मुण्डकोपनिषत्
तृतीयमुण्डके द्वितीयखण्डः
[आत्मतत्त्वज्ञानात् मोक्षप्राप्तिः]
स वेदैतत् परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् ।
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ।। १ ।।
आत्मवित्पूजायाः मोक्षफलकत्वमाह – स वेदैतत् इति । यत्र – ब्रह्मणि, विश्वं – जीवजातम् निहितम् , शुभ्रम् – निर्मलं स्वप्रकाशं भाति, एतत् – ईदृशं सवकामास्पदतया धाम – शब्दितं परमं ब्रह्म – नारायणं, सः – पूर्वप्रकृतः आत्मज्ञः वेद इत्यर्थः । अतः ये धीराः – प्रज्ञाशालिनः तादृशमात्मज्ञं पुरुषं – ‘फलान्तर कामनारहिता मुमुक्षवः सन्तः परमात्मानमिव उपासते ते एतच्छुक्रम् – चरमधातुम् , अतिक्रम्य वर्तन्ते – जन्मशून्या भवन्तीत्यर्थः ।।
[आत्मज्ञस्य पर्याप्तकामत्वम् ]
कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ।। २ ।।
कामान् यः कामयते इति । यस्तु – देवत्वमनुष्यत्वादीन् कामान् – भोग्यतया मन्यमानः कामयते, सः तत्र तत्र – देवत्वमनुष्यत्वादौ कामभि: – कामैः ‘तत्तत्कामवशादिति’ यावत् । देवमनुष्यादिरूपेण जायते । पर्याप्त – परि पूर्णे ब्रह्मणि कामनावत: कृतात्मनः – विदितात्मतत्त्वस्य तु इहैव – अस्मिन्नेव जन्मनि, सर्वाः आशाः लुप्ताः अत: न जन्मान्तरप्रसक्तिः इत्यर्थः । कृतात्मनः इत्यत्र शब्ददर्दुरं करोति (पा.सू. ४-४-३४) इत्यत्रेव कुञः ज्ञानमर्थः ।
[आत्मप्राप्तिसाधनम् ]
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूँ स्वाम् ।। ३ ।।
नायमात्मा प्रवचनेन इति । प्रवचनशब्देन मननं लक्ष्यते ; तत्साधनत्वात् । मेधाशब्दश्च निदिध्यासनवाची । श्रवणमनननिदिध्यासनैः केवलैः न प्राप्य इत्यर्थः । पुनः केनेत्यत्राह – यमैवेष वृणुते तेन लभ्यः । एषः – परमात्मा, यम् – उपासकम् वृणुते तेन प्राप्यः । वरणीयेन प्राप्य इति यावत् । प्रियतमश्च वरणीयो भवति । प्रियतमत्वं च स्वस्मिन् प्रीतिमत एव । अतश्चायमर्थो लभ्यते ‘यस्तु परमात्मनि निरतिशयप्रीतिमान् , स परमात्मानं प्राप्नोति इति प्रीतिरूपापन्नभगवदुपासनस्य ‘भगवत्प्राप्ति हेतुत्वमित्यर्थः । तस्यैष आत्मा विवृणुते तनूं स्वाम् । तादृशस्य उपासकस्य एष आत्मा स्वात्मानं प्रकाशयति । स्वानुभवमुत्पादयतीत्यर्थः ।।
[ब्रह्मप्राप्त्यै बलादि उपायाः]
नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् ।
एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा ‘विशते ब्रह्मधाम ।। ४ ।।
नायमात्मा बलहीनेन इति । अयमात्मा अवसन्नमनसा न लभ्यः । अवसादो नाम देशकालवैगुण्यादिजन्यं दैन्यम् । तदभावो हि बलम् । प्रमादः अनवहितचित्तता तपश्शब्दः तपःप्रधानसंन्यासाश्रमपरः । तप एव’ द्वितीय इतिवत् । तस्य च लिङ्गं शिखा-यज्ञोपवीत-शिक्य-जलपवित्रादि । तद्रहितात् संन्यासादपि इत्यर्थः । तपसः इत्येतत् आश्रमान्तरस्याप्युपलक्षणम् । सर्वाश्रमाणामपि ब्रह्मविद्याधिकारसत्त्वादिति द्रष्टव्यम् । लिङ्गशून्यैराश्रमैः न प्राप्य इत्यर्थः । आश्रमलिङ्गानि अपेक्षितानीति यावत् । एतैरुपायैः । इति । उक्तैः बलाप्रमादसलिङ्गाश्रमैः यो विद्वान् ब्रह्मप्राप्तये यतते तस्य एषः – तादृशोपायसंस्कृतः आत्मा – स्वरूपं धाम – प्राप्यं परं ब्रह्म प्राप्नोतीत्यर्थः ।।
[ज्ञानिनां परमात्मना परमसाम्यापत्तिप्राप्तिः]
संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।
ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ।। ५ ।।
संप्राप्यैनम् इति । ऋषयः – तत्त्वदर्शिनः, एनम् – परमात्मानम् , संप्राप्य – जीवद्दशायामेव अनुभूय तेनानुभवेन संतुष्टाः, कृतात्मानः – लब्धात्मसत्ताकाः, अपगतविषयाशाः, अत एव प्रशान्ताः निगृहीतेन्द्रियाश्च ये सन्तीत्यर्थः । ते सर्वदेशावच्छेदेन अन्तर्बहिश्च सर्ववस्तुगतं परमात्मानं देशविशेषविशिष्टं प्राप्य आविर्भूतब्राह्मरूपविशिष्टात्मानः धर्मभूतज्ञानेन सर्वं वस्तुगत्या प्राप्नुवन्ति ; सर्वमनुभवन्तीत्यर्थः ।।
[ब्रह्मज्ञानेन मुक्तिः]
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु (तु) परान्तकाले परामृतात् परिमुच्यन्ति सर्वे ।।६।।
वेदान्तविज्ञानेति । ये यतयः – निर्जितेन्द्रियग्रामाः, काम्यकर्मसंन्यासेन शुद्धसत्त्वा: – परिशुद्धान्तःकरणा: वेदान्तश्रवणजन्यज्ञानेन निर्ज्ञात परमात्मतत्त्वाः’ इत्यर्थः । ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे । ब्रह्मैव लोको ब्रह्मलोकः । तत्र वर्तमानाः ब्रह्मनिष्ठाः, परान्तकाले – अन्तकाले च मामेव (भ.गी. ८-५) इत्युक्त चरमदेहावसानसमये परामृतात् – प्रसन्नात् ब्रह्मणो हेतोः सर्वे परिमुच्यन्ते इत्यर्थः इति । विशेषं च दर्शयति (ब्र.सू. ४-३-१५) इति सूत्रे व्यासार्यैरयं मन्त्रखण्डो विवृतः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे इति पाठे, ते चरमशरीरावसाने भगवल्लोकेषु, परम् अमृतशब्दितं ब्रह्म प्राप्यत्वेन येषां ते परामृताः – ब्रह्म प्राप्ता इति यावत् – स्वरूपतिरोधायकाविद्यया सवासनं विमुक्ता भवन्ति । परं ज्योतिरुपसंपद्य – स्वेनरूपेणाभिनिष्पद्यते (छां.उ. ८-१२-२) इति श्रुतेरित्यर्थः । न च भगवल्लोकस्यैकतया कथं बहुत्वम् इति शंकनीयम् परस्य ब्रह्मणः परिपूर्णस्य सर्वगतस्य सत्यसंकल्पस्य स्वेच्छापरिकल्पिता: स्वासाधारणा: अप्राकृताश्च लोका: नात्यन्ताय न सन्ति, श्रतिस्मृतीतिहासपुराणप्रामाण्यात् (४-३-११) इति भगवता भाष्यकृता उक्तत्वात् ।
[मोक्षकाले देहजनकसर्वकलानां परमात्मनि संगतत्त्वम् ]
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ।। ७ ।।
गताः कलाः पञ्चदश इति । मुच्यमानजीवोपकारिकाः, स प्राणमसृजत प्राणाच्छ्रद्धाम् (प्र.उ. ६-४) इत्यादिप्रश्नोपनिषदुक्तप्राणादिनामान्तषोडशकलामध्ये कर्मव्यतिरिक्ताः पञ्चदशकलाः स्वस्वप्रकृतिषु संश्लेषविशेषयुक्ता भवन्ति देवाः – वागादीन्द्रियाणि तत्तदधिष्ठात्रादित्यादिदेवतासु, प्रतिष्ठां – संसर्गविशेषं गच्छन्ति, न तु लीयन्ते । इन्द्रियादीनामाकल्पस्थायित्वात् । यत्रास्य पुरुषस्य मृतस्याग्निं वागप्यति वातं प्राणश्चक्षुरादित्यम् (बृ.उ. ५-२-१३) इत्यादिषु वागादीनामग्नयाद्यप्ययश्रवणस्य भाक्तत्वमिति अग्नयादिगतिश्रुतेरिति चेन्न भाक्तत्वात् , (ब्र.सू. ३-१-४) इति सूत्रितत्वात् । कर्माणि विज्ञानमयश्चेति । यानि च कर्माणि अदत्तफलानि दर्शनसमानाकारज्ञानारंभसमये क्षमिष्ये इति संकल्पविषयभूतानि तानि कर्माणि विज्ञानमय आत्मा च अक्षरात्परतः परः (मु.उ. २-१-२) इति सर्वस्मात्परभूते अव्यये – अक्षरे एकीभवन्ति – परमात्मप्रीत्यप्रीतिरूपाणां कर्मणां तत्रैकीभावः तद्धर्मभूतज्ञाने लय एव । जीवस्यैकीभावो नाम नामरूपात्मकभेदकाकारप्रहाणम् । कर्मणां नाशात् कलानां मुच्यमानं प्रति नोपकरणत्वमिति भावः ।।
[ब्रह्मज्ञानिनः परमपुरुषसाम्यप्राप्तिः]
यथा नद्यः स्यन्दमानाः समद्रे अस्तंगच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ।। ८ ।।
तदेवोत्तरमन्त्रेण यथा नद्यः स्यन्दमानाः इति – विशदयति – यथा गङ्गायमुनासरस्वत्यादिनद्यः स्वोत्पत्तिस्थानेभ्य: ‘प्रसृताः’ गङ्गायमुनासरस्वत्यादीनि नामानि शुक्लकृष्णलोहितादीनि रूपाणि च विहाय समुद्रे एकतामिव भजन्ते । विद्वान् तद्वदेव भेदकैर्नामरूपादिभिः विमुक्तःसन् , दिव्यो ह्यमूर्तः पुरुषः इति मन्त्रप्रतिपाद्यं पुरुषं प्राप्नोति । यथा नदीसमुद्रजलयोर्वस्तुतो नैक्यम् , अपि तु भेदकाकारप्रहाणमात्रम् , एवमिहापि मुक्तस्य परमात्मना, पूर्वमुक्तात्मभिरपिनैक्यम् । अपि तु परमसाम्यमात्रम् । अत एव कठवल्लयाम् यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति (कठ.उ. २-१-१५) इति सादृश्यमेवोक्तम् । न तु तद्भावः ।
ननु अवयवातिरिक्तावयव्यन्तराभाववादिनाम् परस्परसदृशानां घटावयवानां भिन्नानामेव सतामेकत्वावस्थाश्रयत्ववत् , कुण्डलकटकादीनां मूषानिक्षिप्तानाम् अग्नितापद्रुतानां वस्तुतो भिन्नानामपि एकत्वावस्थाश्रयत्ववत् नदीसमुद्रजलयोरपि परस्परमिलितयोः संसगद्रव्ययोः एकत्वावस्थाश्रयत्वमस्ति । ततश्च निर्विशेषब्रह्मैकतापत्तिरेव परममुक्तिरिति चेत् न निर्गुणविद्याश्रेष्ठत्वेन पराभिमतायां प्रजापतिविद्यायामपि स तत्र पर्येति (छां.उ. ८-१२-३) इति मुक्तब्रह्मणोः आधाराधेयभावश्रवणात् । सत्यकामत्वसत्यसंकल्पत्वादिरूपधर्माणां मुक्तावेवाविर्भावस्य निर्गुणविद्याफलत्वेन उत्तराञ्चेदाविर्भूतस्वरूपस्तु (ब्र.सू. १-३-१८) इत्यत्र परैरप्यङ्गीकृतत्वात् । न च सत्यकामत्वं सत्यसंकल्पत्वं च जीवस्य स्वरूपमात्रमिति शक्यते वक्तुम् । कामशब्दोदितानां कामनाविषयसृज्य- पदार्थानाम् , संकल्पशब्दोदितस्य तत्सृष्टिहेतुमायावृत्तिविशेषस्य च “स्वरूप’बहिर्भावावश्यंभावात् । तेषां च मुक्तावाविर्भावे कथं निर्विशेषतापत्तिः । अनाविर्भाव च प्रजापतिविद्यायाम् , य आत्माऽ पहतपाप्मा (छां.उ. ८-७-१) इत्यादिना गुणाष्टकोपदेशवैयर्थ्यम् । न हि प्रजापतिविद्यायां गुणाष्टकोपदेशस्य उपासनार्थत्वं संभवति; परैस्तत्रोपासनाविध्यनङ्गीकारात् । नापि तदवगत्यर्थ उपदेशः । मुक्तत्यर्थावगतेः शुद्धब्रह्मविषयत्वात् तत्त्वमसि (छां.उ. ६-८-७) इत्युपदेशस्थले ब्रह्मणो. जगदुपादानत्वादिवर्णनस्य ‘अध्यारोपापवाद न्यायेन निष्प्रपञ्चत्वबोधनार्थतयेवात्र प्रकारान्तरेण सार्थकत्वोपपादनायोगात् । नापि प्रवर्त्य रुच्युत्पादनार्थः ; गुणकीर्तनस्य निर्गुणविद्यारुच्युत्पादकत्वासंभवात् । अतो निर्गुणविद्याप्रकरणे अपहतपाप्मत्वाद्युक्ते:
आविर्भविष्यत्तया तद्बोधनार्थतयैव साफल्यं वाच्यम् । अतश्च मुक्तौ निर्विशेषब्रह्मभावापत्तिकथनमसंगतम् ।।
[नास्याब्रह्मवित् कुले भवति]
स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति ।
तरति शोकं, तरति पाप्मानं गुहाग्रन्थिम्यो विमुक्तोऽमृतो भवति ।। ९ ।।
स यो ह वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति इति। वेदनं ध्यानविश्रान्तं ध्यानं श्रान्तं धुवास्मृतौ । सा च दृष्टित्वमभ्येति दृष्टिर्भक्तित्वमृच्छति ।। इत्युक्तरीत्या प्रीतिरूपापन्नदर्शनसमानाकारोपासनयुक्तो भवति, सः ब्रह्मैव भवति – आविर्भूतब्राह्मरूपो भवति इत्यर्थः । आनुषङ्गिकं प्रयोजनमाह – नास्याब्रह्मवित्कुले भवति इति । अस्य कुले अब्रह्मवित् न भवतीत्यर्थः । तरतिशोकं तरति पाप्मानम् इति । स्पष्टोऽर्थः । गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति । त्रिगुणात्मकप्रकृतिकारितरागद्वेषादिभ्य: विमुक्तः सन् आविर्भूतगुणाष्टको भवति ।।
[शिरोव्रतं कुर्वतां आथर्वणिकानां अक्षरब्रह्मविद्योपदेशः]
तदेतदृचासभ्युक्तम् ।
क्रियावन्तः श्रोत्रियाः ब्रह्मनिष्ठा: स्वयं जुह्वते एकर्षि श्रद्धयन्तः ।
तेषामैवेतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ।। १० ।।
तदेतदृचाऽभ्युक्तम् । एतद्विद्यासंप्रदानमभिमुखीकृत्य ऋमन्त्रेण उक्तम् । क्रियावन्तः श्रोत्रिया: इति । नित्यनैमित्तिकक्रियायुक्ताः अधीतवेदाः ब्रह्मबुभुत्सवः एकर्षिशब्दितं अग्निहोत्रं स्वयमेव जुह्वतीत्यर्थः । एकर्त्विङ्मात्रसाध्यत्वादग्निहोत्रस्य एकर्षित्वमित्यर्थः । यद्वा एकश्चासावृषिश्च । मुख्यर्षि:- परमात्मा, तथा प्राणा: (ब्र.सू. २-४-१) इत्यत्र ऋषिशब्दश्च सर्वज्ञे तस्मिन्नेव युज्यते इति भाषितत्वात् । श्रद्धयन्तः – तत्र श्रद्धायुक्ताः इत्यर्थः ।। तेषामेवैतां ब्रह्मविद्यां वदेतेति । अत्र विद्याशब्दो ग्रन्थसंदर्भे वर्तते । तेषामेवैतां ब्रह्मप्रतिपादिकां ‘वेदरूपां प्रब्रूयात् : यैः शिरसि अङ्गारपात्रधारणलक्षणम् आथर्वणिकानां वेदव्रतत्वेन प्रसिद्धं यथाशास्रमनुष्ठितमित्यर्थः । अयं चार्थः स्वाध्यायस्य तथात्वे हि (ब्र.सू. ३-३-३) इति सूत्रभाष्ये स्पष्टः । इत्थं हि तदधिकरणम् – नानाशाखासु आम्नातानि वैश्वानराक्षरोपासनादीनि अभ्यासप्रकरणान्तराभ्यां भिद्यन्ते । इतरथा पुनश्श्रवणलक्षणाभ्यासस्य प्रकरणान्तरस्य च वैयर्थ्यप्रसङ्गात् इति शाखान्तराधिकरणपूर्वपक्षन्यायेन पूर्वपक्षे प्राप्ते – सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् (ब्र.सू. ३-३-१) । सर्ववेदान्तेषु प्रतीयमानं वैश्वानराद्युपासनमेकमेव चोदविशेषात् चोदना तावत् वैश्वानरम् नाद्य उपासीतेत्यादिकैकरूपैव ब्रह्माप्राप्तिरूपफलसंयोगोऽप्यविशिष्टः । उपास्यरूपमप्यविशिष्टम् । वैश्वानरविद्येति समाख्याऽप्यविशिष्टा । अतः एकं वा संयोगरूपचोदनाख्याऽविशेषात् (पू.मी.सू. २-४-९) इति शाखान्तराधिकरणसिद्धान्तसूत्रोक्तन्यायेन उपासनैक्यमेव स्वीकर्तव्यम् । भेदान्नेति चेत् एकस्यामपि (ब्र.सू. ३-३-२) शाखान्तरे अभ्यासप्रकरणान्तरवशेन विद्याभेदावश्यंभावात् न विद्यैक्यम् , विद्यैक्ये पुनः श्रवणवैयर्थ्यप्रसङ्गात् इति चेन्न – एकस्यामपि विद्यायामध्येतृभेदात् पुनः श्रवणसार्थक्योपपत्तेः न विद्याभेदः । ननु विद्यैक्ये मुण्डकाम्नाताक्षरविद्यायाः ।
शाखान्तराधीताक्षर विद्यैक्येन. तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् । इत्याथर्वणिकमात्रानुष्ठेयशिरोव्रताङ्गकत्वं शाखान्तराधीताक्षरविद्याया अपि स्यात् । न च इष्टापत्तिः । शिरोव्रतशून्यानाम् अनाथर्वणिकानामक्षरविद्यानिष्ठ न स्यात् । अत आथर्वणिकमात्रानुष्ठेयशिरोव्रताङ्गकमुण्डकाम्नाताक्षरविद्यायाः शाखान्तराधीताक्षरविद्या भिद्यत इत्यभ्युपगन्तव्यमिति चेत् – तत्राह – स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववञ्च तन्नियम: (ब्र.सू. ३-३-३) तथात्वे इति निमित्तसप्तमी । स्वाध्यायस्य तथात्वसिदध्यर्थम् अध्ययनजन्यसंस्कारभाक्त्वसिद्ध्यर्थं शिरो’व्रतागाध्ययनेन उपनिषद्रूपस्वाध्यायस्य संस्कारो भवति । उपनिषदध्ययनाङ्गं शिरोव्रतम् न विद्याङ्गम् । नैतदचीर्णव्रतोऽधीते – इति शिरोव्रतस्याध्ययनसंयोगावगमात् , समाचाराख्ये – आथर्वणिकग्रन्थे इदमपि वेदव्रतेन व्याख्यातम् इति शिरोव्रते वेदव्रतशब्दप्रयोगाच्चाध्ययनाङ्गमेव शिरोव्रतम् : न विद्याङ्गम् । सववञ्च तन्नियमः – यथा सप्तसूर्यादयः शतौदनपर्यन्ताः सवहोमा आथर्वणिकैकाग्निसंबन्धात् । तत्रैव ‘नियता’ भवन्ति, एवं शिरोव्रतमपि आर्थर्वणिकाध्ययनसंबन्धात् तत्रैव नियतं भवति । दर्शयति च श्रुतिरुपासनस्य सर्ववेदान्तप्रत्ययत्वम् । तथा हि छान्दोग्ये तस्मिन् । यदन्तस्तदन्वेष्टव्यम् (८-१-१) इत्युक्त्वा , कितदत्र विद्यते, यदन्वेष्टव्यम् (८-१-१) इति प्रश्नपूर्वकम् अपहतपाप्मत्वादिगुणाष्टकविशिष्टः परमात्मा तस्मिन्नुपास्यः इत्युक्तम् । तैत्तिरीयके तु छान्दोग्यस्थं प्रतिनिर्दिष्टमुपजीव्य, तत्रापि दहरं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम (तै.ना. १०-२३) इति गुणाष्टकविशिष्टस्य परमात्मन उपासनमुच्यते । तदेतदुपजीवनं विद्यैक्यं दर्शयति । एवं सिद्धस्य विद्यैक्यस्य प्रयोजनमुच्यते उपसंहारोऽर्थाभेदात् विधिशेषवत्समाने च(ब्र.सू. ३-३-५) एवं सर्ववेदान्तेषु समाने सत्युपासनं वेदान्तान्तराम्नातगुणा: वेदान्तान्तरे उपसंहर्तव्या ; विधिशेषवत् – अर्थाभेदात् । यथैकस्मिन् वेदान्ते श्रुतो वैश्वानरदहरादिविधिशेषो गुणस्तद्विद्यासंबन्धात् तदुपकारायानुष्ठीयते, तथा वेदान्तान्तरोदितोऽपि गुणस्तसंबन्धित्वविशेषात उपसंहर्तव्यः । चशब्दोऽवधारणे । एवं गुणोपसंहारपादाद्ये स्थितम् ।।
तदेतत्सत्यमृषिरङ्गिराः प्रोवाच नैतदचीर्णव्रतोऽधीते ।।
नमः परमऋषिभ्यो नमः परम (मर्षि!) ऋषिभ्यः ।। ११ ।।
।। इति तृतीयमुण्डके द्वितीयः खण्डः ।।
।। समाप्ता च मुण्डकोपनिषत् ।।
तदेतत्सत्यमृषिरङ्गिराः प्रोवाच इति। एतत् सत्यम् – अक्षरम् , अङ्गिरा ऋषिः शौनकाय प्रोवाच । नेतदचीर्णव्रतोऽधीते । अचीर्ण – शिरोव्रतेन एतन्नाध्येतव्यमित्यर्थः । तेषामेवैतां ब्रह्मविद्यां वदेत इति पूर्वमन्त्रे अचीर्णशिरोवताय एतदध्यापनं निषिद्धम् । अस्मिंस्तु वाक्ये अचीर्णशिरोव्रतस्य अध्ययनं निषिध्यत इति भेदो द्रष्टव्यः । इयमुपनिषत् सर्वाऽपि भगवत्परा इति भगवता बादरायणेन समन्वयाध्याये द्वाभ्यामधिकरणाभ्यां निर्णीतम् । अदृश्यत्वादिगुणकाधिकरणम् – तथा हि – अदृश्यत्वादिगुणको धर्मोक्तेः (ब्र.सू. १-२-२२) इत्यधिकरणे – अदृश्यमग्राह्यम् – इत्यचेतनधर्माणां दृश्यत्वादीनां निषेधः तत्प्रसक्तिमत्यचेतन एव अवस्थान्तरापन्ने युज्यते । ‘न तु’ तत्प्रसक्तिशून्ये परमात्मनि । अबालः, अतरुणः इत्यादिनिषेधाः तत्प्रसक्तिमति अवस्यान्तरापन्नमनुष्यादावेव दृष्टाः । न तु तत्प्रसक्तिशून्य पाषाणाकाशादौ । किं च अदृश्यत्वादिविशिष्टस्याक्षरस्य परमपुरुषत्वे अक्षरात् परतः परः, इति ततोऽपि परस्य पुरुषस्य श्रवणं नोपपद्यते । अतः अक्षरात्परतः परः इति पुरुषगतपरत्वावधितया अक्षरात् इति निर्दिष्टस्य भूतयोन्यक्षरस्य परमपुरुषत्वा संभवात् , अक्षरशब्दस्य प्रधाने प्रसिद्धेश्च । अदृश्यत्वादिगुणकं भूतयोन्यक्षरं प्रधानमेव । तत्परतया निर्दिश्यमानः पुरुषोऽपि पञ्चविशक एव ; नतु परमपुरुषः । परमपुरुषस्याक्षरपरभूतजीवादपि परत्वेन अव्यवहितपरत्वाभावात् । न च अक्षरात् परत इति पदयोः वैयधिकरण्याश्रयणेन अक्षरादपि परभूतात् जीवात् परत्वमेव पुरुषस्य प्रतिपाद्यते इति वाच्यम् । अक्षरात् परत इति पदयोः स्वकार्यवर्गापेक्षया परभूते अक्षरे सामानाधिकरण्येन वृत्तिसंभवे तयोर्वैयधिकरण्ये प्रमाणाभावात् । अतोऽत्र प्रकृतिजीवावेव प्रतिपाद्येते, न परमात्मा इति पूर्वपक्षे प्राप्ते – अदृश्यत्वादिगुणको धर्मोक्तेः (ब्र.स.१-२-२२) विशेषणभेदेव्यपदेशाभ्यां च नेतरौ (ब्र.सू. १-२-२३) रूपोपन्यासाञ्च (ब्र.सू. १-२-२४) इति त्रिभिः सूत्रै: सिद्धान्तः कृतः । तेषां चायमर्थः – अदृश्यत्वादिगुणक: परमात्मैव ; तद्धर्माणां सर्वज्ञत्वादीनां य: सर्वज्ञः सर्ववित् (मुं.उ. १-१-९) इत्यादिवाक्येन अन्न प्रकरणे उक्तत्वात् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिना सिद्धेन चेतनाचेतनात्मकनिखिलप्रपञ्चोपादानत्वेन भूतयोन्यक्षरस्य विशेषणात् , अक्षरात् परत:परः इति प्रकृतिजीवाभ्यां भेदव्यपदेशाञ्च भूतयोन्यक्षरं परमात्मैव । न च अक्षरात् परत इति पञ्चम्योः सामानाधिकरण्यात् । स्वकार्यवर्गापेक्षया परभूतात् अक्षरशब्दितात् अव्याकृतात् परत्वेन तद्भेद्सिद्धावपि न जीवभेदः सिध्यतीति वाच्यम् – सामानाधिकरण्ये सति परत्वावधिसमर्पकस्वकार्यवर्गवाचिपदान्तराध्याहारप्रसङ्गात् । वैयधिकरण्यपक्षे अध्याहाराभावात् । जीवादपि वैलक्षण्यप्रतिपादकत्वेन सार्थक्यसंभवे परत: पदस्य सामानाधिकण्याश्रयणेन स्वकार्यवर्गपरत्वानुवादस्य निष्प्रयोजनस्य आश्रयणायोगात् । न च अक्षरात् परस्य पुरुषस्य परमात्मत्वे भूतयोन्यक्षरस्य कथं परमात्मत्वं सिध्येत् इति वाच्यम् – अक्षरात् परत इति निर्दिष्टस्याक्षरस्य अथ परा यया तदक्षरमधिगम्यते, तथाऽक्षरात् संभवतीह विश्वम् । तथाऽक्षराद्विविधाः सोम्य ! भावा: ; येनाक्षरं परुषं वेद सत्यम् इति वाक्यनिर्दिष्ट भूतयोन्यक्षरापेक्षया भिन्नत्वात् । न च तत्र प्रमाणाभावः। दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमना: शुभ्रः इति पूर्वसंदर्भप्रतिपादितविशेषणविशिष्टं भूतयोन्यक्षरं स इति पदेन परामृश्य तस्य अक्षरात्परतः परत्वाभिधानात् । न हि तस्यैव तत: परतः परत्वं संभवति । अतः अक्षरात्परतः परः इति वाक्यस्थमक्षरपदम् अव्याकृताभिधायि : न तु भूतयोन्यक्षराभिधायि ।। अग्निमूर्धा चक्षुषी चन्द्रसूर्यौ इति भगवत्संबन्धितया प्रसिद्धस्य रूपस्य भूतयोन्यक्षरसंबन्धितयोपन्यासाञ्च, पुरुषं वेद सत्यम् । दिव्यो ह्यमूर्तः पुरुषः इति । भगवदसाधारणपुरुषशब्दाभ्यासाच्च परमात्मैवात्र प्रतिपाद्यत इति ।
द्युभ्वाद्यधिकरणम् – तथा यस्मिन् द्यौः इति वाक्ये, ओतं मनः सह प्राणैश्च सर्वै: इति मनः प्राणसंबन्धित्वप्रतिपादनात् , अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः इति जीवलिङ्गाच्च भूतयोन्यक्षरप्रकरणं भङ्क्त्वा जीवपरत्वमेवास्य संदर्भस्याश्रयणीयमिति पूर्वपक्षे प्राप्ते – द्युभ्वाद्यायतनं स्वशब्दात् , (ब्र.सू. १-३-१) मुक्तोपसृप्य व्यपदेशाच्च, (ब्र.सू.१-३-२) नानुमानमतच्छब्दात् प्राणभृच्च , (ब्र.सू. १-३-३) भेदव्यपदेशात्, (ब्र.सू. १-३-४) प्रकरणात् , (ब्र.सू. १-३-३) स्थित्यदनाभ्यां च (ब्र.सू. १-३-६) इति षड्भिः सूत्रै: सिद्धान्तः कृतः ।
___ अयमर्थः – द्युभ्वाद्यायतनं परमात्मा । अमृतस्यैष सेतुः इति मोक्षप्रदत्वलक्षणासाधारणशब्दश्रवणात् । व्यापकत्वार्थस्यात्मशब्दस्य च श्रवणात् । नामरूपाद्विमुक्तः परात् परं पुरुषमुपैति दिव्यम् इति परमात्मासाधारणमुक्तप्राप्यत्वव्यपदेशाञ्च परमात्मैव । न अनुमानम् । आनुमानिकं प्रधानम् अस्मिन् प्रकरणे यथा तत्प्रतिपादकशब्दाभावान्न प्रतिपाद्यम् , एवं प्राणभृत् जीवोऽपि तत्प्रतिपादकशब्दाभावान्न प्रतिपाद्यः । जुष्टं यदा पश्यन्यन्यमीशम् इति प्रकारणप्रतिपाद्यस्य ईसस्य जीवभेदव्यपदेशाच्च । भूतयोनिप्रकरणाच्च । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति इति जीवस्य कर्मफलऽभोक्तृत्वम् परमात्मनस्तु तदन्तरेण शरीरेऽवस्थानम् इति परमात्मन एव प्रकारणतात्पर्यपर्यवसानभूमितया आविष्कृतत्वाञ्च परमात्मैव मुण्डकोपनिषत्प्रतिपाद्य ‘ इति । अतश्च मुण्डकोपनिषत् भगवत्परेतिसिद्धम् । इयं ब्रह्मविद्या येभ्यो ब्रह्मादिभ्यः पारम्पर्येण प्राप्ता, तान् नमस्यति – नमः परमऋषिभ्यो नमः परमऋषिभ्यः इति । द्विवचनमादरार्थं विद्यासमाप्त्यर्थं च ।।
क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवातो ।
रामानुजः स मुनिराद्रियतां मुद्रुक्तिम् ।।
।। इति तृतीयमुण्डके द्वितीयखण्डप्रकाशिका ।।
॥ श्रीरङ्गरामानुजमुनिविरचिता मुण्डकोपनिषत्प्रकाशिका सम्पूर्णा ।।
.