[highlight_content]

सुबालोपनिषत्-त्रयोदशः खण्डः

सुबालोपनिषत्

 अथ त्रयोदशः खण्डः

[मुनेः बाल्याधुपदेशवर्णनम्]

 

बाल्येन तिष्ठासेत् बालस्वभावोऽसङ्गो निरवद्यो मौनेनपाण्डित्येन निरधिकारतयोपलभ्येत कैवल्यमुक्तं निगमनं प्रजापतिरुवा महत् पदं ज्ञात्वा वृक्षमूले वसेत कुेलोऽसहाय एकाकी समाधिस्थ आत्मकाम आप्तकामो निष्कामो जीर्णकामः हस्तिनि सिंहे दंशे मशके नकुले सर्पराक्षसगन्धर्वे मृत्यो रूपाणि विदित्वा बिभेति कुतश्नेति वृक्षमिव तिष्ठासेत्; छिद्यमानोऽपि कुप्येत कम्पेत उत्पलमिव तिष्ठासेत्; छिद्यमानोऽपि कुप्येत, कम्पेत आकाशमिव तिष्ठासेत् छिद्यमानोऽपि कुप्येत, कम्पेत सत्येन तिष्ठासेत्; सत्योऽयमात्मा

सर्वेषामेव गन्धानां पृथिवी हृदयम्; सर्वेषामेव रसानामापो हृदयं सर्वेषामेव रूपाणां तेजो हृदयम् सर्वेषामेव स्पर्शानाम् वायुहृदयम्; सर्वेषामेव शब्दानाम् आकाशं हृदयं सर्वेषामेव गतीनामव्यक्तं हृदयम् सर्वेषां सत्त्वानां मृत्युहृदयम् । मृत्युर्वै परे देव एकीभवतीति परस्तान्त्रसन्नासन्नसदसत् इत्येतनिर्वाणानुशासनम् । इति वेदानुशासनम् इति वेदानुशासनम् ।।

।। इति त्रयोदशः खण्डः ।।

error: Content is protected !!