[highlight_content]

मुण्डकोपनिषत् प्रथममुण्डके द्वितीय खण्डः

मुण्डकोपनिषत्

प्रथममुण्डके द्वितीयखण्डः

[परविद्याङ्गम् अपरविद्या]

तदेतत् सत्यम् ।। मन्त्रेषु कर्माणि कवयः यान्यपश्यँस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं सत्यकामाः एष वः पन्थाः सुकृतस्य लोके ।। १ ।।

तदेतत् सत्यम् इति । सत्यं – नित्यम् , उत्पत्तिविनाशादिषड्भावविकारशून्यम् इत्यर्थः । मन्त्रेषु कर्माणि कवयः यान्यपश्यन् इति । कवयः – अतीन्द्रियार्थसाक्षात्कारसमर्था वेदेषु यानि – अग्निहोत्रादिकर्माणि दृष्टवन्तः । तानि त्रेतायां ‘गार्हपत्यादि वैतानिकाग्निषु यावज्जीवं कर्तव्यतया अधिकारिमन्त्रफलभेदेन बहुधा विहितानि । सत्यकामा: – स्वतस्सत्यं परं ब्रह्मैव कामयमानाः । फलाभिसन्धिरहिताः सन्त इत्यर्थः । तानि कर्माणि आचरथ’, अनुतिष्ठत । कर्मणां ब्रह्मप्राप्तिहेतुत्वं ज्ञानद्वारेति द्रष्टव्यम् । एष वः पन्थास्सुकृतस्य लोके । सुकृतस्य – स्वनुष्ठितस्य ब्रह्मज्ञानस्य लोके फले। मोक्षे साध्ये एष वः पन्था इत्यर्थः ।।

[अपरविद्यानुष्ठानेन प्रयोजनम् ]

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाऽऽज्यभागावन्तरेण आहुतीः प्रतिपादयेच्छ्रद्धया हुतम् ।। २ ।।

एवं ब्रह्मविद्याङ्गतया फलाभिसन्धिरहितकर्मानुष्ठानं विधाय फलाभिसन्धिपूर्वकस्य तु कर्मणः, अयथावदनुष्ठितस्य न प्रतिपदोक्तफलजनकत्वम् प्रत्युत प्रत्यवायजनकत्वमेव, यथावदनुष्ठितस्यापि तस्य सत्यलोकपर्यन्तफलकत्वमेव इत्याह यदा लेलायते ह्यर्चिः इत्यादिना । ‘यदा’, इन्धनादिभिः दीपितेऽग्नौ, यस्मिन काले ज्वाला चलति । तदा – तस्मिन् काले आज्यभागयोः मध्ये आहुतीः प्रक्षिपेत्  इत्यर्थः । श्रद्धया तत् सुहुतं भवेत् इत्यर्थः ।।

यस्याग्निहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जितं अहुतमवैश्वदेवं अविधिना हुतमासप्तमान् तस्य लोकान् हिनस्ति ।। ।।

यस्याग्निहोत्रम् इति । दर्शाख्यपूर्णमासाख्येष्टयननुष्ठाने ‘नवान्नस्वीकारार्थ शरत्कालकर्तव्याग्रयणाख्येष्टिविशेषा ननुष्ठाने,अतिथिसत्कारौपासनहोमवैश्वदेवाननुष्ठाने, श्रद्धावैधुर्ये, यथाशास्त्रम् अननुष्ठाने च, अनुष्ठितमप्यग्निहोत्रकर्म तस्य सुकृतफलं सर्वं सप्तपुरुषपर्यन्तं नाशयति इत्यर्थः । यद्यपि अग्निहोत्रस्य न दर्शपूर्णमासादिकम् अङ्गम्; तेषां पृथक्फलसत्त्वात् – तथाऽपि नित्यनैमित्तिकं सकलं कर्मानुष्ठेयम् इत्यत्र तात्पर्यम् । अत एव भगवता भाष्यकृता, श्रुतिस्मृतिचोदितेषु कर्मसु एकतरकर्मवैधुर्येऽपि इतरेषामनुष्ठितानामपि निष्फलत्वम् , अयथानुष्ठितस्याननुष्ठितसमत्वं चाभिधाय इति मन्त्रार्थो विवृतः ।।

[सप्तार्चिषां निरूपणम् ]

काळी कराळी च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फलिङ्गिनी विश्वरूपी च देवी लेलायमाना इति सप्त जिह्वाः ।। ४ ।।

काली कराली चेति देवीत्येतत् ‘विश्वरुच्याः। विशेषणम् । इति लेलायमानाः सप्त जिह्वाः इत्यन्वयः ।।

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ।। तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ।।५।।

एतेषु यश्चरते इति । एतेषु – दीप्यमानेषु अग्रिजिह्वाभेदेषु विहितकालानतिलङ्गनेन होमद्रव्यं गृहीत्वा योऽग्निहोत्रादि कर्म आचरति । अधिवसति इति अधिवासः । यस्मिन् सत्यलोके देवानां पतिरसमानो हिरण्यगर्भ आस्ते, तत्र ता: आहुतयः सूर्यस्य रश्मयो भूत्वा तं – यजमानम् प्रापयन्ति इत्यर्थः ।।

एह्येहीति तमाहुतयः सुवर्चस: सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्यः एष वः पुण्यः सुकृतो ब्रह्मलोकः ।। ६ ।।

एह्येहीति सूर्यस्य रश्मिसम्पृक्ताः, अत एव सुवर्चसः आहुतयः तं यजमानमर्चयन्त्यः, सुकृतसाध्यः पावन एष चतुर्मखलोको वः – भवदीयः – भवत्स्वामिकः ‘इतीदृशीं प्रियां वाचं वदन्त्य: एह्येहीत्यायन्त्यः तं यजमानं ब्रह्मलोकं प्रापयन्ति ।।

[कर्मणां अस्थिरत्वम् ]

“प्लवा ह्येते अदृढा यज्ञरूपाः अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढाः जरामृत्युं ते पुनरेवापियन्ति ।। ७ ।।

एवं ब्रह्मलोकपर्यन्तसाधकान्यपि कर्माणि क्षयिफलतया निन्द्यन्ते – लवा ह्येते अदृढा इत्यादिना । षोडशर्त्विक्पत्नीयजमानरूपाष्टादशकर्त्राश्रितत्वेनोक्तम् अवरं – फलाभिसन्धिमत्तया अश्रेष्ठं कर्म येषु – यजमानेषु वर्तते, एते यज्ञरूपाः – यज्ञप्रधानाः पुरुषाः जीर्णनौका इव संसारार्णवसन्तरणासमर्था इत्यर्थः । यद्वा अष्टादशस्मृत्युक्तं स्मार्तं कर्म येषु – श्रौतकर्मसु तदधिकारसम्पादकत्वेन अवरम् – अङ्गभूतं भवति, तान्यपि श्रौतानि यज्ञात्मकानि कर्माणि शोकाम्बुधितरणे साधनानि न भवन्ति इत्यर्थः एतच्छ्रेयो येऽभिनन्दन्ति इति । एतत् – कर्म श्रेयःसाधनं मत्वा ये हृष्यन्ति, ते जरां मृत्युं च भूयो गच्छन्ति ।।

[अविदुषां निन्दा]

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितम्मन्यमानाः। जङ्घन्यमानाः परियन्ति मूढाः अन्धेनैव नीयमाना यथाऽन्धाः ।।८।।

अविद्यायामन्तरे वर्तमानाः इति । अविवेकप्रधानाः, स्वयमेव धीमन्तः, ऊहापोहक्षमधीशालिनः इति मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढाः । जरारोगाद्यनेकानर्थव्रातैः भृशं हन्यमाना मूढाः परिभ्रमन्ति । अन्धेनैव नीयमाना यथाऽन्धाः । स्पष्टोऽर्थः ।।

अविद्यायां बहुधा वर्तमानाः वयं कृतार्था इत्यभिमन्यन्ति बालाः। यत्कर्मिणो न प्रवेदयन्ति रागात् तेनाऽऽतुराः क्षीण लोकाश्च्यवन्ते ।। ९।।

एतदेव विशदयति – अविद्यायां बहुधा वर्तमानाः । प्रकृतिमण्डले देवमनुष्यादिबहुविधाभिमानितया वर्तमानाः । वयमेव कृतार्था इत्यभिमन्यन्ति बालाः । बाला: अज्ञानिनः, वयमेव कृतार्था इत्यभिमानं कुर्वन्ति । यत् कर्मिणो न प्रवेदयन्ति रागात् । कर्मफलस्वर्गादिरागात् कर्मठा: तत्त्वं यतो न जानन्ति, तेनाऽऽतुराः क्षीणलोकाः च्यवन्ते । तेन तत्त्वज्ञानाभावादेव हेतोः क्षीणे पुण्ये मर्त्यलोकं विशन्ति (भ.गी. ९-२१) इत्यर्थः ।।

[कर्मिणां पुनराप्तिप्रकार:]

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ।। १० ।।

इष्टापूर्तं मन्यमाना वरिष्ठम् इति । इष्टं यागादि । पूर्तं खातादि एतदेव अखिलपुरुषार्थसाधनं मन्यमानाः । नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । श्रेयोन्तरं न। जानन्ति इत्यर्थः । नाकस्य पृष्ठे इति । ते सुकृते – सुकृतसाध्ये स्वर्गलोकाद्यूर्ध्व लोके कर्मफलम् अनुभूय इमं लोकं – मनुष्यलोकम् , ततो हीनतरं वा – नरकादिलक्षणं विशन्ति ।।

[उपासकानां ब्रह्मलोकप्राप्तिः]

तपः श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्या चरन्तः ।

सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामतः स पुरुषो ह्यव्ययात्मा ।। ११ ।।

तप:श्रद्धे इति । ये – संन्यासिनः कृतश्रवणमननाः वने स्थित्वा उपरतकरणग्रामाः तपश्शब्दितं ब्रह्म च तदादरातिशयरूपश्रद्धां च ‘सेवन्ते’ ; ते विधूतपापाः सूर्यमण्डलं भित्त्वा – सहस्रस्थूणे विमिते दृढ उग्रे यत्र देवानामधिदेव आस्ते (जै.ब्रा. ३-३-८४) इति पर्यंक विद्यायुक्तः हेयप्रत्यनीकः, सदैकरूपाय (वि.पु. १-२-१) इति प्रमाणप्रतिपन्ननित्यविग्रहयुक्तो यत्राऽऽस्ते तत्र यान्ति इत्यर्थः । ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छां.उ. ५-१०-१) इत्यत्र तपश्शब्देन ब्रह्मोच्यते । बृहदारण्यके, श्रद्धां सत्यमुपासते (बृ.उ. ८-२-१५) इति तपश्शब्दस्थाने सत्यशब्दप्रयोगात् ; सत्यशब्दस्य ब्रह्मपरत्वात् इति व्यासार्यैरुक्तत्वात् तपश्श्रद्धे इत्यत्र तपश्शब्दो ब्रह्मपरः ।।

[मुमुक्षोः गुरूपसदनम् ]

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम् ।। १२ ।।

 विरक्तस्य परब्रह्मप्राप्तिसाधनज्ञानेच्छोर्गुरूपसदनं विधीयते – परीक्ष्य लोकान् कर्मचितानिति । अस्मिन् वाक्ये न्यायसिद्धार्थानुवादेन गुरूपसत्तिर्विधीयते । कर्मचितान् – कर्मसञ्चितान् कर्मसम्पाद्यान् लोकान् परीक्ष्य – मीमांसान्यायैर्निरूप्य ब्राह्मण: अधीतसाङ्गसशिरस्कवेदः । य इत्यध्याहार्यम् , स इत्युत्तरत्र श्रणात् । अकृतः – नित्यः । अत्र पुरुषो विशेष्यः, लिङ्गवशात् ; अक्षरं पुरुषम् इत्यनन्तरोक्तेश्च । कृतेन – कर्मणा । नास्ति – न सिध्यति – न लभ्यते । इतिकरणं द्रष्टव्यम् । इति यो निर्वेदमायात् , सः तद्विज्ञानार्थं गुरुमेवाभिगच्छेत् । एवकारेण नियमविधित्वमवगम्यते । समित्पाणिः – अरिक्तपाणिः । रिक्तपाणिस्तु नोपेयात् राजानं दैवतं गुरुम् इति हि स्मर्यते । श्रोत्रियं – श्रुतवेदान्तम् । ब्रह्मनिष्ठम् – ब्रह्मसाक्षात्कारवन्तम् । श्रुतवेदान्तोऽपि रुचिभेदादब्रह्मनिष्ठो नोपगन्तव्य इति भावः । अभिगच्छेदित्यन्वयः ।

[ब्रह्मविद्योपदेशः]

तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ।। १३ ।।

शमः – बाह्येन्द्रियनियमनरूपः, प्रशान्तचित्ताय इत्यन्तःकरणनियमनस्योक्ततया पारिशेष्यात् । एतेन श्रवणोपयुक्तमवधानं विवक्षितम् ; न तु उपासनोपयुक्तात्यन्तेन्द्रियजयादिः तस्मै स विद्वान् प्रोवाच इत्यन्वयः । येन इति निर्देशः विज्ञानाभिप्रायः । तद्विज्ञानार्थम्  इति हि प्रकृतम् । सामान्यतः कारणाभिप्रायो वा । लिङ्गव्यत्ययो वा । अक्षरं . स्वरूपेणाविकारम् । सत्यं – गुणतोऽप्यविकारम् आभ्यामचिज्जीवव्यावृत्तिः । तां ब्रह्मवियां प्रोवाच प्रब्रूयादित्यर्थः इति वेदान्तसारे व्याख्यातम् ।

एतच्छृत्यर्थ हृदि निधाय भगवता बादरायणेन शास्रारम्भे, अथातो ब्रह्मजिज्ञासा (ब्र.सू. १-१-१) इति सूत्रितम् । तस्य चायमर्थः – अथ षोडशलक्षणकर्मविचारानन्तरम् । अतः कर्मणामल्पास्थिरफलत्वाधिगमसहितानन्तस्थिरफलापातप्रतीतेर्हेतोः ब्रह्मजिज्ञासा ब्रह्मविचारः कर्तव्य इति । कर्मविचारे सति, अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति (आप.श्रौ.सू. ८-१-१) इत्यादिभिरक्षय्यफलकत्वेन श्रुतानामपि चातुर्मास्यादीनाम् , प्रत्यब्दं चातुर्मास्यैर्यजेतइत्यादिभिरावृत्तिविधानात् , अतोऽपि बहुवित्तव्यससाध्याश्वमेधविश्वजिदादीनामननुष्ठानलक्षणाप्रामाण्यप्रसङ्गाञ्च चातुर्मास्यादीनामक्षय्यफलत्वमापेक्षिकमिति निश्चित्य, अनन्तस्थिरफलरूपं ब्रह्म च वेदान्तवाक्यैरापाततोऽवगत्य, तन्निर्णयाय ब्रह्मविचारे पुरुषः प्रवर्तत इति पर्यवसितोऽर्थः ।

ननु कर्मविचारे सति आवृत्तिविधानादिभिः कर्मणामल्पास्थिरफलत्वं प्रतीयतां नाम । वेदान्तवाक्यैरनन्तस्थिरफलं ब्रह्म कथं प्रतीयताम् , सिद्धे ब्रह्मणि व्युत्पत्तिविरहात् । व्यवहाराधीनत्वादाद्यव्युत्पत्तिग्रहस्य । व्यवहारस्य च कार्यान्वित एव सम्भवात् । तथा हि – गामानय इति वाक्यश्रवणानन्तरं गवानयने प्रवृत्तं प्रयोज्यमुपलभ्य बालो व्युत्पित्सुः इयं गवानयनप्रवृत्तिः गवानयनकार्यताज्ञानसाध्या गवानयनप्रवृत्तित्वात् मदीयगवानयनप्रवृत्तिवदिति तदीयकार्यताज्ञानमनुमाय, तस्य च ज्ञानस्य शब्दान्वव्यतिरेकानुविधायितया शब्दजन्यतां निश्चिनोति । ततश्च प्राथमिकव्युत्पत्तिग्रहे शब्दस्य कार्यताज्ञानजनकत्वनिश्चयात् तदुपजीविद्वितीयादिव्युत्पत्तिग्रहोऽपि ‘कार्यविषयक: एवेति कार्यानन्विते सिद्धार्थे व्युत्पत्तिग्रहासम्भवात् अव्युत्पन्नस्य शब्दस्यार्थप्रत्यायकत्वाभावात् , अनन्तस्थिरफलापात प्रतीत्यसम्भवात् ब्रह्मविचारो नारभ्य इति पूर्व:पक्षः । अम्बातातादिभिः चन्द्रादीन् अङ्गुल्या निर्दिश्य, अयं चन्द्रः, अयं गौः इत्यादिशब्देषु बहुशः प्रयुक्तेषु भूयः सहचारदर्शीबालः शब्दप्रयोगे तदर्थबुध्युत्पत्तिंं स्वात्मनो दृष्ट्वा तयोः कंचिदौत्पत्तिकं सम्बन्धं निश्चिनोति । स एव शक्तिरिति गीयते । ततश्च सिद्धार्थेऽपि व्युत्पत्तिग्रहसम्भवात् , तान्त्रिकान्तरोपदर्शितमार्गैच्च सिद्धार्थे व्युत्पत्तिग्रहसम्भवा अनन्तस्थिरफलापातप्रतीतिसम्भवाद् ब्रह्मविचार आरम्भणीय इति तत्र सिद्धान्तः कृतः ।।

।। इति प्रथममुण्डके द्वितीयखण्डप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.