तैत्तिरीयोपनिषत्
[तैत्तिरीयारण्यके पञ्चमः प्रश्नः]
शिक्षावल्ली
प्रथमोऽनुवाकः
[उपक्रमशान्तिपाठः]
शं नो मित्रश्शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद् वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ओं शान्तिः शान्तिः शान्तिः ।।
।। इति प्रथमोऽनुवाकः ।।
प्रकाशिका
[श्री रङ्गरामानुजमुनिविरचिता]
[मङ्गलाचरणम्]
अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया ।
अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। १ ।।।
व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गरूनपि ।
तैत्तिरीयकवेदान्तविवृत्तिं करवाण्यहम् ।। २ ।।
परविद्यामारभमाणो विघ्नशान्त्यै देवता: प्रार्थयते – शं नः इति । सूर्यः वरुणः, अर्यमाख्यादित्यविशेषः, इन्द्रः, बृहस्पतिः, महता विक्रमाख्यपदविन्यासविशेषेण युक्तो विष्णुश्च सुखप्रदा भवन्तु इत्यर्थः ।
नम इति । नमो ब्रह्मणे वेदाय नम इत्यर्थः । वेदाक्षराभिव्यञ्जकवायुं प्रार्थयते – नमस्ते इत्यादिना । प्रत्यक्षं ब्रह्मेति – जगजीवनहेतुतया बृहत्वगुणशालित्वे वायुब्रह्मणोः अविशिष्टेऽपि (अविशेषेऽपि) वायोः प्रत्यक्षत्वं विशेष इति भावः । ऋतम् इति । ऋतत्वम् – अपभ्रंशराहित्यलक्षणं शब्दसत्यत्वम् । सत्यमिति । सत्यत्वञ्च यथावस्थितार्थकथनरूपमर्थसत्यत्वं इति न पौनरुक्तयम् । तन्माम् अवतु इति । अधीयमानं ब्रह्म अध्येतारं मामवतु । तद्वक्तारम् इति । अध्यापयितारं च विघ्नेभ्यो रक्षत्वित्यर्थः । तमेवार्थं भिन्नानुपूर्वकाभ्यां ताभ्यामेव पदाभ्याम् आदरातिशयात् प्रार्थयते – अवतु माम् । अवतु वक्तारम् इति । शान्तिः शान्तिः शान्तिः । विघ्नानाम् अस्त इति शेषः ।।
द्वितीयोऽनुवाकः
[शिक्षार्थसङ्ग्रहः]
शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः इत्युक्तः शीक्षाध्यायः ।। १ ।। (शीक्षां पञ्च) ।। २ ।।
।। इति द्वितीयोऽनुवाकः ।।
शीक्षां व्याख्यास्यामः इति । शिक्षाख्यवेदाङ्गस्य ‘वेदोपकारप्रकारो वर्ण्यत इत्यर्थः । शीक्षा इति दीर्घश्छान्दसः । वर्णः इति । वर्णास्त्रिषष्टिश्च चतुष्षष्टिश्शम्भुमते मताः (पा.शि.३) इत्युक्तरीत्या अकाराद्याः वर्णाः । स्वराः – उदात्तादयः । मात्रा: – एकमात्रो भवेद्धस्वः (याज्ञ.शि.१५) इत्युक्तहृस्वदीर्घादिभेदाः । बलम् – अल्पप्राणत्वमहाप्राणत्वादिलक्षणम् । साम – कृष्ट प्रथमादिलक्षणा: सप्तस्वराः । सन्तान: वर्णपदसंहितादिः । एतेषां ज्ञानं शिक्षाख्यवेदाङ्गसाध्यम् । ततश्च एतज्ज्ञानं ब्रह्मविद्योपयोगीत्यर्थः । इदमुपलक्षणं वेदाङ्गान्तराणामपि । इत्युक्तः शीक्षाध्यायः इति । अध्यायः – ग्रन्थविशेष:
शीक्षाख्यग्रन्थविशेषस्य उपयोगो वर्णित इत्यर्थः ।।
तृतीयोऽनुवाकः
[महासंहितोपासनम्]
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातस्सँहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासंहिता इत्याचक्षते । अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः ।। १ ।। वायुः सन्धानम् । इत्यधिलोकम् ।।
अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतस्सन्धानम्। इत्यधिज्यौतिषम् ।। अथाधिविद्यम् । आचार्यः पूर्वरूपम् ।। २ ।।
अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनँ सन्धानम् । इत्यधिविद्यम् ।। अथाधिप्रजम् । माता पूर्वरूपम् । पिता उत्तररूपम् । प्रजा सन्धिः । प्रजननँ सन्धानम् । इत्यधिप्रजम् ।। ३ ।।
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुः उत्तररूपम् । वाक् सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् ।।
[संहितोपासनाफलम्]
इतीमा महासँहिताः । य एवमेता महाँसँहिता व्याख्याता वेद । सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण’ लोकेन ।। ३ ।।
सन्धिराचार्यः पूर्वरूपमित्यधिप्रजं लोकेन ।।३।।
।। इति तृतीयोऽनुवाकः ।।
विद्याफलं गुरुशिष्योभयगतमस्त्विति गुरुशिष्यौ प्रार्थयेते – सह नौ इति । ब्रह्मवर्चसं यशश्च आवयोः सहास्तु इत्यर्थः ।
अथात इति । लोकज्योतिर्विद्याप्रजाशरीररूपेषु-पञ्चसु अधिकरणेषु संहिताशब्दितसन्धिविषयकरहस्योपदेशान् व्याकरिष्याम इत्यर्थः । अधिलोकम् । ‘विभक्तयर्थेऽव्ययम्’ इति सप्तम्यर्थे समासः । एवमुत्तरत्रापि । अधिज्यौतिषं अध्यात्मम् इत्यत्र अव्ययीभावे शरत्प्रभृतिभ्यः (पा.सू.५-४-१०७), अनश्च (पा.सू.५-४-१०८) इति समासान्तः टच् । लोकादिषु पञ्चस्वधिकरणेषु अध्यस्यमानाः संहिताः महासंहिताः महच्छब्दः पूज्यवचनः । पूज्या इत्यर्थः । अ+उ=ओ इति वर्णसंहितायां पूर्वापरौ वर्णौ पूर्वापररूपे, श्लिष्टोच्चारणलक्षणः, पर: संनिकर्षः संहिता (पा.सू.१-४-१०९) इत्युक्तः सन्धिः, तदनुकूलयत्नलक्षण: सन्धान इति संहितागतानां चतुर्णामवयवानां लोकादिषु पञ्चस्वधिकरणेषु दृष्ठिक्रमं दर्शयति – अथाधिलोकम् इत्यादिना । अधिलोकं उच्यत इति शेषः । अथशब्दो वाक्योपक्रमे । वायुः सन्धानम् इति । वायोः पूर्वोत्तरलोकसञ्चारिततया सन्धानत्वमिति भावः । इत्यधिलोकम् इति । उक्तमिति शेषः । एवमुत्तरत्रापि । अग्नि: इत्यादि । अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते (म.स्मृ.३-७६) इत्युक्तरीत्या आहुतिसम्बन्धे अग्नयादित्ययोः पूर्वोत्तरत्वम् । अब्लक्षणसंधे: वैद्युताग्नयधीनत्वात् वैद्युतस्य सन्धानत्वं द्रष्टव्यम् । आचार्य इत्यादि । विद्या – शिष्यगतज्ञानम् । प्रवचनम् . अध्यापनमित्यर्थः । मातेत्यादि । प्रजननम् – गर्भोत्पादनम् । अधरा इत्यादि । कपोलाध: प्रदेशोऽधराहनुः । ऊर्ध्वप्रदेशः उत्तरा हनुः । वाक् शब्द इत्यर्थः । एतज्ज्ञानस्य फलमाह – य एवम् इति । सन्धीयते – अन्वितो भवतीत्यर्थः । शिष्टं स्पष्टम् ।।
चतुर्थोऽनुवाकः
[मेधासिद्धये जपनीया: मन्त्रा:]
यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात् संबभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम् ।। शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् ।। ब्रह्मण: कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय ।। आवहन्ती वितन्वाना ।। १ ।।
[धनसाध्यहोमोपयिका: मन्त्राः]
कुर्वाणा चीरमात्मनः । वासाँसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा ।। आ मा यन्तु ‘ब्रह्मचारिणः स्वाहा । यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा समा भग प्रविश स्वाहा ।। २ ।।
[सच्छिष्यलाभाय प्रार्थना]
तस्मिन् सहस्रशाखे । नि भगाहं त्वयि मृजे स्वाहा । यथाऽऽप: प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा । प्रतिवेशोऽसि प्र मा पाहि प्र मा पद्यस्व ।।३।। वितन्वाना विशस्वाहा सप्त च ।। ४ ।।
।। इति चतुर्थोनुवाकः ।।
ब्रह्मविद्यार्थं प्रणवं प्रार्थयते – यश्छन्दसाम् इति । छन्दसाम् वेदानां यः ऋषभः – श्रेष्ठः । विश्वरूपः – विश्वं विष्णुः (सा.ना.१) इति नामसहस्रपाठात् विश्वं – विष्णुः । तत्प्रतीकत्वात् तद्ध्यानसाधनत्वाच्च तद्रूपत्वम् । सर्वशब्दप्रकृतित्वाद्वा सर्वरूपत्वम् । एवंभूतः प्रणवः अमृतात् परमात्मनः सर्वेभ्यश्छन्दोभ्योऽधिकतया सम्बभूव – प्रादुर्भूतः । सः इन्द्रः – परमैश्वर्यशाली प्रणवः मा – मां मेधया – ज्ञानेन स्पृणोतु – उज्जीवयतु । स्पृप्रीतिरक्षणप्राणनेषु (धा.पा.१२६०) इति हि धातुः। देवेति दीव्यतः प्रणवस्य सम्बोधनम् । अमृतस्य परमात्मनः हृदये धारको भूयासम् । सर्वदा ब्रह्मज्ञानम् अनुवर्तताम् इत्यर्थः । मदीयञ्च शरीरं विचर्षणं बलारोग्यादिना कान्तिमद्भवतु । मदीया च जिह्वा सर्वदा ब्रह्मवदनशीलतया भोग्यतमा भवतु । कर्णाभ्याञ्च भूरि – भूयो ब्रह्मप्रतिपादकं शास्त्रं शृणवानि । विश्रुवम् इति छान्दसं रूपम् । परमात्मनः त्वं वाचकतया कोशोऽसि – निधानस्थानमसि । मेधाजनकतया तद्भरिततया वा मेधयाऽच्छादितोऽसि । तादृशः त्वम्, श्रुतार्थो यथा अप्रमृष्टो भवति, तथा कुरु इत्यर्थः ।
विद्यौपयिकहोमसाधनमन्त्राः उच्यन्ते – आवहन्ती इत्यादिः । लक्ष्मीप्रार्थनामन्त्रोऽयम् । आवहन्ती – उत्पादयन्ती, वितन्वाना वर्धयन्ती, यतस्त्वम्, ततो मे चीरमितराणि वासांसि गा: अन्नपाने च सर्वदा कुर्वाणा सती, सा हि श्रीरमृता सताम् (तै.ब्रा.१-२-१) इति त्रयीलक्षणां श्रियम्, लोमशाम् – बहुलां यज्ञाद्यौपयिकपश्वादिद्रव्यैस्सह आवह – उत्पादय ।। होमसाधनत्वात् मन्त्रस्य स्वाहान्तत्वम् । आ मा यन्तु इति । ब्रह्मविद्यायोग्याः ब्रह्मचर्यव्रतसम्पन्नाः शिष्याः ‘समागच्छन्तु इत्यनुकूलशिष्यप्रार्थनामन्त्रः ।
यशः इति । जनमध्ये यशस्वी भवानि इत्यर्थः । श्रेयान् इति । वस्यस: – वसीयस: वसुमत्तराणां मध्ये श्रेष्ठो भूयासमित्यर्थः । तं त्वा इति । हे भग । इति एश्वर्यादीनां सम्बोधनम् । तं त्वां प्रविशानि प्राप्नुवानीत्यर्थः । स मा इति । हे भग! सः त्वं मां प्राप्नुहीत्यर्थः । तस्मिन् इति । हे भग ! सहस्रशाखे ऐश्वर्यवीर्याद्यनन्तविधायुक्तेत्वयि प्रविष्टोऽहं निमृजे शुद्धो भवानीत्यर्थः । मृजूष् शुद्धौ (धा.पा.१०६६) इति हि धातु: । यथाऽऽपः इति । हे धात: – परमात्मन् ! यथा जलानि प्रवताः प्रवणाः दिशो यन्ति । । तानादिकाद्वनुतेः निष्ठायामनुनासिकलोप: ‘यथा मासा: अहर्जरम् – अहोभिः जरा यस्य स पुरुष: अहर्जरः । यस्य कालेन जरा भवति, न व्याध्यादिना, सोऽहर्जरः । वृद्धः इति यावत् । तं यथा मासाः प्राप्नुवन्ति । यद्वा अहानि जीर्यन्ति यत्रेति अहर्जर: – संवत्सरः, सूर्यो वा ; एवं मां योग्याः शिष्याः आयान्तु इत्यर्थः । प्रतिवेशोऽसि इति । हे धातः ! त्वं प्रतिवेशशब्दित प्रतिगृहकल्पः सन्निहितोऽसीत्यर्थः । मा – मां प्रकर्षेण पाहि – प्रपद्यस्व । अन्तर्भावितण्यर्थोऽयं पदिः । प्रपन्नं मां कुरु इत्यर्थः ।।
पञ्चमोऽनुवाकः
[परविद्योपासनाङ्गव्याहत्युपासनम्]
भूर्भुवःसुवरिति वा एतास्तिस्रो व्याहृतयः । तासामुह स्मै तां चतुर्थीम्। माहाचमस्यः प्रवेदयते । मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यान्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ।। १ ।।
मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः। सुवरित्यादित्यः । मह इति चन्द्रमा । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि ॥ २ ॥
मह इति ब्रह्म । ब्रह्म वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अनेन वाव सर्वे प्राणा महीयन्ते ।। ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ।। ३ ।।
असौ लोको यजूंषि वेद द्वे च ।। ४ ।।
।। इति पञ्चमोऽनुवाकः ।।
वक्ष्यमाणपरविद्याङ्गभूतव्याहृत्युपासनमुपदिश्यते – भूर्भुवः इत्यादिना। वै शब्दः प्रसिद्धौ । तासाम् इति । महः इति व्याहृतिं माहाचमस्यनामा ऋषिः तिसृणां व्याहृतीनां चतुर्थी वक्ति इत्यर्थः । तद्ब्रह्मेत्यादि । यन्महश्शब्दितं, तदेव निरतिशयमहत्त्वात् आत्मब्रह्मशब्दितम् । इतरदेवतास्तु तदङ्गभूताः तस्यात्मनः शरीरभूताः । अतो निरतिशयमहत्त्वाभावात् न महश्शब्दवाच्यत्वम् इत्यर्थः । एवं महश्शब्दस्य वास्तवमर्थमुपवर्ण्य, भूर्भुवस्सुवर्मह इति व्याहृतिचतुष्टये चतुर्विधोपासनं दर्शयति – भूरिति इत्यादिना । भूरादिव्याहृतिचतुष्टये भूलोकान्तरिक्षस्वर्गलोकादित्यरूपार्थ चतुष्टयदृष्टि: कर्तव्या इत्यर्थः । महीयन्ते – पूजां प्राप्नुवन्तीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । महीयन्ते पूज्यन्ते अनेन इति मह इति महश्शब्दव्युत्पत्तिरिति भावः । ता वा एताः इति । चतस्रोऽपि व्याहृतयः उक्तप्रकारेण चतुर्विधोपासनयुक्ताः इत्यर्थः । चतस्रश्चतस्रो व्याहृतयः इति । भूराद्याः चतस्रो व्याहृतयोऽपि उक्तप्रकारेण प्रत्येकं चतस्रः । अत: षोडशव्याहृतयः संपद्यन्ते इत्यर्थः । तद्वेदनस्य फलमाह – ता यो वेद इति । तद्वेदनात् ब्रह्मविद्या निष्पद्यते, सर्वे च देवाः पूजां कुर्वन्ति इत्यर्थः ।।
षष्ठोऽनुवाकः
[शिष्यं प्रति उपासनोपदेशः]
स य एषोऽन्तर्हृदय: आकाश: । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो’ विवर्तते । व्यपोह्य शीर्षकपाले । भरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ।।१।।
सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत् , ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्मप्राणारामं मन आनन्दम् । शान्ति समृद्धममृतम् इति प्राचीनयोग्योपास्स्व ।। २ ।।
वायावमृतमेकं च ।। ६ ।।
।। इति षष्ठोऽनुवाकः ।।
अङ्गान्युपदिश्य परविद्यामाह – स य एष: इत्यादिना । हृदयान्तर्गताकाशे विशुद्धमनोग्राह्य: अमृतः असंसारी, कमनीयविग्रहो य आस्ते, सः उपासितव्यः इत्यर्थः । इदञ्च वाक्यं परमात्मपरतया सर्वत्र प्रसिद्धोपदेशात् (ब्र.सू.१-२-१) इत्यत्र भाष्यकृता’ उदाहृतम् । तथैव व्यासार्यै: व्याख्यातञ्च । अतो जीवविषयत्वशकां न कार्या ।
एवं परविद्यामुपदिश्य अचिरादिगतिं दर्शयति – अन्तरेण इत्यादिना । तालुके – जिह्वायां अन्तरेण – मध्ये गोस्तन इव यो लम्बते. सा इन्द्रस्य सन्निहितमुक्तैश्वर्यस्य जीवस्य योनिः – निर्गममार्गः । यत्रासौ इति । यत्र – यस्मिन्मार्गे केशयोः – कः – ब्रह्मा, ईशः – रुद्रः । क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् (ह.वं.१३-४८) इति केशवशब्दनिरुक्तौ तथा वर्णनात् ‘तयोरन्त: अवधिभूतः; कारणमिति यावत् । संहर्ता, स्थानभूत इति वा । तादृशो भगवान् यत्र मार्गे विशेषेण प्राप्यतया वर्तते इत्यर्थः । यद्वा – तालुके अन्तरेण ऊर्ध्वाधरतालुद्वयमध्ये तयोरप्यधस्तादित्यर्थः । य: स्तन इव लम्बते । संततं सिराभिस्तु लम्बत्याकोशसन्निभम् (महा.ना.१७) इति श्रवणात् हृदयपुण्डरीकमुच्यते । सा इन्द्रस्य – परमात्मन: योनि: – स्थानम् । यत्र असौ केशान्तवत् सूक्ष्मो जीव: विशिष्य वर्तते । हृदि ह्ययमात्मा (प्र.उ.३-६) इति श्रुतेः । व्यपोह्य इति । प्रयाणकाले शिरःकपाले भित्त्वा भूरित्युपासितया व्याहृत्या अग्नौ – अग्निलोके प्रतिष्ठितो भवति । भूरिति व्याहृतिः अग्निलोकं प्रापयतीत्यर्थः । यद्यपि सर्वस्य अर्चिरादिमार्गगन्तुः अग्निलोकप्राप्तिरस्ति, तथापि भूरादिव्याहृत्युपास्तिमहिम्ना कञ्चित्कालं तत्र तिष्ठति इत्यर्थः । स्वाराज्यम् – अकर्मवश्यत्वमित्यर्थः । आप्नोति इत्यादि । स्वसंकल्पनिष्पाद्यसर्वेन्द्रिय: इत्यर्थः । करणनिरपेक्षज्ञान इति वा अर्थः । एतदिति । ततः तदनन्तरं एतद्भवति । किं तदित्यत्राह – आकाश: इति । आ समन्तात प्रकाशमानदिव्यविग्रहयुक्तं आविर्भूतब्रह्मरूपं भवति इत्यर्थः । सत्यात्म इति । सततैकरूपतया सत्यानां नित्यमुक्तानामात्मनां प्राणवत् परमप्रेमास्पदभूतो यः परमात्मा, स एव आरामः सर्वविधभोग्यभूतो यस्य, तत् तथोक्तम् । मनसा संकल्पमात्रेण सिद्धः आनन्दो यस्य तत मन आनन्दम् । यं कामं कामयते, सोऽस्य संकल्पादेव समुत्तिष्ठति (छां.उ.८-२-१०)इति श्रुतेः । शान्त्या समृद्धम् – आत्यन्तिकशान्तियुक्तम् । अमृतम् – असंसारि । एतादृशं ब्रह्मण भवतीति पूर्वेणान्वयः । इति – इति । एवं प्राचीनयोग्यनामानं शिष्यमनुशिष्टवान् इति शेषः ।।
सप्तमोऽनुवाकः
[पाङ्क्तोपासनम्]
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशा: । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्याधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानस्समानः । चक्षुश्श्रोत्रं मनो वाक् त्वक् चर्म माँसँस्नावास्थि मज्जा । एतदधि विधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ।। १ ।। सर्वमेकञ्च ।। ७ ।।
।। इति सप्तमोऽनुवाकः ।।
पृथिव्यन्तरिक्षम् इत्यादि । ‘अधिभूतेषु’ पृथिव्यादिपञ्चकमेकम् , अग्नयादिपञ्चकं द्वितीयम्, अबादिपञ्चकं तृतीयम् , एवं त्रीण्यधिभूतंपञ्चकानि । अध्यात्मं प्राणादिपञ्चकमेकं, चक्षुरादिपञ्चकं द्वितीयम्, चर्मादिपञ्चकं तृतीयम् । एवं षट् पञ्चकान्यपि, पञ्चाक्षरा पङ्क्ति: (तै,सं.६-२-२) इति पञ्चत्वसंख्यायुक्ततया पाङ्क्तानि । ततश्च पङ्क्तिच्छन्दोयुक्ततयोपासितेन पञ्चकषट्केण पाङ्क्तं स्पृणोति । पञ्चभूतादियुक्ततया पाङ्क्तं स्पृणोति – पालयति । साम्राज्यं लभते इति पञ्चक षट्कटमधिकृत्य कश्चिदृषिः अवोचदित्यर्थः ।।
अष्टमोऽनुवाकः
[प्रणवप्रशंसा]
ओमिति ब्रह्म । ओमितीदँ सर्वम् । ओमित्येतदनुकृति ह स्म वा अप्योश्रावयेत्याश्रावयन्ति । ओमिति सामानि गायन्ति । ओंशोमिति शस्त्राणि शँसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमिति ब्राह्मण: प्रवक्ष्यन्नाह ब्रह्मोप्राप्नुवानीति । ब्रह्मैवोपाप्नोति । ओमित्यग्निहोत्रमनुजानाति ।। ८ ।।
इति अष्टमोऽनुवाकः ।।
प्रणवं प्रशंसति’ – ओमिति ब्रह्म इति । ब्रह्मप्रतीकत्वात् तद्ध्यानसाधनत्वाच्च पणवो बहौव । ओमितीदँ सर्वम् इति । ब्रह्मात्मकत्वादेव सर्वात्मकत्वञ्चेत्यर्थ:।
ओमित्येतदनुकृतिर्हस्म वा अपि इति । विधिनिषेधात्मकस्य सर्वस्यापि ओमित्येकाकार एवानुज्ञालक्षणोऽनुकारोऽपि । ह स्म वै इति निपातत्रयेण प्रसिद्धिर्द्योत्यते । ओश्रावय इत्यादि । ओमित्युपक्रम्यैव उद्गाकारः सामानि गायन्ति इत्यर्थः । ओंशोमिति । होतारोऽपि ओमित्यपक्रम्यैव शंसन्तीत्यर्थः । ओमित्यध्वर्युः इति । होतरि शंसति अध्वर्यु: प्रत्यृचं ओमित्यनुमोदते । ओधामोदेवेति शंसतो होतुः प्रोत्साहनं प्रतिगरः । पाकं पचतीतिवत् प्रतिगरं प्रतिगृणाति इति निर्देशः । प्रसौति – अनुज्ञां प्रयच्छतीत्यर्थः । ओमित्यग्निहोत्रम् इति । ओमुन्नयेत्येवं यजमानोऽनुजानाति इत्यर्थः । ओमिति ब्राह्मण: इति । वेदं प्राप्नुवानित्यनुसंधाय अध्ययनं करिष्यन्, ओमित्याह, तथैव वेदं प्राप्नोतीति दृष्टमेवेत्यर्थः ।।
नवमोऽनुवाकः ।
[स्वाध्यायप्रवचनादिविद्याङ्गकर्म]
ऋतञ्च स्वाध्यायप्रवचने च । सत्यञ्च स्वाध्यायप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च । सत्यमिति सत्यवाचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ।। १ ।। प्रजा च स्वाध्यायप्रवचने च षट् च ।। ९ ।।
।। इति नवमोऽनुवाकः ।।
ब्रह्मविद्याङ्गमनुष्ठेयं कर्माऽऽह – ऋतञ्च इत्यादिना । ऋतम् – सूनृता वाणी । स्वाध्यायः – वेदाध्ययनम् । प्रवचनम् – अध्यापनम् । ऋत-स्वाध्याय-प्रवचनानि नित्यानुष्ठेयानीति वाक्यार्थः । सत्यम् – समदर्शनम् । ऋतं तु सूनृता वाणी सत्यं तु समदर्शनम् (भाग.११-१९-३८) इत्युक्तेः । तपः कायशोषणम् । दम: बाह्येन्द्रियजयः । शमः – अन्तरिन्द्रियजयः । अग्नयः – ‘गार्ह पत्याद्याः । अग्निहोत्रम् इति नित्यकर्मणामग्निसाध्यानामुपलक्षणम् । मृतमनुष्योद्देशोनानुष्ठीयमानं श्राद्धं मानुषम् ।
नृणामयं परो धर्मः सर्वेषां समुदाहृतः ।
त्रिंशल्लक्षणवान् साक्षात् सर्वात्मा येन तुष्यति ।। (भाग. ७-११-१२)
इत्युक्तभगवदाराधनं वा । प्रजन: – प्रजननम् , ऋतुकालाभिगमनम् प्रजाति: – प्रकर्षण ‘पौत्रादिजननम् । सत्यं वचो यस्य सः सत्यवचाः । रथीतरत्यापत्यं राथीतरनामा ऋषिः सत्यम् इति निर्दिष्टं सत्यं वच एव प्रधानम्, स्वाध्यायप्रवचने न प्रधाने इति मन्यते । पौरुशिष्टि नामा तपसि नित्य: निरतः ऋषिस्तु, तप एव प्रधानम्, स्वाध्यायप्रवचनाभ्यां न प्रयोजनमिति मन्यते । स्वाध्यायप्रवचने एव प्रधानं, तदेव प्रथमं तपः’ इति नाको मोद्गल्यो मन्यते इत्यर्थः ।।
दशमोऽनुवाकः
[विद्याङ्गमन्त्रः]
अहंवृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणँ ‘सवर्चसम्’ । सुमेधा अमृतोऽक्षितः । इति त्रिशंकोर्वेदानुवचनम् । अहँषट् ।। १० ।।
विद्याङ्गतया जप्यमन्त्रमाह – अहं इत्यादिना । अहंवृक्षस्य रेरिवा – वृक्षवत् छेद्यस्य अहंकारादेः क्षपयिता । रेरिवा इति रीङ्क्षये (धा.पा.) इत्यस्मात् यङ्लुगन्तात्, अन्येभ्योऽपि दृश्यते (पा.सू.३-२-७५) इति क्वनिपि रूपम् । ‘निरस्तसमस्तदेहात्मभिमानः’ इत्यर्थः । कीर्तिः पृष्ठं गिरेरिव । मेर्वादिगिरिपष्ठवत् श्लाघ्यगुणशालितया कीर्तिमान् अस्मि इत्यर्थः । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । ऊर्ध्वपवित्रःसर्वोत्तरपवित्रोऽहं, वाजिनि – वाजम् अन्नमस्यास्तीति वाजी भोक्ता ; सर्वशेषिणि परमात्मनि स्वमृतमिवास्मि – अतिशयेन भोग्योऽस्मि । तत्प्रीतिविषयोऽस्मि इत्यर्थः । द्रविणं सर्वचसम् । तस्य समीचीनद्रविणमस्मि । भोगोपकरणमस्मि इत्यर्थः । सुमेधा अमृतोऽक्षितः – भगवच्छेषत्वज्ञानदार्ढ्यात् सुमेधाश्च । अमृत: – मरणशून्यः असंसारि । अक्षित: – अक्षयः षड्भावविकारशून्यः’ इत्यर्थः । इति त्रिशंकोर्वेदानुवचनम् – त्रिशंकुदृष्टोऽयं मन्त्र: इत्यर्थः ।।
एकादशोऽनुवाकः
[आचार्यानुशासनम्]
वेदमनूच्याऽचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सी: । सत्यान्न प्रमदितव्यम। धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ।। १ ।।
देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि । यान्यस्माकँ सुचरितानि । तानि त्वयोपास्यानि ।। २ ।।
नो इतराणि । ये के चास्मच्छ्रेयाँसो ब्राह्मणाः तेषां त्वयाऽऽसने न प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धया देयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ।।३।।
ये तत्र ब्राह्मणास्संमशिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणास्संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः ।। ४ ।।
एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ।। ५ ।।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् तानि त्वयोपास्यानि स्यात तेषु वर्तेरन् सप्त च ।। ११ ।।
।। इति एकादशोऽनुवाकः ।।
वेदमनूच्य इति । वेदमध्याप्य आचार्यः शिष्यमनुशिष्यात् इत्यर्थः । स्वाध्यायान्मा प्रमदः इति । स्वाध्यायाध्ययने प्रमादं मा कार्षीः । तत्राविहितो भव इत्यर्थः ।
आचार्याय इति । गुरवे दक्षिणां दत्वा पुत्रसन्तत्यविच्छेदाय भार्यामुद्वहेः । कुशलम् – देवार्चनादिमङ्गलाचरणम्। भूत्यै न प्रमदितव्यम् । एश्वर्यार्थं कर्म कुरु । ऐश्वर्यस्य सर्वश्रेयस्साधनत्वादिति भावः । मातृदेवो भव – देवमिव मातरं पूजय इत्यर्थः । एवमुत्तरत्रापि ।
यान्यस्माकम् इति । शिष्टाचारेष्वपि श्रुतिस्मृतिविरोध शून्यतया यानि सुचरितानि, तान्येव होलाकादीनि ग्राह्याणि न लोभादिमूलचरितानि इत्यर्थः । ये के च इति । स्वापेक्षया श्रेष्ठानां ब्राह्मणानां शय्यासनेषु समानतया न विश्रमणीयम् । श्रिया देयम् इति । श्री: – मुखशोभा । अविषण्णवदनेन देयमित्यर्थः । भिया देयम् इति । सम्यगकरणे . प्रत्यवायो भविष्यतीति भिया देयमित्यर्थः । संविदा देयम् इति । संवित् – संकल्पः । संकल्पपूर्वकं देयम् इत्यर्थः । अथ यदि इत्यादि । कर्म – अग्निहोत्रादि । वृत्तम् – शिष्याचारमात्रप्रमाणकहोलाकादि । तत्र यदि सन्देहः इत्यर्थः । संमर्शिनः – विचारकुशलाः इत्यर्थः । युक्ता: – ‘वेदशास्त्रेष्वभिरताः’ । आयुक्ताः – आ समन्तात् युक्ताः । लौकिकेष्वपि कुशलाः इत्यर्थः । अलूक्षा: – क्रोधलोभादिरहिताः । शिष्टं स्पष्टम् । अथ इत्यादि । अभ्याख्याता: – अभिशस्ताः इत्यर्थः ।
एष आदेश इत्यादिः । आदेश: – शासनम् । राजज्ञातुल्यमिति भावः । उपदेश पित्रादिहितैषिवचनम् । वेदोपनिषत् वेदानां रहस्योपदेशः । एतदनुशासनम् – शिष्यं प्रति आचार्यस्य कर्तव्यमनुशासनमेतत् । एवमुपासितव्यम् – अनुशासनप्रकारेण अनुष्ठेयमित्यर्थः । एवमु चैतदुपास्यम् इति । ‘उ’ शब्दोऽवधारणे । एवमेव उपास्यमित्यर्थः ।।
द्वादशोऽनुवाकः
[उपसंहारशान्तिपाठः]
शं नो मित्रश्शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् । ओं शान्तिः शान्तिः शान्तिः ।।
।। इति द्वादशोऽनुवाकः।।
।। इति शिक्षावल्ली समाप्ता ।।
अधीतानामुपनिषदाम् अन्ते पठितव्यां शान्तिमाह – शं नो मित्र इत्यादि । पूर्वमेव व्याकृतमेतत् लृडादिस्थाने भूतार्थत्वात् लुङ्प्रयोग: इति विशेषः ।।
।। इति तैत्तिरीयशिक्षावल्लीप्रकाशिका ।।