श्वेताश्वतरोपनिषत्
अथ तृतीयोऽध्यायः
[भगवानेव मोक्षप्रद:]
य एको जालसानीशत ईशनीभिा सर्वान् लोकानीशत ईशनीभिः ।
प एवैक उद्भवे सम्भवे य एतद्विदुरमृतास्ते भवन्ति ।। १।।
उत्तशानस्य फलमाह • य एक इति । ‘अपहतपाप्मा दिव्यो देव’ (अध्यात्म उ- १) इति देवत्वेन श्रुतिप्रसिद्ध: परमात्मा प्रकृतिशब्दितमायारूपवागुरा युक्तस्सन् ईशानसमर्थाभि: ज्ञानबक्रियाशक्तिभिः मायाजालगोचरान् प्राकृतांश्च(न्)लोकानीष्टे सदगोचरान् अप्राकृतांश्च लोकान् ईष्टे । यश्च जगतः उद्भवे उत्पत्ती, सम्भवे समीत्येकीकारे लयापरपर्याये एकीभावे च (क)ईष्टे, रज्ज्ञानं मोक्षसाधनमित्यर्थः ।। १ ।।
एको हि रुद्रो न द्वितीयाय तस्थुः य इमान् लोकानीशत ईशनीभिः ।
प्रत्यङ्जनास्तिष्ठति सञ्चुकोचामलकाले संसृज्य विश्वा भुवनानि गोपाः ।। २ ।।
ननु य एतद्विदुरमृतास्ते भवन्ति’ इति पूर्वमन्त्रे सर्वलोकेश नारायणस्यैव मोक्षसाधनज्ञानविषयतया मोचकत्वमिति यदुक्तम्, तदयुक्तम् । जगत्कारणत्वेन प्रसिद्धानां ब्रह्मादीनां ज्ञानस्यैव मोक्षसाधनत्वमिति वक्तुमुचितत्वात् इत्याशंक्याह-एको हीति ।।हे जनाः! ‘सर्वलोकानीशत ईशनीभिः, प्रत्यक्तिष्ठति इति निर्दिष्टः विश्वा भुवनानि संसृज्य सृष्ट्वा अन्तकाले सञ्चुकोच – संहृतवान्, गोपाः – गोप्ता रक्षिता च यः, स एक एव रुद्रः – संसाररुजं द्राव(द्रव)यतीति रुद्रः – संसारमोचक इत्यर्थः । द्वितीयाय – द्वितीयत्वाय सहायतया न केऽपि तस्थुः सहायतया वा उपायान्तरतया वा केऽपि न स्थितवन्तः । मोचकोऽन्यः कोऽपि नास्ति । ‘वेदाहमेतं पुरुषं महान्तं’ (पु.सू.१६) इति महापुरुषं प्रस्तुत्य, ‘तमेवं विद्वानमृत इह भवति, नान्यः पन्था विद्यते’ (पु.सू.१७) इति मार्गान्तर निषेधात् । अत्र रुद्रशब्दो (यौगिकः?); रूढ्यर्थापेक्षया प्रकृतौपयिकस्य मानान्तरा विरुद्धस्य संसारमोचकत्वलक्षणयौगिकार्थस्य मनसि विपरिवर्तमानस्य शारीरकापशूद्रन्यायेन बलवत्वात् । अस्याश्चोपनिषदो भगवत्परत्वस्य साधयिष्यमाणत्वाञ्च नात्र चोद्यावकाशः ।। २ ।।
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्यात् ।
सं बाहुभ्यां नमति संपतत्रैः द्यावापृथिवी जनयन् देव एकः ।।३।।
विश्वत इति । ‘अनेकबाहूदरवक्त्रनेत्रम्’ (भ.गी.११-१६) इत्युक्तरीत्या अनन्तनयनाननपाणिपादादियुक्तनित्यदिव्यविग्रहयुक्त: असहाय एव धुपृथिव्यादिसर्वप्रपञ्च (वि) निर्माता जीवान् बाहुभ्यां पतत्रशब्दितैः पद्भिश्च संन(संध)मति संयोजयति । करणकलेबरसंयोगं करोतीत्यर्थः । सर्वेषां शरीरेन्द्रियसंबंन्धं कुर्वन् स्वयमनन्याधीनानन्त- शरीरेन्द्रियवान् इत्यर्थः ।। ३ ।।
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः ।
हिरण्यगर्भ जनयामास पूर्वं स नो बुद्ध्या शुभया संयुक्तु ॥ ४ ॥
परमात्मोपलब्धिप्रार्थनामन्त्रमाह – यो देवानामिति । ‘यान्येतानि देवत्रा क्षत्राणि, इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः’ (बृ.उ.३-४-११) इति बृहदारण्यकोक्तरीत्या इन्द्रवरुणरुद्रादीनामुद्भव: उद्भवति अस्मात् इत्युद्भवः । प्रकर्षेण भवत्यस्मादिति प्रभवः । प्रकर्षेण भवनं देवाधिपतित्वादिरूपेणास्य प्रभवनम् । ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च (भ.गी.९-२४) इति कर्मफलदायित्वलक्षणप्रभुत्वस्य भगवद्धर्मत्वेन प्रजापतिपशुपतित्वादिप्रापकत्वलक्षणस्य प्रभवनस्य भगवदधीनत्वादिति द्रष्टव्यम् । विश्वाधिकः। “विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ.गी.१०-४२) इत्युक्तरीत्या विश्वस्य सर्वस्यापि तदेकदेशैकदेशतया तस्य विश्वाधिकत्वम् । संसाररुजां द्रावकतया रुद्रत्वम्, निरतिशयसार्वयादियुक्ततया महर्षित्वञ्च भगवतो युज्यते । एवम्भूतो भगवान्, ‘यत्राभिपद्मादभवन्महात्मा प्रजापतिर्विश्वसृड्विश्वरूपः, (महो.१-४) तत्र ब्रह्मा चतुर्मुखोऽजायत नारायणाद्ब्रह्माजायत’ (ना.उ.१) इत्युक्तरीत्या हिरण्यगर्भं सर्वेषां देवानां सृष्टेः प्राक् जनयामास । सः – देव: परमात्मविषयतया शुभया बुद्ध्या योजयतु इत्यर्थः ।। ४ ।।
या ते रुद्र ! शिवा तनूरघोरा पापकाशिनी ।
तया न स्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ।।५।।
‘अदृष्टपूर्वं हषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास’ ।। (भ.गी.११-४५) इत्युक्तरीत्या सौम्यदिव्यमङ्गलविग्रहविशिष्टतया भगवत्प्रकाशप्रार्थनामन्वमाह या ते रुद्रेति । हे रुद्र ! संसाररुग्द्रावक! प्रसिद्धरुद्रव्यावर्तनाय तं विशिनष्टि-गिरिशन्तेति । गिरिशं तनोतीति गिरिशन्तः । रुद्रस्य स्रष्टा इत्यर्थः । या शिवा अघोरा च पापकाशिनी पापकमशितुं शीलमस्या इति पापकाशिनी पापदाहिका वैष्णवी सात्त्विकी तनुः तादृश्या शन्तमया – सुखप्रदया अत्यन्तानुकूलया तन्वा – विग्रहेण अभिचाकशीहि – प्रकाशस्व इत्यर्थः ।। ५ ।।
यामिषुं गिरशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र! तां कुरु मा हिंसी: पुरुषं जगत् ।। ६ ।।
यामिषुमिति । गिरित्र । गीः प्रतिपाद्यते इति वेदान्तप्रतिपाद्यत्वं गिरित्रशब्दार्थः । गिरिशन्त इत्यस्य पूर्ववदर्थः । हे गिरित्र! गिरिशन्त! ते हस्ते शिवां यामिषुं बिभर्षि – यत् आयुधं बिभर्षीत्यर्थः । तामिषुम् अस्तवे – ‘असु क्षेपे’ (धा.पा.१२१०) मद्ब्रह्मज्ञानविरोधिक्षेपाय कुरु । गच्छतीति जगत्, संसारपथचङ्क्रम्यमाणं पुरुषं मा हिंसी: – संसारान्धकूपपतितं मा कार्षीरित्यर्थः ।। ६ ।।
ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्वभूतेषु गूढम् ।
विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वा अमृता भवन्ति ।। ७ ।।
ततः परमिति । उक्तप्रकारेण तत्प्रार्थनानन्तरम् बृहन्तं निरतिशयबृहत्वाश्रयम्, अत एव परं, यथानिकायं मशकमातङ्गादिशरीरानुरूप्येण सर्वभूतेषु अनुभूतेषु अनुप्रविश्य अन्तर्यामितया वर्तमानम् विश्वं व्याप्य स्थितं तमीश्वरं ज्ञात्वा मुक्ता भवन्ति इत्यर्थः ।। ७ ।।
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।। ८ ।।
तज्ज्ञानस्य मोक्षसाधनत्वमुक्त्वा इतरस्य तन्निषेधेति – वेदाहमेतमिति । प्रकृतेः परस्तात् ज्योति: महापुरुषं (ज्योतिर्मयवपुषं ?) तमेव पुरुषं विदित्वा‘ मृत्युशब्दितं संसारमतिक्रामति । अयनाय तत्प्राप्तये अन्यो मार्गो नास्ति । एतमर्थमहं वेद – जानामि । अस्मिन्नर्थे विवादो नास्तीति मुनीनां परस्परं वचनमिदम् ।। ८ ।।
[नित्यनिरामयविग्रहत्वम् (परमात्मनः उत्कृष्टत्वम्)]
यस्मात्परं नापरमस्ति किञ्चित्
यस्मानननाणीयो न ज्यायोऽस्ति कश्चित् ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येक
स्तेनेदं पूर्णं पुरुषेण सर्वम् ।। ९ ।।
ननु आत्मज्ञानस्यैव ‘तरति शोकमात्मवित्’ (छां.उ.७-१-३) इति मोक्षहेतुत्वमुच्यते । कथमादित्यवर्णविग्रहपुरुषज्ञानस्येत्याशङ्क्य अस्यैव पुरुषस्य व्यापकत्वात् आत्मत्वमपि तस्यैवेत्याह – यस्मादिति । ‘तथान्यप्रतिषेधात्’ (ब्र.सू.३-२-३५) इति सूत्रे, यस्मादपरं परं नास्ति । केनापि प्रकारेण उत्कृष्टं नास्तीत्यर्थः । इति भाषितम् । व्यासार्यैश्च, यस्मादित्यस्य परमित्यनेनान्वयोऽस्तु । यस्मादुत्कृष्टं नास्तीत्यर्थः । इत्यशङ्क्य, तथा सति अपरम् इत्यस्य वैयर्थ्यप्रसङ्गात् । न च परञ्चापरञ्च नास्तीति उत्कृष्टापकृष्ट- वस्तुनिषेधकत्वं शक्यशङ्कम् – नञ् आवृत्तिप्रसङ्गात् । अतो यस्मादित्यस्यापर- मित्यनेनैवान्वयः । यस्मादन्यत् सर्वोत्कृष्टं नास्तीत्यर्थाश्रयणे तदन्यस्य उत्कृष्टस्य वस्तुन एवाभावात् समाभ्यधिकनिषेधः फलति इति वर्णितम् । यदपेक्षया अतिशयेनान्त:प्रवेशयोग्यं वस्तु नास्ति, यस्माञ्चाधिकं विवृद्धं किमपि वस्तु नास्ति; यश्चाप्राकृते लोके अवाप्तसमस्तकामतया ब्रह्मादिकमपि तृणीकृत्य वृक्ष इव अप्रणतस्वभावस्तिष्टति; तेन, ‘भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेव सनातने’ ।। (पाद्मोत्तर ६-२५४-६६) इत्युक्तप्रकारेण पुरुषशब्दितेन भगवता वासुदेवेनेदं सर्वं ब्याप्तमित्यर्थः । अनेन, जीवाम केन? इति चिन्ताया निस्तारो दर्शितः । पूर्ण मिति व्याप्त्या आत्मात्वे कथिते देहभूतस्य जीववर्गस्य तदधीनजीवनत्वमुक्तं भवति ।। ९ ।।
ततो यदुत्तरतरं तदरूपमनामयम् ।
य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियंति ।। १० ।।
यस्माद्धेतोः पुरुषापेक्षयोत्कृष्टं वा समं वा नास्ति । तस्मात् तदेव सर्वोत्तरं कर्मकृतरूपरहितं तत्कृतामयशब्दितदुःखशून्यञ्च । तज्ज्ञानमेव मोक्षसाधनमित्युपसंहरति- ततो यदिति । ‘तथान्यप्रतिषेधात्’ (ब्र.सू.३-२-३५) इति सूत्रे, ततो यदुत्तरमिति पूर्वनिर्दिष्टात् पुरुषात् अधिकं वस्तु न प्रतिपाद्यते इत्युक्त्वा तर्हि, ततो यदुत्तरमिति किमुच्यते इति परिचोद्य, पूर्वत्र ‘वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे.उ.३-८) इति परस्य ब्रह्मणो महापुरुषस्य वेदनमेवामृतत्वसाधनम्, नाऽन्योऽमृतत्वस्य पन्था इत्युपदिश्य, तदुपपादनाय, ‘यस्मात् परन्नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्’ (श्वे.उ.३-९) इति पुरुषस्य परत्वं तद्व्यतिरिक्तस्य परत्वासम्भवञ्च प्रतिपाद्य, ‘ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति’ (श्वे.उ.३-२) इति पूर्वोक्तमर्थं हेतुतो निमगयति । यत् उत्तरतरं पुरुषतत्त्वं, तदेवारूपमनामयं यतः, ततो ये एतत् पुरुषतत्त्वं विदुः, त एवामृता भवन्ति; अथेतरे दुःखमेवापियन्ति इति भाषितम् । अत्र ततश्शब्दः पूर्वोक्तहेतूपसंहारार्थः । न तु पूर्वप्रतिपादितपुरुषस्य प्रतिपिपादयिषितवस्त्वन्तरावधित्वप्रतिपादनपर इति द्रष्टव्यम् । केचिदाचार्याः, ‘तेनेदं पूर्णमिति पूर्ववाक्ये सर्वमिदमिति प्रथमान्तनिर्दिष्टतया प्रधानस्य जगत एव, ततो यदुत्तरतरम् इत्यत्र तच्छब्देन ग्रहणमित्युक्तः । तदपि युक्तमिति वेदार्थसंग्रहव्याख्यानेऽप्युक्तम् ।। १० ।।
सर्वाननशिग्रीवः सर्वभूतगहाशयः ।
सर्वव्यापी स भगवाँस्तस्मात् सर्वगनश्शिव: ।। १५ ।।
नन् ‘तेने पूर्णं पुरुषेण सर्वमिति’ (श्वे.उ.३.१) सर्वशरीरसम्बन्धावगमात् हेयसाबन्धोऽवर्जनीय हत्याशङ्क्याह । सर्वाननेति । सर्वशरीराणां तच्छरीरत्वेन सर्वाननीशीरोग्रीवत्वम् । सर्वभूतहृदयगुहाश्रयत्वात् सर्वभूतगुहाशयत्वम् । अनेनाऽऽकारेण सर्वव्याप्यपि यतो भगवान्, (तस्मात् ?) ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषत: भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ।। (बि.पु ६-५-७९) इति हेय. प्रतिभटत्ववाचिभगवच्छब्दार्थतया तस्य पुरुषस्य सर्वगतत्वेऽपि शिवत्वमेव न त्वशुभ सम्बध इति भावः ।। ११ ।।
महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः ।
सुनिर्मलामिमां शान्तिमीशानो ज्योतिरव्ययः ।। १२ ।।
तज्ज्ञानस्यैव मोक्षसाधनत्वमित्येतत् द्रढयति – महान् इति । वैशब्दोऽवधारणे । पुरुष एव महान् प्रभुः – फलप्रदानसमर्थः । ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’ (भ.गी.९-२४) इत्युक्तः (इत्यत्र?) प्रभुः – फलप्रदः इति भगवता भाष्यकृता व्याख्यातत्वात् प्रकृते मोक्षरूपफलस्य प्रस्तुतत्वात् महच्छब्दसमभिव्याहाराञ्च महाफलरूपमोक्षप्रदः स एवेति तस्य मोक्षहेतुत्वं पूर्वोक्तं स्थिरमिति तत्र हेतुमाह – सत्त्वस्यैष प्रवर्तक इति । ‘जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः’ ।। (महा.भा.मो.प.३४९-७३) इत्युक्तरीत्या मोक्षार्थज्ञानहेतुसत्त्वगुणोन्मेषहेतुभूतकटाक्षशालितया स एव मोक्षप्रद इत्यर्थः । अत एव ज्योतीरूपनिरतिशयदीप्तियुक्तादित्य (वर्णविग्रहः?) पुरुषो अव्ययो भगवानेव सुनिर्मलामिमां – मोक्षरूपां रागाद्युपद्रवशान्तिम् ईशानः – ईष्टे इत्यर्थः ।। १२ ।।
अङ् गुष्टमात्रः पुरुषोऽन्तरात्मा
सदा‘ जनानाँ हृदये सन्निविष्टः ।
हृदा मनीषा मनसाभिक्लुप्तो
य एतद्विदुरमृतास्ते भवन्ति ।। १३ ।।
तज्ज्ञानसाधनमाह अङ् गुष्टमात्र इति । सर्वेषामन्तरात्मा असो हृदयगुहानिहितत्वनिबन्धनाङ्गुष्टपरिमाणयुक्तः पुरुषः हृदा – भक्त्या मनीषा – धृत्या युक्तेनं मनसा अभिक्लुप्तः ग्राह्यः हृन्मनीषशब्दयोः भक्तिधृतिपरत्वम् ‘सर्वत्र प्रसिद्धोपदेशात्’ (ब्र.सू.१-२-१) इत्यत्र व्यासार्यै: वर्णितम् । शिष्टं स्पष्टम् ।। १३ ।।
[परमपुरुषस्य महिमा]
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वाऽत्यतिष्ठत् दशाङ् गुलम् ।। १४ ।।
अङ् गुष्ठमात्रशब्दश्रवणकृतपरिच्छेदभ्रान्तिं व्युदस्यति सहस्रति । अनन्तशिरोनयनादिदिव्यविग्रहयुक्तविराड्रूपि सन् – दशाङ् गुलशब्देनावयवो लक्ष्यते |भूमिशब्देन ब्रह्माण्डम् पञ्चभूतपञ्चतन्मात्रारूपदशावयवयुक्तब्रह्माणमतिक्रम्य परमपदे स्थित इत्यर्थः ।
(सर्वं पुरुषात्मकम् ]
पुरुष एवेदँ सर्वं यद्भूतं यच्च भव्यम्।
उतामृतत्वस्येशानी यदन्नेनातिरोहति ।। १५ ।।
यस्मात् पुरुषेण व्याप्तमिदं सर्वम्, अतः भूतभव्योपलक्षितं प्रपञ्चजातं पुरुषात्मकमेवेत्याह · पुरुष एवेति । (उक्तोऽर्थः) उताऽमृतेति । अत्रामृतशब्देन मुक्तिवाचिना मुक्तिस्थानं लक्ष्यते । अप्राकृतभोग्यभोगोपकरणसमृद्धं यदमृतवं परमपदम् अन्ने प्रकृतिप्राकृतसम्बन्धे नातिरोहति – नोत्पद्यते; तस्याप्यमृतत्वस्यासौ ईशान इत्यर्थः । अतश्चोभयविभूतिनायकत्वमुक्तं भवति ।। १५ ।।
सर्वतः पाणिपादं तत् सर्वतोक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। १६ ।।
सर्वत इति । सर्वतः पाणिपादादिकार्यकारि तत्तत्कार्यमुखेन सर्वमावृत्य तिष्ठतीत्यर्थः । गीताभाष्ये च ‘सर्वतः पाणिपादं तत्’ (भ.गी.१३-१३) इति श्लोकव्याख्यानसमये, ‘परस्य ब्रह्मणः अपाणिपादस्यापि सर्वतः पाणिपादादिकार्यकृत्त्वं श्रूयते । प्रत्यगात्मनोऽपि पॅरिशुद्धस्य तत्साम्यापत्या सर्वतः पाणिपादादिकार्यकृत्वं श्रुतिसिद्धमेव; ‘निरञ्जनः परमं साम्यमुपैति’ (मुं.उ.३-१-३) इति हि श्रूयते’ – इति भाषितम् ।। १६ ।।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहत् ।। १७ ।।
सर्वेन्द्रियेति । सर्वेन्द्रियगुणै: – सर्वेन्द्रियजन्यज्ञानै: आभासः प्रकाशो यस्य तत् तथोक्तम् । इन्द्रियवृत्या विज्ञातुं समर्थमित्यर्थः । सर्वेन्द्रियवत्वमप्यैच्छिकमेव न स्वाभाविकमित्याह – सर्वेन्द्रियविवर्जितमिति । सर्वस्य प्रभुमिति । प्रभुत्वं सेवाफलप्रदत्वेन, ईशानत्वं नियन्तृतया इति द्रष्टव्यम् । ‘निवासः शरणं सुहृद्गतिः नारायणः’ (सुबा.उ. ६ खं) इति श्रुतेः निरवधिकवात्सल्यशालि प्राप्यञ्च इत्यर्थः । अत्र ईशानशब्दस्य नपुंसकलिङ्गत्वात् न देवताविशेषप्रत्यायकत्वशङ्कावकाश इति व्यासार्वैर्वर्णितम् ।। १७ ।।
[जीवविलक्षणत्वम्]
नवद्वारे पुरे देही हंसो लेलायते बहिः ।
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ।। १८ ।।
ननु सर्वतः पाणिपादत्वादिकं गीतासु परिशुद्धात्मस्वरूपेण प्रसिद्धम् । ततश्च परिशुद्धस्वरूपस्यैव सर्वप्रभुत्वेशानत्वादिकमवगम्यत इति शिष्यशङ्कां शमयति नवद्वार इति । मलप्रस्रवणद्वारतया हेयैः नवभिर्द्वारैर्युक्ते पुरवत् स्वात्यन्तभिन्ने अहमित्यभिमन्यमानो नानादेहसञ्चरणजंघालतया हंसशब्दितो जीवो नानादेहेषु उच्चावचयोनिषु लेलायते – गतागतं कुर्वन् परतन्त्रतया बम्भ्रमीतीति । अतः तस्य सर्वप्रभुत्वे का प्रसक्तिः? अतः ततः बहिः – बाह्य एव स्थावरजङ्गमात्मकसर्वलोकसंसारतन्त्रवाहीत्यर्थः ।। १८ ।।
[अभेदव्यबहारनिर्वाहकत्त्वम्]
अपाणिपादो जवनो ग्रहीता
पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तमाहुरग्र्यं पुरुषं महान्तम् ।। १९ ।।
अपाणीति । पाणिपादाद्यभावेऽपि तत्कार्यकारी इतरावेद्यः स्वयं सर्वज्ञः यः, तमादिकारणं महापुरुषं वदन्तीत्यर्थः ।
अणोरणीयान् महतो महीया–
नात्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुं पश्यति वीतशोको
धातुः प्रसादान्महिमानमीशम्‘ ।। २० ।।
अणोरिति । सकलसूक्ष्मवस्त्वन्तःप्रवेशयोग्यसौक्ष्मवान् निरतिशयबृहत्वशाली एवम्भूतः अस्य जन्तोः प्राणिनो जीवस्य आत्मा प्रेरकस्सन् सर्वजीवस्य हृदय- गुहायामास्ते । जन्तोरित्येतत् आत्मा इत्यत्रापि च संबध्यते; आकाङ्क्षासत्त्वात् । गुहायाम् इति निर्दिष्टहृदयगुहायामपि ‘सम्बध्यते । तादृशम् अक्रतुं – कर्मलेपशून्यं महामहिमशालिनमीशं यदा पश्यति, तदा धातुः धारकस्य परमात्मनः प्रसादात् वीतशोको भवति । ‘प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः’ इति स्मृतेः । ततश्च ध्यानसाध्यपरमात्मप्रसादनिर्वर्त्यतया ज्ञाननिवर्त्यत्वेन (प्रसादनिवर्त्यतया (ज्ञाननिवर्त्यत्वेन?) बन्धस्य मिथ्यात्वं प्रत्युक्तम् ।। २० ।।
वेदाहमेतमजरं पुराणं
सर्वात्मानं सर्वगतं विभुत्वात् ।
जन्मनिरोधं प्रवदन्ति‘ यस्य
ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ।। २१ ।।
।। इति तृतीयोध्यायः ।।
वेदाहमिति यस्य विभुत्वेन जन्माभावं प्रकर्षेण वदन्ति, तमजरं पुरातनं सर्वगतत्वात् सर्वात्मानं अहं वेद – जाने इत्येवं ब्रह्मवादिनः नित्यं वदन्तीत्यर्थः ।। २१ ।।
।। इति तृतीयाध्याय प्रकाशिका ।।