सुबालोपनिषत्
अथ अष्टमः खण्डः
[भगवतः अखिलहेयप्रत्यनीकत्वम्]
अन्तश्शरीरे निहितो गुहायां शुद्धः सोऽयमात्मा । सर्वस्य मेदोमांसक्लेदावकीर्ण शरीरमध्येऽत्यन्तोपहते चित्रभित्तिप्रतीकाशे गन्धर्वनगरोपमे कदलीगर्भवनिस्सारे जलबुद्बुदवच्चञ्चले निस्सृतमात्मानमचिन्त्यरूपं दिव्यं देवमसङ्ग शुद्धं तेजस्कायमरूपं सर्वेश्वरमचिन्त्यमशरीरं निहितं गुहायाममृतं बिभ्राजमानमानन्दं तं पश्यन्ति विद्वांसः । तेन लये न पश्यन्ति ।।
।। इति अष्मः खण्डः ।।