सुबालोपनिषत्
अथ त्रयोदशः खण्डः
[मुनेः बाल्याधुपदेशवर्णनम्]
बाल्येन तिष्ठासेत् । बालस्वभावोऽसङ्गो निरवद्यो मौनेन‘ पाण्डित्येन निरधिकारतयोपलभ्येत । कैवल्यमुक्तं निगमनं प्रजापतिरुवाच । महत् पदं ज्ञात्वा वृक्षमूले वसेत कुचेलोऽसहाय एकाकी समाधिस्थ आत्मकाम आप्तकामो निष्कामो जीर्णकामः । हस्तिनि सिंहे दंशे मशके नकुले सर्पराक्षसगन्धर्वे मृत्यो रूपाणि विदित्वा न बिभेति कुतश्चनेति । वृक्षमिव तिष्ठासेत्; छिद्यमानोऽपि न कुप्येत, न कम्पेत । उत्पलमिव तिष्ठासेत्; छिद्यमानोऽपि न कुप्येत, न कम्पेत । आकाशमिव तिष्ठासेत् छिद्यमानोऽपि न कुप्येत, न कम्पेत । सत्येन तिष्ठासेत्; सत्योऽयमात्मा ।
सर्वेषामेव गन्धानां पृथिवी हृदयम्; सर्वेषामेव रसानामापो हृदयं सर्वेषामेव रूपाणां तेजो हृदयम् सर्वेषामेव स्पर्शानाम् वायुहृदयम्; सर्वेषामेव शब्दानाम् आकाशं हृदयं सर्वेषामेव गतीनामव्यक्तं हृदयम् सर्वेषां सत्त्वानां मृत्युहृदयम् । मृत्युर्वै परे देव एकीभवतीति । परस्तान्त्रसन्नासन्नसदसत् । इत्येतनिर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।।
।। इति त्रयोदशः खण्डः ।।