मुण्डकोपनिषत्
(अथर्ववेदीयोपनिषच्छान्तिपाठः)
ओम्
भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ।। स्वस्ति न इन्द्रो वृद्धश्रवास्स्वस्ति नः पूषा विश्ववेदाः । स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिस्वस्ति नो बृहस्पतिर्दधातु ।।
।। ओं शान्तिः शान्तिः शान्तिः ।।
देवा: – हे देवाः ! भद्रम् – कल्याणम् (वेदाख्यं, साङ्गेतिहासपुराणम् ), कर्णेभिः – श्रोत्रेः, शृणुयाम – श्रोतुं, समर्थाः भवेम । यजत्राः – हे यजत्राः ! त्रायन्ते रक्षन्तीति यजत्राः, यजमानपालकाः, अक्षभिः – नेत्रैः, भद्रम् – कल्याणम् , पश्येम – द्रष्टुं समर्थाः भवेम । स्थिरैः – दृढैः, अङ्गैः – करचरणाद्यवयवैः, तथा तनूभिः – शरीरैः, युक्ताः, तुष्टुवांसः – भवतः स्तुवन्तः (वयम् ), देवहितम् – देवैः, स्थापितं देवानां हितं देवोपासनयोग्यं वा, यदायुः – शतप्रमाणमायुः इति शतप्रमाणमायुः, व्यशेम – प्राप्नुयाम ।
पूर्वत्र प्रत्यक्षेण प्रार्थिताः देवाः । अत्र तु परोक्षेण निर्दिश्य एकैकश: प्रार्थ्यन्ते । न: – अस्माकं, वृद्धश्रवाः- वृद्धश्रवणः, सदा श्रोत्रश्रवणात् , यद्वा वृद्धेः महात्मभिः सदा श्रूयते इति वृद्धश्रवाः, इन्द्रः – इन्द्रः, स्वस्ति – कल्याणं, दधातु – विदधातु । तथा विश्ववेदाः – विश्वैः विद्यते ज्ञायते लभ्यते वेति विश्ववेदाः, यद्वा, विश्वानि ज्ञानानि, धनानि वा यस्येति बहुव्रीहिः, पूषा – सूर्यः, न: – अस्माकं, स्वस्ति – कल्याणं, दधात . विदधातु : एवम् अरिष्टनेमिः – अनुपक्षीणनेमिः, प्रथिनेमिः, तार्क्ष्यः – तार्क्ष्यो नाम छन्दोमयो रथः यः, विहगराजो वा, नः – अस्माकं स्वस्ति – कल्याणम् , दधातु – विदधातु । बृहस्पतिः – देवगुरुश्च, नः – अस्माकं, स्वस्ति – कल्याणं, दधातु – विदधातु ।।
मुण्डकोपनिषत्
प्रथममुण्डके प्रथमः खण्डः
[विद्यागुरूणां परम्परा]
ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ।।१।।
प्रकाशिका
श्रीरङ्गरामानुजमुनिविरचिता
[मङ्गलाचरणम् ]
अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।।
[गुरुवन्दनम् ]
व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।
मुण्डकं विदुषां प्रीत्यै व्याकरिष्ये यथामति ।।
विद्याप्ररोचनार्था आख्यायिका आरभ्यते – ब्रह्मा देवानां प्रथमः सम्बभूवेति । चतुर्मुखः इन्द्रादीनां देवानाम् अग्रे उत्पन्न इत्यर्थः । स कीदृश इत्यत्राह – विश्वस्य कर्ता भुवनस्य गोप्तेति । विश्वस्य सर्वस्य भुवनस्योत्पादयिता । रक्षकश्चेत्यर्थः ।
स ब्रह्मविद्यामिति । सः – तादृशो ब्रह्मा सर्वविद्याश्रयभूतां ब्रह्मविद्यामथर्वनाम्ने ज्येष्ठपुत्राय उक्तवानित्यर्थः । ब्रह्मविद्यायाः सर्वविद्याश्रयत्वं च, ज्ञातव्ये ब्रह्मणि कृत्स्नज्ञातव्यान्तर्भावेण ब्रह्मज्ञाने कृत्स्नज्ञानस्यान्तर्भूतत्वादिति ‘व्यासार्यैरुपपादितम् ।।
अथर्वणे यां प्रवदेत ब्रह्मा अथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ।। २ ।।
अथर्वणे यां प्रवदेतेति । अथर्वणे यां ब्रह्मा प्रोवाच । तां ब्रह्मविद्यामथर्वनामा ऋषि: स्वशिष्याय अङ्गिरोनाम्ने ऋषये प्रोवाच । स भारद्वाजाय सत्यवाहाय प्राह । सः
अङ्गिरो नाम ऋषिर्भरद्वाजगोत्राय सत्यवाहनाम्ने प्रोक्तवान् । परस्मादवरेण प्राप्तेति परावरा । परावरसर्वविद्या व्याप्तेर्वा परावरा । तामङ्गिरसे प्राह इत्यनुषङ्गः ।।
[ब्रह्मविद्याविषयकप्रश्नः]
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ।।३।।
शौनको ह वै महाशालः इति । महाशालः – महागृहस्थः शुनकसतः समित्पाणित्वादिशास्त्रीयनियमानतिक्रमेणोपगतः सन् पृष्टवान् – कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति । हे भगवः !
उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ।। (वि.पु. ६-५-७८)
इति लक्षणलक्षित ! भगवन्नित्यस्य, विभाषा भवद्भगवत् – (वा) इति नकारस्य रुत्वे अवस्य ओत्वाभावश्छान्दसः । यथा मृत्पिण्डे विज्ञाते सर्वं मृण्मयं विज्ञातं भवति, एवं कस्मिंश्चिद्वस्तुनि विज्ञाते सर्वं कार्यजातं विज्ञातं भवतीति सामान्यतो भवादृशानां वचनमश्रौषम् । तादृग्वस्तु किमिति प्रश्नार्थः । सर्वनिमित्तोपादानभूतं वस्तु किमितीति यावत् ।।
[ब्रह्मणः उपादानोपादेयभावसमर्थनम् ]
ननु – सर्वमिदमिति शब्देन ‘स्थूलचिदचिच्छरीरविशिष्टं ब्रह्मोच्यते, उत विशेषणमात्रम् नाद्यः प्रश्नदशायां शौनकस्याब्रह्मवित्त्वेन ब्रह्मविद इव इदं बुद्धिशब्दयोर्ब्रह्मपर्यन्तत्वाभावात् । तेनेदं पूर्ण पुरुषेण सर्वम् (श्वे.उ. ३-९ महा.ना.उ. ८-१४) इत्युत्तरवाक्ये इदं सर्वम् इत्यस्य विशेषणमात्रे पर्यवसायित्वेन ब्रह्मपर्यन्तत्वादर्शनेन प्रश्नवाक्यगतस्यापि इदं सर्वम् इति शब्दस्य ब्रह्मपर्यन्तत्वाभावात् । न द्वितीयः, विशेषणभूतस्थूलचिदचितो: अक्षरब्रह्मभिन्नयोर्वक्ष्यमाणाक्षर ब्रह्मोपादानकत्वाभावादिति चेत् – उच्यते । इदं सर्वम् इत्यनेन विशेषणमेव निर्दिश्यते, न विशेष्यम् । अथापि विशेषणस्यापि ब्रह्मोपादेयत्वमस्ति । न हि अभिन्नयोरेवोपादानोपादेयभाव इति नियमः । भाविस्थूलावस्थावत: पूर्वभावि सूक्ष्मावस्थायोगि हि उपादानम् । अवस्थावत्त्वं च चिदचिदीश्वराणां त्रयाणामप्यस्त्येव । इयांस्तु विशेषः – अद्वारकावस्थायोगित्वमचेतनस्य । जीवस्य तद्धर्मभूतज्ञानद्वारा अचेतनशरीरद्वारा च कर्मकृतसंकोचविकासाद्यवस्थाश्रयत्वम् । परमात्मनस्तु चेतनाचेतनद्वारकम्
अवस्थानयत्वम् । ततश्च महत्त्वाहंकारत्वादिलक्षणभाव्यवस्थायोगित्वस्य अचेतनपरमात्मसाधारण्येन परमात्मन इव चेतनाचेतनप्रपञ्चस्यापि भाव्यवस्थाश्रयत्वेन अक्षरं प्रति उपादेयत्वमस्त्येव । ततश्च इदं सर्वम् इति विशेषणमात्रनिर्देशेऽपि तस्य वक्ष्यमाणमक्षरमुपादानं भवत्येवेति, कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति विशेषणमान्ने उपादानप्रश्नः उपपद्यते ।
अत एव महासिद्धान्ते, – कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात् , तत्प्रत्यनीकनानात्वं निषिध्यते इति भाष्यव्याख्यानावसरे व्यासार्यै:, विशिष्टयोरेवोपादानोपादेयभावः । न तु विशेषणीभूतस्य चेतनाचेतनप्रपञ्चस्य ब्रह्मोपादानकत्वम् । शरीरात्मभावस्तु निष्कृष्टविशेषणयोः निष्कृष्टविशेष्यस्य च चिदचिद्विशिष्टब्रह्मणश्चिदचिद्विशिष्ट ब्रह्मानियाम्यत्वात् केवलस्य प्रपञ्चस्य केवलान्तर्यामिकत्वात् इति पक्षमाश्रित्य, तदन्तर्यामिकतयेत्यत्र जगत इति निष्कर्षकशब्दान्तरमध्याहर्तव्यम् इत्युक्त्वा, सन्मूला: सोम्येमाः सर्वाः प्रजाः सदायतना: सत्प्रतिष्ठाः (छा.उ. ६-८-४,६) इति वाक्ये उपादानोपादेयभावप्रतिपादके, सन्मूलाः, सत्प्रतिष्ठा:- इत्यत्र प्रजाशब्दस्य ब्रह्मपर्यन्तत्वम् सच्छब्दस्यापि सूक्ष्मचिदचिद्विशिष्टब्रह्मपरत्वम् ; सदायतना इति शरीरात्मभावप्नतिपादकांशे तु प्रजाशब्दस्य विशेषणमात्रपरत्वम् सच्छब्दस्य विशेष्यमात्रपरत्वम् ; ब्रह्मणो ब्रह्मान्तर्यामिकत्वा सम्भवात् , केवलप्रपञ्चस्य विशेष्यमात्रान्तर्यामिकत्वेऽपि विशिष्टान्तर्यामिकत्वाभावात् – इत्युक्त्वा – अस्मिन् पक्षे सकृत्प्रयुक्तस्य प्रजाशब्दस्य वैरूप्यम् , सच्छब्दानां च वैरूप्यम् , जगत इति शब्दान्तराध्याहारादिलक्षणभाष्यक्लेशश्च पर्यालोच्य, प्रजाशब्दस्य विशेषणमात्रपरत्वमेव ; सच्छब्दस्यापि विशेष्यमात्रपरत्वमेव । न च, विशेषणीभूतचिदचिद्वर्गस्य सदुपादानकत्वं नास्तीति शंक्यम् । तस्यापि भाव्यवस्थावत्त्वेन विशिष्टस्येव विशेषणस्यापि ब्रह्मोपादानकत्वसम्भवादिति स्वाभिमतं पक्षान्तरमुपन्यस्तम् – यद्वा जगत इति निष्कर्षकः शब्दः इत्यादिना ।
आत्मेति तूपगच्छन्ति (ब्र.सू. ४-१-३) इति भाष्यादौ, सर्वस्य चिदचिद्वस्तुनः तज्जत्वात् , तल्लत्वात् , तदनत्वात् , तन्नियाम्यत्वात् , तच्छरीरत्वाच्च सर्वस्यायमात्मेति शरीरत्वोपादेयत्वयोः सामानाधिकरण्यं बहुकृत्वः उद्घोषितम् । न चैतदन्यथा कर्तुंप्रभवामः । प्राज्ञेनाऽऽत्मना सम्परिष्वक्तः (बृ.उ. ६-३-२१) इति वाक्ये प्राज्ञशब्दिते भिन्ने परमात्मनि जीवस्य परिष्वङ्गरूपलयश्रवणाच्च । न च – परिष्वङ्गो न लय:, किंत्वन्य एव संसर्गविशेषः इति वाच्यम् । स्वाप्ययात् (ब्र.सू. १-१-१०) इति सूत्रभाष्यतव्द्याख्यानग्रन्थपर्यालोचनायां तयोः समानार्थकत्वस्योपलभ्यमानत्वात् । न च – जाग्रदाद्यवस्थागतरागद्वेषादिकालुष्ययुक्तजीवविशिष्टस्य परमात्मनः तद्रहितजीवविशिष्ट परमात्मरूपेणावस्थानमेव, सता सोम्य तदा सम्पन्नो भवति (छां.उ. ६-८-१) इति वाक्यस्यार्थोऽभ्युपेतः । स एव, प्राज्ञेनाऽऽत्मना इति वाक्यस्याप्यर्थोऽस्त्विति वाच्यम् । तथा सति अस्य वाक्यस्य जीवपर भेदाबोधकत्वेन सुषुप्त्युत्क्रान्त्योर्भेदेन (ब्र.सू. १-३-४३) इति सूत्रासंगतिप्रसङ्गात् ।
न च – भाव्यवस्थावत् सर्वमुपादेयम् , पूर्वावस्थावत् सर्वमुपादानं चेत् – भाविमहत्त्वाहंकारत्वाद्यवस्थावत्परमात्मानं प्रति अव्यक्तत्वलक्षणपूर्वावस्थाश्रयस्य अचेतनस्याप्युपादनत्वप्रसंङ्गः । अतो भाव्यवस्थावतस्तदभिन्नं पूर्वावस्थायोग्येव उपादानमिति वक्तव्यम् ततश्च इदंशब्दवाच्यस्य विशेषणस्य न ब्रह्मोपादानकत्वमिति वाच्यम् – भाव्यवस्थावतः पूर्वावस्थायोगि यत् कारणम् , तत् उपादानमित्युक्तावतिप्रसंङ्गाभावात् । भाव्यवस्थावत् ब्रह्म प्रति अचेतनस्य हेतुत्वग्राहकप्रमाणाभावेनोपादानत्वाभावेऽपि, ब्रह्मणः सर्वकार्यकर्तृत्वश्रवणेन भाव्यवस्थावदचेतनांशं प्रत्यप्युपादानत्वे नानुपपत्तिः ।
नन्वव्यक्तत्व महत्त्वाद्यवस्थाया अव्यक्तमहदादिनिष्ठत्वेऽपि ब्रह्मनिष्ठत्वाभावेन पूर्वावस्थायोगित्वाभावात् कथमुपादानत्वमिति चेत् – अत्र व्यासार्याः प्रकृत्यधिकरणे –
ब्रह्मणश्चिदचिच्छरीरकतया प्रकृतेर्ब्रह्मण: स्वरूपान्तर्गतत्वेन प्रकृत्यवस्थानां ब्रह्मावस्थात्वात् । न हि विशेष्यमात्रं विशिष्टस्य स्वरूपम् । विशिष्टस्य वस्तुनो विशिष्टमेव हि स्वरूपम् । न हि घटस्य मृन्मात्रं स्वरूपम् , अपि तु घटत्वविशिष्टम् । ननु यदि विशेषणमपि स्वरूपान्तर्भूतम् , तर्हि दण्डादयः संयोगादयश्च स्वरूपं स्युः । न । यावद्द्रव्यभाविनाम् अपृथक्सिद्धविशेषणानामेव स्वरूपान्तर्भावात् । किञ्च घटादिवस्तुनः उदकाहरणादितत्तदसाधारणकार्ययोग्यमेव स्वरूपम् , न मृन्मात्रम् ; पिण्डादीनामपि’ घटस्वरूपत्वप्रसंगात् । घटस्योदकाहरणं प्रति योग्यता नाम अच्छिद्रघटत्वमेव । यस्य वस्तुनो यत् कार्यं यदाकारान्वयव्यतिरेकानुविधायि, स आकारस्तस्य वस्तुनस्तत् कार्यं प्रति योग्यता । यथा वह्नेरुष्णत्वं स्फोटजनने, ‘यथा परशोर्नेशित्यं छेदने, यथा च मृदो मृत्त्वं घटादिपरिणामे, श्लक्ष्णार्द्रभावश्च, एवं प्रकृतिपुरुषकाला: जगद्रूपेण बहुभवने परमात्मनो योग्यतास्थानीयाः अयुतसिद्धप्रकाराः । अत एव हि क्वचित् शक्तिशब्देन जगदभिधीयते । कार्योपयोग्यपृथक्सिद्धविशेषणं हि शक्तिः । सा च योग्यता ‘योग्य’ स्वरूपान्तर्गता । अतो महदाद्यवस्थाश्चिदचिद्विशिष्टब्रह्मस्वरूपगता इति नावस्थाश्रयत्वासिद्धिः । यतो विशिष्टं ब्रह्मस्वरूपम् , अत एव हि, तद्यथा रथस्यारेषु नमिरर्पिता नाभावरा अर्पिता:, एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिता: प्रज्ञामात्राः प्राणेऽर्पिता: (कौषी.उ. ३-६१) इति अरनाभिदृष्टान्तः उपन्यस्यते । न हि नाभिमात्रं रथचक्रम् , किन्तु नाभिवत् अरनेमी अपि स्वरूपान्तर्गते । ‘अङ्गुष्ठमात्र पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकाम् (कठ.उ. ६-१७) इति मुञ्जेषीकादृष्टान्तश्च श्रुतः । न हि इषीकामात्रं मुञ्जः ; किन्तु बाह्यदलविशिष्टेषीका हि मुञ्जस्वरूपम् । विशेष्यांशस्य दृष्टान्त इषीका । तथा –
यथा हि कदली नान्या त्वक्पत्रान्नाथ जायते ।
एवं विश्वस्य नान्यस्त्वं त्वं मायीश्वर दृश्यसे ।। (वि.पु. १-१२-८७)
इति त्वक्पत्रकदलीदृष्टान्तश्च चिदचिद्विशिष्टं ब्रह्मस्वरूपमवगमयति । न हि बाह्यत्वक्पत्रेण विना काण्डमात्रं कदली; अपि तु त्वक्पत्रविशिष्टकाण्डस्वरूपा । एवं विश्वविशिष्टं त्वत्स्वरूपम् तत्र विशेष्यभूतस्त्वं विशेषणांशविलक्षणश्च दृश्यसे इति ह्यर्थः । इयान् भेदः – नाभीषीका काण्डानाम् अरनेमि बाह्यदलत्वक्पत्राणां च अचेतनतया मिथोनियन्तृनियाम्यभावाभावान्न शरीरशरीरिभावः । अत एव नेम्यादिशब्दाश्च न विशेष्यवाचकाः । इह तु नियन्तृनियाम्यभावादिना शरीरात्मभावसम्भवात् शरीरवाचिनः शब्दा: ब्रह्मपर्यन्ता इति ।
अत एव महदाद्यवस्थानां विशिष्टब्रह्मस्वरूपगतत्वादुपादानत्वं मुख्यम् ।
किञ्च मा भूत् प्रकृतिपुरुषयोः स्वरूपान्तर्भावः, तथाऽपि मुख्यत्वं युक्तम् । न हि शरीरद्वारकं ब्रह्मणो महदाधुपादानत्वममुख्यम्, कारणतानिर्वाहकव्यवहितत्त्वात् ; ज्वाला व्यवहितस्य काष्ठस्य पाकं प्रति कारणत्ववत् । ननु मृद्यवहितस्यापि कुलालस्य घटं प्रत्युपादानत्वं स्यादिति चेन्न; ‘स्वनिष्ठमृत्पिण्डव्यवहितत्वात् । अत: स्वापृथक्सिद्ध व्यवधानादुपादानत्वमविरुद्धम् । ननु तथाऽप्युपादानस्य कार्यावस्थाश्रयत्वं वाच्यम् । कथं ‘व्यवहितस्य अवस्थाविशेषं प्रत्याश्रयत्वम् उच्यते – कुम्भोदरसंभृतमम्भः प्रति पुरुषस्येव, परमात्मनो महदाद्यवस्थाश्रयत्वमुपपन्नम् । न च पुरुषस्याम्भोधारक कुम्भधारकत्वमेव, नाम्भोधारकत्वमिति वाच्यम् – तथा सति अम्भोधारणजनितश्रमो न स्यात् । किञ्च अव्यवहितादपि व्यवहितस्याऽऽश्रयत्वं मुख्यं दृश्यते । यथा आस्तरणां शुकादपि पर्यंकस्य ; यथा दर्भेभ्यो भूतलस्य । अव्यवहितमप्यंशुकं न पुरुषस्य धारकम्, असामर्थ्यात् । श्वभ्रमुखपिधायकं विस्तीर्णमंशुकं हि न पदन्यासं धारयितुं प्रभवति । कूपच्छादका हि दर्भास्तत्र निहितपदं पुरुषं (निहितं पुरुषपदं) न धारयन्ति । तस्मादंशुकस्य दर्भाणां च धारणासामर्थ्यात् पर्यंकभूतलयोरेव सामर्थ्यादास्तरणदर्भाणां पुरुषसंयोगमात्र व्यवधायकत्वमेव । अत: परमात्मनः सर्वावस्थाश्रयत्वं मुख्यमिति जगदुपादानत्वं मुख्यमेव ।
[एकविज्ञानेन सर्वविज्ञानोपपत्तिप्रकारः]
ननु जगदुपादानाव्यक्तशरीरकत्वेन जगदुपादानत्वमुच्यते चेत् , वैशेषिकादिपक्षाद् भवत्पक्षस्य को भेदः । नियाम्यविशेषो हि शरीरमभिमतम् । चिदचितोरीश्वरप्रेर्यत्वं तन्मतेऽप्यस्तीति चेत् – महत्तरोऽयं ‘पर्यनुयोगः । वैशेषिकाश्चेत् अप्रामाणिकमेव ब्रूयुः ; तदुक्तं चेत्, अनादरणीयमिति न नः प्रतिज्ञा । अस्मदुक्तार्थस्तदङ्गीकृतश्चेत् , का नः क्षतिः । किंच साम्यमपि दुरुपपादम् आकाशकालदिगात्मवर्गस्येश्वरधार्यत्वाद्यनभ्युपगमात् – इत्याहुः । ततश्च ब्रह्मणो जगदुपादानत्वे नानुपपत्तिः ।
ननु तथाऽपि ब्रह्मज्ञानाच्छरीरभूतप्रपंचज्ञानं नोपपद्यते; तस्य तद्भिन्नत्वात् । न च सूक्ष्मचिदचिद्विशिष्टस्वरूपे ब्रह्मणि ज्ञायमाने सर्वस्यापि तदन्तर्गतत्वात् , वने ज्ञाते तदन्तर्गतः पनसो ज्ञातो भवति इतिवत् , प्रपञ्चो ज्ञातो भवतीति निर्देश: उपपद्यतामिति वाच्यम् – सत्यं ज्ञानमनन्तं ब्रह्म (ते.आन. १) इति लक्षणाश्रयस्य चेतनाचेतनवर्गस्य तदन्तर्भावे प्रमाणाभावात् । न च, विशष्यांशस्य लक्षणं सत्यं ज्ञानमनन्तम् इत्यादि ; विशिष्टस्य जिज्ञास्य ब्रह्मणस्तु लक्षणं जन्माद्येवेति सूत्रकाराभिप्रायः इति जन्मादिसूत्रे व्यासार्यैरुक्तमिति वाच्यम् – कारणशोधकवाक्ययोर्भिन्नविषयकत्वस्यासंगतत्वात् आत्मन आकाश: सम्भूतः (ते.आन. १) इति आत्मन एवोपादानत्वाभिधानाच्च । ‘किंच
न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः ।
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ।।(वि.पु. ६-४-३७)
प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी ।
पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ।। (वि.पु. ६-४-३९)
अव्यक्तं पुरुषे ब्रह्मन् निष्कले सम्प्रलीयते, (महा.भा.शां. ३३९-३१) तमः परे देव एकीभवति, (सुबा.उ. २-२) इति प्रमाणप्रतिपन्नस्य अव्यक्ततमःशब्देन लयाधिष्ठानभूतस्यैव अक्षरात् परतः परः (मुं.उ. २-१-४) इति चिदचित्कारणभूतस्यैव प्रतिपिपादयिषिततया तत्र चिदचिदनुप्रवेशस्य वक्तुं शक्यत्वात् : चिदचिल्लेशलक्षणासदंशानुप्रवेशे सत्तामात्रात्मकत्व भङ्गप्रसंङ्गात् ।।
अस्तु वा विशिष्टं ब्रह्म । तथाऽपि वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् (छां.उ. ६-१-४) इति श्रुतौ एकविज्ञानेन सर्वविज्ञानस्योपादानोपादेया भेदेनैवोपपादिततया, इह, इदं सर्वम् इति इदंतास्पदतया प्रतीयमाने विशेषणभूते जगति विशिष्टाभेदासम्भवात् । शरीरगतावस्थायाः शरीरिनिष्ठत्वम् इति यदुक्तम् , तत्तु सर्वलौकिकतान्त्रिकविरुद्धम् , न तु दृष्टान्तभावात् (ब्र.सू. २-१-९) इति सूत्रभाष्यविरुद्धं च । पूर्वावस्थाश्रयनियन्तृत्वमेवोपादानत्वम् इत्यस्य च परिभाषामात्रत्वात् ।
किंच उत्पाद्यं ह्युपादेयं भवति । उत्पाद्यं च भवन्मते न द्रव्यम्; तस्य नित्यत्वात् । शब्दस्पर्शादिलक्षणाद्रव्यरूपावस्थाया एवोत्पत्तेः । तस्याश्च ब्रह्मणा अभेदगन्धस्यैवाभावात् । ननु घटत्वावस्थैव घटद्रव्यस्योत्पत्ति: मृत्पिण्डस्य विनाशश्च । द्रव्यस्योत्तरसंस्थानयोग: तत्पूर्वसंस्थानसंस्थितस्य विनाशः ; स्वावस्थस्य तु उत्पत्तिः । अवस्थाया उत्पत्तिमत्त्वचोदनमुत्पत्तेः उत्पत्तिमत्त्वचोदनमिव ‘अत्युक्ति भवति । पृथक्प्रतिपत्ति कार्यानर्हधर्माः पृथगुत्पत्तिनिरपेक्षाः । अत एव हि उत्पत्त्यादेरुत्पत्त्यादिनैरपेक्ष्यम् । तस्मात् अपृथक्सिद्धधर्मास्तु स्वयं धर्मिण उत्पत्त्याद्यवस्थाभूताः । अतोऽवस्थैव वस्तुन उत्पत्तिः । न तु अवस्थाया उत्पत्तिर्नामास्तीत्यारम्भणाधिकरणभाष्यश्रुतप्रकाशिकयोरुपपादितमिति चेन्न : घटत्वावस्थाया एव घटोत्पत्तिमृत्पिण्डविनाशरूपत्वे यावद्धटत्वावस्थावत्त्वम घट: उत्पद्यते
मृत्पिण्डो’ नश्यतीति धीप्रसङ्गः, न तु घट: उत्पन्नः, मृत्पिण्डो विनष्ट इति । न च
घटत्वावस्थागताऽऽद्यक्षणसंबन्ध एव घटस्योत्पत्तिरिति वाच्यम् – यस्य हि आगन्तुकत्वम् -आद्यक्षणसंबन्धः, अभूत्वा भवनं वा, न तस्योत्पत्तिः ; यस्य तु तन्नास्ति, तस्योत्पत्तिरित्वपि परिभाषामात्रत्वात् । घटे रूपरसादिषु, संयोगे च जायमाने घटोत्पत्तिव्यवहाराभावात्। अन्यतरकर्मज: उभयकर्मजः संयोगजः (वे.द. १) इत्यादि प्रतीतिव्यवहारादिकं सर्वं निर्मूलं स्यात् । छन्दांसि यज्ञाः क्रतवो व्रतानि (श्वे.उ. ४-९) छन्दांसि जज्ञिरे तस्मात (पु.सू. १०) इत्यादीनां वेदाधुत्पत्तिप्रतिपादकानामप्रामाण्यं स्यात् । शब्दः उत्पन्न इति प्रतीतिव्यवहारौ न स्याताम् । आकाश उत्पन्न इत्येव प्रतीतिव्यवहारौ स्याताम् । अपृथक्सिद्धधर्माणामुत्पत्तिविनाशाभावे शरीरस्योत्पादविनाशौ न स्याताम् । आत्मन एव तौ स्याताम् । किं बहुना – ईश्वरव्यतिरिक्तस्य कस्याप्युत्पादविनाशौ न स्याताम् । ईश्वरस्यैव तो स्याताम् । नन्वपृथक्सिद्धस्याद्रव्यस्यैवोत्पत्तिविनाशौ नाभ्युपेयेते ; द्रव्यस्य तौ स्त एवेति चेन्न, विनिगमकाभावात्; वैपरीत्यस्यापि सुवचत्वाञ्च ।
किंच प्रकृतिरुपादानम् । विकार उपादेयमिति निर्विवादम् । वाचाऽऽरम्भणं विकारो नामधेयम्(छां.उ. ६-१-४) इत्यत्र घटत्वावस्थाया एव विकारशब्देनाभिहिततया, यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् (छां.उ. ६-१-४) इति पूर्ववाक्येऽपि विकारार्थमयट्प्रत्ययेन तस्या एवाभिधातुमुचिततया तस्या एवोपादेयत्वं सिद्धवत्कृत्य विज्ञातत्वाभिधानात् , भवन्मते च अवस्थायाः ज्ञातत्वासंभवादनुपपत्तिस्तदवस्थैव । न च, सर्वं मृण्मयं विज्ञातं स्यात् (छां.उ. ६-१-४) इत्यत्र मयट्प्रत्ययार्थविकारस्तु अवस्थावान् । वाचाऽऽरम्भणं विकारः (छां.उ. ६-१-४) इत्यत्रावस्थाविकारशब्देनोच्यते । मृत्तिकेत्येव सत्यमित्यभेदप्रतिपादनांशेऽनुषक्तेन मृण्मयमिति पदेन पुनरप्यवस्थावान् विकारः परामृश्यत इति वाच्यम् – अस्या उक्तेरहृदयङ्गमत्वात् । तस्मात् , सर्वं मृण्मयं, वाचाऽऽरम्भणंविकारः, मृत्तिकेत्येव सत्यम् इति स्थलत्रयेऽप्यैकरूप्यमेव वक्तव्यम् । तस्मात् विकाररूपावस्थाया युष्मन्मते ज्ञातत्वानभ्युपगमात् एकविज्ञानेन सर्वस्य तदभिन्नस्य विकारस्य ज्ञानमनुपपन्नमिति चेत् – उच्यते – प्रकृतिविकृत्योः कारकव्यापारवैयर्थ्यप्रसङ्गाद् भेदसत्त्वेऽपि पृथक्स्थितिप्रति पत्त्यनहत्वेन पृथक्सत्ता नास्तीति सिद्धम् । ततश्चाभिन्नसत्ताककारणम् , उपादानम् , प्रकृतिः, आत्मेति पर्यायाः । तत्र च नैयायिकाः तदेव स्फुटतरविवेकप्रकाशरहितम् , अयुतसिद्धं कारणम् समवायिकारणम् इति व्यवहरन्ति । कार्यभिन्नाभिन्नं कारणमुपादानमिति भेदाभेदवादिनः । भिन्नतयाऽभिन्नतया वा दुर्वचं कारणमिति केचित् । भिन्नत्वे सति
अभिन्नसत्ताकं कारणमित्यन्ये । ‘अस्माकं तु भिन्नयोरप्युपादानत्वाभ्युपगमादभिन्न सत्ताककारणत्वलक्षणमपृथक्सिद्धकारणत्वमेवोपादानत्वमिति संमतम् । घटशरावादिरूपावस्थैव विकारः । घटशरावादिनानासंस्थानरूपविकारापन्नं नानानामधेयमपि मृत्तिकासंस्थानविशेषत्वात् मृद्द्रवयमेवेत्थमवस्थितम् इति वेदार्थसंग्रहे अवस्थाया एव विकारत्वकथनात् , तस्य च मृदश्च दण्डघटयोरिव पृथक्स्थितिप्रतिपत्त्योरभावात्तदपृथक्सिद्धत्वेन घटापृथक्सिद्धकारणत्वरूपस्योपादानत्वस्य मृदि सत्वात् मृदो घटशरावादि प्रति प्रकृतित्वमात्मत्वं च । ततश्च तस्यां मृदि ज्ञातायां घटशरावादिलक्षणतदवस्थारूपविकृतीनां पृथक्स्थितिप्रतिपत्त्यनर्हाणां मृत्सत्तया सत्तावत्त्ववत् मृज्ज्ञाततयैव ज्ञातताश्रयत्वात् सर्वमिदं विज्ञातम् इति शक्यते वक्तुम् । एवं ब्रह्मणोऽपि चेतनाचेतनसमस्तप्रपञ्चं प्रति अपृथक्सिद्धकारणत्वेन ‘सर्वप्रकृतित्वेन सर्वात्मतया सर्वस्य ततो भिन्नत्वेन प्रदर्शनायोग्यतया ज्ञातत्वं सिद्धम् ।
ननु भाष्येऽपि’, केवलभेदवादिनां चात्यन्तभिन्नयोः केनापि प्रकारेण ऐक्यासंभवादेव ब्रह्मात्मभावोपदेशा न सम्भवन्तीति सर्ववेदान्तपरित्यागः स्यात् इति केवलाभेदस्य प्रतिक्षिप्तत्वात् –
एकत्वे सति नानात्वं नानात्वे सति चैकता ।
अचिन्त्यं ब्रह्मणो रूपं कस्तद्वेदितुमर्हति ।।
इति स्मृतिवशात् जगद्ब्रह्मणोभिन्नाभिन्नत्वमेव भगवतो भाष्यकारस्याभिमतम् । ततश्च कार्याभिन्नं कारणमुपादानमित्येवास्तु । एवं सति सर्वस्यापि तदभिन्नत्त्वात् सर्वविज्ञानमप्युपपद्यते । हरेर्न किंचिद्यतिरिक्तमस्ति, (वि.पु. २-७-४३) एकः समस्तं यदिहास्ति किंचित् तदच्युतो नास्ति परं ततोऽन्यत् , (वि.पु. २-१६-२३) एकं सदैकं परमः परेश: स वासुदेवो न यतोऽन्यदस्ति (वि.पु. २-१२-४४) इत्यादिनिषेधाच्च केवलभेदाश्रयनिषेधकतयोपपद्यन्ते । केवलभेदपक्षे शरीरभूतस्य जगतः आत्मभिन्नत्वात् भिन्ननिषेधो नोपपद्यते । अत: कार्याभिन्नं कारणमुपादान मित्येवास्त्विति चेत् । न – भेदाभेदवादे तु ब्रह्मण्येवोपाधिसंसर्गात् तत्प्रयुक्तजीवगता दोषा: ब्रह्मण्येव प्रादु:व्युरिति निरस्तनिखिलदोष कल्याणगुणात्मक ब्रह्मात्मभावोपदेशा हि विरोधादेव परित्यक्ताः स्यु: इति तत्रैव भेदाभेदपक्षस्य भाष्ये दूषितत्वात् । ब्रह्माज्ञानपक्षादपि पापीयानयं भेदाभेदपक्षः इति वेदार्थसंग्रहेऽतिनिन्दितत्वात् भेदाभेदवादो न भाष्यकाराभिमतः । ननु यदि भेदाभेदवादो न भाष्यकाराभिमतः, कथं तर्हि केवलभेदवादिनां चात्यन्तभिन्नयोः इति भाष्यमुपपद्यताम्। शरीरात्मभावो ह्यत्यन्तभेद एव । प्रकारप्रकारि भावो हि भेदरूपः । नियमेन प्रकारप्रकारिभावलक्षणः शरीरशरीरिभावो हि नियमेन भेदरूप इति शरीरात्मभावे केवलभेद एव दृढीकृतो भवति । अत एव हि, उभयेऽपि हि भेदेनैनमधीयते (ब्र.सू.१-२-२२) इति शरीरात्मभाव एव भेदत्वेन वर्णित इति चेत् – उच्यते । अत्यन्तभिन्नयोः इत्यादिभाष्यस्यायं भावः – लोके ह्यैक्यव्यवहारे स्वरूपैक्यं तन्त्रम् । तदभावे देशादिलक्षणप्रकारैक्यम् , यथा सायं गोष्ठे सर्वे गाव एकीभवन्ति, राजान एकीभूताः, एको व्रीहिरित्यादौ देशबुद्धिजात्याद्यभेदतः । इह तु जगद्ब्रह्मणोः स्वरूपतो भिन्नयोः केनचिदाकारेणाभेदो वक्तव्यः । स क इति विचारे-अपृथक्सिद्धविशेषणत्वमिति सहस्रकृत्वोऽभ्यस्तापृथक्सिद्धपदप्रयोगात् सिद्धयैक्यमेव भाष्यकृदभिमतमिति प्रतीयते । सिद्धिर्नाम स्थिति: प्रतिपत्तिश्च । पृथक्स्थितिप्रतिपत्तियोग्य इति भाष्यादिग्रन्थेषु बहुशो व्यवहारदर्शनात् । स्थितिप्रतिपत्त्योरैक्यम् अवयवावयविजाति व्यक्तिगुणगुणिस्थलेषु पृथक्सथितिप्रतिपत्त्योरभावादवसीयते ।
–
ननु घटो भूतले वर्तते । नीलादि गुणस्तु घटे । तथा गन्धरसशब्दानां द्रव्यप्रतिपत्तिमन्तरेणापि पृथक्प्रतिपत्तिर्दृष्टा । अतः कथं स्थितिप्रतिपत्त्यैक्यमुपपद्यताम् । न च –
तावेवायुतसिद्धौ द्वौ विज्ञातव्यौ ययोर्द्वयोः ।
अनश्यदेकमपराऽऽश्रितमेवावतिष्ठते ।।
इति तार्किकोक्तमयुतसिद्धत्वमेवापृथक्सिद्धत्वमिति वाच्यम् । तथा हि सति नियताश्रयाश्रयिभावलक्षणायुतसिद्धत्वस्य भेदैकसाधकत्वेन प्रकारैक्यासाधकत्वादिति चेत् – न ।
पृथक्प्रतिपत्ति कार्याहाणामेव पृथगुत्पत्त्यादिकमपेक्षितम् इत्यादिश्रुतप्रकाशिकाग्रन्थपर्यालोचनायाम् , यस्योत्पत्तिविनाशापक्षयसत्तादिकमाश्रयोत्पत्त्यादिनैव व्यवह्रियते, तत् तदपृथक्सिद्धमिति फलति । ततश्च यदुत्पत्त्या उत्पद्यते इति व्यवह्रियते, यत्सत्तया सदिति व्यवह्रियते, न तु सत्तान्तरमपेक्षते, तत् तदपृथक्सिद्धमिति । ततश्च विकृतेः प्रकृति सत्तातिरिक्तसत्ताशून्यत्वादभिन्नसत्ताककारणत्वमुपादानत्वम् । तदेव चाऽऽत्मत्वम् । इदम् , * तज्जत्वा तदनत्वात् तन्नियाम्यत्वात्तच्छरीरत्वाञ्च सर्वस्यायमात्मा इति वदतो भगवतो भाष्यकारस्याप्यभिमतम् । न ह्यत्र आत्मत्वमन्तःप्रविश्य नियन्तृत्वरूपम् । तादृशात्मत्व स्योपादानत्वाप्रयोज्यत्वात् । न ह्युपादानत्वनियन्तृत्वाभ्यां निर्वाह्यमात्मत्वं नियन्तृत्वरूपं
सम्भवति, अस्मदुक्तमात्मत्वं तु उभयनिर्वाह्यं भवति । कथम् । उच्यते – तज्जत्त्वादिनाऽचेतनांशे उपादानत्वलक्षणमात्मत्वं फलति । तन्नियाम्यत्वादित्यनेन जीवरूपेण नियन्तृत्वं विवक्षितम् । जीवापृथक्सिद्धत्वमिति यावत् । ततश्च चेतनवर्गेऽप्यपृथक्सिद्धकारणत्वलक्षणमुपादानत्वमुक्तं भवति । ततश्च ब्रह्मव्यतिरिक्तचेतनाचेतनवर्ग प्रति ब्रह्मणोऽपृथक्सिद्धकारणत्वलक्षणाभिन्नसत्ताककारणत्वरूपोपादानत्वप्रकृतित्वापरपर्यायात्मत्वस्य सत्त्वादात्मभूते तस्मिन् ज्ञाते इतरत् सर्वं ज्ञातमेव । इतरस्य पृथक्प्रतिपत्तियोग्यस्य ज्ञातव्यस्याभावात् तत्सत्तया सदिति व्यवहारवत् तज्ज्ञाततया ज्ञातमिति व्यवहर्तुं शक्यत्वात् ।
न च प्रपञ्चस्य ब्रह्मसत्ताव्यतिरिक्तसत्ताऽभावे मृषावादिमतवत् मिथ्यात्वं स्यादिति वाच्यम् – यथा गुणगतजात्यनभ्युपगन्तृमते रूपादौ सद्बुद्धेर्द्रव्यगतसत्ता विषयत्वेऽपि न रूपादिमिथ्यात्वम् , यथा वा द्रव्यगतगुणादिषु द्वित्वैकत्वादिसंख्याप्रतीतेर्द्रव्यगत संख्यानिर्वाह्यत्वेऽपि रूपादिगतसंख्याप्रतीतेर्न भ्रान्तित्वम् , यथा वा सिद्धान्ते घटत्वाद्यवस्थाया मृद्द्रव्यापेक्षया उत्पत्तिस्थितिसत्तानां पार्थक्याभावेऽपि न तत्र उत्पत्तिस्थितिसत्ताप्रतीते: भ्रान्तित्वम् , एवं प्रपञ्चगतसत्ताप्रतीतेर्ब्रह्मसत्तानिर्वाह्यत्वेऽपि न तत्सत्त्वप्रतीतेर्भ्रान्तित्वम् । न वा प्रपञ्चस्य मिथ्यात्वम् । अत एव, नैकस्मिन्नसम्भवादिति (ब्र.सू. २-२-३१) सूत्रे, कालस्य पदार्थविशेषणतयैव प्रातीते: तस्य पृथगस्तित्वनास्तित्वादयों न वक्तव्याः ।। कालोऽस्तीति व्यवहारो जात्याद्यस्तित्वव्यवहारतुल्यः इति स्पष्टं भाषितम् । अतो ब्रह्मसत्ताव्यतिरिक्तसत्ताशून्यत्वेऽपि प्रपञ्चस्य न मिथ्यात्वम् ।
ननु अपृथक्सिद्धकारणत्वमुपादानत्वम् । तदेवात्मत्वं चेत् , भगवद्विग्रह गोपुरप्राकारनित्यसूरिप्रभृतिनित्यविभूतिं प्रति आत्मत्वं न स्यात्; कारणत्वाभावेन उपादानत्वाभावात् ।
ननु प्रतिज्ञाहानिरव्यतिरेकात् (ब्र.सू. २-३-५) इति सूत्रे वियदादेब्रह्मण उत्पत्त्यनभ्युपगमे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाहानिप्रसङ्गात् वियदाद्युत्पत्त्यभ्युपगमवत् , नित्यविभूतेरप्युपादेयत्वमभ्युपगन्तव्यम् । इतरथा सर्वविज्ञानप्रतिज्ञाहानिप्रसङ्गात् । न च नित्यविभूतेर्नित्यत्वग्राहकप्रमाणानुसारात् , येनाश्रुतं श्रुतं भवति, (छां.उ. ६-१-३) सर्वमिदं विज्ञातं भवति इत्यादावश्रुतादिशब्दानां नित्यविभूतिव्यतिरिक्तपरतया संकोचः क्रियतामिति वाच्यम् – आकाशवत् सर्वगतश्च नित्यः, वायुश्चान्तरिक्षं चैतदमृतम् (बृ.उ. ४-३-३)
आकाशं नित्यं निरवयवद्रव्यत्वादित्यादिप्रमाणबलेन अश्रुतादिशब्दानामाकाशव्यतिरिक्तपरत्वमेव स्यात् इत्याकाशप्रतिबन्द्या: दुर्मोचत्वमेव स्यादिति इति चेन्न – नित्यविभूतिर्नित्यत्वानभ्युपगमे बहुप्रमाणसंक्षोभप्रसङ्गात् अश्रुतादिशब्दानां नित्यविभूतिव्यतिरिक्तपरतया संकोचाभ्युपगमेऽपि वियन्नित्यत्वप्रतिपादकप्रमाणस्य आपेक्षिकनित्यत्वपरतयाऽप्युपपन्नस्य प्रतिपिपादयिषितसर्वविज्ञानप्रतिज्ञासंकोचकत्वायोगात् ।
ननु रूपं वाऽतीन्द्रियमन्तः करणप्रत्यक्ष तन्निर्देशात् इति, यथा ज्ञानादयः परस्य ब्रह्मणः स्वरूपतया निर्देशात् स्वरूपभूता गुणाः, तथेदमपि रूपं श्रुत्या स्वरूपतया निर्देशात् स्वरूपभूतमित्युक्तत्वात् , यदात्मको भगवान् तदात्मिका भगवतो व्यक्तिः इति श्रुतेर्भगवद्विग्रहादिकं सर्वमात्मस्वरूपादव्यतिरिक्तमित्येवाभ्युपगम्यताम् । एवं च एकविज्ञानेन सर्वविज्ञानप्रतिज्ञापि न क्लेशिता भवति । न च वापीकूपारामादीनां कथं ब्रह्मरूपत्वमिति वाच्यम् । वापीकूपोद्यानादिप्रतिपादकवाक्यानां तत्तत्क्रीडाजनितसुखानां ब्रह्मानुभवाम्बुनिधिलवकणिकायमानत्वं इत्यत्र तात्पर्यात् । यञ्चास्येहास्ति, यञ्च नास्ति, सर्वं तदस्मिन् समाहितम् , सर्वाणि च भूतानि, सर्वे च कामा: (छां.उ. ८-१-३) इति वाक्यस्य ब्रह्मणः सर्वविधभोग्यत्वमस्तीत्यत्र तात्पर्यमिति दहराधिकरणे भाष्यश्रुतप्रकाशिकयोः स्थितत्वादिति चेत् न – अचिरादिना मार्गेण विरजानदीमतिक्रम्य गन्तव्ये अप्राकृते लोके, ‘तदैरं मदीयं सरः । तदश्वत्थः सोमसवनः । तदपराजिता पूर्ब्रह्मण: (छां.उ.८-५-३) इत्यादिवाक्यप्रतिपन्नानां सरोऽश्वत्थादीनां ब्रह्मस्वरूपमात्रत्वस्य वक्तुमशक्यत्वात् ।
द्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च ।
क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते ।।(वि.पु. १-२२-५५)
इति अमूर्तशब्दितमुक्तात्मरूपस्यापि शरीरवाचिना रूपशब्देन निर्देशेन मुक्तात्मस्वरूपस्य परब्रह्मस्वरूपताया वक्तुमशक्यत्वात् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपचिता, (ते.आन. १) स तत्र पर्येति (छां.उ. ८-१२-३) इत्यादि श्रुतिभिर्मुक्तानां ब्रह्मणश्च भोक्तृभोग्यतया आधाराधेयभावेन च भेदप्रतीत्या, नित्यसूरीणां ब्रह्मस्वरूपमात्रत्वासम्भवात् तान् प्रत्यपि च परमात्मनः आत्मत्वस्य वक्तव्यत्वात् नित्यसूर्यादीनां च नित्यतया तान् प्रति उपादानत्व लक्षणात्मत्वासम्भवात् कथं तस्य सर्वात्मत्वं सिध्येदिति चेत् – यदि नित्यपदार्थान् प्रत्यप्यात्मत्वं परमात्मनो वक्तव्यमिति निर्बन्धः, तर्हि तान् प्रति आत्मत्वमुपादानत्वेकदेशभूतमपृथक्सिद्धाश्रयत्वमेव तत्र आत्मशब्दप्रवृत्तिनिमित्तमस्तु । इतरत्रोपादानत्वलक्षणात्मत्वम् ।
एतद्रूपं च आत्मत्वं तज्जत्वादिभिरुपपाद्यमिति नानुपपत्तिः । ततश्चोपादाने ज्ञाते तदपृथक्सिद्धमुपादेयमपि ज्ञातं भवतीति एकविज्ञानेन सर्वविज्ञानमुपपन्नं भवति ।
यदा’, को भवान् इति सौवीरराजप्रश्नस्य प्रकृतिसंसृष्टात्मविषयत्वेऽपि वस्तुगत्या भवच्छब्दमुख्यार्थत्वं परिशुद्धात्मस्वरूपस्यैवोचितमिति मत्वा तस्यैव भवच्छब्दमुख्यार्थत्वं प्रदर्शयन् आदिभरतः, यदा समस्तभूतेषु पुमानेको व्यवस्थितः (वि.पु. २-१३-२१) यद्यन्योऽस्ति परः कोपि (वि.पु. २-१३-९०) इत्यादि प्रत्यवोचत् ; यथा वा अथर्वशिरसि रुद्रं प्रति देवैः प्रयुक्तस्य, को भवान् इति प्रश्नस्य पुरोवर्तिरुद्रमात्रपरत्वेऽपि भवच्छब्दस्य परमात्मपर्यन्तत्वशिक्षणाय अहमेकः प्रथममासम् (अथर्व.शि. १) इत्यादि प्रतिवचन प्रवृत्तिः – एवं सर्वमिदं विज्ञातमिति प्रश्नस्य विशेषणमात्रपरत्वेऽपि विशेष्यपर्यन्तत्वशिक्षणाय स्थूलचिदचिच्छरीरकं ब्रह्म प्रति सूक्ष्मचिदचिच्छरीरकं ब्रह्मोपादानमित्येतदर्थप्रतिपादकस्य प्रतिवचनसन्दर्भस्य प्रवृत्तौ दोषाभावादिति । प्रपञ्चितं चेदमस्माभिः बृहदारण्यकप्रकाशिकायामित्यलमतिचर्चया ।।
[विद्योपदेशः]
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति, परा चैवापरा च ।। ४ ।।
तस्मै स होवाच । स्पष्टोऽर्थः । द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति । अत्र प्राप्तुम् इति अध्याहारः । यद्वस्तु प्राप्तुं द्वे विद्ये ज्ञाने उपादेये इति ह वेदाभिज्ञा: पराशरादयः ।
तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ।
आगमोत्थं विवेकाञ्च द्विधा ज्ञानं तथोच्यते ।।
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् / (वि.पु.६-५-६०,६१)
इति यद्वदन्ति, तज्ज्ञाने ‘सर्वमिदं विज्ञातं भवतीत्यर्थः । एतत् सर्वमभिप्रेत्य भगवता भाष्यकृता, द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा चेति । ब्रह्मप्रेप्सुना द्वे विद्ये वेदितव्ये ब्रह्मविषये परोक्षापरोक्षरूपे द्वे ज्ञाने उपादेये इत्यर्थः इति भाषितम् । एतेन – परविद्याया: ‘ब्रह्मप्रेप्सूपादेयत्वेऽपि अपरविद्यायास्तथात्वाप्रतीतेः, प्रत्युत अथ परा, यया तदक्षरमधिगम्यते इति वाक्यपर्यालोचनायामपरविद्याया ब्रह्म प्रेप्सूपादेयत्वाभावस्यैव प्रतीते:, ब्रह्मप्रेप्सुना द्वे विद्ये उपादेये इति भाष्यं कथम् – इति शंकाऽपि निस्स्ता । प्राप्तुमितिपदाध्याहारेणास्यार्थस्य प्रतीतेः । इतरथा यत्पदवैयर्थ्यात् । किंच, कस्मिन्नु भगव ‘इति’ सर्वोपादने पृष्टे विद्याद्वयकथनम् आम्रान् पृष्टः कोविदारानाचष्टे इति न्यायमनुसरेत् । अतो यथोक्त एवार्थः । ओदनपाकं पचति इतिवत् द्वे विद्ये वेदितव्ये इति निर्देशः । के ते विद्ये इत्यत्र आह – परा चैवापरा च इति । परमपरमिति ज्ञानं द्विविधमित्यर्थः ।।
[परापरविद्याविभागः]
तत्रापरा ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति । अथ परा यया तदक्षरमधिगम्यते ।। ५ ।।
‘तत्र सूचीकटाहन्यायेनापरज्ञानस्वरूपमाह – तत्रापरा ऋग्वेदो इत्यादिना षडङ्गोपेतसशिरस्कसोपबृंहणवेदश्रवणजन्यं परोक्षज्ञानमित्यर्थः परविद्यानिरूपणम् । अपरविद्यामुक्त्वा परविद्यामाह – अथ परा, यया तदक्षरमधिगम्यते इति । अत्र तच्छब्दः, इति ह स्म यद् ब्रह्मविदः, इति यच्छब्दप्रतिनिर्देशकः । येन ज्ञानेन इति ह स्म यद् ब्रह्मविद इति वाक्ये प्राप्यतया निर्दिष्टं तदक्षरम् अधिगम्यते – आधिक्येन गम्यते, अपरोक्षीक्रियत इत्यर्थः । विवेकादिसाधनसप्तकजन्यं श्रवणजन्यपरोक्षज्ञानानन्तरभावि दर्शनसमानाकारं ज्ञानं परज्ञानमित्यर्थः ।
एतेन – अधिगम्यते इत्यस्य, ज्ञायत इति वा, प्राप्यत इति वाऽर्थस्या आश्रयणीयतया परविद्याया एव ब्रह्मविषयत्व तत्प्राप्ति हेतुत्वयोः सिद्ध्या अपरविद्यायाः ब्रह्मप्राप्ति तद्विषयत्वयोरभावेन अपरविद्याया अपि ब्रह्मविषयत्वतत्प्राप्तिहेतुत्वप्रतिपादकभाष्यासंगतिः । किंच परविद्यायाः अपरोक्षज्ञानरूपत्वे प्रमाणानुपलम्भात् अपरोक्षत्वप्रतिपादकभाष्यस्यापि असंगतिः – इति दूषणं परास्तम् । अधिगम्यत इत्यस्य अपरोक्षीक्रियत इत्यर्थकत्वात् नन्वेतदुपबृंहणे श्रीविष्णुपुराणे – द्वे विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः । परया त्चक्षरप्राप्तिः ऋग्वेदादिमयापरा (वि.पु. ६-५-६५) इति अधिगम्यत इत्यस्य प्राप्त्यर्थतया उपबृंहितत्वात् कथमिदमुच्यत इति चेत् – यदि उपबृंहणानुसारेण प्राप्त्यर्थकतया व्याख्यातव्यमिति निर्बन्धः, तर्हि, इति ह स्म यद्ब्रह्मविदो वदन्तीति पूर्ववाक्ये परापरविद्ययोर्द्वयोरपि ब्रह्मप्राप्तिहेतुत्वस्य कथितत्वेन, यया तदक्षरमधिगम्यते इत्यस्य अपरविद्याव्यावर्तकत्वाभावप्रसंगेन तद्यावर्तकत्वार्थे साक्षात् इति पदमध्याहृत्य, यया साक्षादक्षरमधिगम्यते प्राप्यते सा परविद्या इत्यस्तु । अपरोक्षत्वं तु अर्थाल्लभ्यते । श्रुत्यन्तरे निचाय्य तम् मृत्युमुखात् प्रमुच्यते, (कठ.उ. ३-१५) तस्मिन् दृष्टे परावरे (मुं.उ. २-२-८) इत्यादिदर्शनादिति द्रष्टव्यम् ।
ननु स्वाध्यायस्य तथात्वे हि (ब्र.सू. ३-३-३) इति सूत्रे, तेषामेवैतां ब्रह्मविद्यां वदेत इत्युपसंहारगतब्रह्मविद्याशब्दस्य ब्रह्मविद्यां वेदविद्यामित्युपनिषत्परतया भाष्यकृता व्याख्यातत्वात् , येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् इति द्वितीयखण्डगतब्रह्मविद्याशब्दस्यापि तत्परत्वौचित्यात् , उपक्रमे च ब्रह्मविद्या सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह इति उक्तिकर्मतया श्रूयमाणाया ब्रह्मविद्याया उपनिषद्ग्रन्थरूपत्वस्यैवौचित्यात् , तत्रापरा – ऋग्वेदो यजुर्वेदः सामवेदः इत्यत्र ऋग्वेदादिशब्दानां तज्जन्यज्ञानलक्षणाया अयुक्तत्वेन विद्याशब्दस्यैव ग्रन्थपरत्वाश्रयणस्य युक्तत्वात् परविद्याशब्देनापि साक्षाद्ब्रह्म प्रापकोपनिषद्ग्रन्थ एवाभिधातुमुचितः । ततश्च परोक्षापरोक्षरूपज्ञानपरत्वे न युक्तिं पश्याम इति चेत् – अत्रोच्यते – यदि परविद्याशब्देनोपनिषद्ग्रन्थसंदर्भविशेषः प्रतिपाद्यः, ऋग्वेदादिशब्देन मुख्यया वृत्त्या ऋग्वेदादय एव प्रतिपाद्याः, तर्हि ब्रह्मप्रतिपादकोपनिषदामृग्वेदादिबहिर्भावप्रसङ्गेन, या वेदबाह्याः स्मृतयः, (म.स्मृ. १२-९४) इत्युक्तरीत्या असदर्थत्वमेव स्यात् , ऋग्वेदादिशब्दानां मुख्यार्थमाश्रितवद्भिरपि परैः उपनिषदां वेदबाह्यत्वप्रसङ्गात् अपरविद्याशब्दो ब्रह्मज्ञानवाचीति व्याख्यातम् । इयांस्तु विशेषः – परमते द्वे विद्ये वेदितव्ये इत्यत्र सकृत्प्रयुक्त एव विद्याशब्दः असत्यपि साधारणे प्रवृत्तिनिमित्ते ऋग्वेदादिग्रन्थसंदर्भलक्षणामपरविद्यां ब्रह्मज्ञानलक्षणां परविद्यां च वक्तीति दोषोऽस्तीति । अस्मन्मते स नास्ति । किञ्च परव्याख्याने ऋग्वेदादिवेद्यविलक्षणत्वाद् ब्रह्मणः, वेदैश्च सर्वैरहमेव वेद्यः (भ.गी. १५-१५) इति स्मृतिः पीड्येत । अत: ऋग्वेदादिजन्यं ज्ञानं ब्रह्मविषयकमेवेत्येव युक्तम् । अत: परापरज्ञानशब्दितापरोक्षपरोक्षज्ञानविषयत्वं ब्रह्मण एवेति भाष्यकारीया रीतिरेव साधीयसी ।।
[अक्षरशब्दवाच्यपरब्रह्मस्वरूपम्]
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः ।।६।।
यत्तदद्रेश्यम् इति । अद्रेश्यम् – अदृश्यं ज्ञानेन्द्रियाविषयम् । अग्राह्यं – पाण्यादिकार्यहानोपादानाद्यविषयम् । अगोत्रं – कुलरहितम् । अवर्णम् – अपेतब्रह्मक्षत्रादिकम् । अचक्षुश्श्रोत्रं ज्ञानेन्द्रियरहितम् । तत् प्रसिद्धम् । अपाणिपादं – कर्मेन्द्रियरहितम् । नित्यं – कालापरिच्छिन्नम् । विभुं – देशापरिच्छिन्नम् । सर्वगतं – सर्वत्र अन्तःप्रविश्यावस्थितम् । तत्र हेतुमाह – सुसूक्ष्ममिति । उक्तविशेषणविशिष्टं यत्तत् अव्ययम् – अथ परा यया तदक्षरमित्यत्र अक्षरशब्दनिर्दिष्टं इत्यर्थः । यद् भूतयोनि परिपश्यन्ति धीराः । धीराः – प्रज्ञाशालिनः यत् सर्वभूतोपादानतया पश्यन्ति इत्यर्थः । योनिशब्दस्योपादानवचनत्वं यथोर्णनाभिः सृजते गृह्णते च (मुं.उ. १-१-७) इति वाक्यशेषादवगम्यते इति प्रकृत्यधिकरणे भाषितम् ।।
[ब्रह्मणः उपादानकारणत्वसमर्थनम् ]
यस्मात् परं नापरमस्ति किञ्चित् यस्मानाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ।। ७ ।।
ननु भूतयोनिशब्दनिर्दिष्टं सर्वोपादानत्वं ब्रह्मणो न सम्भवति । घटादिषु मृदादेरेव उपादानत्व दर्शनात् ब्रह्मण उपादानत्वासम्भवात् इत्याशंक्य मृदादिष्वपि ‘ब्रह्मण- आत्मतया व्याप्तत्वात् मृदादिरूपस्य ब्रह्मण उपादानत्वं नानुपपत्तिरिति अभिप्रयन् आह – यस्मात् = परं नापरमस्ति किंचित् । अत्र परशब्द उत्कृष्टवचनः । अपरशब्दोऽन्यवचनः । यस्मादन्यदुत्कृष्टं नास्तीत्यर्थः । नात्र परापरयोर्द्वयोरपि निषेधः । तथा सति नञः सकृच्छ्रुतस्य आवृत्तिप्रसङ्गात् । यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । अणोरणीयान् महतो महीयानिति भावः । अणीयस्त्वं सूक्ष्मत्वम् । व्यापित्वमिति यावत् । ज्यायस्त्वं सर्वेश्वरत्वम् । सर्वव्यापित्वात् सर्वेश्वरत्वादस्यैव, एतद्व्यतिरिक्तस्य कस्याप्यणीयस्त्वं ज्यायस्त्वं च नास्ति इत्यर्थः इति वेदार्थसंग्रहे व्याख्यातम् । कश्चिदिति लिङ्गव्यत्ययश्छान्दसः । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः । मन्तव्याभावाद् वृक्षवदप्रणतस्वभावः सन् जगत्प्रधानभूत: परमपदे आस्ते इत्यर्थः । तेनेदं पूर्णं पुरुषेण सर्वम् । नियमनार्थमन्त:प्रविष्टेन सर्वमिदं व्याप्तमित्यर्थः । अतश्च मृदादिशरीरकस्य ब्रह्मणो घटादावप्युपादानत्वसंभवाद् भूतयोनित्वं नानुपपन्नमिति भावः । अयं मन्त्र: केषुचित् कोशेषु न दृष्ट:: कैश्चित् अव्याकृतः । तथाऽपि व्यासार्यैः, अक्षरपुरुषस्य, यस्मात्परं नापरमस्ति इति समाभ्यधिकनिषेधश्चोपक्रमावगतः इत्यभिहितत्वान्न प्रक्षेपशंकार्ह इति द्रष्टव्यम् ।।
[सृष्टिक्रमः]
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् संभवतीह विश्वम् ।। ८ ।।
ननु लोके उपादानस्य स्वभिन्ननिमित्तकारणसापेक्षत्वदर्शनादेकविज्ञानेन सर्वविज्ञानम् अनुपपन्नम् । किंच एकस्य ब्रह्मणः परस्परविलक्षणानन्तप्तपञ्चोपादानत्वमपि न संभवति । किञ्च घटाद्युत्पत्तावुपादानभूतमृत्पिण्डादिषु पूर्वावस्थोपमर्दो दृश्यते । प्रकारोपादानभूतासु इष्टकासु चतुरश्रत्वादिलक्षणपूर्वाकारतिरोधानं दृश्यते । अक्षरशब्दितस्य निर्विकारस्य ब्रह्मणः पूर्वाकारोपमर्दतिरोधानयोरसम्भवेनोपादानत्वं न संभवतीति आशंक्याह – यथोर्णनाभि: सृजते गृह्णते च । यथोर्णनाभिर्हृदूर्णां सन्तत्य वक्त्रतः । तथा विहृत्य भूयस्तां ग्रसत्येवं जनार्दनः ।। इति ।
[दृष्टान्तत्रयस्य सार्थक्यम् ]
उक्तरीत्या यथा लूताख्यकीटविशेषस्य स्वान्तःस्थिततन्तुनिःसारणतत्प्रवेशनयोः निरपेक्षकर्तृत्वम् , यथा पृथिव्यामोषधयः संभवन्ति – यथा एकस्या एव पृथिव्याः पूर्वावस्थोपमर्दतिरोधानाभावेऽपि विलक्षणानन्तौषध्युपादानत्वम् , यथा सतः पुरुषात् केशलोमानि – यथा जीवतः पुरुषस्य – चेतनस्य अचेतनकेशलोमाद्युपादानत्वम् , तथाऽक्षरात् संभवतीह विश्वम् एवमेव निमित्तान्तरनिरपेक्षादुपादेयविलक्षणात् निर्विकारात् परमात्मनः परस्परविलक्षणं चेतनाचेतनात्मकं निखिलं संभवति इत्यर्थः ।।
[सृष्टिक्रमः]
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।
अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ।।१।।
ब्रह्मण: विश्वोत्पत्तिप्रकार उच्यते – तपसा चीयते ब्रह्म । तपसा – ज्ञानेन । यस्य ज्ञानमयं तपः इति वक्ष्यमाणत्वात् । चीयते – उपचीयते । बहु स्याम् (छा.उ. ६-२-३) इति संकल्परूपेण ज्ञानेन ब्रह्म सृष्ट्युन्मुखं भवतत्यर्थः । ततोऽन्नमभिजायते । अद्यतेऽत्ति च भूतानि (तै.आन. २) इति भोग्यभोक्तृरूपचेतनाचेतनसंघातलक्षणमव्याकृतं परस्मात् ब्रह्मणो जायत इत्यर्थः । अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् । तस्मात् समष्टिरूपचिदचित्संघातात्मकात् अन्नशब्दितादव्याकृतात् , मुख्यः प्राणः, अन्तःकरणम् , सत्यशब्दितो भोक्तृवर्गः, स्वर्गादयो लोकाः, कर्मसु आयत्तममृतं च ; अमृतत्वसाधनं कर्मेति यावत् । अथवा कर्मसु इति निर्धारणे सप्तमी । कर्ममध्ये मोक्षार्थं कर्मेत्यर्थः । एतत् सर्वमभिजायत इति पूर्वेणान्वयः । एतत् सर्वं भाष्यश्रुतप्रकाशिकयोः स्पष्टम् ।।
यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते ।। १० ।।
पूर्वमन्त्रोक्ततपश्शब्दं विवृण्वन् भूतयोनिभूतस्य ब्रह्मणः सृष्ट्युपकरणं सार्वज्ञ्यं दर्शयति यः सर्वज्ञः सर्ववित् इति। सर्वज्ञः – सर्व विषयक ज्ञानवान् । सर्ववित् तत्तद्वस्तुगतसर्व प्रकारक ज्ञानवान् । स्वरूपतः प्रकारतश्च सर्व विषयक’ ज्ञानवत्त्वमस्मिन् मन्त्रे भूतयोने: विधेयम् । अप्राप्तत्वात् । यस्य ज्ञानमयं तपः इत्यनेनांशेन पूर्वमन्त्रोक्ततपश्शब्दविवरणम् । यस्य ब्रह्मणः संकल्परूपज्ञानव्यतिरेकेण जगत्सृष्ट्युपयुक्तं कर्मान्तरं नास्ति इत्यर्थः । ततोऽन्नमभिजायते इत्यादिकमनुवदति – तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते । तस्मात् – संकल्पेन सृष्ट्युन्मुखाद्ब्रह्मणः । ततोऽन्नमभिजायत इत्यत्र अन्नशब्दनिर्दिष्टम् एतत् – अव्याकृताख्यं ब्रह्म ‘साक्षाज्जायते । तद्द्वारा नामरूपवत् , अद्यतेऽत्ति च भूतानि इति अन्नशब्दनिर्दिष्टभोग्यभोक्तृरूपं च जायते इत्यर्थः । यद्यप्यस्मिन् मन्त्रे सर्वज्ञत्वाद्यनुवादेन ब्रह्मशब्दिताव्यक्तादिहेतुत्वं विधीयत इति प्रतिभाति, तथाऽपि तस्य पूर्वमन्त्रप्राप्तत्वेन विधेयत्वासम्भवात् अप्राप्तस्य सर्वज्ञत्वस्यैव विधेयत्वमिति द्रष्टव्यम् ।
ननु सर्वज्ञसर्वविच्छब्दयोरपौनरुक्त्याय सर्वज्ञशब्दस्य रूढिरभ्युपगन्तव्या । कृशानुरेताः सर्वज्ञः (अ.को. १-१-३३) इति निघण्टुपाठेन सर्वज्ञशब्दस्य उमापतौ रूढत्वात् । तस्मात् सर्वविदः देवतान्तरात् निमित्तभूतात् , तपसा चीयते ब्रह्म इति पूर्वमन्त्रनिर्दिष्टमुपादानं ब्रह्म अन्यदेव भवितुमर्हति । तस्मादेतद्ब्रह्म नामरूपमन्नं च जायत इति च उपादानभूताद् ब्रह्मणो निमित्तभूतेश्वरस्य भेद एव प्रतीयत इति चेन्न – यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः इति, तपसोपचीयमानतया पूर्वमन्त्रनिर्दिष्टस्याक्षरब्रह्मण एव सर्वज्ञत्वसर्ववित्त्वयोः प्रतीत्या तयोर्भेदासम्भवात् । निमित्तोपादानभेदविवक्षायामेकविज्ञानेन सर्वविज्ञानासम्भवेन कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति (मुं.उ. १-१-३) इति प्रश्नप्रतिवचनत्वासम्भवेन प्रतिपिपादयिषितप्रधानार्थविरोधप्रसंगादित्यलमतिप्रसङ्गेन ।।
।। इति प्रथममुण्डके प्रथमखण्डप्रकाशिका ।।