मुण्डकोपनिषत्
द्वितीयमुण्डके प्रथमखण्डः
[अक्षरात् जगत्सृष्टिः]
तदेतत् सत्यम् ।।
यथा सुदीप्तात् पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षरात् विविधाः सोम्य ! भावाः प्रजायन्ते तत्र चैवापियन्ति ।।१।।
तदेतत् सत्यम् पूर्ववत् । यथा सुदीप्तात् पावकादिति । अयोगोलकादिगतात् हन्यमानाद्वा वेश्मादिषु सुदीप्ताद्वा पावकादनेकशः सरूपाः विस्फुलिङ्गाः यथोत्पद्यन्ते । एवमेव सूक्ष्म चिदचिच्छरीराद्ब्रह्मणः तत्सरूपाः – नानाविधस्थूलचिद चिद्रूपाः, भवन्तीतिभावाः – कार्यवर्गाः उत्पद्यन्ते । तत्रैव लीयन्ते च ।।
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ।। २ ।।
दिव्यो ह्यमूर्तः पुरुष इति । वृक्ष इव स्तब्धो दिवि तिष्ठत्येक: इति धुसम्बन्धित्वेन, तदपाणिपादम् इति वा, नित्यं विभुम् इति वाऽमूर्तत्वेन, तेनेदं पूर्णं पुरुषेण सर्वम् इति बाह्याभ्यन्तरसर्ववस्त्वात्मतया, अचक्षुश्श्रोत्रम् इत्यनिन्द्रियत्वेन. प्राणमनश्शून्यतया, येनाक्षरं पुरुष वेद सत्यम् इति विकाररूपदोषशून्यतया च दिव्यादिशूभ्रपर्यन्तशब्दितश्च यः, सः अव्याकृतादक्षरात् यः परः ‘समष्टिपुरुषः तस्मादपि कारणत्वेन पर इत्यर्थः । प्रधानपुरुषयोस्तज्जन्यत्वादिति भावः । अक्षरात्परत इत्यत्र अक्षरशब्दः, अश्रुत इति वा, न क्षरतीति वा व्युत्त्यत्त्या स्वविकारव्यापके नामान्तराभिलापयोग्यक्षरणाभाववति अव्याकृते वर्तते ; न तु भूतयोन्यक्षरे । भूतयोन्यक्षरस्य सबाह्याभ्यन्तर इत्यत्र तच्छब्दनिर्दिष्टस्य तस्मादेव परत्वासम्भवात् । न हि तस्यैव ततः परतः परत्वं संभवति; विरोधात् । न च – अक्षरात्परत इति पञ्चम्योः सामानाधिकरण्यमेवास्तु, ततश्च स्वविकारापेक्षया परभूतादव्याकृतात् अक्षरात् पर इत्येवास्तु ; न तु अव्याकृताक्षरात्परभूतात् समष्टिपुरुषात् पर इति – वाच्यम् । परशब्दस्य प्रतियोगिसापेक्षत्वेन अक्षरशब्दस्य परत्वावधिसमर्पकत्वस्यैव युक्तत्वात् । न हि देवदत्तादुत्पन्नाद्भयम् इत्यत्र पञ्चम्योः सामानाधिकरण्यप्रतीतिः अस्ति । अतो यथोक्त एवार्थः ।।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ।। ३ ।।
विश्वसृष्टिमेव प्रपञ्चयति – एतस्मात् जायते इति । खम् – आकाशः । ज्योतिः – तेजः । विश्वस्य – कृत्स्नस्य धारिणी । एतत् पृथ्वीविशेषणम् । इदं हि वाक्यं प्राणपादे वियत्पादे च विचिन्तितम् । प्राणपादे, असद्वा इदमग्र आसीत् । तदाहुः किं तदासीदिति / ऋषयो वाव तेऽग्रे- सदासीत् । के ते ऋषयः इति । प्राणा वाव ऋषयः (शत.ब्रा. ६-१-१) इति जगदुत्पत्तेः प्राक् प्राणशब्दितानाम् इन्द्रियाणां सद्भावश्रवणात् प्राणोत्पत्तिवादिश्रुतयो जीवोत्पत्तिवादिश्रुतिवत् अन्यथा नेया इति तथा प्राणा: (ब्र,सू. २-४-१) इति पूर्वपक्षे प्राप्ते, तथा प्राणाः – वियदादिवत् प्राणशब्दवाच्यान् इन्द्रियाण्यपि उत्पद्यन्त एव । सदेव सोम्येदमग्र आसीत् (छां.उ. ६-२-१) इत्यादिषु प्राक् सृष्टे: एकत्वावधारणात् , एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इति इन्द्रियाणामाहत्योत्पत्तिश्रवणाञ्चोत्पद्यन्त एव । न च इन्द्रियोत्पत्तिवादो जीवोत्पत्तिवादवत् अन्यथा नेयः ; बाधकाभावात् । प्राणा वाव ऋषयः इत्यत्र प्राणशब्दस्य सार्वज्ञ वाचिऋषिशब्द समानाधिकरणतया परमात्मवाचित्वेन इन्द्रियवाचित्वाभावात् । कथं तर्ह्येकस्मिन् परमात्मनि, प्राणा वाव ऋषय इति वहुवचनोपपत्तिरिति चेत् – तत्राऽऽह – गौण्यसम्भवात् तत्प्राक्छ्रुतेश्च । (ब्र.सू. २-४-२) बहुवचनश्रुतिर्गौणी । तत्र बहुत्वासम्भवात् ; परमात्मन एव सृष्टेः प्रागवस्थान ‘श्रुतेः , तस्यैव प्राणशब्देन प्रतिपादनीयत्वात् । तत्पूर्वकत्वाद्वाचः । (ब्र.सू.२-४-३) वागिन्द्रियस्य वागिन्द्रियकार्याभिलपनकर्मभूतनामवाच्यवियदादिसृष्टिपूर्वकत्वात् प्रलये वागिन्द्रियादिकार्यशब्दाभिलापादिप्रयोजनाभावात् न प्रलये तेषाम् अवस्थितिः इति स्थितम् ।।
तथा तत्रैव पादे – आनीदवातं स्वधया तदेकम् (तै.ब्रा. २-८-९, ऋ.सं. ५-२९-२) इति महाप्रलयसमये प्राणकार्य – अननश्रवणात् , एतस्माज्जायते प्राण: इति मुख्य प्राणोत्पत्तिवादो जीवोत्पत्तिवादवनेतव्य इति शंकायाम् – श्रेष्ठश्च । (ब्र.सू. २-४-७) श्रेष्ठप्राणोऽपि इन्द्रियवत् उत्पद्यते । आनीदवातम् इति परब्रह्मणः अननम् – विद्यमानत्वमुच्यते ; न मुख्यप्राणस्य ; अवातमिति वायुमात्रसत्तायाः तत्रैव प्रतिषिद्धत्वादिति स्थितम् ।
तथा वियत्पादे – वायोरग्निः । अग्नेरापः । अद्भयः: पृथिवी (तै.आन. १) इत्यादौ वायुरूपाद्ब्रह्मणोऽग्निसृष्टि: – उत केवलवायोरेवेति विशये, तेजोऽतस्तथा ह्याह (ब्र.सू. २-३-१०) अतः केवलवायोरेव तेज उत्पद्यते । वायोरग्निः इति हि श्रुतिराह । आप: (ब्र.सू. २-३-११) आपस्तेजस एवोत्पद्यन्ते । अग्नेराप इति हि श्रुतिराह । पृथिवी । पृथिवी अद्भयः एवोत्पद्यते । अद्भयः पृथिवी, ता अन्नमसृजन्त (छां.उ. ६-२-४) इति हि श्रुतिराह । ननु कथमन्नशब्देन पृथिवी अधिधीयते ? तत्राह – अधिकाररूपशब्दान्तरेभ्यः । (ब्र.सू. २-३-१३) महाभूतसृष्ट्यधिकारात् पृथिव्येवान्नकारणभूता अन्नशब्देन उपचारात् उच्यते । तथा यदग्नेः रोहितं रूपं तेजसस्तद्रूपम् , यच्छुक्लं तदपाम् , यत् कृष्णं तदन्नस्य (छां.उ. ६-४-१) इति कृष्णरूपस्यान्नसम्बन्धितया कीर्तनात् न मुख्यमन्नम् अन्नशब्देनोच्यते ; अपि तु पृथिव्येव । तैत्तिरीयके – अद्भय: पृथिवी इति पृथिवीवाचकविस्पष्टशब्दान्तरश्रवणाच्च अन्नशब्देन पृथिव्येवोच्यते । ततश्च केवलवाय्वादेरेवाग्नयाद्युत्पत्तिः; न तु तच्छरीरकब्रह्मण इति पूर्वपक्षे प्राप्ते –
तदभिध्यानादेव तु तल्लिङ्गात् सः (ब्र.सू.२-३-१४) तुशब्दः पक्षव्यावर्तकः । वाय्वग्नयादिशब्दैः सः परमात्मैवाभिधीयते तत्तेज एक्षत, (छां.उ.६-२-३) ता आप एक्षन्त (छां.उ.६-२-४) इति तत्तत्कार्य सृष्टिसंकल्पलक्षणाभिध्यानरूपात् परमात्मलिङ्गात् । अचेतने तेज आदौ ईक्षणासम्भवात् । विपर्ययेण तु क्रमोऽत उपपद्यते च (ब्र.सू.२-३-१५) । तु – ‘शब्दोऽवधारणे । एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च, खं वायुज्यतिर्राप पृथिवी विश्वस्य धारिणी इत्येवं सर्वेषां भूतानां परब्रह्मानन्तर्यरूप: वायोरग्निः, अग्नेरापः इत्युक्त क्रमविपर्ययेण श्रूयमाणो यः क्रमः, स वाय्वादिशरीरकपरमामोपादानकत्व एवोपपद्यते ; न तु केवल वाय्वाधुपादानकत्वे इत्यर्थः । अन्तरा विज्ञानमनसी क्रमेण तलिङ्गादिति चेन्नाविशेषात् । (ब्र.सू.२-३-१६) । विज्ञानसाधनत्वात् इन्द्रियाणि विज्ञानमित्युच्यन्ते । ननु एतस्माज्जायत इति वाक्यं प्राणादीनां सर्वेषामव्यवहितब्रह्मोपादानकत्वं प्रतिपादयितुं न प्रवृत्तम् । किन्तु प्राणोत्पत्त्यनन्तरं मनसश्च सर्वेन्द्रियाणां चोत्पत्तिः ; तत आकाशादिभूतानामुत्पत्तिः इतीन्द्रियाणां मनसश्च प्राणभूतान्तरालसृष्टत्वप्रतिपादनार्थं प्रवृत्तम् । ‘श्रुत्यन्तरसिद्ध महाभूतसृष्टिक्रमप्रत्यभिज्ञानरूपाल्लिङ्गात् । इति चेत् ; न – अविशेषात् । अविशेषेण प्राणादीनां सर्वेषां ब्रह्मानन्तर्यरूपक्रमप्रतीतेस्तत्परित्यागे कारणाभावात् । न तु वाय्वादिशरीरकब्रह्मणोऽग्याधुत्पत्तौ वाय्वादिशब्दानां तच्छरीरकब्रह्मणिलक्षणा स्यात् तत्राह – चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ।(ब्र.सू.२-३-१७) तु शब्द: शंकानिवृत्त्यर्थः । चराचरव्यपाश्रयो देवमनुष्यादिशब्दव्यपदेशो भाक्तः । वाच्यैकदेशे भज्यत इत्यर्थः । भक्त्या’ प्रयुक्तो भाक्तः । भक्तिः – भङ्गः । विशिष्टवाची शब्दोविशेषणमात्रे ‘भङ्क्त्वा युज्यते । वाच्यैकदेशे प्रयोगात् भज्यत इत्यर्थः । वचसां वाच्यमुत्तमम् (जित.स्तो. ७) इत्यादि प्रमाणानुसारात् सर्वेषां चराचरशब्दानां विशिष्टं ब्रह्मैवार्थः । विशेषणमात्रप्रयोगस्तु अमुख्यः । ततश्च वाय्वादिशब्दैः ब्रह्माभिधानं मुख्यमेव । यद्वा अभाक्त इति च्छेदः । चराचरवाचिशब्दैः ब्रह्मव्यपदेशः अभाक्तः मुख्य इति यावत् । शरीरवाचिशब्दानां शरीरिपर्यन्तत्वादिति स्थितम् । प्रकृतमनुसरामः ।।
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ।। ४ ।।
अग्निर्मूर्धा चक्षुषीचन्द्रसूर्यौ इति । अमुं मन्त्रं प्रस्तुत्य, स्मर्यमाणमनुमानं स्यादिति (ब्र.सू.१-२-२६) इत्यत्र अग्निरिह द्युलोकः । असौ वै लोकोऽग्नि. इति श्रुतेः । स्मरन्ति च मुनयः, द्यौ मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिश: श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता इति भाषितम् । वाग्विवृताः वागिन्द्रियव्यापाराः त एव वेदाः । वायुः प्राणः । महावायुरेव देहधारकः प्राणः । हृदयं विश्वमस्य – जगत् सर्वमस्य देहान्तर्वर्तिहदयाख्यमांसविशेषः । पद्भ्यां पृथिवी । पादावेव पृथिवीत्यर्थः । प्रकृत्यादिभ्य उपसंख्यानम् (वा. १४६६) इति तृतीया । सर्वभूतानां तच्छरीरत्वात् सर्वेषाम् अन्तरात्मा इत्यर्थः ।।
तस्मादग्निः समिधो यस्य सूर्यः सोमात् पर्जन्य ओषधयः पृथिव्याम् ।
पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजा: पुरुषात् संप्रसूताः ।। ५ ।।
तस्मादग्निः समिधो यस्य सूर्यः इति । तस्मात् अक्षरात् अग्निर्मूर्धा इत्यत्र अग्निशब्दनिर्दिष्टो द्युलोकः । यस्य अग्ने: सूर्यः समिधः इन्धनानि । असौ वै लोकोऽग्निर्गैतम । तस्यादित्य एव समित् (छा.उ.५-४-१) इति पञ्चाग्निविद्यायां श्रवणात् । सोमात् पर्जन्यः ओषधयः पृथिव्याम् । अतो हि धुलोकाग्नेनिष्पन्नात् सोमात् पर्जन्यो द्वितीयोऽग्निः सम्भवति । तस्मात् पर्जन्यात् ओषधयः पृथिव्यामग्नौ सम्भवन्ति । पुमान् रेतः सिञ्चति योषितायाम् । ओषधीभ्यः पुरुषाग्नौ हुताभ्य उपादानभूताभ्यः पुरुषरूपोऽग्निः योषिद्रूपाग्नौ रेतस्सेकं करोति । बह्वीः प्रजाः पुरुषात् संप्रसूताः । एवं पञ्चाग्निविद्योक्तक्रमेण बह्वय: प्रजाः परस्मात् पुरुषात् सम्प्रसूताः ।।
तस्मादृचस्साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ।। ६ ।।
तस्मादृचः साम इति । तस्मात् – अक्षरपुरुषात् ऋग्यजुस्सामवेदाः, दीक्षाः, अग्निहोत्राद्या यज्ञाः, सोमविकाराः क्रतवश्व, दक्षिणाश्च, संवत्सराद्या: कालाः, यजमानः, कर्मफलभूताः स्वर्गाद्या लोकाश्चोत्पन्ना इत्यर्थः । लोकान् विशिनष्टि – सोमो यत्र पवते यत्र सूर्यः । ये लोकाश्चन्द्रसूर्यकिरणपूता भवन्ति इत्यर्थः ।।
तस्माच देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ।।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ।। ७ ।।
तस्माञ्च देवाः इति । बहुधा – कर्मज आजानजादिभेदाद् बहुधा इत्यर्थः । वयांसि – पक्षिणः । यवः – दीर्घशूकधान्यविशेषः । व्रीहियवशब्दौ धान्यमात्रोपलक्षकौ । तपः – कृच्छ्रादिलक्षणम् । श्रद्धा – आस्तिक्यबुद्धिः । सत्यं – सत्यवचनम् । ब्रह्मचर्यं – स्त्रीसङ्गादिराहित्यम् । विधीयत इति विधिः – नित्यनैमित्तिकादिः ।।
सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः ‘सप्त होमाः ।
सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ।। ८ ।।
सप्तप्राणाः प्रभवन्ति । तस्मात् – अक्षरात् शीर्षण्याः चक्षुश्श्रोत्रनासिकारन्ध्रयुग्मास्य संचारीणि सप्तेन्द्रियाण्युत्पद्यन्ते । ‘तथा सप्ताचिषः समिधः सप्त जिह्वाः । गार्हपत्त्याद्या अग्नयः, इन्धनानि, कालीप्रभृतयः सप्त जिह्वाश्च प्रभवन्ति इति पूर्वेणान्वयः । किं च इमे सप्तापि लोका उत्पन्नाः, येषु लोकेषु हृदयगुहासु सुषुप्तिवेलायाः शयानाः सप्त प्राणाश्चक्षुरादिगोलकप्रदेशेषु धात्रा निहितास्सन्तश्चरन्ति इत्यर्थः । सप्त सप्त इति वीप्सा पुरुषभेदाभिप्राया ।।
अतः समुद्रा गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसश्च येनैष भूतैः तिष्ठते ह्यन्तरात्मा ।।९।।
अतः समुद्रा गिरयश्च सर्वे इत्यादि । सर्वरूपाः – बहुरूपाः सिन्धवः गङ्गाद्याः सरित इत्यर्थः । ननु पृथिव्या एव ओषधयो जायमाना दृश्यन्ते ; इक्ष्वादिभ्यो रसा जायमाना दृश्यन्ते । कथमक्षरात् ‘सर्वं जायत इत्युच्यत इत्याशंक्याह – येनैष भूतैः तिष्ठते ह्यन्तरात्मेति । येन – यस्मात्कारणात् एषः – अक्षरपुरुषः सर्वैः भूतैः परिवृतः सन् तदन्तरात्मतया वर्तते, तस्मात् पृथिव्यादिभ्यों जायमाना अपि अक्षरात् ब्रह्मणो जाता इति शक्यते वक्तुमिति भावः ।।
[सर्वभूतान्तरात्मा परमात्मा]
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ।। १० ।।
पुरुष एवेदं विश्वम् इति। यस्मादसौ सर्वभूतान्तरात्मा, तस्मात् सर्वमिदं पुरुषोपादानकत्त्वात् पुरुष एव । तस्मात् तद्विज्ञाने सर्वस्यापि ज्ञानमुपपद्यत इति भावः । कर्म तपो ब्रह्म परामृतमिति । तस्य जगत्सृष्टयनुकूलः कर्मशब्दित: व्यापार: स्रष्टव्यालोचनात्मक ‘एव’ । एको व्यापी सदा शुद्धो निर्गुणः प्रकृतेः परः (वि.पु. २-१४-२९) इति ‘ब्रह्म शब्दितप्रकृतिपरभूतमुक्तात्मनाम् अमृतवत् परमानन्दतया भोग्यभूतं ब्रह्माप्यक्षरपुरुष एव इत्यर्थः । एतद्यो वेदेति हे सोम्य ! सोमार्ह ! हृदयगुहावर्ति एतत् अक्षरं ब्रह्म इह – लोके यो वेद स ग्रन्थिवद्दुर्मोचामविद्यां विकिरति निरस्यति । कृृ विक्षेप (पा.धा. १४१०) इति धातुः ।।
।। इति द्वितीयमुण्डके प्रथमखण्डप्रकाशिका ।।