श्वेताश्वतरोपनिषत्
अथ पञ्चमोऽध्यायः
[विद्याविद्ययो: लक्षणम्]
द्वे अक्षरे ब्रह्मपरे त्वनन्ते
विद्याविद्ये निहिते यत्र गूढे ।
क्षरं त्वविद्या ह्यमृतं तु विद्या
विद्याविद्ये ईशते यस्तु सोऽन्यः ।।१।।
पुनरपि ब्रह्ममाहात्म्यं (तादात्म्यं) चिदचिद्विवेकञ्च प्रपञ्चयति – द्वे अक्षरे इति । ब्रह्मपरे ब्रह्माराधनरूपे अनन्ते – असंख्यातव्यक्तिके नित्यानित्यफलसाधनतया (क्षरामृतशब्दिते) विद्याविद्याशब्दिते (ते?) ज्ञानरूपकर्मरूपे (द्वे?) यत्र अक्षरे – आत्मनि दुर्मोचतया लग्ने, सोऽप्यन्यः, आभ्यां समाराध्यमानः तत्फलप्रदश्चान्यः इत्यर्थः ।। १ ।।
यो योनिं योनिमधितिष्ठत्येको
विश्वानि रूपाणि योनीश्च सर्वाः ।
ऋषिं प्रसूतं कपिलं यस्तमग्रे
ज्ञानैर्बिभर्ति जायमानं च पश्येत् ।। २ ।।
योनिमिति । सर्वाणि समष्टिव्यष्टिरूपाणि तत्तद्योनीश्च सर्वाः योऽधितिष्ठति, यस्तु अग्रे – सृष्टि-पूर्वसमये प्रसूतं कपिलं ज्ञानादियुक्तं बिभर्ति – कृतवान् जायमानदशायाञ्च सानुग्रहमेक्षतः सोऽप्यन्य इति पूर्वेण संबन्धः ।। २ ।।
एकैकं जालं बहुधा विकुर्वन्न
स्मिन् क्षेत्रे संहरत्येष देवः ।
भूयस्सृष्ट्वा पतयस्तथेशः
सर्वाधिपत्यं कुरुते महात्मा ॥ ३ ॥
एकैकमिति । यस्मिन् क्षेत्रे प्रकृतिरूपे जालवद् बन्धके महदादिकार्यवर्ग विविधतया कुर्वन् पुनश्च संहरति; तस्मिन्नेव प्रकृतिरूपे क्षेत्रे कल्पान्तरेऽपि भूयः प्रजापत्युपलक्षितं प्रपञ्चं सृष्ट्वा सर्वदा सर्वेषां नियन्तृतया आस्ते यतोऽसौ (ततो?) महामहिमशाल्यात्मा इत्यर्थः ।। ३ ।।
सर्वा दिश ऊर्ध्वमधश्चतिर्यक्
प्रकाशयन् भ्राजते यद्वनड्वान् ।
एवं स देवो भगवान् वरेण्यो
योनिस्वभावानाधितिष्ठत्येकः ।। ४ ।।
ननु एतस्य कथं युगपत् सर्वयोन्यधिष्ठातृत्वम् उपपद्यत इत्यत्राह – सर्वा दिश इति । कालचक्र परिवर्तनहेतुतया अनुडुच्छब्दवाच्यः सूर्यः तिर्यगूर्ध्वमधश्च युगपद्भासयन् यत् – यथा भासते; तथा मुमुक्षुभिर्वरणीयो भजनीयो भगवानेक एव सर्वयोन्यधितिष्ठति भवतीत्यर्थः ।। ४ ।।
[सर्वदेवोपास्यत्वम्]
यच्च स्वभावं पचति विश्वयोनिः
पाच्यांर्श्च सर्वान् परिणामयेत् यः ।
सर्वमेतद्विश्वमधितिष्ठत्येको
गुणाँश्च सर्वान् विनियोजयेद्यः ।। ५ ।।
तद्वेदगुह्योपनिषत्सु गूढं
तद्ब्रह्मा वेदते ब्रह्म योनिम् ।।
ये पूर्वं देवा ऋषयश्च तद्विदु–
स्ते तन्मया अमृता वै बभूवुः ।। ६ ।।
यच्चेति । यच्चेति लिङ्गव्यत्ययश्छान्दसः । यः सर्वेषामग्निजलादिवस्तूनाम् उष्णानुगुणस्वभावं पचति सङ्कल्पलक्षणपाकेन निर्वर्तयति; यश्च पाच्यान् परिणामयोग्यान् परिणामयति । सत्वा (सत्या) दींश्च गुणान् प्रवर्तयति, स परमात्मा सर्वप्रकृत्यधिष्ठाता इत्यर्थः । तद्वेदेति । तेषु – प्रसिद्धेषु वेदेषु गुह्योपनिषत्सु (च) तात्पर्यविषयतया प्रतिपाद्यं ब्रह्मणो वेदस्य योनिभूतं तत् परं ब्रह्म सकलवेदप्रवर्तकः ब्रह्मा चतुर्मुखः वेदते – जानाति । अतादृशो न जानाति । ये च पूर्वं देवा ऋषयश्च तत् ज्ञातवन्तः, ते सर्वे (तत्स?) समानाकारा मुक्ता बभूवुः इत्यर्थः ।। ५, ६ ।।
गुणान्वयो यः फलकर्मकर्ता
कृतस्य तस्यैव स चोपभोक्ता ।
स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा
प्राणाधिपः संचरति स्वकर्मभिः ।। ७ ।।
एवं परमात्मस्वरूपं तज्ज्ञानस्यामृतसाधनत्वञ्च उक्त्वा जीवस्वरूपं शोधयति . गुणान्वय इति । सत्वरजस्तमोगुणानामन्वयो यस्य स तथोक्तः । सत्वादिगुणान्वितः सन् फलसाधनभूतं कर्म यः करोति, स एव तस्यैव फलं भुङ्क्ते । एवं नियतकर्तृत्व भोक्तृत्वशाली स्थावरनरपक्ष्यादिरूपयुक्तः कामक्रोधलोभरूपगुणत्रययुक्तो देवयानपितृयाण- कष्टगतिरूपमार्गत्रययुक्तः प्राणसहचरितस्सन् कर्मपाशबद्धः सञ्चरति इत्यर्थः ।। ७ ।।
अङ् गुष्ठमात्रो रवितुल्यरूपः
सङ्कल्पाहङ्कारसमन्वितो यः ।
बुद्धेर्गुणेनात्मगुणेन चैव
आराग्रमात्रो ह्यवरोऽपि दृष्टः ।।८।।
अङ् गुष्ठमात्र इति । बुद्धेः अन्तःकरणस्य सत्वरजस्तमोलक्षणगुणकारितेन आत्मधर्मभूतनानाविधार्थविषयकाध्यवसायेन युक्तः तत्कार्येण तत्तत्फलसंकल्पेन आढ्योऽभिजनवानस्ति इत्यहङ्कारेण (च?) युक्तस्सन् आत्मवत् स्वप्रकाशः, अङ् गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ इत्युक्तरीत्या अङ् गुष्ठपरिमाणः शास्त्रेषु दृष्टः । ततोऽपि अवरः – हीनपरिमाण: आराग्रमात्र इत्यपि दृष्टः – शास्त्रेषु दृष्ट इत्यर्थः ।। ८ ।।
[जीवात्मनः लक्षणम्]
वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ।। ९ ।।
स्वमतमुपन्यस्यति – वालाग्रेति । वालाग्रशतांश – शतांशतुल्यपरिमाण एव जीवो मोक्षे धर्मभूतज्ञानविकासेन विभुत्वलक्षणानन्त्याय प्रभवतीत्यर्थः ।। ९ ।।
नैव स्त्री न पुपानेष न चैवायं नपुंसकः ।
यद्यच्छरीरमादत्ते तेन तेन संयुज्यते ।। १० ।।
श्रीनपुंसकत्वादिकमपि तस्य तादृशशरीरसम्बन्धकृतम् न ( स्वाभाविकम् इत्याह नैव स्त्रीति । स्पष्टोऽर्थः ।। १० ।।
सङ्कल्पनस्पर्शनदृष्टिहोमै
र्गासाम्बुवृष्ट्या ऽऽत्मविवृद्ध जन्म ।
कर्मानुगान्यनुक्रमेण देही
स्थानेषु रूपाप्यभिसम्प्रपद्यते ।। ११ ।।
देहप्राप्तौ हेतुमाह – सङ्कल्पेनेति । पुण्यविषयक सङ्कल्पगङ्गादिलक्षण- पुण्यवस्तुस्पर्श तादृशवस्तुदर्शन यागहोमादिभिरात्मनो विवृद्धियुक्तं जन्य उत्कृष्टं जन्य इति यावत् – अनेनक्रमेण (?) कर्मानुसारीणि रूपाणि तेषु तेषु ब्राह्मणादिषु योनिषु (अनुक्रमेण) पर्यायेण प्रपद्यत इत्यर्थः ।। ११ ।।
स्थूलानि सम्माणि बहूनि चैव
रूपाणि देही स्वगुणैर्वृणाति ।
क्रियागुणैरात्मगुणैश्च तेषां
संयोगहेतुरपरोऽपि दृष्ट: ।। ११ ।।
स्थूलानीति । मशकमातङ्गादिस्थूलसूक्ष्मशरीराणि बहुविधान्यपि तत्तत्फलाभिसन्ध्यादिलक्षणरागादिरूपात्म गुणप्रयुक्तयागादिरूपक्रियालक्षणै: गुणैर्हेतुभि: भजते । तादृशात्मगुणयोगे च पूर्वपूर्वं कर्मैव हेतुर्दृष्ट: इत्यर्थः ।। १५ ।।
अनाद्यनन्तं कलिलस्य मध्ये
विश्वस्य स्रष्टारमनेकरूपम् ।
विश्वस्यैकं परिवेष्टितारं
ज्ञात्वा देवं मुच्यते सर्वपाशैः ।। १३ ।।
अनाद्यनन्तमिति । कलिलस्य – कार्यस्य मध्ये स्थित्वा हिरण्यगर्भ- प्रजापत्याद्यनेकरूपतया विश्वस्य स्रष्टारम् इत्यर्थः । शिष्टं पूर्ववत् ।। १३ ।।
भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् ।
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ।। १४ ।।
।। इति पञ्चमोऽध्यायः ।।
भावेति । भावग्राह्यं – भक्तिग्राह्यं अनीडत्वेन – अनिलयत्वेन अनाधारत्वेन आख्यायमानं विश्वस्य भावाभावकरं – सर्गसंहारकारकं सर्वदा अशुभासृष्टं विद्यासर्गकारणं (कारिणं?) ये पूर्व ज्ञातवन्तः, ते प्रकृतिविनिर्मुक्ता बभूवुः इत्यर्थः ।। १४ ।।
(द्विरुक्तिरध्यायसमाप्त्यर्था)
।। इति पञ्चमाध्यायप्रकाशिका ।।