प्रसन्नेन तेन सत्येन – परमात्मना अनुगृहीतस्सन् ऋतुरस्मि – मासर्तुसंवत्सरयुगात्मककालरूपोऽहमस्मि । आर्तवोऽस्मि – तत्तत्कालवर्तिपदार्थरूपोऽप्यहमस्मि । कोऽस्मि – चतुर्मुखोऽप्यहमस्मि । त्वमस्मि – त्वमप्यहमेवास्मि । अत्र अहंशब्दः, अहं मनुरभवं सूर्यश्च (ऋग्वेद.सं. ४-२६-१) इति वामदेववाक्यवत् , तं मामायुरमृतमित्युपास्स्व इति इन्द्रवाक्यवच स्वात्मभूतपरमात्मपरः ।
साक्षात्कृतसर्वैकात्म्योऽहमस्मीत्यर्थः ।।
तमतिसृजते ॥ २० ॥
तमतिसृजते – एवं यः प्रतिब्रूयात् , तं ब्रह्मवित्त्वेन ब्रह्मलोकगमनार्हतां ज्ञात्वा गमनाय अनुजानातीत्यर्थः ।।
[ब्रह्मविदः अर्चिरादिगतिवर्णनम् ]
स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं
स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम् ॥ २१ ॥
एवं ब्रह्मविचन्द्रमस्संवादप्रकारं प्रदर्श्य आदित आरभ्य अर्चिरादिगतिक्रमम् उपदिशति । सः – ब्रह्मवित् देहवियोगकाल एव सुकृतदुष्कृते विधूय देवयानमार्ग आपद्य – अवलम्ब्य अग्निलोकमागच्छति । तेऽर्चिषमभिसंभवन्ति (छां.उ. ५-१०-१) इति अर्चिश्शब्दितस्याग्नेः देवयानमार्गप्रथमपर्वत्वश्रवणात् प्रथमतः अग्निलोकप्राप्तिरुपपन्ना। स वायुलोकम् – यद्यप्यत्राग्निलोकानन्तरं वायुलोकं श्रूयते, तथापि श्रुत्यन्तरे, अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षात् यान् षण्मासानुदङ् आदित्य एति मासेम्यो देवलोकम् (छा.उ. ४-१५-५) इति देवलोकनिर्दिष्टस्य वायुलोकस्य उदगयनादूर्ध्वं श्रवणात् उदगयनादूर्ध्वमेव वायुलोको निवेश्यः । तत्राप्युदगयानादूर्ध्वं छान्दोग्ये, मासेभ्यः संवत्सरम् इति श्रवणात् , अधिककालानां न्यूनकालादूर्ध्वं निवेशस्य, अह्न आपूर्यमाणपक्षम् आपूर्यमाणपक्षात् यान् षण्मासानुदङ् आदित्य एति इत्यत्र दृष्टत्वात् उदगयनापेक्षया अधिककालस्य संवत्सरस्य तदूर्ध्वनिवेशः सिद्धः ।
स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकमितीदं वाक्यं अर्चिरादिपादे चिन्तितम् । संवत्सरात् आदित्यमादित्यात् चन्द्रमसम् इति छान्दोग्ये, यदा वै पुरुषोऽस्माल्लोकात् प्रैति स वायुलोकमागच्छति । स तत्र विजिहीते, यथा रथचक्रस्य रवम् । तेन स ऊर्ध्वमाक्रमते । स आदित्यम् आगच्छति । तस्मै स तत्र विजिहीते यथा डम्बरस्य खम् । तेन स
ऊर्ध्वमाक्रमते । स चन्द्रमसमागच्छति (बृ.उ. ७-१०-१) इति बृहदारण्यके च श्रुतत्वात् संवत्सरादूर्ध्वं चन्द्रमसः प्रागादित्यस्य निवेशः सिद्धः। तत्र च वरुणेन्द्रप्रजापतीनामपि पठितानां पाठार्थवत्त्वाय क्व चित्रिवेशे कर्तव्ये, वायुलोकं वरुणलोकमिति पाठक्रमानुसारेण वायोरूर्ध्वं वरुणो निवेशितव्यः । इन्द्रप्रजापती अपि तदनन्तरं निवेशयितव्यौ । न च, आदित्यलोकम् , इन्द्रलोकं प्रजापतिलोकमिति पाठक्रमादादित्यादूर्ध्वं चन्द्रात् प्रागेव निवेशोऽस्त्विति वाच्यम् – आदित्याचन्द्रमसम् इति आदित्यादूर्ध्वं चन्द्रस्य श्रवणेन
तत्क्रमबाधप्रसङ्गात् । न च चन्द्रादूर्ध्वं तयोर्निवेशोऽस्त्विति वाच्यम् – चन्द्रमसो विद्युतम् इति श्रुतिक्रमबाधप्रसङ्गात्।
ननु देवलोकादादित्यम् इति देवलोकशब्दितवायोः आदित्यस्य च क्रमस्य श्रुतत्वात् तवेन्द्रप्रजापत्योः निवेशे तत्क्रमभङ्गः स्यादिति चेन्न – वाय्वादित्ययोः अन्तराले वरुणस्य निवेशनीयतया तेनैव वाय्वादित्ययोरानन्तर्यस्य भग्नतया तत्रैवेन्द्रप्रजापत्योरपि निवेशः । अतश्च वरुणेन्द्रप्रजापतीनां त्रयाणामपि वाय्वादित्ययोरन्तराल एव निवेशोऽस्त्विति प्राप्ते –
उच्यते – तटितोऽधि वरुणः संबन्धात् । (ब्र.सू. ४-३-३) तटित ऊर्ध्वं वरुणस्य निवेशः । कुतः? संबन्धात् । विद्युद्वरुणयोः द्वयोरपि मेघोदरवर्तित्वरूपसंबन्धसत्त्वात् विद्युत ऊर्ध्वं वरुणस्य निवेशः । ततः परस्तात् इन्द्रप्रजापत्योर्निवेशः । तथा हि सति, देवलोकादादित्यमादित्याचन्द्रमसं चन्द्रमसो विद्युतम् इति निबद्धोऽपि क्रमो न बाधितो भवति । न चैवं विद्युत ऊर्ध्वं वरुणेन्द्रप्रजापतीनां निवेशे तेषामेव ब्रह्मगमयितृत्वेन, तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति (छां.उ. ४-१५-५,६) इति वैद्युतपुरुषस्य गमयितृत्वं श्रुतं विरुद्ध्येति वाच्यम् – वरुणेन्द्रप्रजापतीनाम् गमयितृत्वेऽपि वैद्युतपुरुषस्याप्यनुग्राहकतया
गमयितृत्वसंभवादिति स्थितम् । प्रकृतमनुसरामः ।।
[ब्रह्मलोकवर्णनम् ]
तस्य हवा एतस्य ब्रह्मलोकस्यारो ह्रदः मुहूर्ता यष्टिहा: ॥ २२ ॥
तस्य – ब्रह्मलोकस्य समीपे अरसंज्ञकिो ह्रदः । छान्दोग्ये, अरश्च ण्यश्चार्णवौ ब्रह्मलोके ऐरम्मदीयं सरः (छां.उ. ८-५-३) इति सरस्त्रयमुक्तम् । ततः परस्तादविदूरे मुहूर्तसंज्ञकाः यष्टिहाः । यष्टिभि: अब्रह्मविदो गन्तृृन् घ्नन्तीति यष्टिहाः ।।
विरजा नदी ॥ २३ ॥
विजरेति संज्ञावती नदी । विरजा नदीत्यपि पाठोऽस्ति । जरारजोविरोधित्वात् विजरा विरजेत्युच्यते॥
तिल्यो वृक्षः ॥ २४ ॥
ततोऽविदूरे तिल्यसंज्ञकिो वृक्षः । छान्दोग्ये, तदश्वत्थः सोमसवनः (छां.उ. ८-५-३) इति सोमसवन संज्ञकोऽश्वत्थो वृक्ष उक्तः॥
सालज्यं संस्थानं ॥ २५ ॥
सालज्यनामकं संस्थानं – स्थानीयम् । स्थानीयं निगमोऽन्यत्तु यन्मूलनगराद्वहिः (अ.को. २-२-१) इत्यमरः । सालेषु प्राकारेषु ज्या युद्धसाधनं यस्य तत् सालज्यम् ।।
अपराजितमायतनम् ॥ २६ ॥
अपराजिता पूः ब्रह्मणः (छां.उ. ८-५-७) इति श्रवणात् अपराजितसंज्ञकमायतनं पुरमित्यर्थः । अब्रह्मविद्भिर्न जीयत इत्यपराजितम् ।।
इन्द्रप्रजापती द्वारगोपौ ॥ २७ ॥
इन्द्रप्रजापतिसंज्ञकौ पट्टणद्वारपालकौ ।।
विभुप्रमितम् ॥ २८ ॥
अत्र मण्टपमिति शेषः । विभुत्वेन अतिविस्तृतत्वेन प्रमितं हिरण्मयमण्टपमित्यर्थः । प्रभुविमितं
हिरण्मयम् (छां.उ. ८-५-७) इति छान्दोग्योक्तेः ।।
विचक्षणा आसन्दी ॥ २९ ॥
विचक्षणसंज्ञिका आसन्दी – धर्मादिपीठम् इत्यर्थः ।।
अमितौजाः पर्यङ्कः ॥ ३० ॥
अमितौजा नाम योगपर्यङ्कः ॥
प्रिया च मानसी प्रतिरूपा च चाक्षुषी पुष्पाण्यपचयतः ॥ ३१ ॥
मनोधिष्ठात्री नाम्ना प्रिया च, चक्षुरधिष्ठात्री नाम्ना प्रतिरूपा च पुष्पाणि अपचयतः कुसुमानि देव्यौ ॥
यतो वै च जगत्यम्बाश्चाम्बावयवाश्चाप्सरसोऽम्बया नद्यः । तमित्थंवित्
आगच्छति ॥ ३२ ॥
तादृशब्रह्मलोकं एतादृशस्वरूपविदागच्छति ।।
तं ब्रह्माह – अभिधावत मम यशसा विरजां (विजरां) वाऽयं नदीं प्रापत् । न
वाऽयं जिगीष्यतीति ॥ ३३ ॥
यूयं ते ब्रह्मविदमागच्छन्तं अभिधावत – अभिगच्छत – प्रत्युत्थानं कुरुत । मम यशसा ममानुग्रहेणायं ब्रह्मवित् विरजां नदीं – विरजानदीसमीपं प्राप्तवान् । विरजानदीसंबन्धात् इतः परं विरजामेष्यतीति परमात्मा अप्सरसः प्रतिवदति इत्यर्थः ।।
तं पञ्च शतान्यप्सरसां प्रतिधावन्ति, शतं मालाहस्ताः, शतमञ्जनहस्ताः, शतं चूर्णहस्ताः, शतं वासोहस्ताः, शतं फणहस्ताः, तं ब्रह्मालङ्कारेणालंकुर्वन्ति । सब्रह्मालङ्कारेणालंकृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति ॥ ३४ ॥
फणः – भूषणम् । ब्रह्मवाभिप्रैति – ब्रह्मदर्शन उत्सुक एव भवति ।नाप्सरस्संभाषणवासोभूयणादिषु सादर इत्यर्थः । शिष्टं स्पष्टम् ।।
स आगच्छत्यरं ह्रदम् । तन्मनसाऽत्येति । तमृत्वा संप्रतिविदो मज्जन्ति ॥ ३५ ॥
तमृत्वा – तं ह्रदं प्राप्य संप्रति – इदानीमपि विदः – ज्ञानिनः मज्जन्ति – स्नान्तीत्यर्थः ।।
स आगच्छति मुहूर्तान् यष्टिहान् । तेऽस्मादपद्रवन्ति ॥ ३६॥
तमनिरुन्धानाः दूरतो गच्छन्तीत्यर्थः ।।
स आगच्छति विरजा नदीम् । तां मनसैवात्येति । तत् सुकृतदुष्कृते धूनुते ।
तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति ; अप्रिया दुष्कृतम् ॥ ३७ ॥
–
तत् – तदैवेत्यर्थः । अयञ्च तच्छब्दः नाव्यवहितविरजानद्यतिक्रमणकालबाची । अपि तु, ये वै के चास्माल्लोकात् प्रयन्ति इति वाक्यनिर्दिष्टप्रयाणकालवाची । इदश्च वाक्यं गुणोपसंहारपादे चिन्तितम् – कौषीतकिनामुपनिषदि, विरजां नदीं मनसा अत्येति तत् सुकृतदुष्कृते धूनुते इति विरजानद्यतिक्रमणहेतुतया तदनन्तरभावि सुकृतदुष्कृतधूननश्रवणात् , अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धृत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवानि (छां.उ. ८-१३-१) इति, तस्य पुत्रा दायमुपयान्ति सुहृदः
साधुकृत्यां द्विषन्तः पापकृत्याम् (शाट्यायनीयम् ) इति च श्रुत्वा देहवियोगसमकालतया सुकृतदुष्कृतहानसंक्रमणयोः श्रवणात् कर्मैकदेशस्य देहवियोगकाले नाशः, शेषस्य विरजानद्यतिक्रमणानन्तरं नाश इति प्राप्ते उच्यते सांपराये तर्तव्याभावात् तथा ह्यन्ये । (ब्र.सू. ३-३-२७) सांपराये – देहापक्रमणकाल एव सुकृतदुष्कृतविनाशः। ततः ऊर्ध्वं तत्साध्यस्य तर्तव्यस्य – प्राप्तव्यस्य सुखदुःखानुभवरूपफलस्य अभावात् । तथा ह्यन्ये शाखिनः ब्रह्मविदः शरीरपरित्यागानन्तरं ब्रह्मप्राप्तिव्यतिरेकेण कर्मफलानुभवाभावमधीयते, तस्य तावदेव चिरम् , यावत्र विमोक्ष्येऽथ संपत्स्ये (छा.उ.६-१४-२) इति । छन्दत उभयाविरोधात् । (ब्र.सू. ३-३-२८)। अर्थस्वाभाव्यात् देहवियोगकाल एव कर्मनाश इति निश्चिते तयोरविरोधाय, विरजां नदीं मनसा अत्येति तत् सुकृतदुष्कृते धूनुते इत्यस्य वाक्यस्य तच्छब्दस्य छन्दतः यथेष्टमन्वयोऽङ्गीकर्तव्यः । गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः । (ब्र.सू. ३-३-२९) सुकृतदुष्कृतैकदेशस्य देहवियोगकाले हानिः, शेषस्याध्वनि हानिरित्यभ्युपगम एव देवयानगतिश्रुतेरर्थवत्त्वम् । इतरथा हि देहवियोगकाल एव सर्वकर्मक्षये सूक्ष्मशरीरस्यापि नाशेन केवलस्य आत्मनो देवयानासंभवेन देवयानश्रुतेरर्थशून्यत्वमेव स्यादित्यर्थः । उत्तरमाह – उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् (ब्र.सू.३-३-३०)। देहोक्रान्तिकाल एव सर्वकर्मक्षय उपपन्न: । क्षीणकर्मणोऽपि
विदुषो विद्यामाहात्म्यात् सूक्ष्मदेहानुवृत्तिसंभवेन देवयानगमनसंभवात् । यथा लोके सस्यादिसमृद्ध्यर्थ्यमारब्धेऽपि तटाकादिके, सस्यादिसमृद्धीच्छायां तटाकादिनिर्माणहेतुभूतायां नष्टायामपि, पानीयपानाद्यर्थतया तटाकादिः स्थाप्यते, एवं कर्महेतुकसूक्ष्मदेहो नष्टेऽपि कर्मणि विद्याफलाय स्थाप्यत इत्यर्थः । ननु देहवियोगकाल एव कर्मनाशे ब्रह्मविदां वसिष्ठावान्तरतपःप्रभृतीनां पुत्रजन्मादिनिमित्तसुखदुःखानुभवो न स्यादित्यत्राह यावदधिकारमवस्थितिराधिकारिकाणाम् (ब.सू. ३-३-३१) । आधिकारिकाणां वसिष्ठादीनां यावदधिकारं कर्मावतिष्ठते ; प्रारब्धस्य भोगैकनाश्यत्वादिति स्थितिः । प्रकृतमनुसरामः । तस्य…… दुष्कृतम् । ब्रह्मविदः
इष्टानिष्टफलदित्सालक्षणपरमात्मप्रीत्यप्रीतिरूप सुकृतदुकृतयोश्चतस्रोऽवस्थाः श्रुताः – विनाशः अश्लेषः धूननम् उपायनञ्चेति । विनाशः पूर्वाघविषयः । कर्मफलदित्साप्रतिबन्धलक्षणोऽश्लेष उत्तराघविषयः । तौ च – यद्ययमुपासकः प्रक्रान्तमुपासनं समापयेत् , पूर्वोत्तरयोः कर्मणोः फलं न दास्यामीत्येवं भगवत्संकल्परूपौ। उत्तरपूर्वाधाश्लेषविनाशौ दर्शनसमानाकारज्ञानारम्भ एव तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशात् (ब्र.सू. ४-१-१३) इति सूत्रोक्तन्यायेन भवतः । अन्तिमप्रत्ययपर्यन्तोपासननिवृत्त्यनन्तरम् , विनष्टाश्लिष्टयोरेव कर्मणोः, फलं नैव दास्यामि इति संकल्परूपं विधूननं देहवियोगकाले भवति ; तस्मिन्नेव समये एतदीयप्रियाप्रियजनेषु एतदीयसुकृतदुष्कृतानुरूपेष्टानिष्टफलदित्सालक्षणमुपायनञ्च भवति ॥
यथा रथेन धावन् रथचक्रे पर्यवेक्षते, एवमहोरात्रे पर्यवेक्षते । एवं सुकृतदुष्कृते,
सर्वाणि च द्वन्द्वानि ॥ ३८ ॥
यथा रथेन धावन् पुरुषः स्वयं निर्व्यापार एव सन् व्याप्रियमाणरथचक्रादिकं साक्षितया पश्यन् गमनक्रियाजनित शरीरायासादिशून्यस्सन् हृष्टो भवति । एवं प्रवर्तमानकालचक्रं सुकृतदुष्कृत-तत्साध्यद्वन्द्वपरम्परां स्वानन्वितामेव पश्यन् निर्दुःखसुखमास्ते ।।
स एष विसुकृतो विदुष्कृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति ॥ ३९ ॥
स्पष्टोऽर्थः ।।
स आगच्छति तिल्यं वृक्षम् ; तं ब्रह्मगन्धः प्रविशति । स आगच्छति सालज्यं
संस्थानम् ; तं ब्रह्मरसः प्रविशति । स आगच्छति अपराजितमायतनम् ; तं ब्रह्मतेजः
प्रविशति । स आगच्छति इन्द्रप्रजापती द्वारगोपौ ; तावस्मादपद्रवतः । स आगच्छति
विभुप्रमितम् ; तं ब्रह्मयशः प्रविशति ॥ ४० ॥
यथा प्रभाते अनुकलं आदित्यादिसामीप्यातिशयकृतं प्रकाशाधिक्यम् , एवं देशविशेषविशिष्ट- ब्रह्मसान्निध्यातिशयानुकलसमेधमानविकासावस्थाविशेषाः ब्रह्मगन्धब्रह्मरसादिशब्दैरभिलप्यन्ते । ब्रह्मणः सर्वगन्धत्वादेः, सर्वगन्धस्सर्वरसः इति प्रतिपत्रत्वात् यथाश्रुतार्थग्रहणेऽपि न दोषः । अपद्रवतः – तस्मै मार्ग प्रयच्छत इत्यर्थः।।
स आगच्छति विचक्षणामासन्दीम् ; ‘वृहद्रथन्तरे सामनी पूर्वौ पादौ
श्यैतनौधसे चापरौ पादौ । वैरूपवैराजे शाक्वररैवते तिरश्ची । सा प्रज्ञा । प्रज्ञया हि
विपश्यति ।। ४१ ॥
सा प्रज्ञा – प्रज्ञाधिष्ठात्री देवता । तत्संबन्धादयं सर्वं पश्यतीत्यर्थः ।।
स आगच्छत्यमितौजसं पर्यङ्कम् ; स प्राणः ॥ ४२ ॥
प्राणः – प्राणाभिमानीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ।।
तस्य भूतं च भविष्यञ्च पूर्वौ पादौ । श्रीश्च इरा चापरौ ।। ४३ ॥
भूतभविष्यत्कालैश्वर्यात्राभिमानिदेवताश्चत्वारः पादाः ।।
वृहद्रथन्तरे अनूच्ये ।। ४४ ।।
बृहद्रथन्तराख्ये सामनी अनूचीनदारुणी इत्यर्थः ।।
भद्रयज्ञायज्ञीये शीर्षण्ये ।। ४५ ।।
भद्रयज्ञायज्ञीयाख्ये सामनी तिरश्चीनदारुणी ।।
ऋचश्च सामानि च प्राचीनाततम् ।। ४६ ।।
प्राचीनाततं – पर्यङ्कातत दीर्घाः तान्तवरज्जुविशेषाः ॥
यजूंषि तिरश्चीनानि ।। ४७ ।।
तिर्यक्ततरज्जुविशेषाः॥
सोमांशव उपस्तरणम् ॥ ४८ ॥
चन्द्रकिरणा एवाऽऽस्तरणम्॥
उद्गीथ उपश्रीः ॥ ४९ ॥
श्रीसमीपे वर्तमानमास्तरणमुद्गीथः ।।
श्रीरुपबर्हणम् ॥ ५० ॥
उपबर्हणं – पादोपधानम् ॥
तस्मिन् ब्रह्मास्ते । तमित्थंवित् पादेनैवाग्र आरोहति । तं ब्रह्माह, कोऽसीति ।
तं प्रतिब्रूयात् ॥ ५१ ॥
स्पष्टोऽर्थः ।।
ऋतुरस्म्यार्तवोऽस्मि ॥ ५२ ॥
अयञ्च मन्त्रखण्डः प्राग्व्याकृतः ।।
आकाशाद्योनेः संभूतो भयायैतत् संवत्सरस्य तेजोभूतस्य भूतस्य भूतस्यात्मा
त्वमात्माऽसि । यस्त्वमसि सोऽहमस्मीति ।। ५३ ॥
आकाशात् योने: – अथैतमेवाध्वानं पुनर्निवर्तन्ते यथैतमाकाशम् आकाशाद्वायुम् । वायुर्भूत्वा धूमो भवति (छां.उ. ५-१०-५) इति श्रुत्युक्तरीत्या आकाशवाय्वादिक्रमेणावरुह्य, योनेश्शरीरम् (ब.सू. ३-१-२७) इति सूत्रोक्तरीत्या योनेस्संभूतोऽस्मि । भयायैतत् – एतत् भवनभयं भयहेतुः । संवत्सरस्य – संवत्सरे, तेजोभूतस्य – रेतोभूतस्य भूतस्य भूतस्य – सर्वभूतस्य त्वमात्मा – पौनः पुन्येन श्रद्धासोमवृष्ट्यनरेतोरूपशरीरयुक्तस्य सर्वस्यापि जीवजातस्य त्वमात्मा। अतश्च प्रकृतिवियुक्तत्वं ब्रह्मात्मकत्वञ्च स्वस्योपन्यस्तं भवति । त्वदात्मकोऽहमियन्तं कालम् , अनेकजन्मसाहस्रीं संसारपदवीं वजन् । मोहश्रमं प्रयातोऽसौ वासनारेणुकुण्ठितः ।। (वि.पु.६-७-१९) इति न्यायेन संसारे पतितोऽस्मीत्यर्थः ।।
आत्मासीति ।। ५४ ।।
मम वशमात्पत्वमित्यत्राह – आत्मासि – व्यापकोऽसीत्यर्थः । व्यापकत्वादात्मत्वमुपपद्यत इति भावः ।।
तमाह कोऽहमस्पीति ।। ५५ ।।
यस्त्वमसि सोऽहमस्मीत्युक्तम् । अहं वा क इति पृच्छतीत्यर्थः ।।
सत्यपिति ब्रूयात् ।। ५६ ।।
उत्तरमाह – सत्यमिति ।।
किं तत् , यत् सत्यमिति ।। ५७ ।।
पुनः पृच्छति – किं तत् , यत् सत्यमिति ।।
यदन्यत् देवेभ्यश्च प्राणेभ्यश्च, तत् सत् । अथ यत् देवाश्च प्राणाश्च, तत् सत्यम् ।
तदेतया वाचाऽभिव्याह्रियते सत्यमिति । एतावदिदम् । सर्वमिदम् । सर्वपस्मीत्येवैनं
तदाह ।। ५८ ॥
‘तदेतत् श्लोकेनाप्युक्तम् – यजूदरः सामशिरा असावृङ्गर्तिरव्ययः । स ब्रह्मेति हि विज्ञेयः ऋषिर्ब्रह्ममयो महान् ।। इति ।
सदित्यनेन देवप्राणव्यतिरिक्तमुच्यते । त्यमित्यनेन देवप्राणाः । अतः सत्यमित्युक्त्वा सर्वं संगृहीतं भवति । ततश्च सत्यमस्मीत्युक्ते सर्वमस्मीत्युक्तं स्यादित्यर्थः । ततश्च सर्वेषामात्मैव मदात्मेत्यर्थः ।।
तमाह – केन मे पौस्नानि नामान्याप्नोषीति । प्राणेनेति ब्रूयात् । केन स्त्रीनामानीति ।
वाचेति । केन नपुंसकनामानीति । मनसेति ।। ५९ ।।
देहेन्द्रियमन: प्राणज्ञानव्यतिरेकं प्रश्नोत्तरव्याजेन स्पष्टयति – नपुंसकत्वादीनि गुणत्रयोन्मेषविशेषरूपाणि ; न तु आत्मस्वरूपगतानि । ततश्च तादृशधर्मयुक्तमनोवाक्प्राण निष्ठान्येव नपुंसकत्वस्त्रीत्वपुंस्त्वानि । अतः त्संबन्धादात्मनि लिङ्गसंबन्ध इति भावः । प्राणादीनां तृतीयानिर्देशन करणत्वप्रतीतेः स्वस्य कर्तृत्वप्रतीतेश्च मनोवाक्प्राणव्यतिरेक सिद्धः । एवमुत्तरत्रापि द्रष्टव्यम् ।।
केन गन्धानिति घ्राणेनेति ।। ६० ।।
घ्राणेन गन्धान् जानामीति ब्रूयादित्यर्थः । एवमुत्तरत्रापि यथायोग्यमन्वयः तत्तदिन्द्रियव्यतिरेकश्च बोध्यः ।।
केन रूपाणीति । चक्षुषेति । केन शब्दानिति । श्रोत्रेणेति । केन
रसानिति । जिह्वयेति । केन कर्माणीति हस्ताभ्यामिति । केन सुखदुःखे इति ।
शरीरेणेति ।। ६१ ॥
अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः (छा.उ. ८-१२-१) इति श्रुतेः । वैषयिकसुखदुःखयोः शरीरहेतुकत्वात् शरीरस्य च करणतया निर्देशः ।।
केनाऽऽनन्दं रतिं प्रजातिमिति । उपस्थेनेति ।। ६२ ।।
प्रजातिः – प्रजननम् ।।
केनेत्या इति । पादाभ्यामिति ।। ६३ ।।
इत्या: – गमनानीत्यर्थः ।।
केन धियो विज्ञातव्यं कामानिति ।। ६४ ।।
ज्ञानविषयान् इच्छाविषयांश्चेत्यर्थः । ज्ञानेच्छादिकं केनाप्नोषीति पर्यवसितोऽर्थः ।।
प्रज्ञयेति ब्रूयात् ।। ६५ ॥
प्रज्ञया – मनसेत्यर्थः
तमाह – आपो वै खलु मे ह्यसावयं ते लोक इति ॥ ६६ ॥
लोक: असौ अमृतस्य आपः भुज्यन्ते । तवाऽप्यसौ लोको भोग्य इत्यर्थः ।।
सा या ब्रह्मणो जिति: या व्यष्टिः, तां जितिं जयति तां व्यष्टिं व्यश्नुते, य
एवं वेद य एवं वेद ।। ६७ ॥
।। इति प्रथमोऽध्यायः ॥
अत्र वेदशब्दः उपासनपरः । उक्तपर्यङ्कविद्यानिष्ठो यः, स जितिं – जयं व्यष्टिं – योगञ्च लभते इत्यर्थः।
यत्त्वत्र परैः – पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति (मुं.उ. ३-१-३) इति श्रुतायां परमसाम्यापत्तौ निरञ्जनस्य गमनासंभवात् परमसाम्यापत्तेः देशान्तरप्राप्त्यनपेक्षत्वाञ्च देवयानस्य पथो नार्थवत्वम् । आत्मैकत्वदर्शिनाम् आप्तकामानामिहैव दग्धाशेषक्लेशबीजानाम् आरब्धदेहकर्माशय क्षपण- व्यतिरेकेणापेक्षितव्याभावात् । पर्यङ्कविद्यादिषु तु पर्यङ्कारोहणब्रह्मगन्धप्रवेशादीनां विशिष्टदेशान्तरप्राप्तिसापेक्षत्वात् तत्रैव पन्था अपेक्षितः । न हि ग्रामप्राप्तावपेक्षितः पन्थाः आरोग्यप्राप्तावपेक्षितः इति, गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः, (ब्र.सू. ३-३-२९) उपपनस्तल्लक्षणार्थोपलब्धेः लोकवत् (ब्र.सू. ३-३-३०) इति सूत्राभ्यां प्रतिपादितं इति । तथा, एवमेवास्य परिद्रष्टुः इमाष्षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति
(प्रश्न.उ. ६-५) इति श्रुतेः ब्रह्मविदः प्राणानां ब्रह्मण्येव लयः । गताः कलाः पञ्चदश प्रतिष्ठा इति कलानां पृथिव्यादिस्वप्रकृतौ लयप्रतिपादनं तु लौकिकदृष्ट्यभिप्रायमिति कलाप्रळयाधिकरणे स्थितम् । सोऽपि कलाप्रलयो निरवशेष इति, भिद्येते तासां नामरूपे पुरुषे, स एषोऽकलोऽमृतो भवति (प्रश्न.उ. ६-५) इति, अविभागो वचनात् (ब्र.सू. ४-२-१५) इत्यत्र प्रतिपादितम् । अतो न मुक्तस्यार्चिरादिमार्गेण गमनमित्युक्तम् ।
तत्र – तथा सति, अनियमः सर्वेषामविरोधः (ब्र.सू. ३-३-३२) इत्यधिकरणे – उपकोसलविद्यायां पञ्चाग्निविद्यायाञ्चार्चिरादिगतेराम्नानात् तद्विद्यानिष्ठानामेवार्चिरादिगतिः ; नान्येषामिति पूर्वपक्षं कृत्वा, तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छां.उ. ५-१०-१) इति श्रद्धातपश्शब्दलक्षितब्रह्मविद्यान्तर- निष्ठानामप्यर्चिरादिगतिश्रवणात् , शुक्लकृष्णे गती होते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः (भ.गी. ८-२६) इति अनुमानशब्दितात् स्मरणाञ्च सर्वविद्यासाधारण्यमाश्रयणीयम् ; उपकोसलविद्यायां पञ्चाग्निविद्यायाञ्च द्विराम्नानस्य उभयत्रानुचिन्तनार्थत्वेनाप्युपपत्तेरिति अर्चिरादिगतेः सर्वविद्यासाधारण्यम् , अनियमः सर्वेषामविरोधः शब्दानुमानाभ्याम् इत्यधिकरणे प्रतिपादितमिति परैरप्युक्तत्वात् तद्विरोधः ।
न च सकलसगुणविद्यासाधारण्यमेवास्मिन् अधिकरणे प्रतिपादितम् ; न तु निर्गुणविद्यासाधारण्यमिति वाच्यम् ; निर्गुणविद्याया एवाप्रामाणिकत्वात् । स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशः तस्मिन् छेते (बृ.उ. ६-४-२२)इति बृहदारण्यकषष्ठाध्यायगतायाः निर्गुणविद्यात्वेन पराभिमतायाः दहरविद्यायाः छान्दोग्यगत-सगुणविद्यैक्यस्य हृदयायतनत्व सेतुत्वलोकासंभेदहेतुत्वादिसामान्येन, कामादीतरत्र तत्र चायतनादिभ्यः (ब.सू. ३-३-३८) इत्यधिकरणे सूत्रकृतैव समर्थितत्वात् । परैरपि तथा व्याख्यातत्त्वाच । न च निर्गुणायामपि विद्यायां ब्रह्मस्तुत्यर्थमेव सगुणविद्यासंबन्धिगुणोपसंहारः संभवतीति वाच्यम् – निर्गुणस्य परस्य ब्रह्मणो “गुणवत्त्वेन” अवरब्रह्मत्वेन प्रतिपादनस्य प्रत्युत निन्दात्वेन स्तुतित्वासंभवात् । अत एव व्यतिहारो विशिंषन्ति हीतरवत् (ब्र.सू. ३-३-३७) इत्यत्र तद्योऽहं सोऽसौ योऽसौ सोऽहं त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते इत्यत्र (ऐ.आर. २-२-४) संसारिण ईश्वरत्वचिन्तने, ब्रह्मदृष्टिरुत्कर्षात् (ब.सू. ४-१-५) इति न्यायोऽनुगृहीतो भवति । ईश्वरस्य संसार्यात्मत्वचिन्तने निकर्षः प्रसज्येत । अतो द्विरूपामतिर्न कर्तव्येति पूर्वपक्षं कृत्वा, आम्नानबलात् द्विरूपाऽपि मतिः कर्तव्या । नन्वेवमुत्कृष्टस्यापि निकर्षप्रसङ्ग इत्युक्तम् । तत् किमिदानीं सगुणे ब्रह्मण्युपास्यमाने तस्य वस्तुतो निर्गुणस्य निकृष्टता भवति ।
ननु कस्मैचित् फलाय निर्गुणस्य गुणवत्तया ध्यानमात्रं क्रियते । न तावता तस्य निकृष्टता भवतीति चेत् इहापि व्यतिहारानुचिन्तनमात्रमुपदिश्यते फलाय ; न तु निकृष्टता भवत्युत्कृष्टस्य इत्येवं निर्गुणस्य सगुणत्वे निकर्षप्रसक्तिं अभ्युपेत्य, वस्तुतो निकर्षो नास्तीति शङ्करभाष्यवाचस्पत्ययोः व्याहृतत्वेन निन्दावहस्य गुणकीर्तनस्य स्तुत्यर्थत्वासंभवात् । किञ्च लोके हि स्तुतिर्विधेयरुच्युत्पादनेन सप्रयोजना । न चात्र निर्गुणस्य तज्ज्ञानस्य वा विधेयत्वमस्ति । न वा गुणवत्त्वेन स्तुतेर्निर्गुणप्रतिपत्त्युपयोगोऽस्ति । किञ्च निर्गुणविद्याम्नातवशित्वादिगुणानां न छान्दोग्यगतसगुणविद्यायाम् आध्यानायोपसंहारसंभवः । यत्र वशित्वादयः श्रूयन्ते, तत्रापि तेषां ध्येयत्वेनाभिधानात् अन्यत्र गतानामपि न ध्येयत्वं संभवति इति तैरेवोक्तत्वात् । स्तुत्यर्थत्वमपि न संभवति ; सत्यकामत्वादि सामर्थ्यादेव सर्वेश्वरत्वसिद्ध्या स्तुतेः सिद्धत्वेन सत्यकामत्वान्तर्भूत वशित्वकीर्तनेन स्तुतेरसंभवात् । कठवल्लीषु पराभिमतनिर्गुणब्रह्मप्रकरणे, शतञ्चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति (कठ.उ. ६-१६) इति उत्क्रान्तिगत्योः प्रतिपादनात् । निर्गुणविद्यात्वेन पराभिमतायां भूमविद्यायाम् , स एकधा भवति त्रिधा भवति (छां.उ. ७-२६-२) इति अनेकशरीरपरिग्रहश्रवणेन निर्विशेषब्रह्मभावापत्तेरप्रतिपादनात् । न चास्य वाक्यस्य सगुणविद्यासु उत्कर्षः कल्पनीय इति वाच्यम् – सर्व ह पश्यः पश्यति सर्वमाप्नोति सर्वशः (छां.उ. ७-२६-२) इति प्राक्प्रस्तुतस्यैव, स एकधा भवति इति तच्छब्देन परामर्शेन तथोत्कर्षकल्पने प्रमाणाभावात् । तथा निर्गुणविद्यात्वेन पराभिमतप्रजापतिविद्यायाम् , एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते (छां.उ. ८-१२-२) इति शरीरादुत्क्रान्तेः श्रवणात् । न च शरीरात् समुत्थानं शरीरविविक्तात्मसाक्षात्कार इति वाच्यम् – अशरीरो वायुरभ्रं विद्युत् स्तनयित्नुः अशरीराणि । यथैतान्यमुष्मादाकाशात् समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यत (छा.उ.८-१२-२) इति दृष्टान्तानुगुण्येनैव दार्ष्टान्तिकेयर्थस्य वर्णनीयत्वात् । शरीर-विविक्तात्मसाक्षात्कारस्यापदार्थत्वादवाश्यार्थत्वात्। तथा निर्गुणविद्यात्वेनाभिमतसद्विद्यायाम् , तस्य तावदेव चिरं यावत्र विमोक्ष्येऽथ संपत्स्ये (छो.3.६-१४-२) इति प्रारब्धावसाने ब्रह्मसंपत्तिमुक्त्वा तदुत्तरखण्डे, यदाऽस्य वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि
तेजः परस्यां देवतायाम् (छा.उ. ६-१५-२) इति ब्रह्मसंपत्त्यर्थतया उत्क्रान्तेः प्रतिपादितत्वाय । तथा वाजसनेयके षष्ठे तदभिमतनिर्गुणविद्यायामेव, अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव । तेन धीरा उपयन्ति ब्रह्मविदः स्वर्ग लोकमित ऊर्ध्वं विमुक्ताः ॥ (बृ.उ.६-४-८) इति गतिप्रतिपादनाञ्च । समाना चामृत्युपक्रमादमृतत्वं चानुपोष्य (ब.सू.४-२-७) इति विद्वदविदुषोरुत्क्रान्तिसाम्यस्य सूत्रकृता कण्ठत एव प्रतिपादितत्वाच अर्चिरादिगतिः सगुणविद्याविषयेत्येतत्र प्रामाणिकानां हृदयमधिरोहति । कार्य बादरिरस्य गत्युपपत्तेः (ब.सू. ४-३-६) इति नित्यपरब्रह्मविद एवार्चिरादिगतिरिति बादरिमतस्य
परं जैमिनिर्मुख्यत्वात् (अ.सू. ४-३-११) इति परब्रह्मोपासकानामचिरादिगतिरिति जैमिनिमतापेक्षया प्राङ्गनिर्दिष्टस्य सिद्धान्तसूत्रत्वायोगात् । चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः, (ब्र.सू. ३-१-९) सुकृतदुष्कृते एवेति तु बादरिः, (अ.सू.३-१-११) उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः, (ब्र.सू. १-४-२१) अवस्थितेरिति काशकृत्स्नः, (ब्र.सू. १-४-२२) स्वामिनः फलश्रुतेरित्यात्रेयः, (अ.सू. ३-४-४४) आर्विज्यमित्यौडुलेमिस्तस्यै हि परिक्रीयते (अ.सू. ३-४-४५) इत्यादिषु सर्वत्र पाश्चात्यस्यैव सूत्रकृदभिमतत्वदर्शनेन, कार्यं बादरिरस्य गत्युपपत्तेः (ब्र.सू.४-३-६) इति बादरिमतस्य सिद्धान्तसूत्रत्वाभ्युपगमस्यासंगतत्वात् । निर्विशेषब्रह्मभावस्यैव मुक्तिरूपत्वे, संकल्पादेव तच्छ्रुतेः (ब्र.सू. ४-४-८) अभावं बादरिराह ह्येवम् , (ब्र.सू. ४-४-१०) भावं
जैमिनिर्विकल्पामननात् , (ब्र.सू. ४-४-१) द्वादशाहवदुभयविधं बादरायणोतः (ब्र.सू. ४-४-१२) इत्यादीनाम्, अनावृत्तिश्शब्दात् (ब्र.सू. ४-४-२२) इत्यन्तानामर्थशून्यतैव स्यात् । न च, संकल्पादेव तच्छ्रुतेः (ब्र.सू. ४-४-८) इति सूत्रे, इत उपरि सगुणविद्याफलप्रपञ्चः इति कल्पतरुकारेणोक्तत्वात् सर्वं सगुणविद्याफलभूतावान्तरमुक्तिविषयमिति वाच्यम् । यदि हि मुक्तिद्वैविध्यं सूत्रकृदभिमतं स्यात् , तर्हि, य आत्मा अपहतपाप्मा (छां.उ. ८-७-१) इत्यादिमुक्तौ ब्रह्मरूपाविर्भाव वाक्यम् अवान्तरमुक्तिपरम् , एवं वा अरेऽयमात्मा अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव (बृ.उ. ६-५-१३) इति निरस्ताशेषप्रपञ्चबोधात्मकत्वेन स्वेन रूपेण निष्पत्तिप्रतिपादकं वाक्यं तु परममुक्तिपरमिति व्यवस्थायाः सुवचतया व्यावहारिकपारमार्थिकत्वाभ्यां व्यवस्थाप्रतिपादकत्वेन त्वदभिमतस्य एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः (ब्र.सू. ४-४-७) इति सूत्रस्यासंगतिप्रसङ्गात् । तथा, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः (छां.उ. ३-१२-१) इति अशरीरत्वप्रतिपादकं वाक्यं परममुक्तिपरम् ; स एकधा भवति त्रिधा भवति इति शरीरयोग प्रतिपादकं वाक्यमवान्तरमुक्तिपरमिति व्यवस्थाया वक्तुं सुशकत्वेन सत्यामिच्छायां सशरीरत्वम् , अन्यदा अशरीरत्वमिति व्यवस्थाप्रतिपादकत्वेन त्वदभिमतस्य द्वादशाहवदुभयविधं बादरायणोऽतः इति सूत्रस्यासंगतिप्रसङ्गात् । अत एव चानन्याधिपतिः (ब्र.सू. ४-४-९) इति सूत्रे, अत एव – सत्यसङ्कल्पत्वात् च शब्दोक्तायाः, स स्वराड्भवति इति श्रुतेश्चानन्याधिपतिर्मुक्तो भवति ; नास्यान्योऽधिपतिर्भवतीत्यर्थः । इदमपि सगुणोपासनया हिरण्यगर्भ प्राप्तस्य इति यत् परैरुक्तम् – तत् अत्यन्तासंगतम् – तस्य हिरण्यगर्भेश्वररूपाधिपति- सत्त्वेनानन्याधिपतित्वस्य वक्तुमशक्यत्वादित्यलमतिचर्चया। प्रकृतमनुसरामः ।।
॥ इति प्रथमाध्याय प्रकाशिका ।।