सुबालोपनिषत्
अथ षष्ठः खण्डः
[भगवत: नारायणस्य उपास्यता प्राप्यता च]
नैवेह किञ्चनाग्र आसीदमूलमनाधारम् ।
इमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणः ।।
चक्षुश्च द्रष्टव्यञ्च नारायणः । श्रोत्रञ्च श्रोतव्यं च नारायणो घ्राणं च घ्रातव्यं च नारायणो जिह्वा च रसयितव्यञ्च नारायणः । त्वक् च स्पर्शयितव्यञ्च नारायणो मनश्च मन्तव्यञ्च नारायणो बुद्धिश्च बोद्धव्यञ्च नारायणोऽहङ्कारश्चाहकर्तव्यञ्च नारायणश्चित्तञ्च चेतयितव्यञ्च नारायणो वाक् च वक्तव्यञ्च नारायणो हस्तौ चादातव्यञ्च नारायणः । पादौ च गन्तव्यञ्च नारायणः । पायुश्च विसर्जयितव्यञ्च नारायणः । उपस्थश्चाऽऽनन्दयितव्यं च नारायणः ।
धाता विधाता कर्ता विकर्ता दिव्यो देव एको नारायणः ।
आदित्या रुद्रा मरुतो वसनोऽश्विनौ ऋचो यजूंषि सामानि मन्त्रोऽग्निराज्याहुतिर्नारायणः ।
उद्भवः सम्भवो दिव्यो देव एको नारायणः ।
माता पिता भ्राता निवासः शरणं सुहृद्गतिर्नारायणः ।।
विराजासुदर्शनाजितासोम्यामोघाकुमाराऽमृतासत्यामध्यमानासीरा-शिशुरासूरासूर्यास्वरा (शिशुसूर्याऽसुराभास्वती?) विज्ञेयानि नाडीनामानि दिव्यानि ।
गर्जति गायति वाति वर्षति वरुणोऽर्यमा चन्द्रमाः कला कलिर्धाता ब्रह्मा प्रजापतिर्मघवा दिवसाश्चार्धदिवसाश्च कला: कल्पाश्चोर्ध्वञ्च दिशश्च सर्वं नारायणः ।।
पुरुष एवेदं सर्वं यद्भूतं यश्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ।।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत् परमं पदम् ।
तदेतनिर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।।
।। इति षष्ठः खण्डः ।।