[highlight_content]

सुबालोपनिषत्-तुर्दशः खण्डः

सुबालोपनिषत्

 अथ तुर्दशः खण्डः

 

ओं पृथिवी वान्नमापोऽन्नादा: आपो वा अन्नं ज्योतिरन्नादं ज्योतिर्वान्नं वायुरन्नादो वायुर्वान्नमाकाशोऽन्नाद आकाशो वान्नमिन्द्रियाण्यन्नादानि इन्द्रियाणि वान्नं मनोऽन्नादं मनो वान्नं बुद्धिन्नादा बुद्धिर्वान्नमव्यक्तमन्नादमव्यक्तं वान्नमक्षरमन्नादमक्षरं वान्नं मृत्युरन्नादः । मृत्युर्वै परे देव एकीभवतीति परस्तान्नसन्नासन्नसदसत् इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् इति वेदानुशासनम् ।।

।। इति तुर्दशः खण्डः ।।

error: Content is protected !!