श्वेताश्वतरोपनिषत्
अथ द्वितीयोऽध्यायः
युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः ।
अग्निं ज्योतिर्निचाय्य पृथिव्या अध्याभवत् ।। १ ।।
आत्मासंस्थपरमात्मप्रतीत्यौपयिकेन्द्रियनिग्रहरूपतपस्सिद्ध्ययनुगुणं भगवत्प्रार्थनामन्त्रमाह – युञ्जानः इति । धियः सविता – प्रेरकः परमात्मा पृथिव्याः अधि ऊर्ध्व अग्निं ज्योतिः – अग्निरूपं ज्योतिः – निचाय्य – संपूज्य अग्निहोत्रादिकर्म (दिकं) कृत्वा मनः तत्त्वाय – साक्षात्काराय पृथिवीनिष्ठाग्निज्योतिस्सदृश- स्वात्मनिष्ठपरमात्मतत्त्वसाक्षात्काराय युञ्जानः – नियुञ्जानः आभवत् – भवति इत्यर्थः ।
(तत्त्वसाक्षात्काराय परमात्मनि मनो नियञ्जानो भवतु इत्यर्थः) ।। १ ।।
युक्तेन मनसा वयं देवस्य सवितुः सवे ।
सुवर्गेयाय शक्त्या ।। २ ।।
युक्तेनेति । सवितुः – प्रेरकस्य परमात्मनः सवे – अनुज्ञायां सत्याम् अनुज्ञया इति यावत् । युक्तेन मनसा -आत्मप्रवणेन चेतसा युक्ता वयं सुवर्गेयाय स्वर्गशब्दितभगवल्लोकसाधनाय परमात्मनिदिध्यासनाख्यकर्मणे शक्त्या युक्ता भवेम इत्यर्थः ।। २ ।।
युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् ।
बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ।। ३ ।।
परमात्मा प्रणिपातमात्रेण कथमनुज्ञां प्रयच्छेत् इत्याशङ्क्य भगवदन्तरङ्गभूत-विष्वक्सेनाद्याचार्यप्रणामपूर्वकं भगवत्प्राप्तौ यतमानानामनुज्ञां प्रयच्छतीत्याह युक्त्वायेति । सुवः स्वर्ग लोकं भगवल्लोकं यतः गतान् देवान् – पूर्वाचार्यान् मनसा युक्त्वाय – छन्दसि, क्त्वो यक् (पा.सू.७-१-४७) इति यक् । मनसा युक्त्वाय प्रणम्येति यावत् । दिवं द्योतमानं निरतिशयबृहत्त्वयुक्तं परमात्मरूपं ज्योतिः धिया उपासनरूपज्ञानेन करिष्यतः – विषयीकरिष्यतः, ध्यातुं, प्रवृत्तानिति यावत् तान् मुमुक्षून् सविता– प्रेरकः परमात्मा प्रसुवाति – अनुजानाति इत्यर्थः (इति वयं मन्यामहे इति शेषः) ।। ३ ।।
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
विहोत्रा दधे वायुनाविदेक इन्महीदेवस्य सवितुः परिष्टुतिः ।। ४ ।।
परमात्मनि मनोयोगः तत्समाराधनं कर्म च, केषाञ्चिदेव भवतीत्याह – युञ्जत इति । ‘विप्रो विप्रत्वं गच्छते तत्त्वदर्शी’ इत्युक्तरीत्या विप्राः – तत्त्वदर्शिनः परमात्मनि मनः नियुञ्चते – योजयन्ति । धियः ध्यानानि च योजयन्ति । विप्रस्य – प्रा पूरणे’ (धा.पा.१०६१) – पूर्णस्य, बृहतो गुणैः बृहत्त्वाश्रयस्य विपश्चितः सर्वज्ञस्य महीदेवस्य – मह्या – भूम्या समेतस्य देवस्य – श्रीभूमिसमेतस्य सवितुः प्रेरकस्य वयुनावित् – वयुनं ज्ञानम् । वयुनाविदिति छान्दसो दीर्घः – तस्य सावज्ञ्यादिमहिमवित् इत्यर्थः । तदाश्रयः एक इत् – एक एव परिष्टुतिः – परिष्टुतीरित्यर्थः । छान्दसं । हस्वत्वम् (परिचर्येति?) परिचर्या इति यावत् । होत्रा – ऋत्विग्भिः, मन्त्रेणेति बार्थः विदधे – कृतवान् इत्यर्थः । ब्रह्मस्वरूपविदेव तत्परिचर्याकारी; तेन कृतमेव भगवत्परिचरणं भगवत्प्रीणनं भवतीत्यर्थः ।। ४ ।।
युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः ।
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ।। ५ ।।
युजे वाम् इति । दिव्यस्थानस्थिताः सर्वे ब्रह्मपुत्राः मत्प्रार्थनां शृण्वन्तु । सूरेः – नित्यसूरिकर्तृका, स्तुतिपथादनपेतत्वेन पथ्या – स्तुतिः । वां पूर्व्यं व: पूर्वमित्यर्थः । वचनव्यत्ययश्छान्दसः । सा (सः) तादृशं ब्रह्म यथा प्राप्नोति, एवं युजे . योगाय – ब्रह्मप्राप्तये इति यावत् । मया कृतः विश्लोकः – विविधः श्लोकः स्तोत्ररूप: एतु – प्राप्नोतु । नित्यसूरिकृतां स्तुतिं यथा भगवान् अङ्गीकरोति, एवम् अङ्गीकरोतु इत्यर्थः । ततश्च योगप्रवृत्तेः प्राक् भगवत्स्तुतिः कर्तव्या इत्युक्तं भवति ।। ५ ।।
अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते ।
सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ।। ६ ।।
योगमारम्भमाणस्य शीतोष्णदेशः परिहर्तव्य इत्याह – अग्निरिति । अभिमथ्यते – अभितो निवार्यते । अधिरुध्यते – आधिक्येन रुध्यते । वायुर्यत्र न वातीत्यर्थः । सोमशब्देन हिमं लक्ष्यते । अतिश्येन रिच्यते – निरस्यते । तत्र मनः प्रत्यक्प्रवणं जायत इत्यर्थः ।।६।।
सवित्रा प्रसबेन जुषेत ब्रह्म पूर्व्यम् ।
तत्र योनिं कृण्वसे न हि ते पूर्तिमक्षिपत् ।। ७ ।।
सवित्रा इति । एवं गुरुप्रणामभगवत्स्तुतिप्रसन्नेन सवित्रा कृतेन प्रसवेन–अनुज्ञया तदनुज्ञातस्सन् इति यावत् । पूर्व्यम् – पूर्वपृष्टं (श्रेष्टं) ब्रह्म जुषेत – सेवेत । ध्यायेदिति यावत् । तत्र – परमात्मनि योनिं – स्थानं – मनसि इति शेषः कृण्वसे – कुरुष्व । तथा सति ते पूर्तिं – मनोरथपूर्तिं तत् – ब्रह्म नाक्षिपत् – न क्षिपति । न निरस्यतीत्यर्थः लडर्थे लङ् ।। ७ ।।
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य ।
ब्रह्मोडुपेन प्रतरेतविद्वान् स्त्रोतांसि सर्वाणि भयावहानि ॥ ८ ॥
योगदशेतिकर्तव्यतामाह – त्रिरुन्नतमिति । उर:कण्ठशिरःप्रदेशेषु उन्नतम् इतरत्र समं शरीरं स्थापयित्वा सर्वाणीन्द्रियाणि हृदयकुहरे संनिवेश्य ब्रह्मोडुपेन – प्रणवलक्षण (ब्रह्मस्वरूप) प्लवेन ब्रह्मध्यानेन इत्यर्थः । सर्वाणि भयावहानि नानाविधानि जन्म स्रोतांसि तरेत् इत्यर्थः ।। ८ ।।
प्राणान् प्रपीड्येह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत ।
दुष्टाश्वयुक्तमिव वाहमेनं विद्वान् मनो धारयेताप्रमत्तः ।। ९ ।।
प्राणायामप्रकारमाह प्राणान् इति । ‘युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु’ (भ.गी.६-१७) इत्युक्तरीत्या मितायासः प्राणवायुं निरुध्य निरुद्देषु अत्यन्तपीडापरिहाराय नासिकया रेचनं कुर्यात् । ततश्चावहितस्सन्, दुष्टाश्वयुक्तं रथं यथा सारथिः स्ववशं करोति, तथा मनोनिरोधज्ञो मनः स्ववशं कुर्यात् इत्यर्थः ।। ९ ।।
समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश(श्र)यादिभिः ।
मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणेन योजयेत् ।। १० ।।
योगानुष्ठानयोग्यं देशं विस्तरेणाह – सम इति । निम्नोन्नतत्वादिरहिते परिशुद्धे क्षुद्रपाषाणवह्निसिकतारहिते वाद्यध्वनिजलाशयाद्यत्यन्तसामीप्यरहिते मनोनुकूले चक्षुःपीडाहेतुभूतौष्ण्या(ल्कादि) रहिते गुहादिलक्षणनिवातदेशाश्रयणेन योगमनुतिष्ठेत् इत्यर्थः । सूत्रितञ्चैतत्, ‘यत्रैकाग्रता तत्राविशेषात्’ (ब्र.सू.४-१-११) इति ।। तत्र हि, आसीनस्तिष्ठन् गच्छन् वोपासीत अविशेषात् इति पूर्वपक्षे (श्रिते) उच्यते – ‘आसीनः सम्भवात्’ (ब्र.सू.४-१-७) । आसीन एव उपासीत । तस्यैव उपासनस्य सम्भवात् । तिष्ठतो गच्छतश्च यत्नसापेक्षत्वात्, शयानस्य निद्राप्रसक्तेश्च, उपासनस्य ध्यानरूपत्वाञ्च एकाग्रचित्ततावश्यम्भावात् , चित्तैकाग्र्यस्य आसनसापेक्षत्वाञ्च आसीन एव कुर्यात् । अचलवञ्चापेक्ष्य’ (ब्र.सू.४-१-९) ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षम्’ (छां.उ.७-६-१) इत्यादिषु निश्चलत्वधर्मेण ध्यातृसाम्यव्यपदेशदर्शनात् ध्यातृनिश्चलत्वस्या- पेक्षितत्वात् निश्चलत्वस्य च आसिकामन्तेरणासम्भवात् आसीन एव कुर्यात् । ‘स्मरन्ति च’ (ब्र.सू.४-१-१०), ‘उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये’ (भ.गी.६-१२) इति । ‘यत्रैकाग्रता तत्राविशेषात्’ (ब्र.सू.४-१-११) ‘समे शुचौ’ शर्करावह्निवालुकाविवर्जिते’ इत्यविशेषेण एकाग्रतानुकूलदेशविशेषस्यैवाङ्गत्वकीर्तनात् तेनैव (च) न्यायेन एकाग्रतानुकूलस्य आस(साध)नस्यापेक्षितत्वमस्तीति अवसीयते इति स्थितम् । प्रकृतमनुसरामः ।। १० ।।
नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशिनाम् ।
एतानि रूपाणि पुरस्सराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ।। ११ ।।
योगमभ्यस्यतो ब्रह्माभिव्यक्तिप्राचीनानि तञ्चिह्नानि आह – नीहारेति । प्रथमतो नीहारवत् स्फुरति, ततो धूमार्कानि (न) लाद्याकारतया स्फुरति । एवम्भूतानि स्फुरणानि पूर्वप्रवृत्तानि आगामि ब्रह्माभिव्यक्तिचिह्नानि इत्यर्थः ।। ११ ।।
पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते ।
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ।। १२ ।।
योगाभ्यासस्य कायसिद्धिफलकत्वमाह – पृथ्वीति । गुणो – गुणनमभ्यासः । योगाभ्यासे प्रवृत्ते सति योगमहिम्ना सत्त्वप्रचुरभूतारब्धे पाश्चभौतिके शरीरे समुत्थिते तादृशसर्वरोगादिदाहसमर्थत्वेनाग्निरूपेण योगनारब्धशरीरयुक्तस्य पुंसौ रोगादिर्न (सं) भवतीत्यर्थः ।। १२ ।।
लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवञ्च ।
गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां बदन्ति ।। १३ ।।
लघुत्वम् इति । स्पष्टोऽर्थः ।। १३ ।।
यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्त(क्त)म् ।
तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते बीतशोकः ।। १४ ।।
योगमभ्यस्यतो ब्रह्मोपलब्धिप्रकारं तत्फलञ्चाह – यथैवेति । मृदा अयसा बा उपलिप्त: – निर्मितः प्रतिमाविशेषः सुधाविशेषान्त (विशेषाख्य?) रञ्जकद्रव्यलिप्तस्सन् तेजोमयतया दीप्यते । तद्वत् सुधाविशेषलिप्ततेजोमयप्रतिमासमं दर्शनसमानाकारध्यानेनोपलभ्य कश्चित् पुरुषधौरेयो निवृत्तसंसारगन्ध: सिद्धार्थो भवतीत्यर्थः । तद्वा इत्यत्र वा शब्द: इवार्थः । तद्वत् सतत्तवं प्रसपीक्ष्येति पाठेऽव्ययमैवार्थः । केचित्तु सुधान्तमिति मत्वा सुधौतमित्यर्थे (सुधातरित्यर्थे) सुधान्तमिति शब्द इत्यपि वदन्ति ।। १४ ।।
यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनह युक्तः प्रपश्येत् ।
अजं ध्रुवं सर्वतत्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ।। १५॥
यदाऽऽत्मेति । यदा योगयुक्त: परमात्मप्रतीत्युपायभूतेन प्रणयप्रतिपादित- परमात्मशेषभावेन प्रत्यगात्मना साधनेन(सम्बन्धेन तत्स्थं परम् अनादिम् अनन्तं हेयप्रतिभटं अस्रभूषाध्यायोक्तरीत्या सर्वतत्त्वात्मकास्त्रभूषणोपेतं परं ब्रह्म सूक्ष्मवस्त्रान्तरितमाणिक्यवत् (यदा) पश्येत्, तदा सर्वं (बन्धक)कर्महानिर्भवतीत्यर्थः ।। १५ ।।
एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भ अन्तः ।
स एव जातः स जनिष्यमाण: प्रत्यङ् जनास्तिष्ठति विश्वतोमुखः ।। १६ ।।
तस्य सर्वात्मकत्वं प्रपञ्चयति – एष हि इति । हे जनाः इति परस्परं मुनीनां संबोधनम्। ‘दिव्यो देव एको नारायणः’ (अध्यात्म.उ.१) इति देवत्वेन प्रसिद्धः परमात्मैव सर्वाः प्रदिशः प्रकृष्टदिग्वर्तिपदार्थविशेषाः इत्यर्थः । नु शब्दश्चार्थे । पूर्वं हिरण्यगर्भरूपेणोत्पन्नोऽप्ययमेव विश्वतोमुखः – सर्वविधो गर्भस्थजन्तुः (जातः) जनिष्यमाणश्च स एवेत्यर्थः । ननु भिन्नभिन्नजीवानां कथमेकात्मकत्वमित्याशक्य आह – प्रत्यङ्‘ इति । अहमिति भासमानत्वं प्रत्यक्त्वम् । सर्वेषां प्रबुद्धानां वामदेवादीनामात्मनाम् अहमिति प्रतीतौ परमात्मनोऽपि भासमानतया तस्य सर्वं प्रति प्रत्यक्त्वात् तस्य सर्वान् प्रति आत्मत्वमुपपद्यते । न चारमदाद्याहम्बुद्धौ परमात्मनोऽभानात् कथमस्मदादीन् प्रति प्रत्यक्त्वमिति वाच्यम् दोषवशादभानेऽपि योग्यत्वसत्वेनादोषात् ।। १६ ।।
यो देवो अग्रौ यो अप्सु यो विश्वं भुवनमाविवेश ।
व ओषधीषु‘ यो वनस्पतिषु तस्मै देवाय नमो नमः ।। १७ ।।
।। इति द्वितीयाध्यायः ।।
अन्तर्यामितया सर्वात्मत्वम्। न तु स्वरूपेणेत्येतत् प्रदर्शयति • यो देव: इति । स्पष्टोऽर्थः ।। १७ ।।
।। इति द्वितीयाध्याय प्रकाशिका ।।