सुबालोपनिषत्
अथ एकादश खण्डः
[गतिप्रकारकथनम्]
अथ हैनं रैक्वः पप्रच्छ – भगवन्! योऽयं विज्ञानघन उत्क्रामन्, स केन कतरद्वाव स्थानमुत्सृज्यापक्रामतीति । तस्मै स होवाच – हृदयस्य मध्ये लोहितं मांसपिण्डम्, यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितम् । तस्य मध्ये समुद्रः । समुद्रस्य मध्ये कोशः । तस्मिन् नाड्यश्चतस्रो भवन्ति रमाऽरमेच्छाऽपुनर्भवति । तत्र रमा पुण्येन पुण्यं लोकं नयति । अरमा पापेन पापम् । इच्छया यत् स्मरति, तदभिसम्पद्यते । अपुनर्भवया कोशं भिनत्ति । कोशं भित्त्वा शीर्षकपालं भिनत्ति । शीर्षकपालं भित्त्वा पृथिवीं भिनत्ति । पृथिवीं भित्त्वाऽपो भिनत्ति । अपो भित्त्वा तेजो भिनत्ति । तेजो भित्त्वा वायु भिनत्ति । वायुं भित्त्वाऽऽकाशं भिनत्ति । आकाशं भित्त्वा मनो भिनत्ति । मनो भित्त्वा भूतादि भिनत्ति । भूतादिं भित्त्वा महान्तं भिनत्ति । महान्तं भित्त्वाऽव्यक्तं भिनत्ति । अव्यक्तं भित्त्वाऽक्षरं भिनत्ति । अक्षरं भित्त्वा मृत्युं भिनत्ति । मृत्युर्वै परे देव एकीभवतीति परस्तान्नसन्नासनसदसत् । इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।।
।। इति एकादशः खण्डः ।।