सुबालोपनिषत्
अथ सप्तमः खण्डः
[भगवतः सर्वशरीरान्तर्यामित्वम् |
अन्तश्शरीरे निहितो गुहायामज एको नित्यः यस्य पृथिवी शरीरम्, य: पृथिवीमन्तरे सञ्चरन्, यं पृथिवी न वेद; यस्यापः शरीरं योऽपोऽन्तरे सञ्चरन् यमापो न विदुः। यस्य तेजः शरीरं यस्तेजोऽन्तरे सञ्चरन् यं तेजो न वेद; यस्य वायुः शरीरं यो वायुमन्तरे सञ्चरन् यं वायुर्न वेदः यस्याकाश: शरीरं य आकाशमन्तरे सञ्चरन् यमाकाशो न वेद; यस्य मनः शरीरं यो मनोऽन्तरे सञ्चरन् यं मनो न वेद; यस्य बुद्धिः यो बुद्धिमन्तरे सञ्चरन् यं बुद्धिर्न वेद; यस्याहङ्कारः शरीरं योऽहकारमन्तरे सञ्चरन् यमहङ्कारो न वेद; यस्य चित्तं शरीरं यश्चित्तमन्तरे सञ्चरन् यं चित्तं न वेद; यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे सञ्चरन् यमव्यक्तं न वेद; यस्याक्षरं शरीर योऽक्षरमन्तरे सञ्चरन् यमक्षरं न वेद; यस्य मृत्युः शरीरं यो मृत्युमन्तरे सञ्चरन् यं मृत्युर्न वेद; एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः एतां विद्यामपान्तरतमाय ददौ । अपान्तरतमो ब्रह्मणे ददौ । ब्रह्मा घोराङ्गिरसे ददौ । घोराङ्गिरा रेक्वाय ददौ । रैक्वो रामाय ददौ । रामः सर्वेभ्यो ददौ । निर्वणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।।
।। इति सप्तमः खण्डः ।।