श्वेताश्वतरोपनिषत्
अथ चतुर्थोऽध्यायः
य एको वर्णो बहुधा शक्तियोगात्
वर्णाननेकान् निहितार्थो दधाति ।
विचैति चान्ते विश्वमादौ स देवः
स नो बुद्ध्या शुभया संयुनक्तु ।। १ ।।
ब्रह्मणः सर्वविधकारणत्वं प्रपञ्चयिष्यन् तद्विषयबुद्धिप्रार्थनामन्त्रमाह – य एक इति । ‘अकारो वै सर्वा वाक् । सैषा स्पर्शीष्मभिरभिव्यज्यमाना बह्वी नानाविधा भवति’ (ऐ.उ.३-६-७) इति ऐतरेयश्रुतेः, एकः अवर्णः निहितार्थः अर्थः – परं ब्रह्म स्ववाच्यत्वेन निहित: यस्मिन् तथोक्तः परमपुरुषार्थभूतब्रह्मवाचकः – ‘अकारेणोच्यते विष्णुः’ (पाञ्चरात्रे) इति श्रुतेः तादृशो अवर्णः सर्वान् वर्णान् दधाति उत्पादयति । सः विश्वं–कृत्स्नप्रपञ्चम् अन्तकाले व्येति – अन्तर्भावितण्यर्थोऽयम् – गमयति नाशयति । स देवः शुभया बुद्ध्या योजयतु । अत्र वाच्यवाचकयोरभेदोपचारात् स देव इत्युक्तिः ।। १ ।।
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।
तदेव शुक्रं तद्ब्रह्म तदापस्तत् प्रजापतिः ।। २ ।।
तस्य देवस्य सर्वात्म्यमाह – तदेवाग्निरिति । शुक्रं – रोचिष्ठम् । नक्षत्रमण्डलमित्यर्थः । शिष्टं स्पष्टम् ।। २ ।।
त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी ।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ।। ३ ।।
तदेव सार्वात्म्यं संबोधनेनाह – त्वं स्त्रीति । दण्डेन आलम्बनेन जीर्णः वृद्धस्सन् वञ्चसि – सञ्चरसि । अत्यल्पमिदमुच्यते । त्वमेव सर्वरूपो जातोऽसीत्यर्थः ।। ३ ।।
नीलः पतङ्गो हरितो लोहिताक्षः
तडिद्गर्भ ऋतवः समुद्राः
अनादिमत्त्वं विभुत्वेन वर्तसे
यतो जातानि भुवनानि विश्वा ।। ४ ।।
नील इति । नील हरितः – लोहिताक्षभेदभिन्नः पतङ्गः – पक्षी त्वमेव: (तटिद्गर्भः?) ऋतब: समुद्राश्च । त्वमेव अनादिः । यतो विश्वानि भूतानि जातानि, तदपि त्वमेव; निखिलजगत्कारणमपि त्वमेवेत्यर्थः । नीलपतङ्गाद्यात्मत्वमपि न स्वरूपेण अपि तु व्यापकत्वेनात्मत्वादित्येतत् प्रदर्शयति – विभुत्वेन वर्तस इति । यतस्त्वं व्याप्य आत्मतया वर्तसे, तत सर्वात्मत्वमित्यर्थः ।। ४ ।।
[चिदचिद्विवेकः]
अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणोऽनु शेते
जहात्येनां भुक्तभोगामजोऽन्यः ॥ ५ ॥
‘भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.१-१२) ‘क्षरं प्रधानम् अमृताक्षरम्’ इति पूर्वनिर्दिष्टचिदचिद्विवेकं दर्शति – अजामेकामिति । तेजोबन्नलक्षणविकारगतलोहित- शुक्लकृष्णरूपयुक्तां स्वसमानरूपविविधभूतभौतिकस्रष्टीम् उत्पत्तिरहितां काञ्चन कश्चिदविद्वान् उत्पत्तिराहित्येन तत्समान एव सन् तत्राहम्बुद्धया सेवमानः तामनुसृत्य शेते तिष्ठति । अपरो विद्वान् । कञ्चित् कालं भुक्त्वा उत्पन्नवैराग्यः त्यजतीत्यर्थः ।
[अजामन्त्रार्थविचारः]
ननु अस्मिन् अजामन्त्रे स्वरसत एतावान् अर्थः प्रतीयते – काञ्चित् छार्गी त्रिवणां स्वसरूपबहुप्रकाराम् (प्रजाकरीम्?) एकश्छागः प्रीयमाणोऽनुवर्तते, अन्यः तामुपभुक्तां त्यजतीति । कथं भवदुक्तप्रकृतिरूपार्थग्रहणम्? यदि च अध्यात्मशास्त्रे लौकिकार्थप्रतिपादनानौचित्यात् आध्यात्मिकार्थे पर्यवसानं कर्तव्यमिति, तर्हि ‘द्वा सुपर्णा’ इति मन्त्रो वृक्षसुपर्णपिप्पलशब्दैः शरीरजीवकर्मफलानां गोण्या वृत्त्या ग्रहणवत्, ‘गौरनाद्यन्तवती’ (मन्त्रि.उ.१-५) इत्यत्र गोशब्देन गौण्या वृत्त्या प्रकृतिग्रहणवत् इहापि अजाशब्देन गौण्या वृत्त्या प्रकृतिग्रहणं युक्तम् । न तु यौगिकार्थग्रहणम् । रूढिपूर्वकलक्षणाविशेषरूपगौण्यपेक्षया योगदौर्बल्यस्य प्रोद्गात्रधिकरणे’ स्थितत्वात् । ‘इतरथा प्रैतु होतुश्चमसः प्रोद्गातृणाम्’ इत्यत्रापि यौगिकवृत्त्या उद्गात्रादीनां चतुर्णां ग्रहणं स्यादिति चेन्न – मुख्यार्थानुपपत्तौ हि गौणार्थाश्रयणं युज्यते । उपपद्यते च अजाशब्दे यौगिकार्थस्य मुख्यस्य ग्रहणम् । न चैव प्रोद्गातॄन्यायविरोधः । तत्र पाशन्यायेन बहुत्वाविवक्षा नास्ति; प्रोद्गातृशब्दयौगिकार्थबहुत्वस्य सम्भवात् । ‘अदितिः पाशान् प्रमुमोक्तु’ (पू.मी.सू.९-३-५) इत्यत्र रूढ्यर्थस्य वा यौगिकार्थस्य वा पाशशब्दार्थस्य बन्धनसाधनस्यासम्भवात् बहुत्वाविवक्षा । इह तु तत्सम्भवात् नाविवक्षेत्येवं (व?) तदधिकरणस्थितिः । न तु रूढिपूर्वकलक्षणापेक्षया योगस्य जघन्यत्वमित्यपि । नन्वेवं सुब्रह्मण्यस्यापि गानकारितया योगार्थत्वात् तस्यापि ग्रहणप्रसङ्ग इति चेन्न – तस्य सदसि स्थित्यभावेन तत्साधारण्याभावात् । मीमांसेकैकदेशिभिः तत्साधारण्यस्याभ्युपेतत्वाञ्च । ततश्च यौगिकार्थस्य मुख्यस्य अजाशब्दार्थस्य सम्भवे पररीत्या छागत्वरूपणं गौणवृत्याश्रयणञ्च अयुक्तम् । ‘गोरनाद्यन्तवती’ इत्यत्र गोशब्दे यौगिकार्थास्फुरणात्, ‘सर्वकामदुधाम्’ इति दोहनस्य गोशब्दरूढ्यर्थग्रहणनियामकस्य सत्त्वाञ्च तत्र तथा; इह तु योगार्थस्फूर्तेः रूढ्यर्थग्रहणनियामकशब्दान्तरसमभिव्याहाराभावाञ्च यौगिकार्थ एव ग्राह्यः । किञ्च इह रूढ्यर्थग्रहणे समभिव्याहतानाम्, ‘बह्वीः प्रजासृजमानाम्’ (मैत्रा.उ.२-६) इत्यादीनां सङ्कोचः स्यात् । छाग्याः प्रकृतिवत् सकलप्रजास्रष्ट्त्वासम्भवात् । सकलप्रजासर्गकरप्रकृत्यामल्पप्रजासर्गकारिच्छागीत्वपरिकल्पनस्य विच्छित्तिविशेषाहेतुत्वात् । न चैवम् ‘आत्मानं रथिनं विद्धि’ (कठ.उ.१-३) इत्यादौ आत्मशरीरादौ रथिरथत्वादिकल्पनमपि न विच्छित्तिविशेषजनकं स्यादिति वाच्यम् । तत्र रूप्यरूपकवाचिपदद्वयश्रवणबलेन वशीकार्यताप्रतीत्युपयुक्ततया च रूपणमङ्गीक्रियते । प्रकृते तु रूप्यरूपकवाचिपदद्वयाश्रवणात् तद्वदत्रोपयोगाभावाञ्च न छागत्वपरिकल्पनम् । ‘द्वा सुपर्णेति’ (श्वे.उ.४-६) मन्त्रेऽपि वृक्षादिशब्दैर्योगवृत्त्या अर्थग्रहणं युक्तम् । समासोक्तया अर्थान्तर स्फूर्त्या विच्छित्तिविशेषोऽस्तीत्येतावन्मात्रम् । यदि च न वृक्षादिशब्दैः यौगिकार्थग्रहणम् तर्हि, ‘गौरनाद्यन्तवतीतिवदस्तु । प्रकृते तु अजाशब्देन यौगिकार्थस्य स्फुटप्रतीतेः योग एव ग्राह्यः । एतत् सर्वं ‘कल्पनोपदेशात्’ (ब्र.सू.१-४-१०) इति सूत्रभाष्यश्रुतप्रकाशिकयोः स्पष्टम् । अनेन प्रकृतिस्वरूपं बद्धमुक्तस्वरूपञ्च उक्तम् । ननु अजाशब्देन अकार्यत्वप्रतिपादनात् सृजमानाम् इति कर्त्रर्थशानचा स्वातन्त्र्यलक्षणकर्तृत्वप्रतीतेः अब्रह्मात्मिकैव प्रकृतिरनेन मन्त्रेण अभिधीयतामिति चेत् एवमेव समन्वयाध्याये पूर्वपक्षे प्राप्ते उच्यते – ‘चमसवदविशेषात्’ (ब्र.सू.१-४-८) । ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्न: तस्मिन् यशोनिहितं विश्वरूपाम्’ (बृ.उ.४-२-३) इति मन्त्रे, ‘अग्बिलश्चमस’ इति ऊर्ध्वबिलतिर्यग्बुध्नप्रसिद्धचमसव्यावर्तकस्य शिरसश्चमसत्वप्रत्यायकस्य वाक्यशेषस्य सद्भाववत् इह अस्वतन्त्रप्रकृतिव्यावर्तकस्य सांख्याभिमतस्वतन्त्रप्रकृतिप्रतिपादकस्य वाक्यशेषस्य अभावेन स्वतन्त्रा प्रकृतिरिहाभिधीयत इति निर्णयासंभवात् । ब्रह्मात्मकत्वेऽपि जनिराहित्यस्योपपत्तेः । परतन्त्रेऽपि तक्षादौ, ‘तक्षति काष्ठम्’ इति कर्त्रर्थप्रत्ययदर्शनेन तावन्मात्रेण अपरतन्त्रप्रकृतित्वनिश्चयासंभवात् । ननु ब्रह्मात्मकप्रकृतिग्रहणेऽपि नियामकाभावात् सन्देह एव स्यात् । तत्राह, ‘ज्योतिरुपक्रमा तु तथा ह्यधीयत एके’ (ब्र.सू.१-४-९) । ‘अथ यदतः परा दिवो ज्योतिर्दीप्यते’ (छां.उ.३-१३-७) इत्यादौ ज्योतिश्शब्देन ब्रह्मनिर्देशदर्शनात् इह सूत्रेऽपि ज्योतिश्शब्देन ब्रह्मोच्यते । उपक्रमशब्दः कारणत्वार्थकस्सन् आत्मत्वं लक्षयति । मृत्कारणकस्य घटादेः मृदात्मकत्वदर्शनात् । तथा च (ततश्च) ज्योतिरुपक्रमा ब्रह्मात्मिका इत्यर्थः । ब्रह्मात्मिकैवाजेह मन्त्रे ग्राह्या । उपक्रमे – ‘देवात्मशक्तिं स्वगुणैः, निरूढाम्’ इति ब्रह्मात्मकाजाया एव प्रतिपादितत्वात् । तैत्तिरीये, ‘अणोरणीयान् महतो महीयान्’ (तै.ना.८१) इति ब्रह्म प्रस्तुत्य, ‘सप्त प्राणाः प्रभवन्ति तस्मात्’ (तै.ना.४-२) इति प्राणोपलक्षितसकलप्रपञ्चोत्पत्तिमभिधाय निर्विकारस्य ब्रह्मणः अपरिणामितया सकलप्रपञ्चोपादानत्वं न सम्भवतीति शङकावारणाय पठितस्यास्य मन्त्रस्य ब्रह्मात्मकप्रकृतिपरत्वस्य वक्तव्यतया इहापि तथात्वावश्यम्भावाञ्च ब्रह्मात्मिकैव प्रकृतिः अजामन्त्रप्रतिपाद्या । ननु आकाशादीनां ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्ववत् प्रकृतेरपि ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्वस्य वक्तव्यतया अनुत्पन्नायाश्च तस्याः ब्रह्मोपादानकत्वासम्भवेन ब्रह्मात्मकत्वासम्भव इत्याशङ्क्याह, – ‘कल्पनोपदेशाच्च मध्वादिवदविरोध:’ (ब्र.सू.१-४-१०) । कल्पनं सृष्टिः । ‘धाता यथा पूर्वमकल्पयत्’ (तै.आर.१०-१-१४) इति प्रयोगदर्शनात् । अस्मान्मायी सृजते विश्वमेतत्’ (श्वे.उ.४-९) इति मायाशब्दितप्रकृतेः ब्रह्मोपादेयप्रपञ्चसृष्टौ हेतुत्वावेदनात् इत्यर्थः । प्रकृतेरब्रह्मात्मकत्वे च तस्याः ब्रह्मात्मकत्वं सिद्धम् । अपृथक्सिद्धत्वाधारत्वमात्रेणापि आत्मत्वोपपत्त्या अजन्याया अपि प्रकृतेः ब्रह्मात्मकत्वं सम्भवत्येवेति ब्रह्मात्मकत्वमविरुद्धम् । मध्वादिवत् । अत्र मधुशब्देन, ‘असावादित्यो देवमधु’ (छां.उ.३-१-१) इति निर्दिष्टो आदित्य उच्यते । आदित्यवदित्यर्थः । यथा आदित्यस्य ‘नैवोदेता नास्तमेता’ इत्यकार्यतया श्रुतस्यैव, ‘य आदित्ये तिष्ठन्’ (बृ.उ.५-७-१३) इत्यादिना ब्रह्मात्मकत्वञ्च, एवमनादेरप्युपपद्यते ब्रह्मात्मकत्वमिति स्थितम् । प्रकृतमनुसरामः ।। ५ ।।
[जीवब्रह्मवैलक्षण्यम्]
‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ।। ६ ।।
प्रकृतिसम्बन्धाविशेषेऽपि जीवस्य भोक्तृत्वम् न परमात्मन इत्येतत् दृष्टान्तमुखेन प्रदर्शयति – द्वा सुपर्णेति । युज्यते इति युक्छब्दो गुणपरः । समानगुणक: सयुक् इति व्यासार्येविवृतत्वात् । सखायौ परस्पराविनाभूतौ गमनसाधनत्वेन पर्णशब्दितपक्षसदृशज्ञानादिगुणवन्तौ समानम् एकं वृक्षं – वृक्षवत् छेदनार्हं शरीरं समाश्रितौ । तयोर्मध्ये एको जीवः परिपक्वं पिप्पलं–अश्वत्थफलसदृशं कर्मफलम् अश्नाति । इतरस्तु परमात्मा अनश्नन्नेव अपहतपाप्मत्वादि महामहिमशाली वर्तत इत्यर्थः । अत्र शरीर तदाश्रयजीव परवाचिशब्दनिगरणेन विषयिवाचकवृक्षसुपर्णादिशब्दै: वृक्षत्वाद्यध्यवसानलक्षणारूपकातिशयोक्तिः विच्छित्तिविशेषायेति केचित् । वृक्षादिशब्देन योगवशात् शरीरादिप्रतीतिः; न तु रूपकातिशयोक्तिरित्यन्ये ।। ६ ।।
समाने वृक्षे पुरुषो निमग्नोऽ–
नीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीश–
मस्य महिमानमिति वीतशोकः ।। ७ ।।
समान इति । अनीशया भोग्यभूतया प्रकृत्या मुह्यमान: – ‘पराभिध्यानात्तु तिरोहितम्’ (ब्र.सू.३-२-४) इति सूत्रोक्तन्यायेन ति रोहितपरमात्माशेषत्वज्ञानानन्द- लक्षणस्वस्वरूपस्सन् वृक्षवच्छेदनार्हे एकस्मिन् शरीरे जीवः, ‘स्थूलोऽहं’ ‘कृशोऽहं’ इति तादात्म्यबुद्ध्या पांसूदकवत् तदेकतामापन्नस्सन् तत्संसर्गकृतानि दुःखान्यनुभवति । यदा असौ जीवो निमग्नात् स्वस्मात् धारकत्वनियन्तृत्वशेषत्वादिना विलक्षणं स्वकर्मभिः- प्रीतं परमात्मानम्,अखिलजगदीशानलक्षणमस्य महिमानञ्च पश्यति; तदा वीतशोको भवतीत्यर्थः । केचित्तु – अनीशया – अनीशत्वेन असमर्थत्वेन शोचन् स्वोद्धरणसमर्थं स्वयं पङ्कादौ अनिमग्नं स्वस्मिन् प्रतीतिमन्तं तदुद्धरणसामर्थ्यलक्षणमहिमानं च दृष्ट्वा वीतशोको भवति । तत्समाधिरत्रानुसन्धेय: । ‘अनीशया प्रकृत्या’ इति भाष्यमपि अर्थतो व्याख्यानपरम् । न त्वनीशाशब्दार्थतयेति वदन्ति ।। ७ ।।
ऋचोऽक्षरे परमे व्योमन्
यस्मिन् देवा अधि विश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति
य इत् तद् विदुस्त इमे समासते ।। ८ ।।
ऋच इति । न क्षरतीत्यक्षरम् । तादृशे ऋच: ऋक्छब्दोपलक्षितवेदजातस्य परमे व्योमन् परमाकाशे परमतात्पर्यविषये यस्मिन्नक्षरे सर्वे देवाः समाश्रिताः, तत् अक्षरं यो न वेद; स अधीतेन ऋग्वेदादिना किं करिष्यति? ‘स्थाणुरयं भारवाह: (हारः) किलाभूदधीत्य वेदं न विजानाति योऽर्थम्’ । ‘एतद्वै तदक्षरं गार्गि अविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद् भवतीति’ (बृ.उ.५-८-८) श्रुतेः । ये च तदक्षरं जानन्ति, ते निरस्तप्रतिकूला: सुखमासते इत्यर्थः । इमं मन्त्रं विश्वदेवशब्दितनित्यसूर्याश्रयपरमस्थानपरतयापि योजयन्ति । तदक्षरे परमे व्योमन्’ (तै.ना.१-२) इत्यस्य वेदार्थसङ्ग्रहे स्थानपरतया योजितत्वात् ।। ८ ।।
छन्दांसि यज्ञाः क्रतवो व्रतानि
भूतं भव्यं यच्च वेदा वदन्ति ।
अस्मान्मायी सृजते विश्वमेतत्
तस्मिँश्चान्यो मायया संनिरुद्धः ।। ९ ।।
छन्दांसीति । वेदं वैदिकमर्थजातं मायाप्रेरकः परमात्मा अस्मात् मायाशब्दितात् साधनात् सृजते । अतश्च अपरिणामिनोऽप्युपादानत्वमविरुद्धम् । ननु जीवस्य स्रष्टत्वं किं न स्यात् इत्याशङ्क्याह – तस्मिंश्चान्यो मायया संनिरुद्धः । अन्यो जीवः तदाश्रितमायामोहितः । अतः तस्य मायाप्रेरकत्वाभावान्न स्रष्टुत्वमिति भावः ।। ९ ।।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ।। १० ।।
माया नाम का? तत्प्रेरकश्च क इत्यत्राह – मायां तु इति । त्रिगाणात्मिकां प्रकृतिं विचित्राश्चर्यसर्गहेतुतया मायाशब्दितं विद्यात् । मायाप्रेरकस्तु महेश्वर इति विद्यात् इत्यर्थः । न च महेश्वरशब्दो देवतान्तरवाचक इति शङ्क्यम् । तैत्तिरीयके – ‘यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य य परः स महेश्वरः’ ।। (तै.ना.१२-३) इत्यकारवाच्यस्यैव नारायणस्य महेश्वरशब्दार्थत्वाभिधानादिति द्रष्टव्यम् । तस्यापृथक्सिद्ध- विशेषणतया तदंशभूतैर्जीवैः सर्वमचेतनं व्याप्तम् इत्यर्थः । ततश्च जगदन्तर्गताः तदपृथक्सिद्धविशेषणतया तदंशभूता इत्यर्थः ।। १० ।।
यो योनिं योनिमधितिष्ठत्येको
यस्मिन्निदं सञ्च विचैति सर्वम् ।
तमीशानं वरदं देवमीड्यं
निचाय्येमां शान्तिमत्यन्तमेति ।। ११ ।।
यो योनिमिति । योनिशब्देन जगद्योनिभूता प्रकृतिः उच्यते इति व्यासायैर्व्याख्यातम् । न च तथा सति तस्या एकत्वात् वीप्सानुपपत्तिरिति शंक्यम् -महदादीनामपि पञ्चभूतात्मकजगद्योनित्वेन वीप्सोपपत्तेः । ततश्च जगद्योनिभूतान् प्रकृतिमहादादीन् योऽधितिष्ठति, यस्मिंश्च विश्वमेतत् उत्पत्तिकाले वियदादिरूपेण व्येति – वैविध्यम् एति; संहारकाले च समेति – ऐक्यं गच्छति । तादृशम् आश्रिताभीष्टदायिनं तमेव दर्शनसमानज्ञानेन विषयीकृत्य रागद्वेषादिप्रागभावासहकृतत्वलक्षणात्यन्तिकत्वोपेतां श्रुत्यादिसिद्धां सर्वानर्थशान्तिमाप्नोतीत्यर्थः । यस्मिन्निदं सञ्च विचैति सर्वमिति प्रतिपाद्यमानमुपादानत्वं निर्विकारस्य आत्मनः कथमिति शङ्कावारणाय, योनिं योनिमधितिष्ठति इति प्रकृत्यादिशरीरकत्वादुपपद्यत इति शिष्यानुग्रहार्थं पुनः पुनः कथनमिति द्रष्टव्यम् ।। ११ ।।
यो देवानां प्रभवश्चोद्भवश्च
विश्वाधिपो रुद्रो महर्षिः ।
हिरण्यगर्भं पश्यत जायमानं
स नो बुद्ध्या शुभया संयुनक्तु ।। १२ ।।
तज्ज्ञाने तदनुग्रह एव कारणमिति तं प्रार्थयते – यो देवानामिति । यो देवानां जायमानं हिरण्यगर्भम्, असावप्रतिहतज्ञानादियुक्तस्स्यात् इति सानुग्रहम् ऐक्षत । स मां वीक्षतामिति भावः ।। १२ ।।
यो देवानामधिपो यस्मिन् लोका अधिश्रिताः ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।। १३ ।।
यो देवानामधिप इति । सर्वचिदचित्प्रपञ्चशेषिणे सर्वाधारभूताय सकलनियन्त्रे तस्मै परमात्मने पुरोडाशादि हविषा पूजां कुर्वीमहीत्यर्थः । यज्ञादिभिः तदाराधान तदुपासनद्वारा तत्प्राप्तिसाधनमिति भावः ।। १३ ।।
सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
विश्वस्य स्रष्टारमनेकरूपम् ।
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा शिवं शान्तिमत्यन्तमेति ।। १४ ।।
सूक्ष्मातिसूक्ष्ममिति । सूक्ष्मवस्तुष्यपि अन्तःप्रवेशयोग्यं कार्यब्रह्माण्डमध्ये हिरण्यगर्भप्रजापत्याद्यनेकरूपेणावस्थाय विश्वस्रष्टारं सर्वान्तर्यामित्वेऽप्यनवद्यमद्वितीयं परमात्मानं ज्ञात्वा मुक्तो भवति इत्यर्थः ।। १४ ।।
स एव काले भुवनस्य गोप्ता
विश्वाधिपः सर्वभूतेषु गूढः ।
यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च
तमेवं ज्ञात्वा मृत्युपाशाँश्छिनत्ति ।। १५ ।।
स एव काल इति । ब्रह्मविदो मुनयो देवताश्च यत्र मनो योजयन्ति; स एव परमात्मा कर्मपरिपाककालविशेषे जगतः गोप्ता – संसारमोचकः, कुतः? विश्वाधिपः सर्वभूतेषु गूढः । सर्वशेषित्वात् सर्वान्तर्यामित्वाञ्च इत्यर्थः । शेषशेषिभावशरीरात्मभाव- सम्बन्धसत्वात् तादृशस्य शक्तस्य मोचकत्वौचित्यादिति भावः । तमेवमिति । अनेनाऽऽकारेण तं जानन् दर्शनसमानाकारज्ञानेन विषयीकुर्वन् मुक्तो भवति इत्यर्थः ।। १५ ।।
घृतात्परं मण्डमिवातिसूक्ष्म
ज्ञात्वा शिवं सर्वभूतेषु गूढम् ।
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा देवं मुच्यते सर्वपाशैः ।। १६ ।।
घृतात्‘ इति । यथा घृतस्य सारांशः सूक्ष्मः क्षीरव्यापी एवं सर्वत्र सूक्ष्मतया दुर्ज्ञानतया वर्तमानात्वेऽप्यनवद्यतया मङ्गलभूतं भगवन्तं ज्ञात्वा मुक्तो भवतीत्यर्थः ।। १६ ।।
एष देवो विश्वकर्मा महात्मा
सदा जनानां हृदये संनिविष्टः ।
हृदा मनीषा मनसाऽभिक्लुप्तो
य एतद्विदुरमृतास्ते भवन्ति ।। १७ ।।
एष देव इति । विश्वं कर्म – क्रियते इति कर्म – कार्य यस्य स तथोक्तः । जगत्कर्ता इत्यर्थः इतरत् उक्तार्थम् ।।
यदा तमस्तन्न दिवा न रात्रि–
र्न सत्र चासच्छिव एव केवलः ।
तदक्षरं तत्सवितुर्वरेण्यं
प्रज्ञा च तस्मात्प्रसृता पुराणी ।। १८ ।।
गायत्रीप्रतिपाद्यत्वमपि तस्यैव इत्याह यदा तम इति । यस्मिन् काले सदसच्छब्दितमूर्तामूर्तप्रपञ्चं दिवारावविभागञ्चान्तरेण तमोमात्रमवस्थितम्, तस्मिन् काले, ‘ब्रह्मादिषु प्रलीनेषु नष्टे स्थावरजङ्गमे । आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् ‘एकस्तिष्ठति विश्वात्मा स तु नारायणः प्रभुः’। (महा.भा.शा.प.२१०-२४) इत्युक्तरीत्या ज्ञानसङ्कोचलक्षणाशुभमन्तरेण केवलं शुभतयाऽवस्थितम् । तदेव क्षरणशून्यं वस्तु सवितृमण्डलमध्यवर्ति’; वरणीयं भजनीयञ्च तदेव । तस्मादेव हेतोः सृष्टिकाले प्रज्ञाना सङ्कुचितज्ञानस्य नित्यस्य प्रसरणमिति भावः । प्रज्ञा च तस्मात् इत्यनेन, ‘धियो यो नः प्रचोदयात्’ (ऋ.वे.३-४-१०) इत्यशंप्रतिपाद्यत्वमपि तस्यैवेत्युक्तं भवति ।। १८ ।।
नैनमूर्ध्वं न तिर्यञ्चं ने मध्ये परिजग्रभत् ।
न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ।। १९ ।।
नैनमिति । ऊर्ध्वस्थाण्वादिरूपतया, पश्वादितिर्यग्रूपतया तदुभयविलक्षण- मनुष्यादिरूपतया सन्तमत्येनं कोऽपि जनः परितः सम्यक् समन्तात् न जग्रभत् – नाग्रहीत् । यद्वा ऊर्ध्वदेशादिषु न कोपि ज्ञातवान् । तस्य विभुत्वादिति भावः । यस्य महद्यश इति नाम यस्त्वपरिच्छिन्नकीर्तिः प्रसिद्धः, तस्य सदृशं किमपि वस्तु नास्ति इत्यर्थः ।। १९ ।।
न संदृशे तिष्ठति रूपमस्य
न चक्षुषा पश्यति कश्चनैनम् ।
हृदा हृदिस्थं मनसा च
एनमेवं विदुरमृतास्ते भवन्ति‘ ।। २० ।।
न सन्दृशे तिष्ठति रूपमस्य
न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाऽभिक्लुप्तो
य एनम् (एतत्) विदुरमृतास्ते भवन्ति ।। (कठ,ठ.६–९)
न सन्दृशे तिष्ठति इति । अस्य रूपम् – स्वरूपं विग्रहो वा, व्यापकत्वादेव सन्दर्शनविषये अभिमुखतया न तिष्ठति इत्यर्थः । अथवा दृश्यं नीलरूपादिकं नास्ति इत्यर्थः । अत एव न चक्षुषा पश्यति कश्चनैनम् इति । स्पष्टोऽर्थः । हृदा मनीषा इत्यादि । अयमंशः, ‘सर्वत्र प्रसिद्धोपदेशात् (ब्र.सू.१-२-१) इत्यत्र व्यासार्यै: हृदा इति भक्तिरुच्यते । मनीषा इति धृतिः । ‘न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्‘ इति पूर्वार्धमेकरूपं पठित्वा, भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह’ (महा.भा.१२-२१-६४) इति महाभारते उक्तम् अभिक्लुप्तः – ग्राह्यः इति विवृतः । धृत्या समाहितात्मा, भक्त्या पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्नोति इत्यर्थः । ‘भक्त्या त्वनन्यया शक्यः’ (भ.गी.११-५४) इत्यनेनैकार्थ्यात् इति वेदार्थसङ्ग्रहे प्रतिपादितम्: य एनं विदुः इति स्पष्टोऽर्थः ।।
[ज्ञानप्राप्त्यर्थं ईश्वरप्रार्थना]
अजात इत्येवं कश्चिद्भीरुः प्रपद्यते ।
रुद्र यत् ते दक्षिणं मुखं तेन मां पाहि नित्यम् ।। २१ ।।
अजात इति । हे संसाररुग्द्रावक ! त्वम् । अजातः – जननादिलक्षणसंसारहीन इति मत्वा कश्चित् – पुरुषापशदः अहं दाक्षिण्यशालि ‘उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम्, प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम्, शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकं’ ।। मुखं प्रपद्यते – प्रपद्ये – ध्यायामि । प्रपद्यत इति पुरुषव्यत्ययः छान्दसः । तेन – ध्यानेन मां नित्यं पाहि निरस्तसंसारं कुरु इत्यर्थः । स्तनन्धयप्रजाया अवतरणमुखभूतस्तनवत् अवतरणमुखभूतं चरणारविन्दं प्रपद्य इति वाऽर्थः ।। २१ ।।
मा नस्तोके मा न आयुषि
मानो गोषु मानो अश्वेषु रीरिष: ।
वीरान्मानो रुद्र बीमतो
वधीर्हविष्मन्त: सदसि त्वां हवानहे ॥ २२॥
॥ इति चतुर्थोऽध्यायः ॥
मा न स्तोक इति । अपत्यपुत्रायुर्गवाश्वादिप्रवणतया मां मा हिंसो: रिष हिंसायाम् (धा.पा.६१४) इति धातुः । हे संसाररुग्द्रावकः । त्वम् अस्मदपचारेण भामित: – कुपितस्सन् वीर्ययुक्तान् ज्ञानवैराग्यादीन् मोक्षौपयिकान् मा वधीः-मा हिंसीः । त्वत्पूजोपकरणपुरोडाशादिलक्षणहविरादियुक्ताः सन्तः त्वां सदसि हवामहे . आराधयामः । इदित्यवधारणे । त्वामेवेत्यर्थः ।। २२ ।।
।। इति चतुर्थाध्यायप्रकाशिका ।।