श्वेताश्वतरोपनिषत्
अथ षष्ठोऽध्यायः
[भगवत: कालस्वभावादेः कारणत्वम् ]
स्वभावमेके कवयो वदन्ति
कालं तथान्ये परिमुह्यमानाः ।
देवस्यैष महिमा लोके
येनेदं भ्राम्यते ब्रह्मचक्रम् ।।१।।
पुनरपि परमात्मनो गुणान् वक्तुमध्यायान्तरारम्भः स्वभावमिति । केचन लोकायतिकाः’ जगच्चक्रपिरवृत्तिहेतुं स्वभावं वदन्ति । अन्ये भगवन्मायामोहिताः कालकर्मादिकं वदन्ति । तदिदमौपनिषदपरमपुरुषवरणीयता हेतुभूतगुणविशेषविरहिणां जल्पितम् । परमात्ममहिम्नैव ब्रह्माश्रितं जगच्चक्रं बम्भ्रमीति इत्यर्थः । अथवा – ब्रह्म – प्रकृतिः । प्रकृतिप्राकृतचक्रं बम्भ्रमीति इत्यर्थः ।। १ ।।
[परब्रह्मणः महिमा]
येनावृतँ नित्यमिदँ हि सर्व
ज्ञः कालकालो गुणी सर्वविद्यः ।
तेनेशितं कर्म विवर्तते ह
पृथ्व्याप्यतेजोऽनिलखानि चिन्त्यतम् ।। २ ।।
येनावृतमिति । यो नित्यं सर्ववस्तुव्यापकः सर्वज्ञः ‘कालं स पचते तत्र न कालस्तत्र वै प्रभुः’ (महा.भा.मो.प.२५-९) इत्युक्तरीत्या कालस्यापि पाचकः, ‘तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणेकराशिः, (वि.पु.६-५-८५), सर्वज्ञानप्रकार- (प्रकारज्ञान?) वान्, तेनेशितं कर्म विवर्तते । क्रियत इति कर्मेति कार्यतया कर्मशब्दितं पञ्चभूतात्मकं जगत् तेन – परमात्मना, स्यादिति सङ्कल्पमात्रविषयीकृतं सत् विवर्तते निष्पद्यत इत्येतदेव हदि चिन्तनीयमित्यर्थः ।। २ ।।
तत्कर्म कृत्वा विनिवर्त्य भूय –
स्तत्त्वस्य तत्त्वेन समेत्य योगम् ।
एकेन द्वाभ्यां त्रिभिरष्टभिर्वा
कालेन चैवात्मगुणेश्च सूक्ष्मै: ।। ३ ।।
आरभ्य कर्माणि गुणान्वितानि
भावांश्च सर्वान् विनियोजयेद्यः ।
तेषामभावे कृतकर्मनाशः
कर्मक्षये याति स तत्त्वतोऽन्यः ।। ४ ।।
तत्कर्मेत्यादि । ‘तत्त्वं नारायणः’ (तै.ना.११) इति श्रुतेः नारायण एव तत्त्वम् । ततश्चायमर्थः इतरेभ्यो विनिवर्त्य तत्त्वस्य – भगवतः समाराधनं नित्यनैमित्तिक लक्षणं कर्म भूयः कृत्वा, एकेन – जायमानदशाप्रसृतभगवत्कटाक्षेण द्वाभ्याम् । ‘यस्य देवे परा भक्तिः यथा देवे तथा गुरौ (श्वे.उ.६-२३) इत्युक्तरीत्या देवगुरुभक्तिभ्याम्, त्रिभिः – बाल्यपाण्डित्यमौनै: अष्टभिः योगाङ्गैश्च……? सहितस्सन् तत्त्वेन परमात्मना शेषत्वज्ञानलक्षणयोगं प्राप्य प्रारब्धत्वगुणयुक्तानि कर्माणि अवलम्ब्य वर्तमानान् सर्वान् भावान् – कामान् स्वस्मै विनियोजयति – भुङ्क्ते । स तेषां – कर्मफलभोगानाम् अवसाने फलाय वर्गितया कर्मणां नाशात्, ‘तस्य तावदेव चिरम्’ (छां.उ.६-१४-२) इत्युक्तरीत्या कर्मक्षये ब्रह्म याति – प्राप्नोति । स तत्त्वत: परमात्मनोऽन्य एव । अतो नैक्यशङ्का कार्येति भावः ।। ३,४ ।।
[कर्मणां विनियोगः]
आदिः स संयोगनिमित्तहेतुः
परस्त्रिकालादकलोऽपि दृष्टः ।
तं विश्वरूपं भवभूतमीड्यं
देवं स्वचित्तस्थमुपास्य पूर्वम् ।। ५ ।।
स वृक्षकालाकृतिभिः परोऽन्यो
यस्मात् प्रपञ्चः परिवर्ततेऽयम् ।
धर्मावहं पापनुदं भगेशं
ज्ञात्वात्मस्थममृतं विश्वधाम ।। ६ ।।
परमात्मोपासनमपि स्वात्मोपासनपूर्वकं कर्तव्यम् इत्याह – आदिरिति । सः पूर्वमन्त्रोक्तजीवः संयोगे समीचीनपरमात्मयोगे तत्प्राप्तौ आदिकारणम् – प्रधान-हेतुरिति यावत् – कालत्रयपरिच्छिन्नात् परत्वेन भिन्नत्वेन निरवयवत्वेन शास्त्रदृष्टः । तं कर्मवशात् अनन्तशरीरं भवभूतं – भवं – संसारं भूतं – प्राप्तम् – संसारिणमिति यावत् । ईड्यं स्तुत्यम् । अपहतपाप्मत्वादिगुणकमिति यावत् । अत एव देवं. द्योतमानं स्वप्रकाशज्ञानानन्दरूपं प्रथमत उपास्य, स वृक्षेति । यस्मादयं चिदचित्प्रपञ्च; परिवर्तते, स वृक्षकालाकृतिभ्यः परः उत्कृष्टः – वृक्ष ‘शब्देन छेदनार्हप्रकृतिप्राकृतमुच्यते – आसमन्तात् कृतिः यत्नो यस्येति आकृतिः कर्ता जीवः । प्रकृतिकालजीवेभ्यः उत्कृष्ट इत्यर्थः । ज्ञानोत्पत्तिप्रतिबन्धकपापानि अपनुद्य तदनुकूलपुण्यप्रवर्तकम्, ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा’ ।। (वि.पु.६-५-७४) इत्युक्तानां ज्ञानादीनामीश्वरं विश्वस्य धाम – भूतमाधारभूतं मरणाद्यवद्यशून्य स्वात्मनि अन्तर्यामितया वर्तमानं ज्ञात्वा मुक्तो भवतीत्यर्थः ।। ५,६ ।।
[ज्ञानिनां तत्त्वानुभवः]
तमीश्वराणां परमं महेश्वरं
तं देवतानां परमञ्च देवतम् ।
पति पतीनां परमं परस्तात्
विदाम देवं भुवनेशमीड्यम् ।। ७ ।।
तमीश्वराणामिति । विदाम इति ज्ञानप्रार्थना । शिष्टं स्पष्टम् ।। ७ ।। न तस्य कार्य करणञ्च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते ।
स्वाभाविकी ज्ञानबलक्रिया च ॥८॥
न तस्येति । कार्य शरीरम् । करणम् – इन्द्रियम् । ज्ञानबलाभ्यां संहिता सृष्टिसंहारादिलक्षणक्रिया ज्ञानबलक्रिया‘ । शिष्टं स्पष्टम् ।। ८ ।।
न तस्य कश्चित पतिरस्ति लोके
न चेशिता नैव च तस्य लिङ्गम् ।
स कारणं करणाधिपाधियो
न चास्य कश्चिज्जनिता न चाधिप: ।। 9 ।।
न तस्य कश्चिदिति लिङ्गं – ज्ञापकहेतुः । करणाधिपो जीव: शेषमतिरोहितार्थम् ।
[मुक्तये प्रार्थना]
यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः ।
देव एकः समावृणोति स नो दद्याद् ब्रह्माप्ययम् ।। १० ।।
यस्तन्तुनाभ इति । लूताख्यः कीटविशेषः स्वसंनिहितजन्तुविशेषं यथा तन्तुभिः आवृणोति, एवं प्रकृतिजैः प्राकृतैः तत्त्वैः स्वभावतः स्वेच्छातः चिद्वर्गमावृणोति लुप्तज्ञानं करोति (यः?) स देवोऽस्माकं ब्रह्मणि अप्ययमात्यन्तिकं लयं करोतु मुक्तस्य ब्रह्मण्यप्ययो नाम भेदकाकारास्फुरणम् ।। १० ।।
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ।। ११ ।।
एको देव इति । इतराविदिततया वर्तमानः, सर्वव्यापितया सर्वभूतात्मा तच्छरीरेष्वनुप्रविष्टः, कर्मसु प्रेरकः, चेता – ‘चिञ् चयने’ (धा.पा.१२५२) इति हि धातुः – सकलप्रपञ्चनिर्माता, त (अ) थापि गुणत्रयवश्यत्वाभावात् (च?) केवलोदासीनः, ईशः (?) ‘अपहतपाप्मा दिव्यो देव एको नारायणः’ (अध्यात्म,उ.१) इति प्रसिद्धो दिव्यो देव एक एव इत्यर्थः ।। ११ ।।
एको वशी निष्क्रियाणां बहूना–
मेकं बीजं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां सुखं शाश्वतं नेतरेषाम् ।। १२ ।।
एको वशी इति । निष्क्रियाणां स्वतः प्रवृत्तिरहितानां सर्वचेतनानां वशी – स्वाधीनसर्वचेतनवर्ग इति यावत् – एकं जगबीजमव्यक्तलक्षणं महदहङ्कारादिरूपेण यो बहुधा करोति, तं स्वान्तर्यामिणं ये जानन्ति; त एव मुक्ता भवन्ति इत्यर्थः ।। १२ ।।
‘नित्यो नित्यानां चेतनश्चेतनाना
मेको बहूनां यो विदधाति कामान् ।
तत्कारणं सांख्ययोगाधिगम्यं
ज्ञात्वा देवं मुच्यते सर्वपाशैः ।। १३ ।।
नित्य इति । अनित्यानां चेतनानां बहूनां नित्य एक एव चेतनस्सन् (यः?) कामान् विदधाति, तज्ज्ञानं मुक्ति (हेतु?) रित्यर्थः । अत्र नित्यचेतनानाम् अनित्यत्त्वम् धर्मभूतज्ञानसंकोचादिधर्मयोगादिति द्रष्टव्यम् । नित्यानां मध्ये नित्यः अत्यन्तनित्यः, चेतनानां मध्ये चेतन: परमचेतनः इत्यर्थाश्रयणेऽपि न दोषः । नित्यत्वं चेतनत्वतारतम्यञ्च विवक्षाविशेषेण द्रष्टव्यम् । सांख्ययोगाधिगम्यं – सांख्य योगशास्त्रयोः तात्पर्यविषयभूतम् । ‘सांख्यं योग: पाञ्चरात्रं वेदः पाशुपतं तथा । आत्मप्रमाणान्येतानि’ (महा.भा.शां.प.३५०-१) इत्युक्तेरिति भावः ।। १३ ।।
‘न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनु भाति सर्वं
तस्य भासा सर्वमिदं विभाति ।। १४ ।।
न तत्रेति । अयं मन्त्रः अन्यत्र बहुकृत्वो व्याकृतः ।। १४ ।।
एको हँसो भुवनस्यास्य मध्ये
स एवाग्निः सलिले संनिविष्टः ।
तमेव विदित्वाऽति मृत्युमेति
नान्यः पन्था विद्यतेऽयनाय ।। १५ ।।
एक इति । भुवनस्य चिदचित्प्रपञ्चस्य मध्ये, पक्षिसंघे राजहंसवत् विराजमानः । ‘यमन्तस्समुद्रे कवयोः वदन्ति’ (तै.ना.१-३) इति समुद्रसलिलसंनिविष्टः स एव अग्नि: – अग्रनेता मोक्षप्रदः संसारपाशदाहकः इति वार्थः । शिष्टं स्पष्टम् ।। १५ ।।
स विश्वकृत् विश्वविदात्मयोनिर्ज्ञ:
कालकालो गुणी सर्वविद्यः ।
प्रधानक्षेत्रज्ञपतिर्गुणेश:
संसारमोक्षस्थितिबन्धहेतुः ।। १६ ।।
स विश्वेति । विश्वकृत् – सर्वकर्ता, विश्ववित् – सर्व प्राप्तः, ‘विद्लृ लाभे’ (धा.पा.१४३३) इति हि धातुः आत्मयोनि: – आत्मा योनिः स्थानं यस्य स तथोक्तः । जीवान्तर्यामीत्यर्थः । ज्ञः–सर्वज्ञ: कालकालः कालस्यापि नियन्ता; सर्वविद्यः सर्वविद्याप्रवर्तकः, प्रधानक्षेत्रज्ञपति: – प्रकृतिजीवयोः शेषी, गुणेश: – ज्ञानादिषाड्गुण्यपरिपूर्णः, संसारस्य – प्रकृतिसम्बन्धलक्षणस्य मोक्षे च तत्स्थितौ च हेतुरित्यर्थः ।। १६।।
स तन्मयो ह्यमृत ईशसंस्थो
ज्ञः सर्वगो‘ भुवनस्यास्य गोप्ता ।
य ईशेऽस्य जगतो नित्यमेव
नान्यो हेतुर्विद्यत ईशनाय ।। १७ ।।
स तन्मय इति । सः परमात्मा तन्मयः – तत्प्रचुरः । तदात्मक एव; नान्यात्मकः । अनन्यप्रेर्य इति यावत् । अमृतः असंसारी । ईशे – ईशनव्यापारे सम्यक् स्थितिः यस्येति तथोक्तः । य ईशे–यो नित्यमीष्टे । यस्य च ईशनम् अनन्यहेतुकं नित्यम् । मोक्षदशायामप्यनपायी इत्यर्थः । शिष्टं स्पष्टम् ।। १७ ।।
[भगवच्छरणागतिः]
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदाँश्च प्रहिणोति तस्मै ।
तँ ह देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै‘ शरणमहं प्रपद्ये ।। १८ ।।
‘पुरुषान्नपरं किञ्चित् सा काष्ठा सा परा गतिः’ (कठ.उ.३-११) इति वशीकार्य- परम्परा विश्रान्तिभूमिभूतभगवद्वशीकरणोपायभूतप्रपदनमन्त्रमाह – यो ब्रह्मणम् इति । य: स्वनाभिपद्मे ब्रह्माणमुत्पाद्य तस्य वेदप्रदानेन जगत्सर्गशक्तिमहितवान्, तं स्वविषयबुद्धि- प्रकाशहेतुं मुमुक्षुः अहं शरणं प्रपद्ये इत्यर्थः । आत्मबुद्धेः प्रकाशो यस्मात् स आत्मबुद्धि– प्रकाशः । तद्विषयबुद्धिस्फुरणस्य तदनुग्रहायतत्वात् इत्यर्थः ।। १८ ।।
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्।
अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्।।१९।।
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवा:।
तदा देवमविज्ञान दु:खस्यान्तो भविष्यति।।२०।।
उक्तब्रह्मज्ञानाभावे मोक्षसंभावनैव नास्तीत्याह – निष्कलमिति मन्त्रद्वयेन । आकाशस्य चर्मकटादिवत् वेष्टनं यदा अल्पशक्तयो मनुष्याः करिष्यन्ति, तदा निष्कलं – निरवयवं निष्क्रियं – कृतकृत्यं शान्तम् – अशनायाधूर्मिषट्करहितं निरवद्यम् आश्रितपराङ्मुखत्यावद्यरहित निरञ्जनम् – असङ्गस्वभावम् अमृतस्य मोक्षस्य परं – मुख्यं सेतुं दग्धेन्धनानलवत् स्वप्रकाशकं देवमविज्ञाय दुःखस्य नाशो भवति । यथा आकाशस्य चर्मवत् वेष्टनमसंभावितम्, एवं परमात्मज्ञानमन्तरेण मोक्षोऽसंभावित इत्यर्थः ।। १५,२० ।।
तपः प्रभावाद्देवप्रसादाच्च
ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् ।
अत्याश्रमिभ्यः परमं पवित्रं
प्रोवाच सम्यगृषि संघजुष्टम् ।। २१ ।।
तप इति । ‘मनसश्चेन्द्रियाणाञ्च ऐकाग्र्यं परमं तपः’ () इत्युक्तचित्तैकाग्र्यलक्षणतपः प्रभावाच्च (त् परमात्मानुग्रहाच्च?) संपन्नब्रह्मविज्ञान; श्वेताश्वतरनामा ऋषिः अत्याश्रमिभ्यः ‘अति पूजायाम्” (धा.पा.६१) पूज्याश्रययुक्तेभ्यः परमहंससन्यासिभ्यः ऋषिसंधैः वामदेवादिभिः जुष्टं – सेवितं परमं पवित्रं ब्रह्म प्रोवाच इत्यर्थः ।। २१ ।।
[ब्रह्मविद्याधिकारनिरूपणम्]
वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् ।
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ।। २२ ।।
वेदान्त इति । वेदान्तेषु अतिरहस्यतया निगूढं पुराकल्पे ब्रह्मणे उपदिष्टमेतत् विज्ञानं शान्तेभ्यः पुत्रेभ्यः शिष्येभ्य एव प्रब्रूयात् नान्येभ्यः इत्यर्थः ।। २२ ।।
यस्य देवे परा भक्तिः यथा देवे तथा गुरो ।
तस्यैते कथिता हार्था: प्रकाशन्ते महात्मनः ।।
प्रकाशन्ते महात्मनः इति ।। २३ ।।
।। इति षष्ठोऽध्यायः ॥
।। श्वेताश्वतरोपनिषत् समाता ।।
भगवद्विषये गुरुविषये च उत्कृष्टभक्तिशून्यानाम् उक्तार्था उपदिष्टा अपि दर्शाना इत्याह – यस्य देवे इति । यस्य भगवत्युत्कृष्टा भक्तिः तत्तुल्या गुरावपि भक्तिः, तस्यैव महात्मनः एते अर्था भासन्ते। नेतरेषामित्यर्थः । द्विरुक्तिरध्यायसमात्यर्था (आदरार्था च)। एतदध्यायान्तर्गतवाक्यविषयमधिकरणं लिख्यते – तृतीयाध्याये उभयलिङ्गपादे वेदान्ते जगत्कारणतया प्रतिपाद्यमानस्यात्मनः, ‘अथ च आत्मा स सेतुर्विधृतिः’ (छां.उ.८.४.१) इति सेतुत्वश्रवणात् सेताश्च प्राप्यान्तरप्रापकत्वस्यैव दर्शनेन ब्रह्मणोऽपि प्राप्यान्तरप्रापकतैव (प्रतीयते); न तु स्वयं प्राप्यता । किञ्च – ‘एते सेतुं तीर्त्वा’ इति तरितव्यत्वाभिधानेन एतस्य प्राप्यत्वाभावाविष्करणात् वेदान्तेषु, ‘चतुष्पात् ब्रह्म षोडशकलम्’ (छां.उ. ३-८-२) इत्युन्मानश्रवणात् नेदमपरिमितम्, अपरिमितस्पोन्मानासंभवात् । अतो वेदान्तेषु अपरिमितत्वेन प्रतीयमानमन्यदेवेति प्रतीयते । किञ्च • ‘अमृतस्य परं सेतुम्’ (श्वे.उ.६-१९) इति अमृतस्य वस्त्वन्तरस्य प्राप्यतापकत्वलक्षणः सम्बन्धः षष्ठ्या प्रतीयते । न हि स्वस्मिन्नेव प्राप्यप्रापकत्वलक्षणः सम्बन्धः संभवति । किञ्च – ‘तेनेदं पूर्णं पुरुषेण सर्व’ (श्वे.उ.३-९)मिति प्रतिपादितपुरुषादपि, ‘ततो यदुत्तरतरम्’ (श्वे.उ.३-२०) इत्यधिकृत्य निर्देशात् परस्मादपि ब्रह्मणः परमन्यत् व्यपदिश्यते । अत एभ्यो हेतुभ्यः परस्मादपि ब्रह्मणः अन्यत् परमभ्युपगन्तव्यमिति, ‘परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः’ (ब्र.सू.३-२-३०) इति सूत्रेण पूर्वपक्षे प्राप्ते उच्यते । ‘सामान्यात्तु’ (ब्र.सू.३-२-३१) । ‘य आत्मा सेतुः’ इति व्यपदेशः, ‘एषां लोकानामसभेदाय’ (छां.उ.८.४-२) इति वाक्यशेषश्रुतासंकरकारित्वलक्षण- धर्मसामान्यनिबन्धनः। ‘एतं सेतुं तीर्त्वा’ (छां.उ.८-४-२) इत्यत्र तरतिश्च प्राप्तिवचनः, वेदान्त तरतीतिवत्। नोल्लङ्घनवचनः । यदुक्तम् उन्मानव्यपदेशादस्य परिमितत्वं प्रतीयत इति, तत्राह – ‘बुद्ध्यर्थः पादवत्’ (ब्र.सू.३-२-३२) । यथा ‘मनो ब्रह्मत्युपासीतेत्यध्यात्मम्’ (छां.उ.३-१८-४) ‘तदेतच्चतुष्पाद् ब्रह्म वाक् पाद:, प्राणः पादः, चक्षुः पादः, श्रोत्रं पादः इत्यध्यात्मम्’ (छां.उ.३-१८-२) इत्यत्र ब्रह्म प्रतीकभूतमन आदौ वागादिपादत्वव्यपदेश उपासनार्थः, न तु तात्विकः, मनसो वागादिपादत्वासम्भवात् – एवम् अपरिच्छिन्नस्य ब्रह्मणः ‘प्राची दिक् कला, प्रतीची दिक् कला, दक्षिणा दिक् कला, उदीची दिक् कला । एष वै सोम्य चतुष्कल: पादो ब्रह्मणः प्रकाशवान् नाम’ (छां.उ.४-५-२) इत्युक्तदिगादिलक्षणचतुष्कल- पादसम्बन्धासम्भवात् उपासनार्थ एव । ननु स्वयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मान प्रतीतिः? तत्राह, ‘स्थानविशेषात् प्रकाशादिवत्’ (ब्र.सू.३-२-३३) । यथा प्रकाशाकाशादेरपरिच्छिन्नस्यापि वातायनाद्यपाधि- वशेन परिच्छिन्नत्वाऽनुसन्धानम्, एवम् इहापि अभिव्यक्तिस्थानभूतप्रा (वा?) गाद्युपाधिवशेन उन्मितत्वानुसन्धानमुपपद्यते ।
यदुक्तम्, ‘अमृतस्य परं सेतुम्’ इति सम्बन्धव्यपदेशे अमृतात् भेदोऽवगम्यत इति तत्राह – उपपत्तेश्च (ब्र.सू.३-२-३४) । ‘यमेवैष वृणुते तेन लभ्यः’ (मुं.उ.३-२-३) इति स्वप्राप्तेः स्वयमेव साधनतया जोघुष्यमाणे ब्रह्मणि स्वेनैव प्राप्यप्रापकत्वलक्षण- सम्बन्धव्यपदेशस्यापि नानुपपत्तिः । यदुक्तम् – ‘ततो यदुत्तरतरम्’ इति अधिकं वस्तु प्रतिपाद्यते इति, तत्राह ‘तथान्यप्रतिषेधात्’ (ब्र.सू.३-२-३५) ‘यस्मात् परं नापरमस्ति’ (श्वे.उ.३-९) इति तदतिरिक्तोत्कृष्टवस्तुनो निषेधेन तद्विरुद्धतया, ततो यदुत्तरतरम् इति वाक्ये तदधिकवस्तूपक्षेपासम्भवात्, ततो यदुत्तरतरम्’ इत्येतत् पूर्वोप (पूर्वप्रति) पादितस्य पुरुषपारम्यस्य उपरि उपसंहाररूपम् । एतच्च पूर्वत्र तन्मन्त्रव्याख्यायां स्पष्टीकृतम् ।। अनेन ‘सर्वगतत्वमायामशब्दादिभ्यः’ (ब्र.सू.३-२-३६) । अनेन – ब्रह्मणा सर्वगतत्वं – सर्वस्य जगतो व्याप्तत्त्वम् आयामशब्दादिभ्योऽवगम्यते । आयामशब्दस्तावत् ‘तेनेदं पूर्णं पुरुषेण सर्वम् अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ (तै.ना.११) इत्यादि । आदि शब्देन, ‘ब्रह्मैवेदं सर्वम्’ (मुं.उ.२-३-११) इत्यादयो गृह्यन्ते । अतो न परब्रह्मणोऽन्यत् प्राप्यमस्तीति स्थितम् ।।
अस्याश्च उपनिषदः कृत्स्नाय भगवत्परत्वं सर्वव्याख्यानाधिकरणे व्यासार्यै: समर्थितम् । तदुच्यते । प्रथमद्वितीयखण्डयोः, ‘देवात्मशक्तिम्’ ‘व्यक्ताव्यक्तं’ ‘भरते विश्वमीशः ‘यदात्मतत्वेन तु ब्रह्मतत्वम्’, ‘ज्ञात्वा देवम्’, ‘एष हि देवः प्रदिशोऽनु सर्वाः’ इति देवात्मेशब्रह्मशब्दैः परमात्मा निर्दिश्यते । ते च शब्दाः ‘अपहतपाप्मा दिव्यो देव एको नारायणः’ (अध्यात्म.उ.१) ‘विश्वं नारायणं देवम् आत्मा नारायणः परः’ (तै.ना.उ) ‘अङ् गुष्ठमात्रः पुरुषोऽङ् गुष्ठञ्च ममाश्रितः । ईशः सर्वस्य जगतः’ (कठ.उ.४-१२) ‘येनाक्षरं पुरुष वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’ (मुं.उ.१-२-१३) इत्यादिवाक्यगत नारायणप्रत्यभिज्ञापकाः । अत्रेशशब्दश्च न रूढ्या प्रयुक्तः अपि तु गुणयोगात् । अनीशश्चात्मा, ‘ज्ञाज्ञौ द्वावजानीशौ, (श्वे.उ.१-९) ‘ईशः सर्वस्य’ इति निर्देशस्य सप्रतिसंबन्धितया अवयव (वार्थ) विवक्षाज्ञापकत्वात् ।। अनन्तश्चात्मा विश्वरूपो ह्यकर्ता इत्यत्रानन्तशब्दो योगरूढः । रूढ्यविवक्षानिमित्तसप्रतियोगिकनिर्देशाभावात् । तृतीये च खण्डे, ‘य एतद्विदुरमृतास्ते भवन्ति’ (श्वे.उ.३-१) इत्यनेन ‘अम्भस्य पारे’ (महा.ना.१) इत्यनुवाकः प्रत्यभिज्ञाप्यते । स हि परमपुरुष विषयः । एवमुपक्रमो भगवत्परः । एको हि रुद्र इत्यस्यानन्तरम्, ‘विश्वतः चक्षुरुत विश्वतोमुखः’ इति मन्त्रश्च भगवत्प्रत्यभिज्ञापकः । तस्य विद्युद्वर्णपुरुषविषयत्वात् । ‘द्यावाभूमी जनयन् देव एकः’ (ऋ.वे.१०-८१-३) इति च, ‘शीर्ष्णो द्यौः समवर्तत पभ्द्यां भूमिः’ (ऋ.वे.१०-९०-१४) इत्यस्य प्रत्यभिज्ञापकम् । ‘यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भ जनयामास पूर्वम्’ (श्वे.उ.३-४) इत्येतत्तु यच्छब्दयोगात् अनुवादरूपतया प्रमाणान्तरसापेक्षतया दुर्बलम् । इदं रुद्रस्य ब्रह्मचशतपथब्राह्मणावगत-हिरण्यगर्भजन्यत्वविरोधि हिरण्यगर्भजनकत्वं न प्रतिपादयितुं प्रभवति । ब्रह्मचे ‘तदिदास भुवनेषु ज्येष्ठं यतो जज्ञे उग्रस्त्वेष नृम्णः । सद्यो जज्ञानो निरिणाति शत्रून्’ (ऋ.वे.१०-१२०-१) इति हिरण्यगर्भस्रष्ट्त्वं रुद्रशब्दरूढ्यर्थस्य प्रतिपाद्यते । सुबालोपनिषदि, ‘ललाटात् क्रोधजो रुद्रः’ (सुबा.उ.२-१) इति नारायणात् उत्पन्नत्वं प्रतीयते; महोपनिषदि ‘सोऽन्यं कामं मनसा ध्यायीत । त्र्यक्षः शूलपाणिः पुरुषोऽजायत’ इति । नारायणोपनिषदि ‘नारायणाद्रुद्रो जायते’ (ना.उ.१) इति । बृहदारण्यके, ‘ब्रह्म वा इदम्’ (बृ.उ.३-४-११) इति ब्रह्म प्रस्तुत्य, ‘इन्द्रो वरुणः सोमो रुद्रः पर्जन्यः’ (बृ.उ.३-४-११) इति इन्द्रादि तुल्यतया रुद्रस्यापि ब्रह्मणः सकाशादुत्पत्तिः प्रतिपाद्यते । शतपथे अष्टमूर्तिब्राह्मणे, ‘भूतानां च प्रजापतिः संवत्सरमुषसि रेतोऽसिञ्चत् । संवत्सरे कुमारोऽजायत । सोऽरोदीत् । तं प्रजापतिरब्रवीत्, कुमारः। किं रोदिषीति । सोऽब्रवीत्, अनपहतपाप्मा वा अहमस्मीति अनाहितनाम् नाम मे धेहि पाप्मनोऽपहत्या’ इति । तं पुनः प्रजापतिरब्रवीत्, ‘रुद्रोऽसीति’ () इत्यादिना रुद्रस्य चतुर्मुखजन्यत्वम् अनपहतपाप्मत्वादिकमावेद्यते । तथा शैलालिब्राह्मणे चतुर्मुखस्रष्टत्वं रुद्रस्य प्रतिपाद्यते । साम्नि च विरूपाक्षाय दन्ताञ्जये (दत्ताञ्जलये) ब्रह्मणः पुत्राय इति ब्रह्मणः त्रत्वं प्रतीयते । सोऽब्रवीत् । वरं वृणौ । अहमेव पशूनामधिपतिरसानीति । तस्माद्रुद्र: पशूनाम् अधिपतिः इति वरदानलब्धपशुपतिं भावः श्रूयते, विष्णुरेवा(ष)ऽस्य प्रभृधे हविर्भि: विधेहि रुद्रियं महत्त्वम् (गी.सं.र.) इति विष्ण्वाराधनलब्धमहिमत्वं रुद्रस्य श्रूयते । अतो हिरण्यगर्भजन्यत्वेन, नारायणजन्यत्वेन च अनपहतपाप्मत्वेन, कर्माधीन ऐश्वर्यवत्त्वेन च श्रुतस्य रुद्रस्य तद्विरुद्धहिरण्यगर्भजनकत्वस्य अवताररूपोत्पत्तिरिति विरोधपरिहरास्य वा असम्भवात् । कल्पभेदेन एकस्यैव रुद्रस्य हिरण्यगर्भरूपात् स्वस्मादुत्पत्ति: कल्पान्तरे रुद्ररूपात् तस्मात् हिरण्यगर्भरूपतयोत्पत्तिरिति कल्पनस्यापि; कार्यत्वेन कर्मवश्यत्वेन (च?) प्रतिपादिते तस्मिन्नसम्भवात् । इन्द्रादीनामपि तथात्वापाताञ्च । तस्य विश्वाधिकत्वरूप-विशेषणासम्भवाञ्च । ततश्च रुद्र शब्दस्य कार्यरुद्रव्यतिरिक्तविषयत्वे सति, अस्य वाक्यस्य अनुवादरूपतया, ‘नारायणाद् ब्रह्मा जायते’ इत्यादि योग्यार्थप्रापक- वाक्यानुगुण्येन भगवत्परत्वनिश्चयः । रुद्रस्य हिरण्यगर्भजनकत्वाभावेन रूढ्यर्थत्यागे स्वीकार्ये हिरण्यगर्भशब्दस्य रूढिं परित्यज्य स्कन्दपरत्वमाश्रीयतां, प्रसिद्धस्य रुद्रस्य स्कन्दजनकत्वसम्भवात् इत्यपि शङ्का निरस्ता, विश्वाधिकत्वादिविशेषणानां रुद्रे असम्भवात् अतो रुद्रशब्दो भगवत्परः, ‘रुद्रो बहुशिराः’ (स.ना.११५) इति सहस्रनामपाठात् ।।
‘या ते रुद्र शिवा तनू’ रित्यस्यानन्तरम्, ततः परं ब्रह्म परं बृहन्तमिति वाक्यम्, ‘नारायणः परं ब्रह्म’ (महा.उ.९-४) इति महोपनिषत्प्रत्यभिज्ञापकम् । ईशं तं ज्ञात्वा अमृता भवन्ति इत्यत्र ईशशब्दः पूर्ववत् योगिकः । वैरूप्यायोगात् । वेदाहमित्यनन्तरवाक्यस्य एतच्छब्दः पूर्वरुद्रशब्दवाच्यस्य महापुरुषत्वमवगमयति । प्रकृतपरामर्शित्वात् । ‘ततो यदुत्तरमिति’ वाक्यमपि, ‘परमतः सेतून्मान’ (ब्र.सू.३-२-३०) इत्यत्रोपपादितरीत्या प्रकृतोपसंहारपरम् । सर्वाननशिरोग्रीवत्वञ्च पुंसूक्तार्थस्मारकम् । सर्वव्यापिपदं तु, व्याप्य नारायणः इत्येतत् स्मारयति । भगवच्छब्दस्तु, भगवान् पवित्रं वासुदेवः पवित्रम्, परं पवित्रं भगवान् वासुदेवः ये भगवन्तं वासुदेवमेवं विदुः इति वासुदेवासाधारणः ।
अत एव हि स्मर्यते, ‘एवमेष महाशब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः’ ।। (वि.पु.६-५-७६) इति । सत्त्वस्यैष प्रवर्तकः इति सत्त्वप्रवर्तकत्वं च भगवत इति स्थितम्। ‘यो ह खलु वा अस्य सात्त्विकोंशः सोऽसौ ब्रह्मचारिणः योयं विष्णुः’ (३-२) इति मैत्रायणीश्रुतेः । ‘अङ् गुष्ठमात्रः पुरुषोऽन्तरात्मेति अन्तरात्मत्वञ्च सुबालोपनिषत्प्रत्यभिज्ञापकम् । हृदा मनीषा इति तु विद्युद्वर्णपुरुषस्मारकम् । अनन्तरम्, ‘सहस्राशीर्षा’ इत्यादि पुरुषसूक्तमन्त्रद्वयमधीतम् । ‘सर्वस्य प्रभुमीशानम्’ इत्येतत् नपुंसकत्वात् यौगिकमेव । न तु रूढम्; पुल्लिङ्गताप्रसंगात् । ‘सर्वस्य शरणं सुहृत्’ इत्येतत्तु, ‘निवासः शरणं सुहृद्गतिर्नारायणः’ इति श्रुतिप्रत्यभिज्ञापकम् । ‘तमाहुरग्र्यं पुरुषं महान्त’मिति महापुरुष एव स्पष्टमुक्तः । धातृशब्दमपि महापुरुषशब्देन ऐकार्थयति अणोरणीयानिति मन्त्रः । चतुर्थे च खण्डे, ‘द्वा सुपर्णा’ इत्यादिवाक्यद्वयम् मुण्डकोपनिषदैकार्थ्यात् परमपुरुषपरम् । अत: ‘मायिनं तु महेश्वरम्’ (श्वे.उ.) इत्यत्र महेश्वरशब्दो मायाप्रेरकत्वपरः ।
सर्वलोकमहेश्वरम् (भ.गी.५-२९) ‘क्षीरोदस्योत्तरे तीरे जग्मुर्लोकहितार्थिनः’ ( ) इत्यारभ्य ‘ततः स्वस्थो महेश्वरः’ ( ) इत्यादिषु महेश्वरशब्दो भगवति प्रयुक्तः । ‘येनेदं सं च वि चैति सर्वम्’ इति प्रकृतं सर्वस्य नियन्तृत्वमेव तमीशानं वरदमित्यत्रोच्यते । पूर्वम् ‘अङ् गुष्ठमात्रः पुरुषोऽन्तरात्मा’ इति पुरुषस्योक्तत्वात् । तत्र च, ‘ईशानो भूतभव्यस्य’ इति श्रुत्यन्तरप्रसिद्धेशानशब्दस्य प्रतिसम्बन्ध्यभिधानेन रूढिविरहावगमात् भूतभव्यशब्द- निर्दिष्टस्यैवेह सर्वशब्दप्रतिपन्नत्वाञ्च तद्वदेव रूढितिरहः सिद्धः । य ईशोऽस्य द्विपदश्चतुष्पदः त (क) स्मै देवाय हविषा विधेम’ इत्यत्र हिरण्ययगर्भ इत्यष्टर्चतुल्यविषयत्वं प्रतीयते । तञ्च भगवत्परमित्युपपादितम् । एवं भगवत्परानेकोपनिषदेकार्थ्यप्रतीतेः, ज्ञात्वा शिवम्, शिव एव केवल: इति शिवशब्दद्वयं तत्परम् । एवं मुहुरभ्यस्यमानस्यापि शिवशब्दस्य, आकाशं प्रत्यस्तं यन्ति, आकाशो ह्येवैभ्यो ज्यायान् इत्यत्र अभ्यस्ताकाश (शब्द?) स्येव रूढार्थत्याग उपपन्नः । किञ्च सर्वव्यापी च भगवान् तस्मात् सर्वगताः शिवः इत्ययं शिवशब्दः प्राकरणिकशिवशब्दानां माङ्गल्यपरत्वमेव सूचयति । सर्वगतत्वेऽपि भगवच्छब्दवाच्यत्वात् निर्दोष इति हि तस्य वाक्यस्यार्थः । अन्यथा सर्वव्यापिसर्वगतपदयोः पुनरुक्तिप्रसंगात् । ‘तदक्षरं तत् सवितुर्वरेण्यम्’ इत्यनेन ‘अक्षरं प्रभुम् तत्सवितुर्वरेण्यं ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधारं धाम’ ( ) इति श्रुतिद्वयैकार्थ्यमवगम्यते । ‘हृदा मनीषा’ इति वाक्यम्, ‘नैनमूर्ध्वं न तिर्यञ्चमि ति मन्त्रद्वयमध्यगतवाक्यस्थ शिवशब्दस्य परमपुरुषविषयतां गमयति । तद्धि त्रयं रुद्रान्तर्वतिविद्युद्वर्णपुरुषविषयम् । अतः, मा न स्तोक इति मन्त्रस्थ रुद्रशब्दोऽप्यवयवशक्त्या अपर्यवसानवृत्त्या वा भगवद्विषयः ।
(अत:?) पञ्चमखण्डे, भावाभावकरं शिवमिति शिवशब्दो व्याख्यातः ।। षष्ठे च – यः कालकाल: इति कालस्यापि परिच्छेदकः काल उक्तः । नायमन्तकः । भगेशमित्यनेनापि भगवच्छब्दवाच्यानामेश्वर्यादीनां षण्णामीश्वरत्वमेव प्रतीयते । ऐश्वर्य- निरङकुशमेवोक्तम्, ‘तमीश्वराणां परमं महेश्वर मिति । ईश्वराणामिति प्रतिसम्बन्धिनिर्देशात् महेश्वरपदे रूढिर्न शक्यशङ्का । देवतानां परमं च दैवतमित्यनन्तरनिर्देशवत् । तद्धि वाक्यं देवतापारम्यपरम् । तत्र च दैवतप्रतिशब्दो न क्वचित् देवताविशेष रूढौ । तत्स्थानीयश्च महेश्वरशब्दः । अतो न रूट्युन्मेषः । ‘न तत्समश्च’, ‘परास्य शक्तिः’ इत्यादिभिश्च तत्पारम्योपपादनात् । ‘एको देवः, एको नारायणः’ इत्यनेनेकार्थ्यात् । न तत्र सूर्यो भाति इति मन्त्रश्च कठवल्ल्यधीतत्वात् विष्णोः प्रत्यभिज्ञापकः । नान्यः पन्था इति, पुंसूक्तं स्मारयति । ईशादिशब्दानां यौगिकत्वम् ईशानत्वस्य निरुपाधिकत्वञ्च दर्शयति – स ईशोऽस्येति । यो ब्रह्माणं विदधाति पूर्वम्, शरणं प्रपद्ये, अमृतस्य परं सेतुं इति निर्देशाश्च नारायणत्वसाधकाः । य इत्यनुवादरूपत्वात्; ब्रह्मणो भगवन्नाभिसंभव(त्व)स्य प्रमाणप्रतिपन्नत्वात्; निवासः शरणं सुहृत् इति श्रुतेः, अमृतस्यैष सेतुः इति मुण्डके श्रवणात् । यदा चर्मवदाकाशम् इति वाक्यम् उपायान्तराभावपरम्, ‘नान्यः पन्था’ इत्युक्तार्थविवरणरूपम् । एवमुपक्रमोपसंहारादिभिः भगवत्परत्वावगमात् बहूपनिषच्छ्रुतयोग्यार्था – साधारणाभ्यस्त नारायणशब्दानुरोधेनैव नानार्थसाधारणैकैकोपनिषत्पठित योग्यार्थ- शिवादिशब्दानां नेयत्वाच्चास्या उपनिषदो भगवत्परत्वं सिद्धमिति ।।
क्षेमाय यः करुणया क्षितनिर्जराणां
भूमावजृम्भयत भाष्यसुधामुदारः ।
वामागमाध्वगवदावदतूलवातो
रामानुजः स मुनिराद्रियतां मदुक्तिम् ।।
।। इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवासमधिगत–
शारीरकमीमांसाभाष्यहृदयस्य परकालमुनिपादसेवासमधिगतपारमहंसस्य
श्रीरङ्गरामानुजमुनेः कृतिषु श्वेताश्वतरोपनिषत् प्रकाशिका सम्पूर्णा ।।