गौडपादीयाः माण्डूक्योपनिषत्कारिकाः
ओमित्यारभ्य य एवं वेद, य एवं वेद इति पर्यन्तं द्वादशमन्त्रात्मिका इयं उपनिषत् सर्वत्र दरीदृश्यते । अनया साकं केचन एकोनत्रिंशत् श्लोकाः पठ्यन्ते । शांकरसिद्धान्ते एते श्लोकाः गौडपादीयकारिकाः इति प्रसिद्धाः । रङ्गरामानुजेस्तु एते गौडपादीयाः इति मत्त्वा न व्याख्याताः, परन्तु कूरनारायणमुनिभिः एते उपनिषद्विवरणरूपाः श्रुत्यन्तर्गताः इत्येव अङ्गीकृत्य व्याख्याताः, तथा भारद्वाजरामानुजाचार्यैरपि । मध्वाचार्यास्तु एता: कारिका: ब्रह्मदृष्टाः मन्त्राः इत्येव स्पष्ट अभिदधुः व्याचख्युश्च । परन्तु एताः गौडपादीयाः कारिकाः इत्येव प्रसिद्धिवर्तते ।
अत्रैते श्लोकाः भवन्ति ।
बहिः प्रज्ञो विभुर्विश्वो ह्यन्तः प्रज्ञस्तु तैजसः ।
घनप्रज्ञस्तथा प्राज्ञ एकएव त्रिधा स्मृतः ।। १ ।।
प्र.दी. – पूर्वोक्तमन्त्रार्थदाढ्यार्य श्लोकरूपमन्त्रानुदाहरति इयं श्रुतिः – अत्रेति । अत्र उक्तार्थे, एते – वक्ष्यमाणाः बहिःप्रज्ञ इत्यादिश्लोकाः, भवन्ति उक्तार्थदाढ्यार्य भवन्तीत्यर्थः । विभुः – समर्थः, विश्वः – विश्वनामकः परमात्मा, बहिः प्रज्ञ: – बहिः रूपादौ प्रज्ञा यस्य सः, सर्वस्य पूर्ववदर्थो बोध्यः । जाग्रद्दशानिर्वाहक इत्यर्थः । अन्तः प्रज्ञस्तु तैजसः – तैजसनामकः परमात्मा, स्वप्नदशानिर्वाहकः । प्राज्ञः – प्राज्ञनामकः परमात्मा, घनप्रज्ञः – प्रज्ञानस्वरूपः, सुषुप्त्यवस्थानिर्वाहकः । एकएव त्रिधास्मृतः ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् (भ.गी. ८–१३) एको ह वै नारायण आसीत् (महो. १–१) इत्युक्तप्रणवशब्दवाच्यैको नारायण एव अवस्थात्रयनिर्वाहकत्वेन त्रिप्रकारतया स्थित इत्यर्थः ।। १ ।।
कू.भा. – उपनिषत् स्वयंप्रमाणत्वेऽपि स्वोक्तार्थदार्ढ्याय स्वोक्तार्थे मन्त्रानुदाहरति – अत्रेति । अत्र उक्तेष्वर्थेषु । संवादिन इति शेषः । वैश्वानरो बहि:प्रज्ञः, तैजसोऽन्तःप्रज्ञः, प्राज्ञः प्रज्ञानघनः ; इत्युक्तेऽर्थ मन्त्रमाह बहिरिति । विश्व: वैश्वानरः । पदानामर्थः पूर्वत्रेव ध्येय: एक एव त्रिधा स्मृत इति । मन्त्रद्रष्ट्रा ब्रह्मणा भगवद्रूपाणामेतेषां एकत्वं स्मृतमित्यर्थः ।। १ ।।
दक्षिणाक्षिमुखे विश्वो मनस्यन्तश्च तैजसः ।
आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ।। २ ।।
प्र.दी. – प्रणवशब्दवाच्य: एक: परमात्मा अस्मिन् देहे नामभेदेन स्थानत्रयेष्वस्तीत्याह दक्षिणाक्षिमुखे इति । जीवस्य दक्षिणनेत्राग्रभागे, विश्व: – विश्वनामकः परमात्मा अस्ति । मनस्यन्तस्तु तैजसः तैजसनामका परमात्मा अन्तर्मनसि स्थित ‘इत्यर्थः । त्रिधा देहे व्यवस्थित: – अयं परमात्मा अस्मिन् जीवशरीेरे त्रिप्रकारेण व्यवस्थित इत्यर्थः ।। २ ।।
कू.भा. – जागरितस्थानः स्वप्रस्थानस्सुषुप्तस्थान इत्युक्तार्थे मन्त्रमाह- दक्षिणाक्षीति । मुखे . अग्रभागे । अन्तरित्यस्य विवरण – मनसीति । आकाशे च हृदि – हृदयाकाशे हृत्कर्णिकाग्रस्थान इत्यर्थः । त्रिधा देहे व्यवस्थित इति । स भगवानेक एवास्मिन् देहे त्रिधा स्थित इत्यर्थः ।। २ ।।
विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक्तथा प्राज्ञस्त्रिधा भोग निबोधत ।। ३ ।।
प्र.दी. – जीवदेहस्थितविश्वतैजसप्राज्ञानां जीवाधिष्ठितद्वारा भोगमाह – विश्वो हि स्थूलभुक् इति । विश्व: नित्यं सदा स्थूलभुक् – स्थूलं रूपादिकं भुनक्तीति । तैजसः नित्यं प्रविविक्तभुक् . स्वाप्नानर्थान् तत्तत्पुरुषमात्रानुभाव्यतया विविच्य भोजयिता । तथा प्राज्ञोऽपि नित्यम् आनन्दभुक् – विषयव्यतिरिक्तविलक्षणानन्दभुक् । त्रिधा भोगं निबोधत – एवं त्रिप्रकारेण भोगं – जीवाधिष्ठितद्वारा अनुभवं निबोधत – जानीयादित्यर्थः ।। ३ ।।
कू.भा. – स्थूलभुक् प्रविविक्तभुगानन्दभुगित्युक्तेऽर्थ मन्त्रमाह – विश्व इति । निबोधतेति मन्त्रद्रष्ट्रा ब्रह्मणा स्वोपदेश्यान् प्रत्युच्यते । एवं विजानथेत्यपि ध्येयम् ।। ३ ।।
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दश्च तथा प्राज्ञं त्रिधा तृप्ति निबोधत ।। ४ ।।
प्र.दी: – जीवदेहस्थितविश्वतैजसप्राज्ञानां जीवद्वारा तृप्तिमाह – स्थूलं तर्पयते विश्वमिति । स्थूलं रूपादिभोग्यभूतं वस्तु कर्तृ, विश्वं – विश्वनामकं कर्म, तर्पयते – तृप्तिं करोति । नित्यतृप्तस्य परमात्मनः तृप्तिः क्रीडारूपेति विज्ञेया । प्रविविक्तं तु स्वाप्रपदार्थ तु तैजसं तर्पयते । आनन्द: – सुषुप्त्यानन्दः प्राज्ञं तर्पयते । एवं त्रिप्रकारेण तृप्तिं निबोधत – विजानीथ ।। ४ ।।
कू.भा. – उक्त एवार्थे मन्त्रान्तरं पठति – स्थूलमिति । स्थूलं – भोग्य वस्तु कर्तृ । विश्वं कर्म । एवमग्रेऽपि । नित्यतृप्तस्य स्थूलादिना तृप्तिः क्रीडारूपा ध्येया । आनन्दं – आनन्दः । लिङ्गव्यत्ययात् । विजानथ – विजानीथ । विकरणव्यत्ययात् ।। ४ ।।
त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः ।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ।। ५ ।।
प्र.दी. – भोक्तभोज्यस्वरूपं विजानन् जीवः विषयानुभवजन्यविकारं न प्राप्नोतीत्याह – त्रिषु धामस्विति । त्रिषु – नेत्रमनोहृदयाकाशरूपेषु स्थानेषु यद्भोज्यं – स्थूल प्रविविक्तानन्दात्मकं, यच्च भोज्यस्वरूपमुक्तं, यश्च – विश्वतैजसप्राज्ञरूप: परमात्मा भोक्ता – जीवाधिष्ठातृतया भोक्तृत्वेन प्रकीर्तितः – उक्तः । यस्तु – जीवः एतत्पूर्वोक्तमुभयं भोक्तृभोग्यलक्षणं उभयं वेद – जानाति स: – एतादृशज्ञानी भुञ्जानोऽपि – ज्ञानविषयाननुभवन्नपि न लिप्यते तत्फलैर्न लिप्यते । तत्कृतोञ्चनीचादिविकारं न प्राप्नोतीत्यर्थः ।। ५ ।।
कू.भा. – विश्वादिरूपत्रयस्वरूपं तत्तत्स्थानेषु तद्भोज्यस्वरूपञ्च जानतः फलमाह – त्रिष्विति । त्रिषु धामसु – अक्षिमनोहृदयाकाशरूपेषु यद्भोज्यं स्थूलप्रविविक्तानन्दात्मकं, यश्च भोक्ता विश्वतैजसप्राज्ञरूपात्मा एतदुभयं – भोक्तृभोज्यलक्षणमुभयं यस्तु – योऽधिकारी वेद – जानाति स: ज्ञानविषयान् भुञ्जान: – अनुभवन्नपि तत्फललेपं न प्राप्नोति । तत्कृतोच्चनीचादिविकारं न प्राप्नोतीत्यर्थः । तत्तत्स्थानेषु तत्तत्फलभोजयिता स्वस्य स्वेतरस्य च जीवस्य कर्मफलप्रदस्सर्वेश्वर एव । न ममात्रभोगे इतरजीवानां वा स्वातन्त्र्यमिति मत्वा न विकरोतीति भावः ।। ५ ।।
प्रभवस्सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राणश्चेतोंऽशून्पुरुषः पृथक् ।। ६ ।।
प्र.दी. – विश्वतैजसप्राज्ञतुरीयापरनामधेयकः परमात्मा सर्वजगत्कर्तेति सतामभिप्राय इत्याह – प्रभवस्सर्वभूतानामिति । पुरुषः – सहस्त्र शीर्षा पुरुषः (पु.सू. १) इत्युक्तपुरुषशब्दवाच्यः श्रिय:पतिः सर्वभूतानां प्रभवः – प्रभवन्त्यस्मात्सर्वे इति व्युत्पत्त्या सर्वभूतजनक इति सतां परब्रह्मवेत्तृणां ब्रह्मादिव्यासपराशराणां विनिश्चय: – मुख्याभिप्रायः । एतदेव विवृणोति – सर्वं जनयतीति । प्राण: – सर्वान् प्रलयकाले स्वसमीपं नयतीति प्राणः । कुक्षिस्थाखिलभुवन इत्यर्थः । चेतोंऽशून् – ज्ञानरूपरश्मियुक्तान् जीवान् पृथक् – पृथक्कर्मानुगुणयुक्तदेवमनुष्यादीन् । सर्वं – अचेतनं सर्व च जनयति । अनेन विवर्तोपादानं परमात्मा इत्यसतां वादो निरस्तः ।। ६ ।।
कू.भा. – एष योनिस्सर्वस्येत्युक्तार्थे मन्त्रमाह – प्रभव इति । प्रभवत्युत्पद्यतेऽनेनेति प्रभवः । सर्वभावानां – सर्ववस्तूनां यथायोगमुत्पत्तिहेतुः । चतूरूपात्मेति योज्यम् । इति सतां निश्चय इत्युक्त्या असतां अन्यथा निश्चय इति लभ्यते । तदग्रे विवरिष्यते । सर्वप्रभवत्वं व्यनक्ति सर्वं जनयति प्राण इति । सर्वस्य प्रणेतृत्वहेतुना प्राणनामा । स एव सर्वं जनयतीत्युक्त्या न विवर्तरूपमुपादानत्वं सर्वप्रभवत्वमित्युक्तं भवति । पुरुषः – पूर्णषड्गुणत्वादिना पुरुषनामा प्रागुक्तनामा चतूरूपात्मा हरिः चेतोंऽशून् – ज्ञानाख्यरश्मियुक्तान् जीवानिति यावत् । पृथक् देवदानवमानवादिभेदेन जनयति ।। ६ ।।
विभूतिं प्रसवंत्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता ।। ७ ।।
प्र.दी. – ब्रह्मविवर्तः प्रपञ्चः इत्यसतामाशयमाह – विभूतिं प्रसवं त्वन्य इति । असृष्टिचिन्तकाः इति छेदः । पूर्वोक्तपरमपुरुषसृष्टजगद्विषयकज्ञानशून्याः । अन्ये तु – असन्तस्तु प्रसवं यतो वा इमानि (तै.भृ. १) इत्यादि श्रुतिसिद्धजगदुत्पत्तिं कर्मपदं; विभूतिं मन्यन्ते । ब्रह्मणः – जीवजडभूतविविधरूपतया भवनमिति मन्यन्ते । तथा च ब्रह्मैव प्रपञ्चरूपेण परिणमत इत्यर्थः ।अन्यै: – पूर्वोक्तब्रह्मविवर्तोपादानवादिभिः सृष्टि: – सर्वशक्तिविशिष्टभगवत्कर्तृकानन्तकोटिब्रह्माण्डसृष्टिः । स्वप्नमायास्वरूपेति – स्वप्नदृष्टपदार्थ- सदृशेति, मायाविनिर्मितगन्धर्वनगरतुल्येति च विकल्पिता – रज्जुसर्पवत् शुक्तिकारजतवत् मरुमरीचिकावत् मिथ्याभूतेति बहुप्रकारेण कल्पिता ।। ७ ।।
कू.भा. – सतामिति विनिश्चय इत्यत्र असतां वैपरीत्येन निश्चय इत्यर्थात्प्राप्तम् । तदुभयं व्यनक्ति – विभूतिम् इत्यादिना । सृष्टिचिन्तकाः – सृष्टिविषयविचारवन्तः अन्ये ब्रह्मस्वरूपपरिणामवादिनोऽसन्तः प्रसवं – सृष्टिं विभूतिं – जीवजडात्मना विविधतया भवनं ब्रह्मणो मन्यन्ते – सृष्टिचिन्तका इत्यनेन यथावत् ब्रह्मस्वरूपानभिज्ञा इति सूचितम् । अन्यैः – ब्रह्मविवर्तः प्रपञ्च इति वादिभिः सृष्टि: विकल्पिता – विविधतया कल्पिता । कथं ? स्वप्नमायास्वरूपेति । स्वाप्नपदार्थसृष्टिः सुप्तात्मविवर्तो यथा मायास्वरूपा, तथा तत्स्वरूपब्रह्मविवर्तरूपा जाग्रत्सृष्टिरपि मायास्वरूपा । मायापदेन मायाविनिर्मितगन्धर्वनगरादिग्रहः । तत्स्वरूपा तत्तुल्यस्वरूपा । मिथ्याभूतेत्येवं विकल्पितेत्यर्थः ।। ७ ।।
इच्छामात्रं प्रभोस्सृष्टितिरिति सृष्टौ विनिश्चिता:।
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तका: ।। ८ ।।
प्र.दी. – विवर्तपरिणामानङ्गीकारे ब्रह्मणः कथं जगत्पष्टिरित्याह – इच्छामात्रमिति । प्रभो: अखिलजगत्सृष्टिसमर्थस्य भगवतः सृष्टि: अनन्तकोटिब्रह्माण्डसृष्टि: इच्छामात्रं । बहुस्यां प्रजायेयेति संकल्पमात्रं संकल्पमात्रादेव जगत्सृजतीत्यर्थ: । सृष्टौ -सृष्टिविषये सन्त: विनिश्चिता:- एवं निश्चितवन्त: । कालचिन्तका: • काल एव ईश्वर इति वाविन: भूतानां । सर्वभूतानां कालात्प्रसूर्ति – कालादेव उत्पत्तिं मन्यन्ते ।। ८ ।।
कू.भा- परिणामविवर्तयोरभावे कथं हरेर्जगत्सृष्टिरित्यतस्सतां विनिश्चयप्रकारमाह- इच्छेति । केवलमिच्छामात्रं – अनायासेनाविलम्बेन अविकारित्वेन प्रभो:। अवन्ध्यशक्ते: सृष्टि:- प्रभुकर्तृका विश्वविषयिणी सृष्टिरिति सृष्टौ – विषये विनिश्चिता: विनिश्चयवन्त: औपनिषदा इत्यर्थ: । भागवतस्सत्यसंकल्पत्वात् स सर्वशक्तस्वसंकल्पमात्रादेव स्वशरीरभूतचेतनाचेतनप्रपञ्चमग्रे सूक्ष्मं स्थूलरूपेण परिणाम्य स्वयमविकार एव सर्वात्मकरसर्वोपादानं भवतीति मन्यन्ते इति भाव: । विनिश्चिता इति कतर्रि क्त: ? पुनर्मतान्तराण्याह – कालेति । कालचिन्तका: – कालमेवेश्वरं मन्वाना: भूतानां प्रसूतिं – उत्पत्ति कालान्मन्यन्ते । उपलक्षणमेद्यदृच्छानियतिस्वभावादीनां तेषां निरास: पुरुषप्रभुपदाभ्यामेव ज्ञेय: अत एव इच्छामात्रमिति पक्षस्य मध्ये निवेश: ।। ८ ।।
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थेमिति चापरे ।
देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ।। ५ ।। इति ।
प्र.दी.- अवाप्तसमस्तकामस्य श्रिय: पते: इयं सृष्टिलीलारूपेति स्वाभिप्रायपाह श्रुतिः । भोगार्थमिति । अन्ये – केचन भगवत: इयं सृष्टि: अतृप्तस्येव भोगार्थमिति मन्यन्ते । अपरे क्रीडार्थं · राज्ञां कन्दुकादिक्रीडावत् भगवत: सृष्टिं मन्यन्ते । मतान्तराण्युपपाद्य स्वसिद्धान्तमाह- देवस्यैष स्वभाव इति । आप्तकायस्य – अवाप्तसमस्तकामस्य, देवस्य क्रीडाशीलस्य श्रिय: पते: एष: – सृष्ट्यादिव्यापार: स्वभाव एव – नैज एव नान्यत्प्रयोजनमस्ति – लोकवत्तु लीलाकैवल्यम् (ब्र.सू. २-१-३३) इत्ययमर्थ एव व्यासार्यस्सूत्रितः । इतिशब्दो विश्वतैजसादि रूपत्रयनिरूपण- समाप्तिबोधक: ।। १ ।।
कू.भा. – तर्हि परिपूर्णस्य पुरुषस्य सृष्टि: किमर्थेत्यतो लोकानुग्रहार्थं स्वभाव इति वक्तुं मतान्तराण्याह भोगार्थमिति । हरेरतृप्तस्यैव भोगार्थं सृष्टिरित्यन्ये मन्यन्ते । अपरे तु महाराजस्य कन्दुकादिविहार इव क्रीडारूपप्रयोजनसिद्ध्यर्थं विश्वसृष्टिरीश्वरस्येति मन्यन्त इत्यर्थः । स्वमतमाह श्रुति: – देवस्येति । देवस्य – क्रीडाशीलस्य अयं – लीलारूपः एषः – सृष्ट्यादिविषयः स्वभाव एव । नान्यत्प्रयोजनमिति भावः । लोकवत्तु लीलाकैवल्यम् (ब्र.सू. २-१-३३) इति सूत्रम् । कुतः ? आप्तकामस्य का स्पृहा – प्रयोजनस्पृहा न कापीत्यर्थः । इति शब्दो रूपत्रयनिरूपणसमाप्तौ ।। ९ ।।
निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।
अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्स्मृतः ।। १० ।।
प्र.दी. उक्तस्वरूपस्य तुरीयापरनामधेयस्य वासुदेवस्य महिमानमाह – अत्रेति । तुरीयविषयकोक्तार्थे एते – वक्ष्यमाणाः श्लोका भवन्ति । तान् श्लोकानाह – निवृत्तेरिति । सर्वदुःखानां – आश्रितसर्वदुःखानां आध्यात्मिकादीनां निवृत्तेः – निवारणस्य कारणमिति शेषः । आश्रितसर्वानिष्टनिवारणकारणभूत इत्यर्थः । ईशान: – सर्वनियामकः । अत एव प्रभुः – समर्थः । अव्यय: नाशरहितः । सदैकरूप इत्यर्थः । अद्वैतः सजातीया द्वितीयवस्तुरहितः । विभुः सर्वव्यापकः । तुरीय: – तुरीयापरनामधेयकः श्रीवासुदेवः सर्वभावानां – भू सत्तायां (धा.पा. १) इति धातुः । भवन्तीति भावाः, सत्तारूपाणां सर्वजीवानां देवः – उपास्यभूत इति स्मृतः । ब्रह्मविद्भिरिति शेषः ।। १० ।।
कू.भा. – चतुर्थरूपस्योक्तं माहात्म्यं संवादयितुमाह – अत्रेति । तुरीयस्योक्तार्थे एते वक्ष्यमाणाश्श्लोकाः संवादिनो भवन्तीत्यर्थः । प्रपञ्चोपशमम् इत्यादिनोक्ते सर्वानिष्टनिवर्तकत्वादिरूपेऽर्थे श्लोकानाह – निवृत्तेरिति । सर्वदुःखानां निवृत्तेः कारणमिति शेषः । ईशान् ब्रह्मादीन् अनिति प्रेरयतीति ईशानः, प्रभुः – स्वामी । अव्ययः – शश्वदेकरूपः । अद्वैतः – मिथ्याज्ञाननिवर्तकः । सर्वभावानां – भवन्तीति भावाः । भू सत्तायाम् (धा.पा. १) भगवज्ज्ञानेन लब्धसत्ताका इत्यर्थः । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः (तै.आन. ३०) इति श्रुतेः । सर्वेषां भावानां अधिकृतात्मनां देवः – उपास्यः विभुः – समर्थः स्मृतः । मन्त्रदृग्भिरिति शेषः ।। १० ।।
कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्रे न सिद्ध्यतः ।। ११ ।।
प्र.दी. – तुरीयवासुदेवस्वरूपं विश्वादित्रयविलक्षणमित्याह – कार्यकारणबद्धाविति । तौ पूर्वोक्तौ विश्वतैजसौ – जाग्रत्स्वप्नदशानिर्वाहकविश्वतैजसौ कार्यकारणबद्धौ इष्येते। विश्व: जीवद्वारा अज्ञानकार्यभूताहंकारममतादि भ्रमरूपकार्यबन्धविशिष्टः न तु सृतः । तैजसस्तु तत्कारणभूताविद्यारूपबन्धविशिष्टः इति इष्येते । प्राज्ञस्तु कारणबद्ध इति इष्यते । जीवद्वार कारणभूताज्ञानरूपसुषुप्तिबन्धविशिष्टः । तुर्ये- चतुर्थे वासुदेवे तौ – पूर्वोक्तौ द्वौ – कार्यकारण- बन्धनियमनव्यापारः कारणमात्रबन्धनियमनव्यापारश्च न सिद्ध्यतः – न स्त इत्यर्थः ।। ११ ।।
कू.भा. – नान्त: प्रज्ञं न बहिः प्रज्ञम् इत्यादिना तुरीयस्य विश्वादिरूपत्रयवैधर्म्यमुक्तं । तत्र मन्त्रमाह – कार्येति । अज्ञानकार्यभूतोऽहंकारममतादिभ्रमः । तद्रूपः कार्यबन्धः । तत्कारणाविद्याबन्धः कारणबन्धः जीवनिष्ठतादृशजाग्रत्पदार्थभ्रमाविद्यारूपकार्यकारणबन्धस्वामी विश्वः । तैजसस्त्वविद्याकार्यभूतोक्तरूपस्वाप्नपदार्थभ्रमेण तत्कारणाज्ञानेन च बद्धजीवनिष्ठतादृश- बन्धस्वामीत्यर्थः । प्राज्ञस्तु तत्कारणाज्ञानरूपसुषुप्तिबद्धः । सुषुप्ति ‘बन्ध’ स्वामी तुरीये चतुर्थरूपे द्वौ । कार्यकारणबन्धनियमनव्यापारः कारणमात्रबन्धनियमनव्यापारश्च द्वावपि न सिध्द्यत इत्यर्थः ।। ११ ।।
नात्मानं न परांश्चैव न सत्यं नापि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्य तत्सर्वदृक्सदा ।। १२ ।।
प्र.दी. – तुरीयस्य प्राज्ञवैलक्षण्यमाह – नात्मानमिति । प्राज्ञः – सुषुप्तिजीवाधिष्ठानभूतः परमात्मा आत्मानं – सुषुप्तजीवस्वरूपं न संवेत्ति – न संवेदयेत् । अपरानन्यान् जीवान्न संवेदयेत् । सत्यं – दृश्यमानं जगत् असत्यं – रज्जुसर्पज्ञानादिकं च न संवेदयेत् । किञ्चन जीवस्वरूपसुखं विना किमपि वस्तु न संवेदयेदिति यावत् । तत् प्रसिद्धं तुरीयं वासुदेवः सदा सर्वदृक् सर्वं दर्शयतीति सर्वदृक् । मुक्तिकाले तत्तद्योग्यं सर्वं सर्वदा अनियमेन प्रदर्शयतीत्यर्थः ।। १२ ।।
कू.भा. – न प्रज्ञानघनं नाप्रज्ञम् इत्युक्तप्राज्ञवैधर्म्ये मन्त्रमाह – नात्मानमिति । आत्मानं सुषुप्तजीवस्वरूपं न संवेदयेत् । तथा नापरान् अन्यान् जीवान् न सत्यं घटादिकं नापि चानृतं शुक्तिरजतादिकं संवेदयेदित्यर्थः । जीवस्वरूपसुखं विना नान्यत्किमपि संवेदयेदिति यावत् । तुरीयं तु सदा सर्वदृक् सर्वं दर्शयतीति सर्वदृक् मुक्तौ तत्तद्योग्यं सर्वं सर्वदा प्रदर्शयतीत्यर्थः ।। १२ ।।
द्वैतस्याग्रहण तुल्यमुभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ।। १३ ।।
प्र.दी. – तुरीयस्य प्राज्ञवैलक्षण्यान्तरमाह – द्वैतस्याग्रहणमिति । उभयोः प्राज्ञतुर्ययोः – द्वैतस्याग्रहणं देहगेहयोः स्वातन्त्र्यभ्रमराहित्यं तुल्यं – समानमित्यर्थः । प्राज्ञस्तु बीजनिद्रायुतः देहगेहादौ स्वातन्त्र्यबुद्धिबीजभूता मूला विद्या बीजनिद्रा तया युतः युक्त इत्यर्थः । सा च स्वातन्त्र्यबीजभूता मूलाविद्या तुर्ये – वासुदेवे परमात्मनि न विद्यते – नास्तीत्यर्थः ।। १३ ।।
कू.भा. – शिवमद्वैतम् इति तुरीयस्य यन्मिथ्याज्ञाननिवर्तकत्वमुक्तम् तत्प्राज्ञस्यापि सममिति वदन् ततस्तुरीयस्य वैलक्षण्यान्तरमाह – द्वैतस्येति । द्वैतस्य – देहगेहादौ स्वातन्त्र्यस्य अग्रहणं – ग्रहणाहेतुत्वं गेहादौ स्वातन्त्र्यभ्रमाजनकत्वं प्राज्ञतुरीययोस्तुल्यम् । बीजेति । देहगेहादौ स्वातन्त्र्यबुद्धिबीजभूता मूलाविद्या बीजनिद्रा तया युतः तद्युक्तत्वप्रद: प्राज्ञः । सा चेति । चस्त्वर्थे । तुर्ये तु सा बीजनिद्रा तद्युतत्वप्रदत्वमिति यावत् । न विद्यते इत्यर्थः ।। १३ ।।
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ।। १४ ।।
प्र.दी. – पुनरपि विश्वादिवैलक्षण्यं तुरीयस्याह – स्वप्ननिद्रायुतावाद्यो इति । आद्यौ विश्वतैजसौ स्वप्रनिद्रायुतौ जागरस्याप्युपलक्षणम् । जीवद्वारा जाग्रदवस्था निद्राजन्यस्वप्नावस्थाविशिष्टौ भवत: । प्राज्ञस्तु अस्वप्ननिद्रया युतः तुर्ये – वासुदेवे । जागरणं निद्रां स्वप्नं, चकारोऽनुक्तसमुच्चयार्थकः ; सुषुप्तिं च निश्चिताः – निश्चितार्थज्ञानवन्तः न पश्यन्तीत्यर्थः ।। १४ ।।
कू.भा. – प्रकारान्तरेण विश्वादेस्साधर्म्यवैधर्म्य आह – स्वप्नेति । स्वप्नेत्युपलक्षणम् । जागरस्यापि जाग्रत्स्वप्नभ्रमाभ्यां तद्धेतु निद्राशब्दिताविद्यया च युतावाद्यौ तदुभयसंबन्धनियामकौ विश्वतैजसौ । प्राज्ञस्तु अस्वप्ननिद्रया द्विविधभ्रमविनाकृत केवलाविद्यया युतः । तन्मात्रबन्धस्वामी इत्यर्थः । निश्चिताः – सम्यक् निश्चयवन्तः सन्तः निद्रां – निद्राकृतबन्धस्वामित्वं स्वप्नम् – द्विविधभ्रमबन्धहेतुत्वं च तुरीये न पश्यन्ति – न जानन्तीत्यर्थः ।। १४ ।।
अन्यथा गृह्णतः स्वप्नो निद्रातत्त्वमजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ।। १५ ।।
प्र.दी. – एवंविधस्य तुरीयस्य वासुदेवस्य दर्शनप्राप्तिः कदेत्यत्राह – अन्यथागृह्णत इति । भगवदधीनदेहगेहादौ स्वीयमिति ज्ञानवतः, तत्वमजानत: परतत्वमजानतो जीवस्य निद्रा, स्वप्नश्च भवतः । तयोः निद्रास्वप्नयोः विपर्यासे अवर्तन्ते क्षीणे सति तुरीयं पदं – वासुदेवसंबन्धिस्थानम् । यद्वा पद्यते प्राप्यत इति पदम् प्राप्यं तुरीयं वासुदेवं अश्नुते – प्राप्नोति ।। १५ ।।
कू.भा. – एवंविधतुरीयस्य दर्शनप्राप्तिः कदा भवेतामित्यत्राह – अन्यथेति । अन्यथा गृह्णतः: देहगेहादौ भगवदधीने स्वाधीनतां जानतः स्वप्नो भवति । स्वप्नपदेन मिथ्याज्ञानरूपभ्रमपरम्पराग्रह: तत्वं- भगवतस्स्वातन्त्र्यादिरूपं तत्वमजानतो निद्रा मूलाविद्याबन्धो भवति । तयोः निद्राभ्रमयोः विपर्यासे आवर्तने क्षीणे सति तुरीयं पदं – चतुर्थरूपं अश्नुते, साक्षात्कारद्वारा प्राप्नोतीत्यर्थः ।। १५ ।।
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ।। १६ ।।
प्र.दी.-भगवत्कृपया श्रीवासुदेवं साक्षात्करोतीत्याह – अनादिमायया सुप्तः इति । अनादिमायया – अनादिभूताज्ञानेन सुप्तः – अनादिकालप्राप्तसंसाररूपमायाशयने सुप्तः इत्यर्थः । यद्वा अनादिर्भगवान् श्रियःपतिः । तदधीनमायया सुप्तः स्वस्वरूपपरस्वरूपाद्यनभिज्ञः इत्यर्थः । जीवः यदा प्रबुध्यते – भगवत्कृपया प्रबुध्यते जागरूको भवति स्वस्वरूपाद्यर्थपञ्चकज्ञानवान् भवति । तदा – तत्काले अजं, अजायमानो बहुधा विजायते (तै.आर.३-१३-३) इति श्रुत्यन्तरप्रतिपाद्यं, अनिद्रं – सर्वदा आश्रितरक्षणजागरूकं, अस्वप्नं – स्वप्नाद्यवस्थारहितं अद्वैतं – सजातीयद्वितीयवस्तुरहितं श्रीवासुदेवं बुध्यत बुध अवगमने (धा.पा.८५८) इति धातुः । साक्षात्करोति ।। १६ ।।
कू.भा. – निद्राभ्रमयोरावर्तनक्षयः केन स्यात् ? यस्य क्षये भगवदपरोक्षधीरित्यतो भगवत्प्रसादेनैवेत्याह अनादीति । मायाशब्देन भगवदिच्छा तदधीनाऽविद्या च गृह्येते । अनादीति तन्त्रम् । अनादेर्विष्णोरनादिमायया कर्मरूपाविद्यया सुप्तः – स्वापितः संसारे निवेशितो जीवो यदा अनादिमायया भगवदिच्छया भगवत्प्रसादेन प्रबुध्यते भगवानेव स्वतन्त्रोऽन्यत्सर्वं तदधीनमित्यादितत्त्वज्ञानवान् भवति । तदा अजं – जननादिदोषहीनं अनिद्रमस्वप्नं विश्वादिरूपव्यापाराप्रवर्तकं अद्वैतं – मिथ्याज्ञाननिवर्तकं, इदमुपलक्षणं सर्वानिष्टनिवर्तकं भगवन्तं बुध्यते – साक्षात्करोति ।। १६ ।।
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।। १७ ।।
प्र.दी. – ज्ञानिनोऽपि प्रामादिकभ्रमप्रपञ्चो विद्यत इति । तन्निवृत्तिस्तु सर्वस्वतन्त्रश्रियःपतिज्ञानात् भवतीति भगवदुपास्योपासकभावः पारमार्थिक इति, जीवेश्वरैक्यादिभावस्तु भगवन्मायाविलसित इत्याह – प्रपञ्चो यदि विद्येत इति । प्रपञ्चः ज्ञानिनो हि जीवस्य अनादिकालप्राप्तदेहगेहादिषु स्वातन्त्र्याभिमानरूपभ्रमप्रपञ्चः विद्येत यदि, परमार्थत: पारमार्थिकस्वस्वरूप, परस्वरूपाद्यर्थपञ्चकज्ञानं विनिवर्तेत निवतर्त इत्यर्थः । न संशयः – एतस्मिन्नर्थे संशयो न कर्तव्यः । यद्वा परः – उत्कृष्टः मा – नास्ति यस्मात्सः परमः । यद्वा पर: ब्रह्मादिसर्वदेवताप्रार्थनीयत्वेन उत्कृष्टा मा लक्ष्मी: यस्य परमः लक्ष्मीपतिः । तस्य अर्थतः श्रियःपतिरेव परं तत्वमिति ज्ञानात् स्वातन्त्र्यादिभ्रमप्रपञ्चो निवर्तत इत्यर्थः । यद्वा प्रपञ्चः ब्रह्मरुद्रादयः सर्वे उपास्या इति जीवेश्वरयोरैक्यमित्यादिभ्रमप्रपञ्च विद्येत यदि तदा संशयः एतत्सत्यं वा असत्यं वेति संशयः न निवर्तते वर्तत एवेत्यर्थः । मायामात्रमिदं द्वैतमद्वैतं परमार्थत इति । निष्कृष्टार्थमाह इदं – परिदृश्यमानं द्वैतं – द्वयोर्भाव: द्विता द्वितैव द्वैतम् । उपास्योपासकभावः परमार्थतः प्राप्तमित्यध्याहार्यः । न्यायत: प्राप्तंसर्ववादिमत- सम्मतमित्यर्थः । अद्वैतं – द्वैतं न भवतीत्यद्वैतं जीवेश्वरैक्यभावं मायामात्रं – न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहतज्ञानाः आसुरं भावमाश्रिताः । (भ.गी.७-१५) इत्युक्तौ सुरजनमोहक- भगवन्मायाविलसितमिति ज्ञेयम् । द्वैतं मिथ्याभूतमिति अद्वैतं परमार्थमिति कैश्चिद्व्याख्यातम् । तत्तु विकल्पो विनिवर्तेत इत्यादिपूर्वोक्तोपासनाप्रकरणविरोधादसमञ्जसम् ।। १७ ।।
कू.भा. – ननु देहगेहादौ स्वस्वामिसम्बन्धादिरूपबन्धस्य जीवस्वरूपस्येव स्वाभाविकत्वेन निवृत्त्ययोगात् विपर्यासे तयोः क्षीण इत्युक्तिः कथमित्यतो नायं स्वाभाविक इत्याह – प्रपञ्च इति । देहगेहादौ स्वस्वामिसम्बन्धादिरूपो बन्धः प्रपञ्चः सः स्वातन्त्र्येण नास्त्येव । यदि पराधीनोऽपि विद्यत इत्यङ्गीक्रियते तद्यपि परमार्थतः परमश्चासावर्थश्च परमार्थः – उत्तमोऽर्थः भगवान् । तस्मात्परमार्थतः परमेश्वरप्रसादादिति यावत् । निवर्तेत – निवर्तत एव । न संशयः अनादितोऽनुवृत्तस्य देहादी स्वीयत्त्वज्ञानरूपभ्रमस्य कथं निवृत्तिरित्यत आह – मायेति । अद्वैतं – महद्भिर्यथावत्तया ज्ञातं ब्रह्मादिवस्तुजातमज्ञैः द्वैतं – द्वितीयेन प्रकारेण ज्ञातं तद्वैपरीत्येन ज्ञातं तच्च मिथ्याज्ञानं तेषां मायामात्रम् भगवदिच्छामात्रनिर्मितं जातमित्यर्थः । तथा च तादृशमिथ्याज्ञानस्यानादितोऽनुवृत्तस्यापि ईश्वरेच्छया जातत्वेनास्वाभाविकत्वात्तत्प्रसादेन तन्निवृत्तियुक्तेति भावः । उक्तं हि संसारबन्धस्थितिमोक्षहेतुः, (श्वे.उ.६-१६) दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। (भ.गी.७-१४) इत्यादिकम् ।। १७ ।।
विकल्पो विनिवर्तेतँ कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ।। १८ ।। इति ।।
प्र.दी. – सतामुपदेशात् भगवन्मायामोहनजन्यजीवेश्वरैक्यादिरूपवादो न सम्भवतीत्याह – विकल्पो विनिवर्तेत इति । परमात्मजीवयोरैक्यं नैगुण्यं ब्रह्मणस्तथा । मयैव वक्ष्यते देवि ‘कता ब्राह्मणरूपिणा ।। इत्यादि प्रमाणबोध्येन केनचित्कुमार्गप्रवर्तकेन विकल्पः – ब्रह्मरुद्रादिपरत्ववादरूपः जीवेश्वरैक्यादिरूपः विकल्प: कल्पितो यदि – निर्मितो यदि, उपदेशादयं वाद: – श्रियःपतिरेव परं तत्वमिति सतामुपदेशात् अयं वाद: – पूर्वोक्तविविधविकल्परूपासद्वादः विनिवर्तेत – सवासनया निवर्तत इत्यर्थः । ज्ञाते – परमात्मनि श्रीवासुदेवे स्वरूपे ज्ञाते सति अद्वैतं जीवेश्वरैक्यभावादिकं न विद्यते – न सम्भवति इति विज्ञायत इति यावत् ।। १८ ।।
कू.भा. – उक्तमेव सर्ववाक्यार्थं विशदयन्नुपसंहरति – विकल्प इति । देहगेहादौ स्वीयताभिमानादिनानात्मकबन्धरूपो विकल्पः उक्तरीत्याऽस्वाभाविको यदि केनचिदज्ञानादिना स्वाभाविकत्वेन कल्पितः तर्ह्यप्युपदेशात् महतामुपदेशबलात् विनिवर्तेत – विनिवर्तत एव । न निवर्ततेति पाठे काकुः न निवर्तेत किं? अपि तु निवर्तेतैवेत्यर्थः । कस्सतां वादः? यदुपदेशान्नानाविधस्वातन्त्र्यादिभ्रमनिवृत्तिरित्यत आह – अयमिति । ब्रह्मणि यथावद्ज्ञाते सति द्वैतं – शिवमद्वैतम् इत्यत्रोक्तव्युत्पत्त्या मिथ्याज्ञानं न विद्यते । निवर्तत इत्ययं सतां वाद इत्यर्थः ।इति शब्दस्य इत्येते श्लोका भवन्तीत्यनेनान्वयः।।१८ ।।
विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।
मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ।। १९ ।।
प्र.दी. – एवं विश्वादिरूपत्रयं प्रणवावयवाकारादिवर्णत्रयवाच्यत्वेन प्रतिपाद्यचतुर्थवासुदेवरूपं अमात्रश्चतुर्थ इत्यादिना अग्रे विवक्षुः प्रागुक्तरूपत्रयज्ञानिनो फलानि विवृणोति । अत्रेति । रूपत्रयज्ञानिफले विषये, एते वक्ष्यमाणाः श्लोका भवन्ति । तान्मन्त्रान्क्रमेणाह – विश्वस्येति । अत्वविवक्षायां, अत्रत्यविवक्षाशब्देन उपासनमुच्यते । अकारवाच्यविश्वनामधेयकानिरुद्धपरमात्मोपासनायां उपासकस्य उत्कटं – उत्कृष्टं आदिसाम्यं – आदिमत्वसाम्यं भवति । मात्रासंप्रतिपत्तौ मात्राप्रणवांशः अकार: व्याप्तिनिमित्तकप्रणवांशकाकारवाच्यविश्वरूपप्रद्युम्नपरमात्मसंप्रतिपत्तौ ध्याने सति उपासकस्य आप्तिसामान्यमेव च सर्वकामावाप्तिसाम्यं च स्यात् । चकारोऽनुक्तसमुच्चयार्थकः ।। १९ ।।
कू.भा. – एवं रूपत्रयं प्रणवस्याकारादिवर्णत्रयप्रतिपाद्यमुक्त्वा चतुर्थं रूपं अमात्रश्चतुर्थः इत्यादिनाऽग्रे विवक्षुः प्रागुक्तरूपत्रयज्ञानिनो यानि फलान्युक्तानि तत्र ब्रह्मदृष्टश्लोकान् प्रगणयति अत्रेति । अत्र – रूपत्रयज्ञानिफले एते – वक्ष्यमाणा: श्लोकास्संवादिनो भवन्ति । क्रमेण तान्मन्त्रान् पठति – विश्वस्येति । अत्वविवक्षायामिति विवक्षापदेनोपासनं ग्राह्यम् । आदिमत्त्वाद्वा इत्यत्रोक्तदिशा आदिमत्वनिमित्तेन विश्वस्य प्रणवैकदेशावर्णवाच्यत्वोपासनायां सत्यामुपासकस्य आदिसामान्यं – आदिश्च इत्यत्रोक्तदिशा आदिमत्वसामान्यं आदित्वेन विश्वसाम्यं भवति । उत्कटं – स्पष्टमेतत् । यथा यथोपासते स तथैव भवति (मुद्ग.उ. ३) इत्यादेरिति भावः । मात्रासंप्रतिपत्तौ – मात्रा – आत्मनोंऽशो विश्वः । आप्तिनिमित्तकप्रणवांशाकारार्थ इति विश्वरूपांशध्याने ध्यातुराप्तिसामान्यमेव स्यात् । सर्वकामावाप्त्यैव विश्वसाम्यमेव भवेदित्यर्थः ।। १९ ।।
तैजसस्योत्वविज्ञाने उत्कर्षो दृश्यते स्फुटम् ।
मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम् ।। २० ।।
प्र.दी. – उकारवाच्यतैजसापरनामधेयकप्रद्युम्नोपासकफलं विवृणोति – तैजसस्येति । तैजसस्योत्वविज्ञाने – उकारवाच्यतैजसापरनामधेयकप्रद्युम्नोपासनायामित्यर्थः । उपासकस्य स्फुटं उत्कर्षो दृश्यते । मात्रासंप्रतिपत्तौ – मात्रा प्रणवांशः उकारः तद्वाच्यः अनिरुद्धः परमात्मा तस्य सम्प्रतिपत्तौ ध्याने सति तथाविधं उभयत्वं स्यात् । ज्ञानसन्ततिरूपत्वादिकं उत्कृष्टेषु समानत्वं चोभयं स्यादित्यर्थः ।। २० ।।
कू.भा.-तैजसस्येति । तैजसस्य उत्वविज्ञाने – प्रागुक्तरीत्या उत्कर्षनिमित्तेन प्रणवैकदेशोकारवाच्यत्वोपासनायां तस्योपासकस्य उत्कर्षति इत्यत्रोक्तदिशा स्फुटमुत्कर्षो दृश्यते प्रमित इत्यर्थः । मात्रासंप्रतिपत्तौ – प्रागुक्तदिशोभयहेतुत्वनिमित्तेन प्रणवांशोकार- वाच्यत्वेनात्मांशतैजसध्यानेन तस्य ध्यातुस्तथाविधं प्रागुक्तं ज्ञानसन्ततिरूपसर्वज्ञत्वं समानत्वं चेत्युभयवत्वं स्यादित्यर्थः ।। २० ।।
मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।
मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ।। २१ ।।
प्र.दी. – मकारवाच्यप्राज्ञापरनामधेयकसंकर्षणोपासकफलं विवृणोति – मकारभावे प्राज्ञस्य इति । मकारभाव इति मकारवाच्यप्राज्ञापरनामधेयकसंकर्षणपरमात्मोपासनायामित्यर्थः । उत्कटं – उत्कृष्टं मानसामान्यं – सर्वज्ञत्वरूपमानसाम्यं भवति । मात्रासम्प्रतिपत्तौ – प्रणवांशभूतमकारवाच्यसंकर्षण- परमात्मध्याने सति ध्यातुः लयसामान्यमेव च – सर्वानिष्टलयकृत्परमात्मसाम्यं च भवतीत्यर्थः ।। २१ ।।
कू.भा. मकारेति । प्राज्ञस्य मकारभावे मकारत्वे प्रागुक्तमितिरूपनिमित्तेन प्रणवैकदेशमकारवाच्यत्वे विज्ञाते सति मानसामान्यं – सर्वान्तर्भावरूपप्राज्ञसाम्यम् उत्कटं – स्फुटमित्यर्थः । मात्रासंप्रतिपत्तौ – ऐन्द्रियिकविज्ञानलयकृत्त्वनिमित्तेन प्रणवांश मकारवाच्यत्वेन आत्मांशप्राज्ञध्याने तु ध्यातुः लयसामान्यं – दुःखादिलयकृत्त्वेन प्राज्ञसाम्यमेव स्यादित्यर्थः ।। २१ ।।
त्रिषु धामसु यत्तुल्यं सामान्यं वेत्ति निश्चितः ।
स पूज्यः सर्वभूतानां वन्द्यश्चैष महामुनिः ।। २२ ।।
प्र.दी. – अनिरुद्धाधुपासकफलवेत्तारः सर्वभूतवन्द्या भवन्तीत्याह – त्रिषु धामस्विति । त्रिषु धामसु विश्वतैजसप्राज्ञापरनामधेयकानिरुद्धप्रद्युम्नसंकर्षणेषु ध्यातेषु सत्सु ध्यातुर्यत्तुल्यं ध्येयविश्वादिसामान्यं सादृश्यं भवतीति निश्चित: सन् यः वेत्ति – जानाति – सः – महामुनिः । सर्वभूतानां पूज्यो भवति । वन्द्यश्च – नमस्कारयोग्यश्च भवति ।। २२ ।।
कू.भा. – विश्वादिरूपाणामत्वोत्वमत्वज्ञानिनो यदादिसामान्यादिफलमुक्तं तद्दार्ढ्याय विश्वादेरत्वादिज्ञानिन आदिसामान्यादिकं फलमिति यो जानाति तस्याप्यस्ति फलमित्याह – त्रिष्विति । त्रिषु धामसु – त्रिषु रूपेषु उक्तविधया ध्यातेषु सत्सु ध्यातुः यत्तुल्यं ध्येयविश्वादिसादृश्यं सामान्यं – आदिमत्त्वादिसाम्यं च भवतीति निश्चितः – निश्चयवान् सन् वेत्ति सः – वेदिता महामुनिः – सर्वभूतानां पूज्यो वन्द्यश्च भवतीत्यर्थः ।। २२ ।।
अकारो नयते विश्वं उकारश्चापि तैजसम् ।
मकारश्च पुनःप्राज्ञं नामात्रे विद्यतेऽगतिः ।। २३ ।।
।। इति तृतीयः खण्डः ।।
प्र.दी. – विश्वादिरूपत्रयोपासनात्सर्वकामाप्त्यादिफलमुक्त्वा अद्य विश्वादिप्राप्तिमाह – अकारो नयते विश्वमिति । अकारः – प्रणवावयवभूतोकारः स्वोपासकं विश्वं नयति विश्वापरनामधेयकमनिरुद्धं प्रापयति । उकारश्चापि तैजसं – प्रणवावयवभूतोकारश्चापि तैजसं तैजसापरनामधेयकप्रद्युम्नं प्रापयति । मकारश्च पुनः प्राज्ञं प्रणवावयवभूतमकारः स्वोपासकं पुनरपि प्राज्ञं संकर्षणं नयति – प्रापयति । नयतीति सर्वत्रानुवर्तते । सुषुप्तौ जीवस्य प्राज्ञेन सहानुदिनं सम्बन्धस्य विद्यमानत्वात्पुनरपीत्युक्तिः । नामात्रे विद्यते गतिः अकारोकारयोः मकारेणैकीभूतत्वमस्तीति कृत्वा त्रयाणां मात्रत्वं सिद्धम् । अस्य नादस्याशब्दरूपेण अभावादमात्रत्वम् । तस्मादमात्रे नादामात्रे नादात्मकतुरीयापरनामधेयक श्रीवासुदेवोपासने सतीत्यर्थः । अगति: परमात्मप्राप्यभावः न विद्यते – नास्ति । नञ् द्वयस्य अस्त्यर्थबोधकत्वात् वासुदेवसाम्यमस्त्येवेत्यर्थः । तुरीये अस्ति गतिरिति वक्तव्ये विद्यत इत्युक्ति: विश्वादेरिव यथा बाह्यादिव्यापारकारणत्वं नास्ति । तथा गम्यत्वमपि नास्तीति कुशंकानिवारणार्थं अगतिर्नविद्यत इत्युक्ति: ।। २३ ।।
कू.भा. – विश्वादिरूपोपासनात् सर्वकामावाप्त्यादिफलमुक्तं प्राक् । इदानीं विश्वादिप्राप्तिरूपफलं चाह – अकार इति । अकार: अ इत्याक्रियमाणो विश्व: स्वात्मोपासकं विश्वं – स्वात्मानं नयति – प्रापयति । उकारश्चापि तैजसमित्यादौ – नयत इत्यनुकर्षः । प्राग्वद्याख्या । पुन: प्राज्ञमिति – पुनश्शब्द: प्रत्यहं सुप्तौ प्राप्तिसत्त्वेऽपि स्थानविशेषे मुक्तौ तत्प्राप्त्यभिप्रायेणेति ज्ञेयम् । तुरीयोपासकस्य कथमित्यतस्तस्यापि तत्प्राप्तिरस्तीत्याह – नामात्र इति । विश्वतैजसयोः प्राज्ञेन प्रतिदिनमेकीभावोऽस्तीति विश्वादीनां मात्रत्वम् । तुरीयस्य तन्नेत्यमात्र इत्युच्यते तुरीयः । अमात्रे . चतुर्थे अगतिः – तत्प्राप्त्यभावस्तदुपासकस्य न विद्यते । विद्यत एव गतिरित्यर्थः । तुरीयेऽस्ति गतिरिति वक्तव्ये अगतिर्न विद्यत इत्युक्तिः विश्वादेरिव बाह्यादिव्यवहारकारणत्वं यथा नास्ति तथा गम्यत्वमपि नेति शंकावारणार्थमिति ज्ञेयम् ।। २३ ।।
ओंकारं पादशो विद्यात्पादामात्रा न संशयः ।
ओंकारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ।। २४ ।।
प्र.दी. प्रणवे प्रणवावयवाकारादिवाच्यप्रद्युम्नादिव्यूहचतुष्टयध्यानपूर्वक समस्तप्रणव- शब्दवाच्यपरवासुदेवध्याने अन्यस्मरणत्यागःकर्तव्य इत्याह – ओंकारं पादशो विद्यात् इति । ओंकारं – समस्तप्रणवप्रतिपाद्यं परवासुदेवं पादशो विद्यात् – पादभूताकारादिप्रतिपाद्या- निरुद्धप्रद्युम्नसंकर्षणवासुदेवव्यूहचतुष्टयसहितं जानीयादित्यर्थः । पादाः के? इत्यत्राह-मात्रा: अकारादय इति । विद्यात् । न संशयः ओंकारं पादशो ज्ञात्वा – ओंकारवाच्यं परवासुदेवं प्रद्युम्नादिव्यूहचतुष्टयविशिष्टत्वेन ज्ञात्वा न किञ्चिदपि चिन्तयेत् – ध्यानसमये देवतान्तर- साधनान्तरविषयान्तरादिकं न स्मरेदित्यर्थः ।।
कू.भा. – प्रणवावयवाकारादि प्रतिपाद्यभगवद्रूपज्ञानमन्यस्मरणत्यागेन सम्पाद्यमित्यत्र मन्त्रान् ब्रह्मदृष्टानाह अत्रैते’ इति । अत्र उक्तार्थे । ओंकारमिति । ओंकारं – ओमित्याक्रियमाणं समग्रप्रणवप्रतिपाद्यं पादश: – पादैः पद्यन्ते प्राप्यन्ते स्वोपासकैरिति पादैर्विश्वाद्यंशै: विश्वादिचतूरूपात्मना जानीयात् । पादाः किंरूपा इत्यत आह – पादा इति । मात्रा: – प्रणवांशभूताकारादि प्रतिपाद्या इत्यर्थः । ओंकारं – प्रणववाच्यं पादशः – चतूरूपतया ज्ञात्वा किञ्चिदपि न चिन्तयेत् – इतरचिन्तया जायमानफलस्य ततोऽधिकफलस्य चैतद्ज्ञानादेव सिद्धेरिति भावः ।। २४ ।।
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ।। २५ ।।
प्र.दी. – समस्तप्रणवशब्दवाच्यपरवासुदेवध्यानयुक्तस्य क्वचिदपि संसारभयं नास्तीत्याह – युञ्जीत प्रणवे चेत इति । प्रणवे – सर्ववेदवेदाद्यन्तेषु हरिशब्दसामानाधिकरण्यतया शिष्टजनप्रयुक्तोंकारवाच्यपरवासुदेवस्वरूपे चेत: – मनः युञ्जीत – संयोजयेत् । ओमित्यात्मानं युञ्जीत (महा.ना.१८) इति श्रुत्यन्तरम् । प्रणवो ब्रह्म निर्भयम् । प्रणववाच्यं वस्तु आश्रितसंसारभयनिवर्तकबृहत्त्वादिगुणयुक्तपरंब्रह्मेत्यर्थः । प्रणवे – नित्ययुक्तस्य प्रणववाच्यपरवासुदेवे नित्यध्यानायुक्तस्य जीवस्य न भयं विद्यते क्वचित् , कालत्रयेऽपि संसारभयं नास्तीत्यर्थः । न च पुनरावर्तते (छां.उ. ८-१५-१) इति श्रुत्यन्तरम् ।। २५ ।।
कू.भा. – संसारभयं तितीर्पणा ओंकारो भगवान् सर्वथा ध्येय इत्यत्र श्लोकं पठति युञ्जीतेति । प्रणवे – प्रणववाच्ये हरौ चेतो युञ्जीत – तद्विषयं कार्यम् । स कीदृशः प्रणव इत्यत आह – प्रणवो ब्रह्मेति । गुणैर्ब्रहणात् पूर्णत्वात् ब्रह्म विश्वादिरूपचतुष्टयात्मकः प्रणवः निर्भयं; यतो ब्रह्मगुणपूर्णमिति । विश्वादिचतूरूपो हरिर्जाग्रदाद्यवस्था प्रणयनाद्वा प्रणव इत्युच्यते । प्रपूर्वान्नयतेर च्प्रत्यये धातोर्नुशब्दादेशे गुणावादेशणत्वेषु प्रणव इति सिद्धिः । फलमाह – प्रणव इति । तस्मिन्प्रणवे हरौ नित्ययुक्तस्य – नित्यं तद्ध्यायिन इत्यर्थः । क्वचित् – केनापि निमित्तेनेत्यर्थः । फलसाम्यार्थमेव ब्रह्म निर्भयमिति विशेषणोक्तिः ।। २५ ।।
प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः ।
अपूर्वोऽनन्तरो बाह्यो न परः प्रणवोऽव्ययः ।। २६ ।।
प्र.दी. – प्रणवं – प्रणवशब्दवाचं परवासुदेवं च स्तौति – प्रणव इति । प्रणवो ह्यपरं ब्रह्म – प्रणवः ओँकारः हीति प्रसिद्धौ । अपरं ब्रह्म – शब्दरूपमप्रसिद्धं परं ब्रह्म ओमित्येकाक्षरं ब्रह्म (भ.गी. ८-१३) इति श्रुत्यन्तरप्रसिद्धमित्यर्थः । प्रणवश्च – तादृशप्रणववाच्यः परबासुदेवः परः । परिपूर्णत्वादिगुणविशिष्टः इति स्मृतः । अपूर्वः – न विद्यते पूर्वं कारणं यस्य अपूर्वः । अनन्तरः – अन्तशब्दपर्यायो ह्यन्तरशब्दः । न विद्यते अन्तरं नाशो यस्य अनन्तरः । नित्य इत्यर्थः । यद्वा न विद्यते अन्तरं सजातीयवस्त्वन्तरं यस्मान्नास्तीत्यनन्तरं असदृश इत्यर्थः । अबाह्यः – सर्वगतत्वादस्य बाह्यं नास्तीत्यबाह्यः । न परः, परः उत्कृष्टो यस्मानास्तीति न परः । प्रणवः – प्रकर्षेण स्वाश्रितान् स्वसमीपं नयतीति प्रणवः । प्रपूर्वान्नयतेरच्प्रत्यये धातोः नुशब्दादेशे गुणावादेशणत्वेषु कृतेषु प्रणव इति रूपं भवति । एतादृशः परमात्मा अव्ययः – सदैकरूप इत्यर्थः ।। २६।।
कू.भा. – विश्वादिरूपाणामन्योन्यं मूलरूपेण च न गुणतारतम्यमित्याह – प्रणव इति । अपरं – अपर: पूर्वतनः । मूलरूपपूर्वावतारात्मा प्रणवः – हरिः ब्रह्म – पूर्णः । हि प्रसिद्धमेतत् । सर्वेषु भूतेष्वेतमेव ब्रह्मत्याचक्षत इत्यादाविति भावः । परं – यश्चात्मनो विश्वाद्यवताररूपः प्रणवः हरिश्च ब्रह्म पूर्ण इत्याकर्षः । स्मृतः – श्लोकद्रष्ट्रेति योज्यम् । पूर्वावतारे पश्चिमावतारे च पूर्णतैव । न क्वचिन्न्यूनतेति भावः । प्रणवो ब्रह्मेत्युक्तं पूर्णत्वं व्यनक्ति – अपूर्व इति । न विद्यते पूर्व कारणं यस्य सोऽपूर्व: प्रणवः – नाशाभावादनन्तरः । अन्तशब्दपर्या- योऽत्रान्तरशब्दः । सर्वगतत्वादबाह्यः । पराधीनस्थित्यभावान्नपरः । अव्ययः – शश्वदेकप्रकारः ।। २६ ।।
सर्वस्य प्रणवो ह्यादिमध्यमन्तस्तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ।। २७ ।।
प्र.दी. – एवं प्रणव प्रणवार्थज्ञानिनः फलमाह – सर्वस्येति । प्रणवः सर्वस्य वेदस्य आदिः । मध्यः । तथैव चान्तः । आदिमध्यान्तेषु च प्रयुक्त इत्यर्थः । यद्वा प्रणव: प्रणवशब्दवाच्यः परवासुदेवः सर्वस्य – प्रपञ्चस्य आदिः – सृष्टिकर्ता, मध्यः – पालनकर्ता, तथैव चान्तः – प्रलयकर्ता च । जगज्जन्मादिकारणमित्यर्थः । एवं हि प्रणवं ज्ञात्वा – प्रणवं प्रणवशब्दार्थं च एवं प्रकारेण ज्ञात्वा, अनन्तरं । प्रारब्धकर्मभोगानन्तरं तत् – वासुदेव परब्रह्म व्यश्नुते – विशेषेण प्राप्नोतीत्यर्थः ।। २७।।
कू.भा. – सर्वस्येति । प्रणवः – हरिः सर्वस्य – आदिः – कारणं, मध्यं – स्थितिकर्ता, तथा अन्तः । नाशकर्ता च स एवेति निश्चये तद्ज्ञानिनः फलमाह – एवं हीति । एवं – ब्रह्मवादिना प्रकारेण प्रणवं – हरिं ज्ञात्वा अनन्तरं – प्रारब्धभोगानन्तरं तत् – ब्रह्म व्यश्नुते – विशेषेण प्राप्नोति । सदा सत्त्वेऽपि स्थानादिविशेषाभिप्रायेण वीत्युक्तिः ।। २७ ।।
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् ।
सर्वव्यापिर्नमोंकारं मत्वा धीरो न शोचति ।। २८ ।।
प्र.दी, – प्रणवशब्दवाच्यसर्वहृदिस्थित श्रीपरवासुदेवोपासकस्संसारदुःखं न प्राप्नोतीत्याह – प्रणवमिति । प्रणवशब्दवाच्यं परवासुदेवं सर्वस्य हृदि संस्थितं – सर्वस्य हृदि नियमनाथं स्थितं ईश्वरं – ब्रह्मादिनियन्तारं विद्यात् – जानीयादित्यर्थः । धीरः – धिया ब्रह्मविषयकबुद्ध्या रमतीति धीरः ज्ञानी सर्वव्यापिनं अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (तै.ना. २५) इति श्रुत्यन्तरसिद्ध श्रीमन्नारायणं ओंकारं – ओंकारवाच्यं प्रकृतपरवासुदेवं मत्वा – ज्ञात्वा न शोचति – तत्कृपया संसारदुःखं न प्राप्नोतीत्यर्थः ।। २८ ।।
कू.भा. – उपासने स्थानविशेषं विदधत् प्रणवस्य हरेर्महिमान्तरमाह – प्रणवं हीति । ईश्वरं – सर्वनियामकं प्रणवं हरिं सर्वस्य हृदि संस्थितं विद्यात् – उपासीत ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । तमेव शरणं गच्छ (भ.गी. १८-६१,६२) इति स्मृतेरिति भावः । एवं सर्वव्यापिनं ओंकारं – ओमित्याक्रियमाणं मत्वा उपास्य धीरः – ज्ञानी न शोचति आविर्भूतापहतपाप्मत्वादिगुणाष्टको मुच्यत इत्यर्थः ।। २८ ।।
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमश्शिवः ।
ओंकारो विदितो येन स मुनिर्नेतरो जनः ।।
स मुनिर्नेतरो जन इति ।। २९।।
।। इति गौडपादीयाः माण्डूक्यकारिकाः।।
प्र.दी – ओंकारवाच्यपरवासुदेवोपासकः मुक्तो भवतीत्याह – अमात्र इति । न विद्यन्ते मात्राः अंशाः विश्वादिसंज्ञिकाः यस्य अमात्रः । मूलरूपपरवासुदेव इत्यर्थः । स एवानन्तमात्रः । अनन्ताः मात्राः रामकृष्णादिरूपाः अंशाः यस्य स अनन्तमात्रः । अनन्तावतारकन्दभूतः द्वैतस्योपशमः द्वैतस्य प्रपञ्चस्य उपशान्तिः प्रलयकाले ह्यस्मिन्निति उपशमः । शिवः – मङ्गलकर: ओंकारः समस्तप्रणववाच्य परवासुदेवः येनोपासकेन विदितः – विज्ञातः सः मुनि: – मुक्तो भवति । इतरः – एतादृश परवासुदेवाविज्ञाता न मुक्तो भवति । किन्तु जनो भवति – जननादिविशिष्टो भवति इत्यर्थः । स मुनिर्नेतरो जन इति द्विरुक्तिरुपनिषत्समाप्तिबोधिका ।। २९ ।।
अस्यामुपनिषदि प्रथमखण्डे प्रणवावयवभूताकारोकारमकारवाच्यविश्वादिषु प्रद्युम्नादिदृष्टिः कर्तव्येत्युक्ता । द्वितीयखण्डे जाग्रत्स्वप्नसुषुत्यधिष्ठानभूतानां विश्वादीनां वैभवमुक्त्वा प्रपञ्चः ब्रह्मविवर्तः इत्यसद्वादिनामभिप्रायं चोक्त्वा, प्रपञ्चसृष्टिर्भगवतस्स्वभाव इत्यन्यदसत्यमिति तुरीयस्वरूपं विश्वादिविलक्षणमित्युपास्योपासकभावस्सत्य इत्यन्यदसत्यमिति सतामुपदेशान्ते तादृशमोहो निवर्तत इत्यादिकं प्रतिपादितम् । तृतीयखण्डे विश्वादयो अकारादिवाच्या: इति तेषु अनिरुद्धादिदृष्टिः कर्तव्येति एतादृशज्ञानिनां फलमुक्त्वा अन्तकाले अकारादयस्स्वोपासकजनान् विश्वादीन्नयतीत्युक्तम् । अथ चतुर्थखण्डे व्यूहवासुदेवस्वरूपं तदुपासकलब्धफलं चोक्त्वा समस्तप्रणवशब्दवाच्यपरवासुदेवोपासक: मुक्तो भवतीत्यन्येषां मुक्तिर्नास्तीत्युक्तम् । ततश्चोपक्रमोपसंहारेषु ब्रह्मणः मायाविद्याभ्यां जीवेश्वरत्वकल्पनं तन्मिथ्यात्वकल्पनं च यत्र कुत्रापि नोक्तम् । किन्तु प्रणवशब्दवाच्यः परवासुदेव इति तदुपासको मुक्तो भवतीत्युक्तम् ।।
।। भारद्वाजरामानुजाचार्यविरचिता गौडपादीयमाण्डूक्यकारिकाप्रतिपदार्थदीपिका समाप्ता ।।
कू.भा. – एवमुक्तां समस्तव्यस्तप्रणवाभिधेय भगवदुपासनामनुवदन् तद्ज्ञानिनः स्तवेनोपसंहरति – अमात्र इति । अमात्र: मात्राः अंशाः । तद्विहीन: अमात्रः – मूलरूपेण स्थित इति यावत् । अनन्तमात्रः – जगद्व्यापारनिर्वहणार्थमिच्छाकृतविश्वाद्यनन्तांशः इच्छागृहीताभिमतोरुदेहः (वि.पु. ६-५-८४) इति स्मृतेः । द्वैतस्योपशमः – स्वोपासकानां सर्वानिष्टनिवर्तकः, शिवः – निर्दुःखसुखरूपः, ओंकारः – ओमित्याक्रियमाण: । एवं रूपो येन विदितः – ज्ञातः स मुनिः नेतरः; किन्तु सः जनः जननमरणादिना परिवर्तत इत्यर्थः । मुनिस्तु मुच्यत इति भावः । स मुनिर्नेतरो जनः इति द्विरुक्तिरुक्तसर्वप्रमेयावधारणार्था । उपनिषत्समाप्त्यर्था च ।। २९ ।।
।। श्रीकूरनारायणमुनिविरचितं गौडपादीयमाण्डूक्यकारिकाभाष्यं समाप्तम् ।।