प्रश्नोपनिषत्
तृतीयः प्रश्नः
[प्राणकार्यभेदाः]
अथ हैनं कौसल्यश्चाऽऽश्वलायन: पप्रच्छ । भगवन् ! कुत एष प्राणो जायते । कथमायात्यस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं ‘प्रतितिष्ठते । केनोत्क्रमते । कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ।।१।।
अथ हैनं कौसल्यः इति । प्रतितिष्ठते – प्रतितिष्ठति इत्यर्थः । बाह्यमभिधत्ते – बाह्यरूपेण सन्निधत्ते इत्यर्थः । बाह्यमित्यस्य संनिधानक्रियाविशेषणत्वात् ।।
तस्मै स होवाच – अतिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात् तेऽहं ब्रवीमि ।।२।।
तस्मै स होवाच इति । अतिप्रश्नान् – प्रश्नमतिक्रम्य वर्तमानान् प्रश्नायोग्यान् रहस्यान् अर्थान् पृच्छसि । तस्मात् त्वं ब्रह्मिष्ठोऽसि । प्रायेण ब्रह्मवित् असि । न प्राकृत इति यावत् । अत: तेऽहं योग्यत्वात् ब्रवीमि ।।
आत्मन ‘एष प्राणो जायते । यथैषा पुरुषे छायैतस्मिन् एतदाततं मनोकृतेनायात्यस्मिन् शरीरे ।।३।।
प्रथमस्य उत्तरमाह – आत्मन एवैष प्राणो इति । परमात्मन एवैष प्राणो जायत इत्यर्थः । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च (मु. उ. २-१-३) इति श्रुतेः, इति द्रष्टव्यम् । कथमायाति अस्मिन् शरीरे इत्यस्योत्तरमाह – यथैषा पुरुषे छाया इति । यथा पुरुषे गच्छति छायापि सहैव गच्छति – न हि छायागमने सामग्र्यन्तरमस्ति एवम् एतस्मिन् पुरुषे – जीवे, एतत् मनः । अकृतेन – अयत्नेन आततम् – अविनाभावेन संश्रितम् । एवमेव प्राणोऽपि अकृतेन अयत्नेन अस्मिन् शरीरे आयाति । मनःप्राणयोः पुरुषद्वारा शरीरे प्रवेश इति यावत् । पुरुषाविनाभूतत्वात् पुरुषेण सहैव प्राणस्य सम्बन्धः । अतः प्राणानां गमने मनस इव न पृथक्कारणमपेक्षितम् इति भावः ।।
यथा सम्राडेवाधिकृतान् विनियुङ्क्ते एतान् ग्रामानेतान् ग्रामान् अधितिष्ठस्वेति, एवमेवैष प्राणः इतरान् प्राणान् पृथग्पृथगेव सन्निधत्ते ।। ४ ।।
आत्मानं वा प्रविभज्य कथं प्रतितिष्ठते इति तृतीयस्योत्तरमाह – यथा सम्राडेति । यथा राजा कार्येष्वधिकृतान् स्वसेवकान् , इमान् ग्रामान् अधितिष्ठ, इमान् ग्रामान् अधितिष्ठ इति पृथग्पृथक्विनियुज्य तन्मुखेन तेषु ग्रामेषु यथा सन्निधत्ते, एवमेव एष मुख्यप्राणः इतरेषु प्राणेषु ग्रामस्थानीयेषु स्वांशभूतापानव्यानादिमुखेन सन्निधत्ते; अधितिष्ठति इति यावत् ।।
पायूपस्थे अपानम् । चक्षुश्श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतितिष्ठते । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति । तस्मात् एतास्सप्तार्चिषो भवन्ति ।।५।।
पायूपस्थेऽपानम् इति । तत्र – पायुश्च उपस्थं च पायूपस्थम् , तस्मिन् । अपानम् – मूत्रपुरीषापकर्षणं कुर्वन् प्रतितिष्ठति – प्रतिष्ठितो भवति; तदधिष्ठाता भवति इत्यर्थः । मुखनासिकाभ्याम् निर्गतो वायुः प्राणरूपः सन् चक्षुश्श्रोत्रे – चक्षुश्च श्रोत्रं च तस्मिन्, प्रतितिष्ठति – प्रतिष्ठितो भवति; तदधिष्ठाता भवति इत्यर्थः । मध्ये तु समानः सन् अवतिष्ठते । एष हि समानो हुतम् – भुक्तम् अन्नादिकं समं नयति सप्तधातुसाम्यं नयति । विभागं करोतीति यावत् । तस्मात् समानवायोर्हेतोः जाठराग्नेः सप्तज्वाला: काली कराळी इत्येवमाद्याः अर्चिषः प्रादुर्भवन्ति ।।
हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनाम् । तासां शतं शतम् एमेकैकस्या द्वासप्ततिः द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्ति । आसु व्यानश्चरति ।।६।।
हृदि ह्येष आत्मा इति । एषः – जीवात्मा, हृदि – हृदये, यत्र समानरूपेण प्राण आस्ते । तत्र, स्वयमपि वर्तते । अत्र – हृदये नाडीनाम् एकाधिकं शतं वर्तते । तासाम् – नाडीनां मध्ये एकैकस्या द्वासप्ततिः ‘द्वासप्ततिः प्रभेदाः भवन्ति । एकैकं द्वासप्ततिप्रभेदं प्रतिशाखाभूतनाडीसहस्राणि शतं शतं भवन्ति । आसु व्यानश्चरति । तासु नाडीषु व्यानरूप: चरति इत्यर्थः ।।
अथैकयोर्ध्व उदान: पुण्येन पुण्यं लोकं नयति ; पापेन पापम् ; उभाभ्यामेव मनुष्यलोकम् ।। ७ ।।
अथैकयोर्ध्व उदानः इति । अथ इति वाक्योपक्रमे । एकया – कयाचित् नाड्या, ऊर्ध्व मुख उदानः पुण्येन हेतुना पुण्यम् – स्वर्गादिलोकम् , पापेन हेतुना पापम – नरकादिलोकम् , ‘उभाभ्यामेव मनुष्यलोकं नयति इत्यर्थः । आत्मानं प्रविभज्य कथं “प्रातिष्ठत इति प्रश्नस्य, यथा सम्राडित्यारभ्य, उभाभ्यामेव मनुष्यलोकम् इत्येतदन्तं प्रतिवचनम् । तन्मध्ये अथैकयोर्ध्व उदान: पुण्येन पुण्यं नयति इत्यनेन, केनोत्क्रमत इति चतुर्थप्रश्नस्य उत्तरम् उक्तं भवति ।।
आदित्यो ह वै बाह्यः प्राण उदयति एष ह्येनं चाक्षुषं प्राणमनुगृह्णानः : पृथिव्यां या देवता, सैषा पुरुषस्यापानमवष्टभ्य । अन्तरा यदाकाशः स समानः । वायुर्व्यानः ॥८॥
कथं बाह्यमभिधत्ते इत्यस्य उत्तरमाह – आदित्यो ह वै बाह्यः इति । चाक्षुष प्राणम् – चक्षुर्गोलकवर्तीन्द्रियम् आलोकाख्यासहकारिप्रदानेन अनुगृह्णानो बहिः आदित्यरूपेण उदेति । यद्यपि प्राणस्य आदित्यात्मकत्वं न सम्भवति । तयोर्भेदात् तथापि प्राणकलायाः सर्वत्र सत्त्वेन अभेदोपचाराद्वा उपासनार्थतया वा बाह्यानाम् आदित्यादीनां प्राणात्मकत्वोक्तिः इति द्रष्टव्यम् । पृथिव्यां या प्राणकलारूपा देवता, सा पुरुषस्य अपानवाय्वधिष्ठितपायूपस्थेन्द्रिये अनुगृह्णाना वर्तत इत्यर्थः । अन्तरा यदाकाशः स ‘समान इति । आकाशाधिष्ठातृप्राणकलया आकाशस्य औपचारिकी अभेदोक्तिः द्रष्टव्या । एवमुत्तरत्रापि । प्राणापान स्थानमध्यवर्तितया हि समानो निर्दिष्टः । बाह्याकाशस्यापि, बाह्यप्राणरूपस्य आदित्यस्य बाह्यापानरूपपृथिव्याश्च मध्यवर्तितया समानत्त्वं युज्यत इति भावः । वायुः व्यानः इति । बाह्यः वायुः त्वगिन्द्रियात् अनुग्रहतो व्यानरूपः ।।
तेजो ह वा उदानः । तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ।। १० ।।
यश्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः स ह्यात्मना यथासंकल्पितं लोकं नयति ।। १० ।।
तेजो ह वा उदानः इति बाह्यं तेजः, उन्नयनहेतुत्वात् उदान इत्यर्थः तस्मादिति । यस्माद्धेतोः तेजस एव उदानशब्दितोन्नयनहेतुत्वम् , तस्मादेव उपशान्ततेजाः – अपगतदेहौष्ण्यस्सन् एषः मुमूर्षुर्जीवः यश्चित्त: यस्मिंश्चित्तं यस्य स यश्चित्तः – यत्काम इति यावत् । यादृशमनुष्यदेवादिजन्मकामो भवति, तत्कामनावशेन पुनर्भवं – शब्दितां पुनरुत्पत्तिं प्राप्तुम् , वाङ्मनसि ‘सम्पद्यतै (छां.उ.६-८-६), वाङ्मनसि दर्शनाच्छब्दाञ्च (ब्र.सू.४-२-१) इति श्रुतिसूत्र तद्भाष्योक्तरीत्या मनसा संश्लेषविशेषम् आपन्नै: वागादिभि: ‘इन्द्रियैः सहितं प्राणं संमुमूर्षुः जीव आयाति ।
यद्यपि, इममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति (बृ.उ.६-३-३८) इति मुख्यामुख्यप्राणानां जीवोपगम एव श्रूयते; न तु जीवस्य प्राणोपगमः । सूत्रितं च, सोऽध्यक्षे तदुपगमादिभ्यः (ब्र.सू.४-२-४) इति । तदर्थस्तु तदधिकरणभाष्ये उक्तः । तत्र हि – यथा वाङ्मनसि सम्पद्यते, मन: प्राणे (छां.उ.६-८-६) इति वचनानुरोधेन मनःप्राणयोरेव वाङ्मनसयोः सम्पत्तिः । तथा, प्राणस्तेजसि (छां.उ.६-८-६) इति वचनात् तेजस्येव प्राणः सम्पद्यत इति प्राप्ते – उच्यते – सोऽध्यक्षे इति । स प्राण: अध्यक्षे करणाधिपे जीवे सम्पद्यते । कुतः? तदुपगमादिभ्यः । प्राणस्य जीवोपगमः । तावत् श्रूयते । एवमेमात्मानमन्तकाले सर्व प्राणाः अभिसमायन्ति (बृ.उ.६-३-३८) इति । तथा जीवेन सह प्राणस्योत्क्रान्तिः श्रूयते, तमुत्क्रान्तं प्राणोऽनूत्क्रामति: प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति (बृ.उ.६-४-२) इति । प्रतिष्ठा च जीवेन सह श्रूयते – कस्मिन्नुत्क्रान्ते उत्क्रान्तो भविष्यामि। कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामि (प्र.उ.६-३) इति एवं जीवेन संयुज्य तेन सह तेजःसम्पत्तिः इह प्राण: तेजसि (छां.उ.६-८-६) इत्युच्यते । ततश्च प्राणो जीवेन संयुज्यैव तेजसि सम्बध्यते । यथा यमुनाया गङ्गया संयुज्य सागरगमनेऽपि, यमुना सागरं गच्छति इति वचो न विरुध्यते, तद्वत् इति भाषितम् – तथापि ‘अस्य’ प्राणप्रशंसापरत्वात् जीवस्य प्राणोपगमोक्ति: उपपद्यत इति द्रष्टव्यम् ।
प्राणस्तेजसेति । अनन्तरं प्राणस्तेजसि, तेजः परस्यां देवतायाम् (छां.उ.६-८-६) इति रीत्या तेजसा – परमात्मना च संयुक्तः प्राणः – तत्तज्जीवात्मसंकल्पानुसारेण तं तं लोकम् म्रियमाणं नयति । ततश्च तेजसा सहितस्यैव प्राणस्य उन्नयनहेतुत्वात् तेजसोऽपि उन्नयनहेतुत्वेन उदानत्वं युक्तम् इति भावः । यद्यपि प्राणस्तेजसि (छां.उ.६-८-६) इत्यत्र तेजः शब्देन सर्वाणि भूतानि उच्यन्ते, न तेजोमात्रमिति भूतेषु तच्छ्रुतेः (ब्र.सू.४-२-५), नैकस्मिन् दर्शयतो हि (ब्र.सू.४-२-६) इति सूत्रभाष्ययोः प्रतिपादितम् । तथाऽपि, भूतान्तरसंसृष्टमेव तेजः तेजश्शब्देन अभिधीयते इति भाष्योक्तेः तेजसः प्राधान्यात् तदुक्तिः उपपद्यत इति द्रष्टव्यम् ।।
य एवं विद्वान् प्राणं वेद, न हास्य प्रजा हीयते ; अमृतो भवति । तदेष श्लोकः ।। ११ ।।
य एवं विद्वान् इति । एवमुत्पत्त्यागमनप्रतिष्ठादिप्रकारेण प्राणं य उपास्ते, तत्र पुत्रपौत्रादिलक्षणप्रजाहानिः न भवति । परिशुद्धप्रत्यगात्मस्वरूपप्रतिपत्तिमुखेन ‘ब्रह्मोपासनप्रीति द्वारा मोक्षहेतुश्च भवति इति द्रष्टव्यम् । तदेष श्लोकः । तत् – प्राणवेदनमधिकृत्य प्रवृत्तः अयं श्लोकः इत्यर्थः ।।
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पंचधा । अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते । विज्ञायामृतमश्नुत इति ।। १२ ।।
उत्पत्तिमायतिम् इति । उत्पत्तिम् – प्राणस्य परमात्मन उत्पत्तिम् , मनसा सह आगमनम् अस्मिन् शरीरे, पायूपस्थादिस्थानेषु स्थितिम् , यथा सम्राडेवाधिकृतान् इत्युक्तं स्वाम्यलक्षणं विभुत्वम् , अध्यात्मम् – प्राणादिरूपेण पंचधा स्थितिम् , च शब्दसमुच्चितम्
आदित्यादिरूपेण पंचधा बाह्यमवस्थानं च विज्ञाय, अमृतम् मोक्षम् अश्नुते – प्राप्नोति । द्विर्वचनं प्रतिवचनसमाप्तिद्योतनार्थम् ।।
॥ इति तृतीयप्रश्नप्रकाशिका ।।