सुबालोपनिषत्
सुबालोपनिषद्विवरणम्
श्रीश्रुतप्रकाशिकाचार्यविरचितम्
अथ तृतीयः खण्डः
[कारणस्य परब्रह्मणः स्वरूपनिरूपणम्]
असद्वा इदमग्र आसीत्
जगत्कारणतया उक्तस्य परब्रह्मणः कारणत्वशङ्कितविकारादिदोषव्युदासार्थं तत्स्वरूपं विशोध्यते तृतीयखण्डेन । तदर्थं कारणमनुवदति – असद्वा इदमग्र आसीत् इति । इदं शब्दो न जगन्मात्रपरः । तस्य वक्ष्यमाणजगद्वैलक्षण्यव्याघातात् । न हि जगत् जगतो विलक्षणाकारं भवति । जगतः परमात्मशरीरत्वञ्च अत्रैव वक्ष्यते । अत इदंशब्देन जगच्छरीरकं ब्रह्मोच्यते । जगद्रूपं परं ब्रह्म तु अग्रे सृष्टेः पूर्वम् असदासीत् अविभक्तनामरूपमासीत् । महदहङ्कारदेवमनुष्यादिनामरूपशून्यमासीदित्यर्थः । आत्मानं मत्वा इत्यनन्तरमात्मशब्द-व्यपदेशेन असच्छब्दस्यात्मविषयत्वावगमात्: ‘सदेव सोम्येदमग्र आसीत्’ (छां.उ.६-२-१) इति कारणवाक्यान्तरैकार्थ्येन तुच्छत्वायोगाञ्च । सच्छब्दः कार्यपरः ‘असद्वा इदमग्र आसीत् । ततो वै सदजायत’ (तै.उ.आन.अनु.७) इति शाखान्तरे श्रवणात् । कार्यं तु विभक्तनामरूपम् । ‘तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत’ (बृ.उ.३-४-७) इति श्रवणात् । सद्विलक्षणत्वञ्चासत्त्वम् । अतो नामरूपशून्यमासीत् इत्यर्थः ।
[परमात्मनः अचेतनवैलक्षणत्वम्]
अजातमभूतमप्रतिष्ठितमशब्दमस्पर्शमरूपमरसमगन्धमव्ययं महान्तं बृहन्तमजमात्मानं मत्वा धीरो न शोचति ।
तस्य समस्तवैलक्षण्यमाह – अजातम् इत्यादिना । कार्यकारणरूपाचिद्गत-दोषाभावेन तद्व्यावृत्तिमाह – अजातम् इत्यादिना । ‘जायते अस्ति विपरिणमते वर्द्धते अपक्षीयते विनश्यति’ (निरुक्त.१-२-८) इत्यचेतनस्य भावविकाराः षडुच्यन्ते । तत्र उत्पद्यमानावस्था जन्म । उत्पन्नावस्था चास्तित्वम् । तदुभयाभावमाह – अजातमभूतम् इति । जन्म च, तदवच्छिन्नमस्तित्वञ्च नास्तीत्यर्थः । अव्ययम् इति विनाशराहित्यं वक्ष्यते । उत्पत्तिविनाशमध्यकालभाविनः पृथिव्यादीनां ये विकाराः तद्राहित्येन तद्व्यावृत्तिमाह- अप्रतिष्ठितम् इत्यादिना । प्रतिष्ठा आधारः । पृथिव्यादीनि आधारसापेक्षाणि। ब्रह्म तु तदनपेक्षम् । अशब्दम् इत्यादिना कालपरिच्छेदाविनाभूतधर्मव्यावृत्तिरुक्ता । एवम् अजातम् इत्यादिना अव्ययम् इत्यन्तेन कालतः परिच्छेदाभाव उक्त: महान्तं बृहन्तम् इति स्वरूपतो धर्मतश्च विपुलत्वमुक्तम् । तेन देशापरिच्छेद उक्तः । आत्मानम् इति वस्त्वपरिच्छेद उक्तः । न हि वस्तुतः परिच्छिन्नो घटः अन्यस्यात्मा भवति । अयं तु सर्वस्यात्मा सर्वशरीरकत्वात् सर्वबुद्धीनां पर्यवसानभूमिः । वस्तुतः परिच्छिनो हि घटः पटादिबुद्धेः न पर्यवसानभूमिरिति तद्व्यावृत्तिः । कर्माधीनदेहसम्बन्धलक्षणोत्पत्तिमत्तां जीवानामपि आत्मशब्दवाच्यत्वात् तद्व्यावृत्त्यर्थम् अजमात्मानम् इत्युक्तम् । एवं त्रिविधपरिच्छेदरहितं समस्तचिदचिद्विलक्षणं कारणत्व शङ्कित तद्गतदोषास्पृष्टं परमात्मानं मत्वा उपास्य धीरः न शोचति इति । सांसारिकदुःखं न अनुभवति । मुक्तो भवतीत्यर्थः ।
अप्राणममखुमश्रोत्रमबागमनोऽतेजस्कमचक्षुष्कमनामगोत्रमशिरस्कमपाणि-पादमास्निग्धमलोहितमप्रमेयमहस्वमदीर्घमस्थूलमनण्वनल्पमपारमनिर्देश्य-मनपावृतमप्रकाश्यमसंवृतमनन्तरमबाह्यं न तदश्नाति किञ्चन; न तदश्नाति कश्चन ।
अजमिति व्यष्टिदेहविशिष्टदेवमनुष्यादिजीवव्यावृत्तिं सूचितां प्रपञ्चयति – अप्राणम् इत्यादिना । अप्राणम् इति प्राणाधीनस्थितित्वं निवर्तितम्; न तु प्राणसम्बन्धमात्रम् । प्राणस्यापि अन्तर्यामित्वात् तस्य । ‘यः प्राणे सञ्चरन्’ इति हि वक्ष्यते । अमुखम् इति । अपरभागसापेक्षः पुरोभागावयवविशेषो मुखम् । तदस्य न विद्यते सर्वत्राभिमुखत्वादित्यर्थः । अश्रोत्रमवाक् इत्यादिना ज्ञानेन्द्रियाधीनज्ञानत्वं कर्मेन्द्रियाधीनव्यापारत्वञ्च निवर्तितम् । तेन तस्य स्वतस्सर्वज्ञत्वं सर्वशक्तित्वञ्च दर्शितम् । अतेजस्कं मनोधीनप्रकाशरहितम् । अचक्षुष्कं रूपसाक्षात्कारे चक्षुस्नपेक्षम् । अनामगोत्रमशिरस्कमपाणिपादम् इति । नामगोत्रशब्दाभ्यां नामधेयं कुलञ्चोकम् । नामकुलञ्च शिरः पाणिपादाद्यवयवाश्च न स्वरूपे विद्यन्त इत्यर्थः । लोके शिरःपाणिपादाः अन्योन्यकार्याशक्ताः; अयं तु सर्वत्र सर्वावयवकार्यशक्त इत्यर्थः । अस्निग्धमलोहितम् मनुष्यदेहवत् स्वेदरक्तादिमान् न भवतीत्यर्थः । अप्रमेयम् इति । प्रमाणम्-इयत्ता । ‘प्रमाणे द्वसज्दध्नमात्रचः’ (पा.सू.५-२-३७) इति प्रयोगात् । अप्रमेयम् – अपरिमेयम् । व्यष्टिदेहिवत् इयत्तारहितम् । तदेव प्रपञ्चयन् महान्तम् इत्युक्तदेशापरिच्छेदं विवृणोति अहस्वम् इत्यादिना । अस्थूलम् अपीनम् । अनणु – अकृशम् । स्थूलताप्रतिसम्बन्धिनो निषेध्यत्वात् । तस्मात् अनल्यम् अल्पपरिमाणरहितम् । अनल्यस्य समुद्रादेरपि अवधिमत्त्वदर्शनात् तद्व्यावृत्त्यर्थमाह – अपारम् इति । शतयोजनलक्षयोजनत्वादि- विशेषणैनिर्देष्टुमशक्यम् । तर्हि सर्वगतत्वात् सर्वत्र दृश्येत इत्यत्राह – अनपावृतम् इति । तिरोहितमित्यर्थः । अत्र हेतुमाह – अप्रकाश्यम् इति । चक्षुरादिभिः प्रकाशयितुम् अशक्यत्वादित्यर्थः । प्रमाणागोचरत्वे शून्यत्वं स्यादित्यत आह – असंवृतम् इति । योगिनामतिरोहितमित्यर्थः । तेषां कुत्र प्रकाशत? इत्यत्राह – अनन्तरमबाह्यम् इति । अनन्तरम् बहिः आदित्यमण्डलादौ प्रकाशते; अबाह्यम् अन्तः हृदयपुण्डरीकेऽपि प्रकाशत इत्यर्थः । न तदश्नाति किञ्चन । सर्वत्रावस्थितमीप परं ब्रह्म न किञ्चनाश्नाति कर्मफलरचेन न किञ्चिदपि जीववत् भुङ्क्त इत्यर्थः । ‘ज्ञानक्रियाभ्यां भगवान् भुङ्क्तेऽसौ प्रसभं विभु: इति लीलारसभोकृत्वस्य प्रमाणसिद्धत्वात् । न तदश्नाति कश्चन । कश्चिदपि सांसारिक: कर्मफलमिव न तद्भुङ्ते इत्यर्थः । बाक्यद्वयेन समस्तभोक्तृभोग्यविलक्षणमित्यर्थः ।
[उपासनाङ्गनिरूपणम्]
एतद्वै सत्येन दानेन तपसाऽनाशकेन ब्रह्मचर्येण निर्वदनैनानाशकेन षडङ्गेनेव साधयेत् । एतत्त्रयं वीक्षेत दमं दान दयामिति ।
मत्वा धीरो न शोचति इति तदुपासनमपवर्गापायत्वेन पूर्वमुक्तम् । तस्याङ्गान्याह – एतद्वा इति । यथार्थं भूतहितवचनं सत्यम् । तपसा । ‘तप आलोचन’ (श्रीतोऽय धातुः) तत्त्वनिरूपणेनेत्यर्थः ब्रह्मचर्यम् स्त्रीनियतिः । अनाशकेन अनशनेन । यद्वा तपः कृच्छ्रचान्द्रायणादीति, अनाशकम् फलाभिसन्धिरहितम् यज्ञादिकम्; विनाशकैन फनभोगेन तदभिसन्धिकर्तृत्वममकारेण च रहितत्वात् । सत्यादिकमेव षडङ्ग शब्दैन उच्यते । पुनश्च तदङ्गत्वेन प्रकृष्टतरं गुणत्रयमाह – एतत् त्रयम् इति । दमं – मनोनियमनम् । दानम् । ‘दैप् शोधने’ (धा.पा.९२४) । स्नानादिना शुद्धिः । प्रसिद्धदानस्य पूर्वोक्तत्वात् पुनरुक्तिप्रसङ्गात् ।अनुक्तगुणान्तरसाहचर्येण दानशब्दस्यापि अनुक्तगुणपरत्वोपपत्तेश्च । यद्वा आदरातिशयात् दानस्य पुनरपि कीर्तनम् । दया स्वप्रयोजनानपेक्षं परदुःखासहत्वम् ।
[साङ्गोपासनस्य फलम्]
न तस्य प्राणा उत्क्रामन्यत्रैव समबलीयन्ते, ब्रह्मैव सन् ब्रह्माप्येति, य एवं वेद ।।
।। इति तृतीयः खण्डः ।।
एवं साङ्गब्रह्मोपासनफलमाह – न तस्य इत्यादिना । य एवम् उक्तैरङ्गै: सह वेद पर ब्रह्मोपास्ते, – ‘उपासीत’ इत्यसकृद्वक्ष्यमाणत्वात् सामान्यशब्दस्य विशेषपर्यवसायित्वाञ्च उपासनात्मक वेदनं विवक्षितम् – , तस्य उपासकस्य – सम्बन्धमात्रे षष्ठी – तस्मादुपासकात् प्राणा नोत्क्रामन्ति इत्यर्थः । यथा ‘नटस्य शृणोति’ इत्यत्र नटाच्छ्रणोति इत्यर्थः, तद्वत् । एकादेशेन्द्रियाणि मुख्यप्राणश्च प्राणा उच्यन्ते । ते सूक्ष्मशरीरस्था अर्चिरादिमार्गगमनार्था उपासकं न जहतीत्यर्थः । ‘न तस्मात् प्राणा उत्क्रामन्ति’ इति शाखान्तरवाक्यैकार्थ्यात् ‘कोशं भिनत्ति शीर्षकपालं भिनत्ति पृथिवीं भिनत्ति’ (खं.११) इत्युपक्रम्य, ‘अव्यक्तं भिनत्ति अक्षरं भिनत्ति तमो भिनत्ति’ (खं.११) इत्यन्तेन अस्यामेव उपनिषदि ब्रह्मविदुत्क्रान्तेः वक्ष्यमाणत्वाञ्च । ‘प्रतिषेधादिति चेन्न शारीरात् स्पष्टो ह्येकेषाम्’ (ब्र.सू.४-२-१२) इति ब्रह्मसूत्रम् । ब्रह्मैव सन् ब्रह्मसमानाकारस्सन् ब्रह्माप्येति ब्रह्मण्यप्येति आत्यन्तिकलयं गच्छति । परित्यक्तकर्मकृतदेवमनुष्यादिनामरूपे(पो?) ब्रह्मणि सर्वकारणे सर्वाधारभूते प्रतिष्ठितो भवति । कार्यस्य नामरूपप्रहाणेन कारणावस्थानं हि लयः । तदानीं ब्रह्मणि वर्तमानस्य ब्रह्मसमानाकारतयाऽवस्थानमुपपन्नम् । परित्यक्तदेवादिरूपस्य ब्रह्मसारूप्यञ्च अपहतपाप्मत्वादिगुणाष्टकाविर्भावलक्षणम् । ‘अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः’ (छां.उ.८-१-५) इति दहरवाक्ये प्रजापतिवाक्ये च गुणाष्टकाम्नानात् ।
निर्विशेषज्ञानमात्रब्रह्मतापत्तिपरत्वमस्य वाक्यस्यानुपपन्नम् – य एवं वेद स ब्रह्मैव सन् इति पदानामनन्वितत्त्वात् । वेदितुः ब्रह्मतापत्तिप्रतीतेः । वेदितुर्वृत्तिमात्रतापत्तेरनु- पपन्नत्वाञ्च । किञ्च ‘ब्रह्माप्येति’ इति वाक्यस्य ब्रह्मशब्दद्वितीयानुरोधेन प्राप्तिर्वा, अप्येतीति शब्दस्वारस्यानुरोधेन तत्र लयो वा अर्थः स्यात् । ब्रह्मैव सन्निति ब्रह्मतापन्नस्य ब्रह्मभावातिरेकेण प्राप्तेर्लयस्य चाभावात्, ‘ब्रह्माप्येति’ इति वाक्यांशोऽनर्थकः स्यात् । ‘ब्रह्मतापत्रस्य काल्पनिकनामरूपभेदप्रहाणमप्ययः’ इति चेत्, तद्व्यतिरेकेण ब्रह्मभावो नाम अर्थान्तरं नास्तीति, ब्रह्मैव सन्निति वाक्यांशोऽनर्थक: स्यात् । ‘प्रागेव ब्रह्मानन्य आत्मा । तस्मात् काल्पनिकभेदलय एव विद्याफलम् इत्यर्थः’ इति चेत्, ‘य एवं वेद, स ब्रह्मैव सन् ब्रह्माप्येति’ इति ब्रह्मतापत्तेः वेदनफलत्वप्रतीतिस्वारस्यभङ्गः । किञ्च क इह, ब्रह्मैव सन्नित्युच्यते? किं ज्ञप्तिमात्रम् ? तर्हि वाक्यवैघट्यम् । यो वेद स ब्रह्मैव सन्नित्युच्यते न तु या वित्तिः सा ब्रह्मैव सती ब्रह्माप्येतीति । अतो वेदितुरेव ब्रह्मतापत्तिः प्रतीयते । वेदिता च ज्ञाता । स चाहङ्कारः । काल्पनिकोऽहङ्कारो जडः, नात्मेति तस्य ब्रह्मभावाभावात् ब्रह्माज्ञानवादपक्षे इयं श्रुतिरत्यन्तविरुद्धा । अतो यथोक्त एवार्थः ।।
।। इति हरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयस्य
श्रीसुदर्शनार्यस्य कृतो सुबालोपनिषद्विवरणे तृतीयः खण्डः ।।