सुबालोपनिषत्
अथ द्वितीयः खण्डः
सुबालोपनिषद्विवरणम्
श्रीश्रुतप्रकाशिकाचार्यविरचितम्
[अथ भूतादिसृष्टिः]
अपानानिषादा यक्षराक्षसगन्धर्वाश्च, अस्थिभ्यः पर्वता लोमभ्या
ओषधिवनस्पतयः, ललाटात् क्रोधजो रुद्रोऽजायत (जायते) ।
तस्यैतस्य महतो भूतस्य निःश्वसितमेवैतत्, ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविजि(चि?) तं ज्योतिषामयनं न्यायो मीमांसा
धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानि च सर्वाणि च भूतानि ।
अथ अनुक्तसर्गप्रपञ्चपूर्वकं प्रळय उच्यते – अपानात् इति । मनुष्येषु निकृष्टाः निषादाः, देवयोन्यवान्तरभेदा: यक्षराक्षसगन्धर्वाश्च चतुर्मुखस्य अपानादजायन्त इति अध्याहारेण वा अजायत इति पदस्य विपरिणामे वा अन्वयः । ललाटात् क्रोधज इति । रुद्रोत्पत्तौ चतुर्मुखस्य मनोवृत्तिषु क्रोधः, अवयवेषु ललाटञ्च हेतुः । ‘ब्रह्मणः पुत्राय नमः’ इत्यादिष्वपि क्रोधात् ललाटोद्भवतया पुत्रत्वमेतदैकार्थ्येन सिद्धम् ।
अथ शास्त्रप्रवर्तनमाह – तस्यैतस्य इति । तस्य अण्डसंभवस्य एतस्य देवादिस्रष्टुर्हिरण्यगर्भस्य इत्यर्थः ।
महतो भूतस्य इति परमात्मवाचिशब्देन सामानाधिकरण्यात् हिरण्यगर्भकर्तृकस्य सर्वस्य भगवदधीनत्वं ज्ञाप्यते । ‘महद्भूतमनन्तमपारम्’ (बृ.उ.४-४-१२) ‘एतस्य वा अक्षरस्य महतो भूतस्य’ (बृ.उ.५-८-८) इति ‘एकोविष्णुर्महद्भूतम्’ (शरभो.२५) इति च श्रुतिस्मृतिषु महद्भूतशब्दयोः भगवति प्रसिद्धिरविगीता । निःश्वसितम् इति ततः प्रवृत्तत्वं विवक्षितम् । सर्वाणि च (तानीमानि) भूतानि निश्वसितम् इत्यन्वयः । भूतशब्दः शरीरपरः ।
हिरण्यज्योतिर्यस्मिन्नयमात्माऽधिक्षीयन्ति भुवनानि विश्वा, आत्मानं
द्विधाऽकरोत्, अर्धेन स्त्री अर्धेन पुरुषः । देवो भूत्वा देवानसृजत् ऋषिर्भूत्वा
ऋषीन्, यक्षरक्षसगन्धर्वान्, ग्राम्यान् आरण्यान् पशूनसृजत् । इतरा
गौरितरोऽनड्वान्; इतरा बडबेतरोऽश्वः; इतरा गर्दभीतरो गर्दभः; इतरा विश्वम्भरी
इतरो विश्वम्भरः ।
हिरण्यज्योतिः इत्यादि । हिरण्यसमानं ज्योतिः यस्य सः हिरण्यज्योतिः इत्यात्मविशेषणम् । यस्मिन् विश्वा भुवनानि अधिक्षीयन्ति वश्यतया स्थितानि, सोऽयं हिरण्यज्योतिरात्मा हिरण्यगर्भः आत्मानं द्विधाऽकरोत् इत्यन्वयः । कथम्? अर्धांशेन स्री अर्धांशेन पुरुषः । अभूदिति शेषः । शरीरिणः स्रष्टुं ब्रह्मा स्वांशाभ्यां तत्तञ्जातीय: पुरुषोऽभूत्, तत्तज्जतीया स्त्री च अभूत् इत्यर्थः । तदेव प्रपञ्चयति – देवो भूत्वा देवानसृजत् इत्यादिना । यक्षराक्षसगन्धर्वान् इति । तज्जातीयः पुमान् भूत्वाऽसृजदिति प्रकरणवशात् अवगम्यते । ग्राम्यारण्यपशुसृष्टिं प्रपञ्चयति – इतरा गौ: इत्यादिना । इतरा पूर्वं ब्रह्मणा स्वांशेन सृष्टा स्त्री गौः अभवत् । इतर: तत्कल्पितः पुरुषः अनड्वान् पुङ्गवोऽभूत् । गोजातीयसृष्ट्यर्थम् इत्यर्थः । इतरा बडबा इतरोऽश्व इत्यादेरप्येवं योजना । बडबा तुरगस्त्री । विश्वम्भरी भारवहा उष्ट्री । अर्थान्तरमन्वेष्टव्यम् ।
[प्रलयनिरूपणम्]
सोऽन्ते वैश्वानरो भूत्वा संदग्धे सर्वाणि भूतानि ।
पृथिव्यप्सु प्रलीयते । आपस्तेजसि लीयन्ते । तेजो वायौ लीयते । वायुराकाशे लीयते ।
अथ प्रळयं प्रतिपादयति – सोऽन्ते इत्यादिना । सः हिरण्यगर्भरूप: परमपुरुष: अन्ते स्थितिकालसमाप्तौ वैश्वानरः कालाग्निः भूत्वा सर्वाणि भूतानि कार्यजातानि संदग्धे दहति = धक्ष्यति इत्यर्थः । भवनदहनक्रिययोर्भेदात् स इति द्विरुक्तिः । दाहानन्तरं प्रळयमाह – पृथिव्यप्सु प्रलीयते इति । पूर्वावस्थाप्रहाणेन कारणसंसर्गो लयः । ‘लीङ् श्लेषणे’ (धा.पा.११३९) इति हि धातुः । कार्यस्य तदुपयुक्तकारणद्रव्यांश उपादानम् । तदतिरिक्तांशस्त्वपादानम् । तदपेक्षया कार्यस्य विभागव्यपदेशः । अतः पञ्चम्यन्तेन उच्यते । अपादानं (उपादानं?) त्यक्तकार्यावस्थद्रव्यमपादानेन संसृष्टं भवति । तस्य तदानीम्, घटस्य भूतलवत् अधिकरणत्वात् अपादानमेव सप्तम्यन्तेन उच्यते । अपादानस्य उपादानद्रव्यसजातीयत्वात्, ‘कारणे लय’ इति व्यपदेशः ।
पृथिव्यप्सु प्रलीयते । पृथिवी पृथिवीत्वावस्थाम् तदुपक्रमभूतां गन्धतन्मात्रावस्थाञ्च हित्वा अम्ब्ववस्था सती प्रागवस्थितेषु समुद्रादिजलेषु संसृष्टा भवतीत्यर्थः । स च संसर्गः समानाकारयोः निरन्तरसंश्लेषरूपत्वादैक्यम् इत्युच्यते । शुक्लगो क्षीरे कपिलादिगो क्षीरं संसृष्टमेकीभूतम् इति व्यपदिश्यते । आपस्तेजसि लीयन्ते इत्यादिवाक्यानामपि अयमेवार्थः । त्यक्तजलावस्थस्य त्यक्तरसतन्मात्रावस्थस्य च द्रव्यस्य तेजोवस्थापन्नस्य प्रागवस्थिततेजस्सम्पर्को लयः । एवम् उत्तरत्राप्यनुसन्धेयम् ।
एतत्सर्वं भगवता पराशरेण स्पष्टमुक्तम्
‘आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धात्मकं गुणम् ।
आत्तगन्धा ततो भूमिः प्रळयत्वाय कल्पते ।
प्रणष्टे गन्धतन्मात्रे भवत्युवीं जलात्मिका ।
आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः ।
सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च’ ।। इति ।
(वि.पु.६-४-१४,१५,१६)
तथा –
‘नश्यन्त्यापः पुनस्ताश्च रसतन्मात्रसंक्षयात् ।
ततश्चापो हतरसाः ज्योतिष्ट्वं प्राप्नुवन्ति वै ।
अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ।
स चाग्निः सर्वतो व्याप्य आदत्ते तज्जलं तथा ।
प्रणष्टे रूपतन्मात्रे हृतरूपो विभावसुः ।
प्रशाम्यति तथा ज्योतिः वायुर्दोधूयते महान् ।
निरालोके तदा लोके वाय्ववस्थे च तेजसि’ ।। इत्यादिना ।
(वि.पु.६-४-१७,१८,२९,२१,२२)
अत्र, ‘प्रणष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका’ इत्यनेन स्थूलपृथिव्या एव गन्धतन्मात्रावस्थाप्रहाणेन जलत्वापत्तिरुक्ता । ‘आपस्तदा प्रवृद्धास्तु’ इत्यनेन प्रागवस्थितानाम् अपां पृथिव्यवस्थान्तररूपसलिलान्तरसंसर्गात् तदेकीभूततया प्रवृद्धत्वमुक्तम् । ‘सर्वमापूरयन्ति’ इति पूर्वपृथिव्याक्रान्तप्रदेशस्यापि सकलिलस्याऽऽपूरितत्त्वमुक्तम् । एवमग्न्यवस्थजलस्यापि रसतन्मात्रावस्थाप्रहाणेन ज्योतिष्ट्वापत्तिः कण्ठोक्ता – ‘अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते’ इति । औज्वल्यगुणेनाऽऽवृते सति प्रागवस्थितो ह्यग्निः सर्वतो व्याप्य =पूर्वजलसंसृष्टमपि प्रदेशं व्याप्य तज्जलम् अग्न्यवस्थमादत्ते = स्वात्मनैकीकरोति इत्यर्थः ।’प्रणष्टे रूपतन्मात्रे’ इत्यादिना अग्नेरपि तन्मात्रावस्थाप्रहाणेन वायुत्वापत्तिः, तेन एकीभावात् प्रागवस्थितस्य वायोरतिमहत्त्वापत्तिश्च प्रतिपादतिा । एवम् उपबृंहणानुगृहीतत्वात् पृथिव्यप्सु प्रलीयते इत्यादिवाक्यानां यथोक्त एवार्थः ।
आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु । आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु इति । अत्र इन्द्रियाणि तन्मात्राणि च न लयस्थानत्वेन विवक्षितानि । इन्द्रियाणामाकाशकारणत्वाभावात् तन्मात्राणामिन्द्रिय-कारणत्वाभावात् । प्रलीयत इति पदाश्रवणाञ्च । अत एव लयशब्दानुषङ्गश्च न युक्तः । प्रथमेतरसर्ववाक्येष्वनुषङ्गश्चेत्, मध्यगतवाक्यद्वयेऽपि अनुषङ्गः स्यात् । पूर्वापरवाक्येषु सर्वेषु लयवाचिपदस्य पठितत्वात् मध्येऽनुषङ्गश्चानुचितः । अतो लयपदाश्रवर्णं लयस्याविवक्षितत्वं दर्शयति । अतः संसर्गमात्रमेव विवक्षितम् ।
ननु आकाशस्य इन्द्रियसंयोगः प्रागप्यस्तीति प्रळयदशायां तदुक्तिवैयर्थ्यमिति चेत् – (?) इह विवक्षितस्य संसर्गस्य प्रागसिद्धत्वात् । मन आदीनाम् इन्द्रियाणाम् हि पृथिव्यादिभूतैराप्यायनं श्रुतिस्मृतिषु प्रसिद्धम्, ‘अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ (छां.उ.६-४,४) ‘श्रोत्रं नभो घ्राणमुक्तं पृथिव्याः’ इत्यारभ्य ‘वाय्वात्मकं स्पर्शनमामनन्ति’ ‘नभः श्रोत्रञ्च तन्मयम्’ इत्यादिषु । तत्र पृथिव्यादिषु वायुपर्यन्तेषु प्रलीनेषु तत्तदिन्द्रियाप्यायकभूतांशानामपि प्रलीनतया तेषामाकाशतापन्नत्वात् सर्वेष्वपि इन्द्रियेषु स्वान्तर्गतेतरभूतमाकाशमेव संसर्गितयाऽवस्थितम्, न तु पृथिव्यादीत्यर्थः । अथ इन्द्रियाणाम् आकाशस्य च अहङ्कारकार्यत्वात् सेन्द्रियस्य स्वान्तर्गतेतरभूतचतुष्टयस्य आकाशस्य तत्र लयं वक्तुम्, आकाशस्य तन्मात्रावस्थापनस्यैव इन्द्रियसंसर्गमाह – इन्द्रियाणि तन्मात्रेषु इति । पूर्वमाकाशसंसृष्टानि इन्द्रियाणि पश्चात् शब्दतन्मात्रेषु संसृष्टानीत्यर्थः । परित्यक्त तन्मात्रावस्थतया पृथिव्यादिषु प्रलीनेषु गन्धतन्मात्रादीनाम् अवस्थानानुपपत्तेः शब्दतन्मात्रमेव तन्मात्रशब्देन विवक्षितम् । तत्तदिन्द्रियाप्यायकपृथिव्यादिभूतांशानामपि स्वस्वकारणतत्त्वलयक्रमेण शब्दतन्मात्रतापन्नत्वात् तत्तदंशेन भेदविवक्षायां बहुवचनम् । एतदुक्तं भवति – इन्द्रियाप्यायकभूतानां सर्वेषां आकाशतापन्नत्वात् आकाशस्यैव इन्द्रियेषु संसर्ग आसीत् । पञ्चानामपि भूतानां शब्दतन्मात्रतापन्नत्वात् इन्द्रियाणि शब्दतन्मात्रभेदेषु संसृष्टान्यासन्निति ।
तन्मात्राणि भूतादौ लीयन्ते
अथ सेन्द्रियाणां शब्दतन्मात्रांशानां स्वकारणे प्रळयमाह – तन्मात्राणि भूतादौ लीयन्ते इति । भूतादिशब्दो अहङ्कारमात्रपरः । इन्द्रियाणां सात्त्विकाहङ्कारकार्यतया तस्मिन्नंशे लयोपपत्तेः । तामसाहङ्कारांशे लयानुपपत्तेश्च ।
यद्वा – अण्डान्तर्गतस्य भूतचतुष्टयस्य स्वस्वतन्मात्रलयक्रमेणाकाशतापत्ति: आकाशस्येन्द्रियसंसर्गश्च उक्तौ । अथ तेन आकाशेन सह अण्डात् बहिरावरणत्वेनावस्थितानां भूतानां तन्मात्रावस्थापत्तिरूपं प्रळयमिन्द्रियसंसर्गञ्चाह – इन्द्रियाणि तन्मात्रेषु इति । ब्रह्माण्डतदावरणरूपेणावस्थितानि पृथिव्यादीनि भूतानि स्वस्वकारणे प्रलीयमानानि तन्मात्रावस्थां क्रमेणापन्नानि भवन्ति । तेषु तन्मात्रेषु इन्द्रियवर्गः क्रमेण संसृष्ट इत्यर्थः । अथ अण्डोदरतद्बहिर्भागावस्थितमहाभूतकारणानां साधारणं प्रळयमाह – तन्मात्राणि भूतादौ लीयन्ते इति । तानि तन्मात्राणि साक्षात्परम्परया च स्वकारणभूतेऽहङ्कारे साक्षात् परम्परया च लीयन्ते इत्यर्थः ।
अयमर्थाे भगवता पराशरेण स्पष्टमुक्तः ‘आपो ग्रसन्ति वै पूर्व भूमेर्गन्धात्मकं गुणम्’ (वि.पु.६-४-१४) इत्यादिना अण्डान्तर्गतानां तत्त्वानाम् अव्यक्तपर्यन्तम् प्रळयमुक्त्वा,
‘येनेदमावृतं पूर्वमण्डमप्सु प्रलीयते ।
सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ।।
उदकावरणं यत्तु ज्योतिषा लीयते तु तत् ।
ज्योतिर्वायौ लयं याति यात्याकाशे समीरणः ।।
आकाशश्चैव भूतादिर्ग्रसते तं तथा महान् ।
महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विज’ ।। इति । (वि.पु.६-४-३१,३२,३३)
अस्यां योजनायां तन्मात्रेषु, तन्मात्राणि इत्युभयत्र तन्मात्रशब्दसङ्कोचः; बहुवचनस्वारस्यम्; उपबृंहणानुग्रहश्च सिद्ध्यति ।
भूतादिर्महति लीयते । महानव्यक्ते लीयते । अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकीभवति ।
परस्तात् नसन्नासन्नसदसत् – इत्येतन्निर्वाणमनुशासनम् । इति वेदानुशासनम् । वेदानुशासनम् ।
।। इति द्वितीयः खण्डः ।।
भूतादिर्महति लीयते इत्यत्रापि भूतादि शब्दोऽहङ्कारमात्रपरः । वैकारिक- तेजसाहङ्कारयोः तदानीमवस्थानानुपपत्तेः । महानव्यक्ते लीयते इति । गुणत्रयवैषम्यानन्तरपूर्वावस्था गुणसाम्यम् । गुणसाम्यलक्षणमव्यक्तम् । अव्यक्तमक्षरे लीयते इति । यस्याम् अवस्थायां गुणसाम्यमप्यस्फुटम्, तदवस्थं चेतनसमष्टिगर्भं तत् अक्षरशब्देन उच्यते, न तु चेतनमात्रम् । तस्याव्यक्तप्रकृतित्व – तमोविकृतित्वायोगात् । अतः सर्वं तत्त्वज्ञातं चिदचिदात्मकं मन्तव्यम् । ‘प्रधानादिविशेषान्तं चेतनाचेतनात्मकम्’ इति पराशरवचनात् । अत्र तु चिद्गर्भवस्तुनि अक्षरशब्दः उपचरितः; प्रयोगेऽन्यथासिद्धे शक्तयन्तरकल्पनायोगात् । अक्षरं तमसि लीयते इति । चिद्गर्भत्वमचित्त्वमपि यत्र विवेक्तुम् अशक्यम्, तदवस्थमतिसूक्ष्म प्रधानं तमश्शब्दाभिलप्यम् । अक्षराद्यवस्थाप्राप्त्यौन्मुख्यविशिष्टं तदेव विभक्तं तमः । तदौन्मुख्यरहितमविभक्तं तमः परमात्मशरीरतयाऽपि चिन्तयितुमशक्यम्, सलिलविलीनलवणचन्द्रकान्तस्थसलिल . सूर्यकान्तस्थवह्रिकल्पं सर्वज्ञपरमात्मैकवेद्यमवतिष्ठते । भूतलविनिहितबीजस्थानीयमविभक्तं तमः । मृन्निस्सृतबीजवत् विभक्तं तमः । सलिलसंसृष्टार्द्रशिथिलावयवबीजतुल्यमक्षरम् । उच्छूनबीजसमानमव्यक्तम् । अङ्कुरस्थानीयो महानिति विवेकः । तम …… एकीभवति । महादाद्यवस्थाप्रहाणवत् तमस्त्वप्रहाणाभावात् लीयते इत्यनुक्तिः । कार्योपयोगितया विभक्तं तमः कार्यानुपयुक्ताविभक्ततमसि एकीभवति इत्यर्थः । यथा सलिलावस्थपृथिव्यंशः प्रागवस्थितसलिलेन एकीभवति, यथाऽग्न्यवस्थो जलांशः प्रागवस्थिततेजसैकीभवति, तद्वत् तमस्तत्त्वस्य परमात्मशरीरभावस्य वक्ष्यमाणत्वात् अविभक्ततमश्शरीरक-परमात्मनैकीभाव इति तत्त्वस्थितिः ।
चिदचिदात्मकतमःपर्यन्तप्रकृतिप्राकृतत्त्वविलक्षणं तत्त्वान्तरं प्रतिपादयति -परस्तान्नसन्नासन्नसदसत् इति । परशब्दः ऊर्ध्वदेशपरः । ‘अथ हैषोऽनन्तमपारमक्षय्यम् लोकं जयति । यः परेणाऽऽदित्यम्’ इत्यादिप्रयोगात् । ‘दिग्देशकालेष्वस्तातिः’ (पा.सू.५-३-२७) इति पाणिनिस्मृतिः । तमस ऊर्ध्वदेशे इत्यर्थः । सदसत् शब्दौ कार्यावस्थचेतनाचेतनपरौ । सत् आदिशब्दाश्च न निषेधमात्रपराः । अपि तु तद्विलक्षणपरा इति पूर्वमेवोपपादितम् । तमस उपरिभागे कार्यकारण (कार्यावस्थ?) चिदचिदात्मकोभयात्मकजगद्विलक्षणं तत्त्वमित्यर्थः ।
न च वाच्यम् – सदसदनिर्वचनीयत्वमुच्यत इति । परस्तात् इति पदवैयर्थ्यात् ।
परमते हि तमःपर्यन्तं कृत्स्नं वस्तुजातमनिर्वचनीयम् । परशब्दस्य तमोविलक्षणब्रह्मपरत्वे प्रपञ्चस्य निर्वचनीयत्वं ब्रह्मण एव अनिर्वचनीयत्वञ्च उक्तं स्यात् । अस्तातिप्रत्ययवैयर्थ्यञ्च भवेत् । अतः प्रकृति प्राकृतसमस्तवस्तु विलक्षणं किमपि तत्त्वं विवक्षितम् । तञ्च किमित्यपेक्षायाम् ‘आदित्यवर्णं तमसः परस्तात्’ (महा.ना.४-३) ‘तदक्षरे परमे व्योमन्’ (महा.ना.१-२) ‘विश्वं पुराणं तमसः परस्तात्’ (महा.ना.१-५) इत्यादिभिः वेदान्तवाक्यैः मुक्तप्राप्यस्थानविशेषविशिष्टं परं ब्रह्मेति निश्चीयते । न च केवलं परं ब्रह्मैव विश्वविलक्षणत्वात् नसन्नासन्नसदसदित्युच्यते; परस्ताच्छब्दानन्वयप्रसङ्गात् । त्रिविधपरिच्छेदरहिततया सर्वगतस्य परब्रह्मणः स्वरूपं हि देशविशेषपरिच्छिन्नं कथमुच्यते । अतः स्थानविशेषरूपविशेषविशिष्टमेव तथा वक्तुं युक्तं (क्तमिति?) परस्य ब्रह्मणो रूपमनेन वाक्येन प्रतिपाद्यत इति सिद्धम् ।
इत्येतन्निर्वाणमनुशासनम् । एतदनुशासनम् विविच्य ज्ञापनम् = उपदेशः । निर्वाणम् – निर्वाणहेतुः = मोक्षहेतुः; तत्कारणविषयत्वादित्यर्थः । इति वेदानुशासनम् इति । ‘जगत्सृष्टिरेवं विधा । प्रळय एवंविधः । कार्यकारणभूतानि तान्येतानि । ब्रह्मादयश्च कार्यभूताः । परमकारणं ब्रह्मैव चिदचिद्वस्तुविलक्षणं विलक्षणदेशादिविशिष्टम् । तञ्च परमपुरुषः । ब्रह्मादयश्च तत्कार्यभूताः तदात्मकाः । परमकारणविषयज्ञानमेव मोक्षहेतुः’ इत्ययं वेदोपदेश इत्यर्थः । कारणतत्त्वोपदेशसमाप्तिद्योतकोऽभ्यासः ।।
।। इति श्रीहरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरन्नामधेयस्य
श्रीसुदर्शनार्यस्य कृतो सुबालोपनिषद्विवरणे द्वितीयः खण्डः ।।