वेदार्थसङ्ग्रह: Part II

वेदार्थसङ्ग्रह: (Continued)

(सर्वस्य परमात्मनियाम्यत्वे विधिनिषेधयोः आनर्थक्यशङ्का, तत्परिहारश्च)

ननु च सर्वस्य जन्तो: परमात्मान्तर्यामी तन्नियाम्यं च सर्वमेवेत्युक्तम् । एवं च सति विधिनिषेधशास्त्राणामधिकारी न दृश्यते । य: स्वबुद्ध्यैव प्रवृत्तिनिवृत्तिशक्त: स एवं कुर्यान्न कुर्यादिति विधिनिषेधयोग्य: । न चैष दृश्यते । सर्वस्मिन् प्रवृत्तिजाते सर्वस्य प्रेरक: परमात्मा कारयितेति तस्य सर्वनियमनं प्रतिपादितम् । तथा च श्रूयते  एष एव साधु कर्म कारयति ते यमेभ्यो लोकेभ्य उन्निनीषति (कौ.उ.३.६४) । एष एवासाधु कर्म कारयति तं यमधो निनीषतीति (कौ.उ.३.६४)। साध्वसाधुकर्मकारयितृत्वान्नैर्घृण्यं च ।

अत्रोच्यते  सर्वेषामेव चेतनानां चिच्छक्तियोग: प्रवृत्तिशक्तियोग इत्यादि सर्वं प्रवृत्तिनिवृत्तिपरिकरं सामान्येन संविधाय तन्निर्वहणाय तदाधारो भूत्वान्त: प्रविश्यानुमन्तृतया च नियमनं कुर्वञ्शेषित्वेनावस्थित: परमात्मैतदाहितशक्ति: सन्प्रवृत्तिनिवृत्त्यादि स्वयमेव कुरुते । एवं कुर्वाणमीक्षमाण: परमात्मोदासीन आस्ते । अत: सर्वमुपपन्नम् ।

(ईश्वरस्य साध्वसाधुकर्मकारयितृत्वे विषयविवेकः)

साध्वसाधुकर्मणो: कारयितृत्वं तु व्यवस्थितविषयं न सर्वसाधारणम्। यस्तु सर्वं स्वयमेवातिमात्रमानुकूल्ये प्रवृत्तस्तं प्रति प्रीत: स्वयमेव भगवान् कल्याणबुद्धियोगदानं कुर्वन् कल्याणे प्रवर्तयति । य: पुनरतिमात्रं प्रातिकूल्ये प्रवृत्तस्तस्य क्रूरां बुद्धिं ददन् स्वयमेव क्रूरेष्वेव कर्मसु प्रेरयति भगवान् । यथोक्तं भगवता –

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।

ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥           (भ.गी.१०.१०)

तेषामेवानुकम्पार्थमहमज्ञानजं तम: ।

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥     (भ.गी.१०.११)

तानहं द्विषत: क्रूरान् संसारेषु नराधमान् ।

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥               (भ.गी.१६.१९) इति ।

सोऽयं परब्रह्मभूत: पुरुषोत्तमो निरतिशयपुण्यसंचयक्षीणाशेषजन्मोपचितपापराशे: परमपुरुषचरणारविन्द शरणागतिजनिततदभिमुख्यस्य सदाचार्योपदेशोपबृंहितशास्त्राधिगततत्त्व-याथात्म्यावबोध पूर्वकाहरहरुपचीयमान शमदमतप:शौचक्षमार्जवभयाभयस्थानविवेकदया-हिंसाद्यात्मगुणोपेतस्य वर्णाश्रमोचितपरमपुरुषाराधनवेष नित्यनैमित्तिककर्मोपसंहृतिनिषिद्ध-परिहारनिष्टस्य परमपुरुषचरणारविन्दयुगलन्यस्तात्मात्मीयस्य तद्भक्ति कारितानवरतस्तुति-स्मृतिनमस्कृति-वन्दनयतनकीर्तनगुणश्रवणवचनध्यानार्चनप्रणामादिप्रीतपरमकारुणिकपुरुषोत्तम-प्रसादविध्वस्तस्वान्तध्वान्तस्य अनन्यप्रयोजनानवरतनिरतिशयप्रियविशदतमप्रत्यक्षता-पन्नानुध्यानरूपभक्त्येकलभ्य:।

तदुक्तं परमगुरुभिर्भगवद्यामुनाचार्यपादै: – उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिक-भक्तियोगलभ्य (आ.सि) इति । ज्ञानयोगकर्मयोगसंस्कृतान्त:-करणस्येत्यर्थ: । तथा च श्रुति: ।

विद्यां चाविद्यां च यस्तद्वेदोभ्यं सह ।अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥     (ई.उ.११) इति।

अत्राविद्याशब्देन विद्येतरत्वाद्वर्णाश्रमाचारादि पूर्वोक्तं कर्मोच्यते, विद्याशब्देन च भक्तिरूपापन्नं ध्यानमुच्यते । यथोक्तम् –

इजाय सोऽपि सुबहून्यज्ञाञ्ज्ञानव्यपाश्रय: ।

ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ॥      (वि.पु.६.६.१२) इति ।

(उपायविधिवाक्यानामैककण्ठ्येन योजना)

तमेवं विद्वानमृत इह भवति नान्य: पन्था अयनाय विद्यते (तै.आ.पु.३.१२.१७), य एनं विदुरमृतास्ते भवन्ति (तै.ना.उ.१.११),  ब्रह्मविदाप्नोति परम् (तै.उ.आन१.१), सो यो ह वै तत्परं वेद ब्रह्म वेद ब्रह्मैव भवति (मुण्ड.उ.३.२.९) इत्यादि । वेदनशब्देन ध्यानमेवाभिहितम् । निदिध्यासितव्य (बृ.उ.६.५.६) इत्यादिनैकार्थ्यात् । तदेव ध्यानं पुनरपि विशिनष्टि  – नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् (मुण्ड.उ.३.२.१) इति। भक्तिरूपापन्नानुध्यानेनैव लभ्यते न केवलं वेदनामात्रेण न मेधयेति केवलस्य निषिद्धत्वात् ।

(भक्तेः ध्यानविशेषत्वोपपादनम्)

एतदुक्तं भवति – योऽयं मुमुक्षुर्वेदान्तविहितवेदनरूपध्यानादिनिष्ठो यदा तस्य तस्मिन्नेवानुध्याने निरवधिकातिशया प्रीतिर्जायते तदैव तेन लभ्यते पर: पुरुष इति । यथोक्तं भगवता –

पुरुष: स पर: पार्थ भक्त्या लभ्यस्त्वनन्यया । (भ.गी.८.२२)

भक्त्या त्वनन्यया शक्योऽहमेवंविधोऽर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टं च परंतप ॥ (भ.गी.११.५४)

भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वत: ।

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ (भ.गी.१८.५५) इति ।तदनन्तरं तत एव भक्तितो विशत इत्यर्थ: । भक्तिरपि निरतिशयप्रियानन्यप्रयोजनसकलेतर वैतृण्यावहज्ञानविशेष एवेति । तद्युक्त एव तेन परेणात्मना वरणीयो भवतीति तेन लभ्यत इति श्रुत्यर्थ: । एवंविधपरभक्तिरूपज्ञानविशेषस्योत्पादक: पूर्वोक्ताहरहरुपचीयमानज्ञानपूर्वककर्मानुगृहीतभक्तियोग एव ।

(उक्तेऽर्थे पराशर-गीताचार्ययोः सम्मतिः)

यथोक्तं भगवता पराशरेण –

वर्णाश्रमाचारवता पुरुषेण पर: पुमान् ।

विष्णुराराध्यते पन्था नान्यस्तत्तोषकारक: ॥ (वि.पु.३.८.९) इति ।

निखिलजगदुद्धारणायावनितलेऽवतीर्ण: परब्रह्मभूत: पुरुषोत्तम: स्वयमेवैतदुक्तवान्

स्वकर्मनिरत: सिद्धिं यथा विन्दति तच्छृणु ॥                    (भ.गी.१८.४५)

यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: ॥                (भ.गी.१८.४६)

इति यथोदितक्रमपरिणतभक्त्येकलभ्य एव ।

(यादवप्रकाशमतनिरासारम्भः)

भगवद्बोधायनटङ्कद्रमिडगुहदेवकपर्दिभारुचिप्रभृत्यविगीतशिष्टपरिगृहीतपुरातनवेद-वेदान्तव्याख्यानसुव्यक्तार्थ श्रुतिनिकरनिदर्शितोऽयं पन्था: ।      अनेन चार्वाकशाक्य-उलूक्याक्षपाद-क्षपणककपिल-पतञ्जलिमतानुसारिणो वेदबाह्या वेदावलम्बिकुदृष्टिभि: सह निरस्ता: । वेदावलम्बिनामपि यथावस्थितवस्तुविपर्ययस्ताडृशां बाह्यसाम्यं मनुनैवोक्तम् –

या वेदबाह्या: स्मृतयो याश्च काश्च कुदृष्टय: ।

सर्वस्ता निष्फला: प्रेत्य तमोनिष्ठा हि ता: स्मृता: ॥ (म.स्मृ.१२.९५)

इति । रजस्तमोभ्यामस्पृष्टमुत्तमं सत्त्वमेव येषां स्वाभाविको गुणस्तेषामेव वैदिकी रुचिर्वेदार्थयाथात्म्य- अवबोधश्चेत्यर्थ: । यथोक्तं मात्स्ये –

(ब्रह्मकल्पेषु सात्त्विकराजसतामसविभागः)

संकीर्णा: सात्त्विकाश्चैव राजसास्तामसास्तथा । (म.पु.२९०.१३)

इति । केचिद्ब्रह्मकल्पा: संकीर्णा: केचित्सत्त्वप्राया: केचिद्रज:प्राया केचित्तम:प्राया इति कल्पविभागमुक्त्वा सत्त्वरजस्तमोमयानां तत्त्वानां माहात्म्यवर्णनं च तत्तत्कल्पप्रोक्तपुराणेषु सत्त्वादिगुणमयेन ब्रह्मणा क्रियत इति चोक्तम् –

यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा ।                 (म.पु.२९०.५३)

तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते ॥     (म.पु.२९०.१६)

इति  विशेषतश्चोक्तम्

अग्ने: शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ।                     (म.पु.२९०.१४)

राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदु: ॥                         (म.पु.२९०.१५)

सात्त्विकेषु च कल्पेषु माहात्म्यमधिकं हरे: ।                         (म.पु.२९०.१६)

तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥   (म.पु.२९०.१७)

संकीर्णेषु सरस्वत्या: ………………….. ॥                   (म.पु.२९०.१४)

इत्यादि ।

(त्रैगुण्यस्य त्रैलोक्यव्यापिता, पुराणेषु ग्राह्याग्राह्यविभागश्च)

एतदुक्तं भवति  आदिक्षेत्रज्ञत्वाद्ब्रह्मणस्तस्यापि केषुचिदहस्सु सत्त्वमुद्रिक्तं केषुचिद्रज: केषुचित्तम:। यथोक्तं भगवता –

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुन: ।

सत्त्वं प्रकृतिजैर्मुक्तं यदेभि: स्यात्त्रिभिर्गुणै: ॥  (भ.गी.१८.४०)

इति । यो ब्रह्मणं विदधति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै (श्वे.उ.६.१८) इति श्रुते:। ब्रह्मणोऽपि सृज्यत्वेन शास्त्रवश्यत्वेन च क्षेत्रज्ञत्वं गम्यते । सत्त्वप्रायेष्वहस्सु तदितरेषु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्परविरोधे सति सात्त्विकाह:प्रोक्तमेव पुराणं यथार्थं तद्विरोध्यन्यदयथार्थमिति पुराणनिर्णयायैवेदं सत्त्वनिष्ठेन ब्रह्मणाभिहितमिति विज्ञायत इति ।

(गीताचार्यवचनतः सात्त्विकादिगुणत्रयकार्यविवेकः)

सत्त्वादीनां कार्यं च भगवतैवोक्तम् –

सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।

प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥  (भ.गी.१५.१७)

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।

 बन्धं मोक्षं च या वेत्ति बुद्धि: सा पार्थ सात्त्विकी ॥ (भ.गी.१८.३०)

यथा धर्ममधर्मं च कार्यं चाकार्यमेव च ।

अयथावत्प्रजानाति बुद्धि: सा पार्थ राजसी ॥  (भ.गी.१८.३१)

अधर्मं धर्ममिति या मन्यते तमसावृता ।

सर्वार्थान् विपरीतांश्च बुद्धि: सा पार्थ तामसी ॥  (भ.गी.१८.३२) इति ।

सर्वान् पुराणार्थान् ब्रह्मण: सकाशादधिगम्यैव सर्वाणि पुराणानि पुराणकाराश्चक्रु: । यथोक्तम्-

कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमै: ।

पृष्ट: प्रोवाच भगवानब्जयोनि: पितामह: ॥  (वि.पु.१.२.१०) इति ।

(वेदवाक्येषु तात्पर्यनिर्णयेन विरोधपरिहारः)

अपौरुषेयेषु वेदवाक्येषु परस्परविरुद्धेषु कथमिति चेत् – तात्पर्यनिश्चयादविरोध: पूर्वमेवोक्त:।

(श्रुतीनां शिवपारम्यपरत्वशङ्का)

यदपि चेदेवं विरुद्धवद्दृश्यते  प्राणं मनसि सह कारणैर्नादान्ते परमात्मनि संप्रतिष्ठाप्य ध्यायीतेशानं प्रध्यायीतैवं सर्वमिदम् (अ.शिखा.२.१४), ब्रह्मविष्णुरुद्रास्ते सर्वे संप्रसूयन्ते….. (अ.शिखा.२.१५), स कारणं…… (अ.शिखा.२.१६), कारणं तु ध्येय: सर्वैश्वर्यसंपन्न: सर्वेश्वर: शंभुराकाशमध्ये ध्येय: (अ.शिखा.२.१७),  यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे.उ.३.९), ततो यदुत्तरतरं तदरूपमनामयं, य एतद्विदुरमृतास्ते भवन्ति, अथेतरे दु:खमेवापियन्ति (श्वे.उ.३.१०),

सर्वाननशिरोग्रीव: सर्वभूतगुहाशय: ।

सर्वव्यापी च भगवांस्तस्मात्सर्वगत: शिव: ॥  (श्वे.उ.३.११)

यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवल: ।

तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ (श्वे.उ.३.१८)

इत्यादि ॥

नारायण: परं ब्रह्म इति च पूर्वमेव प्रतिपादितं, तेनास्य कथमविरोध: ।

(उक्ताक्षेपपरिहारः हरेरेव जगत्कारणता च)

अत्यल्पमेतत्

वेदवित्प्रवरप्रोक्तवाक्यन्यायोपबृंहिता: ।

वेदा: साङ्गा हरिं प्राहुर्जगज्जन्मादिकारणम् ॥

जन्माद्यस्य यत: (ब्र.सू.१.१.२) यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञानस्व तद्ब्रह्म (तै.उ.भृ१.२) इति  जगज्जन्मादिकारणं ब्रह्मेत्यवगम्यते। तच्च जगत्सृष्टिप्रलयप्रकरणेष्ववगन्तव्यम्। सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.उ.६.२.१) इति जगदुपादानताजगन्निमित्तताजगदन्तर्यामितादिमुखेन परमकारणं सच्छब्देन प्रतिपादितं ब्रह्मेत्यवगतम्। अयमेवार्थ:  ब्रह्म वा इदमेकमेवाग्र आसीत् (बृ.उ.३.४.१) इति शाखान्तरे ब्रह्मशब्देन प्रतिपदित:। अनेन सच्छब्देनाभिहितं ब्रह्मेत्यवगतम् । अयमेवार्थस्तथा शाखान्तरे –

(सृष्टेः प्राक्काले वर्तमानः आत्मा, नारायणः)

आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् (ऐ.उ.१.१) इति तथा सद्ब्रह्मशब्दाभ्यामात्मैवाभिहित इत्यवगम्यते। तथा च शाखान्तरे एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नेमे द्यावपृथिवी न नक्षत्राणि (महो.१.१) इति सद्ब्रह्मात्मादिपरमकारणवादिभि: शब्दैर्नारायण एवाभिधीयत इति निश्चीयते ।

यमन्त: समुद्रे कवयो वयन्ति (तै.ना.उ.१.३) इत्यादि  नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्येशे कश्चन तस्य नाम महद्यश: ॥ (तै.ना.उ.१.१०) न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्, हृदा मनीषा मनसाभिकिप्तो य एवं विदुरमृतास्ते भवन्ति (तै.ना.उ.१.११) इति सर्वस्मात्परत्वमस्य प्रतिपाद्य, न तस्येशे कश्चन (तै.ना.उ.१.१०) इति तस्मात्परं किमपि न विद्यत इति च प्रतिषिध्य, अद्भ्य: सम्भूतो हिरण्यगर्भ इत्यष्टौ (तै.ना.उ.१.१२) इति तेनैकवाक्यतां गमयति । तच्च महापुरुषप्रकरणं ह्रीश्च ते लक्ष्मीश्च पत्न्यौ (तै.आ.पु.३.१३.६) इति च नारायण एवेति द्योतयति ।

(उक्तार्थस्य नारायणानुवाकतः सिद्धिः)

अयमर्थो नारायणानुवाके प्रपञ्चित: । सहस्रशीर्षं देवम् (तै.ना.उ.११.१) इत्यारभ्य स ब्रह्मा स शिव: सेन्द्र: सोऽक्षर: परम: स्वराट् (तै.ना.उ.११.१२) इति । सर्वशाखासु परतत्त्वप्रतिपादनपरान् अक्षरशिवशंभुपरब्रह्मपरज्योति:परतत्त्वपरायण परमात्मादि सर्वशब्दांस्तत्तद्गुणयोगेन नारायण एव प्रयुज्य तद्व्यतिरिक्तस्य समस्तस्य तदाधारतां, तन्नियाम्यतां, तच्छेषतां, तदात्मकतां च प्रतिपाद्य ब्रह्मशिवयोरपीन्द्रादिसमानाकारतया तद्विभूतित्वं च प्रतिपादितम् ।

(मोक्षार्थोपासनविषयता नारायणस्यैव)

इदं च वाक्यं केवलपरतत्त्वप्रतिपादनैकपरमन्यत्किंचिदप्यत्र न विधीयते। अस्मिन् वाक्ये प्रतिपादितस्य सर्वस्मात्परत्वेनावस्थितस्य ब्रह्मणो वाक्यान्तरेषु ब्रह्मविदाप्नोति परम् (तै.उ.आ.१.१) इत्यादिषूपासनादि विधीयते । अत: प्राणं मनसि सह करणै: (अ.शिखा.१.११) इत्यादि वाक्यं सर्वकारणे परमात्मनि करणप्राणादि सर्वं विकारजातमुपसंहृत्य तमेव परमात्मानं सर्वस्येशानं ध्यायीतेति परब्रह्मभूतनारायणस्यैव ध्यानं विदधाति ।

पतिं विश्वस्य (तै.ना.उ.११.३) इति न तस्येशे कश्चन (तै.ना.उ.१.१०) इति च तस्यैव सर्वस्येशानता प्रतिपादिता । अत एव सर्वैश्वर्यसंपन्न: सर्वेश्वर: शंभुराकाशमध्ये ध्येय: (अ.शिखा.२) इति नारायणस्यैव परमकारणस्य शंभुशब्दवाच्यस्य ध्यानं विधीयते । कश्च ध्येय: (अ.शिखा.१) इत्यारभ्य कारणं तु ध्येय: (अ.शिखा.२) इति कार्यस्याध्येयतापूर्वककारणैकध्येयता-परत्वाद्वाक्यस्य। तस्यैव नारायणस्य परमकारणता शंभुशब्दवाच्यता च परमकारणप्रतिपादनैकपरे नारायणानुवाक एव प्रतिपन्नेति तद्विरोध्यर्थान्तरपरिकल्पनं कारणस्यैव ध्येयत्वेन विधिवाक्ये न युज्यते।

(पुरुषात्परस्य तत्त्वान्तरस्य सत्त्वाशङ्कापरिहारौ)

यदपि ततो यदुत्तरम् इत्यत्र पुरुषादन्यस्य परतरत्वं प्रतीयत इत्यभ्यधायि तदपि यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् (श्वे.उ.३.९) यस्मादपरं  यस्मादन्यत्किंचिदपि परं नास्ति केनापि प्रकारेण पुरुषव्यतिरिक्तस्य परत्वं नास्तीत्यर्थ: । अणीयस्त्वं  सूक्ष्मत्वम् । ज्यायस्त्वं  सर्वेश्वरत्वम् । सर्वव्यापित्वात्सर्वेश्वरत्वादस्य – एद्व्यतिरिक्तस्य कस्याप्यणीयस्त्वं ज्यायस्त्वं च नास्तीत्यर्थ: । यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् (श्वे.उ.३.९) इति पुरुषादन्यस्य कस्यापि ज्यायस्त्वं निषिद्धमिति तस्मादन्यस्य परत्वं न युज्यत इति प्रत्युक्तम् ।

(ततो यदुत्तरतरं इति श्रुत्यर्थः)

कस्तर्ह्यस्य वाक्यस्यार्थ: । अस्य प्रकरणस्योपक्रमे तमेव विदित्वातिमृत्युमेति, नान्य: पन्था विद्यतेऽयनाय (श्वे.उ.३.८)इति पुरुषवेदनस्यामृतत्वहेतुतां तद्व्यतिरिक्तस्यापथतां च प्रतिज्ञाय यस्मात्परं नापरमस्ति किंचित्, तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे.उ.३.९) इत्येतदन्तेन सर्वस्मात्परत्वं प्रतिपादितम्। यत: पुरुषतत्त्वमेवोत्तरतरं ततो यदुत्तरतरं पुरुषतत्त्वं तदेवारूपमनामयं य एतद्विदुरमृतास्ते भवन्ति, अथेतरे दु:खमेवापियन्ति (श्वे.उ.३.९) इति पुरुषवेदनस्यामृतत्वहेतुत्वं तदितरस्यापथत्वं प्रतिज्ञातं सहेतुकमुपसंहृतम् । अन्यथोपक्रमगतप्रतिज्ञाभ्यां विरुध्यते । पुरुषस्यैव शुद्धिगुणयोगेन शिवशब्दाभिप्रायत्वं शाश्वतं शिवमच्युतम् (श्वे.उ.३.१०) इत्यादिना ज्ञातमेव । पुरुष एव शिवशब्दाभिधेय इत्यनन्तरमेव वदति  महान् प्रभुर्वै पुरुष: सत्त्वस्यैष प्रवर्तकः (श्वे.उ.३.१२) इति । उक्तेनैव न्यायेन न सन्न चासच्छिव एव केवलः (श्वे.उ.३.१८) इत्यादि सर्वं नेयम् ।

(पुरुषस्य प्रणववाच्यता उपास्यता च)

किञ्च न तस्येशे कश्चन (तै.ना.उ.१.१०) इति निरस्तसमाभ्यधिकसंभावनस्य पुरुषस्य अणोरणीयान् (तै.ना.उ.१०.१) इत्यस्मिन्ननुवाके वेदाद्यन्तरूपतया वेदबीजभूतप्रणवस्य प्रकृतिभूताकारवाच्यतया महेश्वरत्वं प्रतिपाद्य दहरपुण्डरीकमध्यस्थाकाशान्तर्वर्तितया उपास्यत्वमुक्तम् ।

(तस्य प्रकृतिलीनस्य इति मन्त्रस्यार्थः)

अयमर्थ: – सर्वस्य वेदजातस्य प्रकृति: प्रणव उक्त: । प्रणवस्य च प्रकृतिरकार: । प्रणवविकारो वेद: स्वप्रकृतिभूते प्रणवे लीन: । प्रणवोऽप्यकारविकारभूत: स्वप्रकृतावकारे लीन: । तस्य प्रणवप्रकृतिभूतस्य अकारस्य य: परो वाच्य: स एव महेश्वर इति सर्ववाचकजातप्रकृतिभूताकारवाच्य: सर्ववाच्यजातप्रकृतिभूतनारायणो य: स महेशवर इत्यर्थ: ।

(पुरुषे अकारवाच्यतायाः तत एव अकारात्मकतायाश्च गीतादिना सिद्धिः)

यथोक्तं भगवता

अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा ।  (भ.गी.७.६)

मत्त: परतरं नान्यत्किंचिदस्ति धनंजय ॥  (भ.गी.७.७)

अक्षरणामकारोऽस्मि  ॥   (भ.गी.१०.३३) इति,

अ इति ब्रह्म (ऐ.आ.२.३.६) इति च श्रुते: । अकारो वै सर्वा वाक् इति च वाचकजातस्याकारप्रकृतित्वं वाच्यजातस्य ब्रह्मप्रकृतित्वं च सुस्पष्टम् । अतो ब्रह्मणोऽकारवाच्यताप्रतिपादनादकारवाच्यो नारायण एव महेश्वर इति सिद्धम् ।

तस्यैव सहस्रशीर्षं देवम् (तै.ना.उ.११.१) इति केवलपरतत्त्वविशेषप्रतिपादनपरेण नारायणानुवाकेन सर्वस्मात्परत्वं प्रपञ्चितम् ।

(उक्तस्यार्थस्य ब्रह्मसूत्रतः सिद्धिः)

अनेनानन्यपरेण प्रतिपादितमेव परतत्त्वमन्यपरेषु सर्ववाक्येषु केनापि शब्देन प्रतीयमानं तदेवेत्यवगम्य इति शास्त्रदृष्ट्या तूपदेशो वामदेववत् (ब्र.सू.१.१.३१) इति सूत्रकारेण निर्णीतम् ।

(ब्रह्मशिवादेरपि प्राणाकाशादिवदेव परमात्मविभूतिता)

तदेतत्परं ब्रह्म क्वचिद्ब्रह्मशिवादिशब्दादवगतमिति केवलब्रह्मशिवयोर्न परत्वप्रसङ्ग: । अस्मिन्ननन्यपरेऽनुवाके तयोरिन्द्रादितुल्यतया तद्विभूतित्वप्रतिपादनात् । क्वचिदाकाशप्राणादि-शब्देन परं ब्रह्माभिहितमिति भूताकाशप्राणादेर्यथा न परत्वम् ।

(व्योमातीतवादनिरासः)

यत्पुनरिदमाशङ्कितम् – अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासितव्यम् (छा.उ.८.१.१) इत्यत्राकाशशब्देन जगदुपादानकारणं प्रतिपाद्य  तदन्तर्वर्तिन: कस्यचित्तत्त्वविशेषस्यान्वेष्टव्यता प्रतिपाद्यते। अस्याकाशस्य नामरूपयोर्निवोढृत्वश्रवणात्पुरुषसूक्ते पुरुषस्य नामरूपयो: कर्तृत्वदर्शनाच्चाकाशपर्यायभूतात् पुरुषादन्यस्यान्वेष्टव्यतयोपास्यत्वं प्रतीयत इत्यनधीतवेदानामदृष्टशास्त्राणामिदं चोद्यम् ।

यतस्तत्र श्रुतिरेवास्य परिहारमाह । वाक्यकारश्च  दहरोऽस्मिन्नन्तराकाश: किं तदत्र विद्यते यदन्वेष्टव्यं यद्वा व विजिज्ञासितव्यम् (छा.उ.८.१.२) इति चोदिते यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृादय आकाशः (छा.उ.८.१.३) इत्यादिनास्याकाशशब्दवाच्यस्य परमपुरुषस्यानवधिकमहत्त्वं सकलजगदाधारत्वं च प्रतिपाद्य तस्मिन् कामा: समाहिता:  (छा.उ.८.१.५) इति कामशब्देनापहतपाप्मत्वादिसत्यसंकल्पपर्यन्तगुणाष्टकं निहितमिति परमपुरुषवत्परमपुरुष-गुणाष्टकस्यापि पृथिग्जिजिज्ञासितव्यताप्रतिपादयिषया तस्मिन् यदन्तस्तदन्वेष्टव्यम् (छा.उ.८.१.१) इत्युक्तम् इति श्रुत्यैव सर्वं परिहृतम् ।

(दहराकाशगताः अन्वष्टव्याः गुणाः)

एतदुक्तं भवति  – किं तदत्र विद्यते यदनेष्टव्यम् (छा.उ.८.१.२) इत्यस्य चोद्यस्य तस्मिन् सर्वस्य जगत: स्रष्टृत्वं, आधारत्वं, नियन्तृत्वं, शेषित्वं, अपहतपाप्मत्वादयो गुणाश्च विद्यन्त इति परिहार इति । तथा च वाक्यकारवचनम्  तस्मिन् यदन्तरिति कामव्यपदेशः (ब्र.न.वा) इति । काम्यन्त इति कामा: । अपहतपाप्मत्वादयो गुणा इत्यर्थ: ।

(गुणगुणिनोरुभयोरप्यन्वेष्टव्यता, तत्फलं च)

एतदुक्तं भवति  – यदेतद्दहराकाशशब्दाभिधेयं निखिलजगदुदयविभवलयलीलं परं ब्रह्म तस्मिन् यदन्तर्निहितमनवधिकातिशयमपहतपाप्मत्वादि गुणाष्टकं तदुभयमप्यन्वेष्टव्यं विजिज्ञासितव्यमिति । यथाह  अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति (छा.उ.८.१.६) इति ।

(विष्णोः कार्यत्वश्रवणकृतपरत्ववैकल्यशङ्का, तत्परिहारश्च)

य: पुन: कारणस्यैव ध्येयताप्रतिपादनपरे वाक्ये विष्णोरनन्यपरवाक्यप्रतिपादित-परतत्त्वभूतस्य कार्यमध्ये निवेश: स स्वकार्यभूततत्त्वसंख्यापूरणं कुर्वत: स्वलीलया जगदुपकाराय स्वेच्छावतार इत्यवगन्तव्य: । यथा लीलया देवसंख्यापूरणं कुर्वत उपेन्द्रत्वं परस्यैव, यथा च सूर्यवंशोद्भवराजसंख्यापूरणं  कुर्वत: परस्यैव ब्रह्मणो दाशरथिरूपेण स्वेच्छावतार:, यथा च सोमवंशसंख्यापूरणं कुर्वतो भगवतो भूभारावतारणाय स्वेच्छया वसुदेवगृहेऽवतार: । सृष्टिप्रलयप्रकरणेषु नारायण एव परमकारणतया प्रतिपाद्यत इति पूर्वमेवोक्तम् ।

(अथर्वशिरोपनिषदुक्तेः निर्वाहः)

यत्पुनरथर्वशिरसि रुद्रेण स्वसर्वैश्वर्यं प्रपञ्चितं तत् सोऽन्तरादन्तरं प्राविशत् इति परमात्मप्रवेशादुक्तमिति श्रुत्यैव व्यक्तम् । शास्त्रदृष्ट्या तूपदेशो वामदेववत् (ब्र.सू.१.१.३१) इति सूत्रकारेणैवंवादिनामर्थ: प्रतिपादित:। यथोक्तं प्रह्लादेनापि

सर्वगत्वादनन्तरस्य स एवाहमवस्थित: ।

मत्त: सर्वमहं सर्वं मयि सर्वं सनातने ॥ (वि.पु.१.१९.८५)

इत्यादि । अत्र सर्वगत्वादनन्तस्येति हेतुरुक्त: ।

(परमात्मनः सर्वात्मत्वेन सर्वगतत्वात् सर्वशब्दाभिधेयता)

स्वशरीरभूतस्य सर्वस्य चिदचिद्वस्तुन आत्मत्वेन सर्वग: परमात्मेति सर्वे शब्दा: सर्वशरीरं परमात्मानमेवाभिदधतीत्युक्तम् । अतोऽहमिति शब्द: स्वात्मप्रकारप्रकारिणं परमात्मानमेवाचष्टे ।

(अहं ग्रहोपासनस्यौचित्यम्)

अत इदमुच्यते । आत्मेत्येव तु गृह्णीयात्सर्वस्य तन्निष्पत्ते: (ब्र.न.वा) इत्यादिना अहंग्रहणोपासनं वाक्यकारेण कार्यावस्थ: कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीर: परमात्मैवेति सर्वस्य तन्निष्पत्तेरित्युक्तम् । आत्मेति तूपगच्छन्ति ग्राहयन्ति च (ब्र.सू.४.१.३) इति सूत्रकारेण च ।

(ब्रह्मणः शिवस्यापि नारायणात्मकता)

महाभारते च ब्रह्मरुद्रसंवादे ब्रह्मा रुद्रं प्रत्याह –

तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिता: । (म.भा.शान्ति.३३९.४) इति ।

रुद्रस्य ब्रह्मणश्चान्येषां च देहिनां परमेश्वरो नारायणोऽन्तरात्मतयावस्थित इति । तथा तत्रैव

विष्णुरात्मा भगवतो भवस्यामिततेजस: ।

तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे महेश्वर: ॥ (म.भा.कर्णपर्व.२४.८५) इति ।

तत्रैव

एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ ।

तदादर्शितपन्थानौ सृष्टिसंहारकारकौ ॥  (म.भा.शान्ति.२.३२८.१७) इति ।

अन्तरात्मतयावस्थितनारायणदर्शितपथौ ब्रह्मरुद्रौ सृष्टिसंहारकार्यकरावित्यर्थ: ।

(निमित्तोपादानयोर्भेदवादिनां वेदबाह्यता)

निमित्तोपादानयोस्तु भेदं वदन्तो वेदबाह्या एव स्यु: । जन्माद्यस्य यत: (ब्र.सू.१.१.२),  प्रकृतिश्च  प्रतिज्ञादृष्टान्तानुपरोधात् (ब्र.सू.१.१.२), इत्यादि वेदवित्प्रणीतसूत्रविरोधात् । सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.उ.६.२.१),  तदैक्षत बहु स्यां प्रजायेयेति,  ब्रह्मवनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षु:, ब्रह्माध्यतिष्ठद्भुवनानि धारयन् (तै.सं.२.८.७.९), सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधि (तै.ना.उ.१.८), न तस्येशे कश्चन तस्य नाम महद्यश: (तै.ना.उ.१.१०),  नेह नानास्ति किंचन (बृ.उ.६.४.१९),  सर्वस्य वशी सर्वस्येशान: (तै.ना.उ.१.८),  पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमुतामृतत्त्वस्येशान: (तै.आ,पु,३.१२.२)  नान्य: पन्था अयनाय विद्यत (तै.आ,पु,३.१२.१७) इत्यादिसर्वश्रुतिविरोधाच्च।

(नारायणस्यैव परमकारणतायाः इतिहाससिद्धता)

इतिहासपुराणेषु च सृष्टिस्थितिप्रलयप्रकरणयोरिदमेव परतत्त्वमित्यवगम्यते । यथा महाभारते-

कुत: सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ।

प्रलये च कमभ्येति तन् तो  ब्रूहि पितामह ॥ (म.भा.शान्ति.१८०.१)

इति पृष्टो

नारायणो जगन्मूर्तिरनन्तात्मा सनातन: ।  (म.भा.शान्ति.७५.१०)

इत्यादि च वदति

ऋषय: पितरो देवा महाभूतानि धातव: ।

जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ (म.भा.शान्ति.१३६.१३८) इति च।

(सर्वशिष्टसंप्रतिपन्नात् विष्णुपुराणात् परमकारणनिर्णयः)

प्राच्योदीच्यदाक्षिणात्यपाश्चात्यसर्वशिष्टै: सर्वधर्मसर्वतत्त्वव्यवस्थायामिदमेव पर्याप्तमिति अविगान-परिगृहीतं वैष्णवं च पुराणं जन्माद्यस्य यत इति जगज्जन्मादिकारणं ब्रह्मेत्यवगम्यते। तज्जन्मादिकारणं किमिति प्रश्नपूर्वकं विष्णो: सकाशाद्भूतम् (वि.पु.१.१.३१) इत्यादिना ब्रह्मस्वरूपविशेषप्रतिपादनैकपरतया प्रवृत्तमिति सर्वसंमतम् । तथा तत्रैव

प्रकृतिर्या ख्याता व्यक्ताव्यक्तस्वरूपिणी ।

पुरुषश्चअप्युभावेतौ लीयेते परमात्मनि ॥ (वि.पु.६.४.३९)

परमात्मा च सर्वेषामाधार: परमेश्वर: ।

विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥   (वि.पु.६.४.४०) इति

सर्ववेदवेदान्तेषु सर्वै: शब्दै: परमकारणतयायमेव गीयत इत्यर्थ: ।

(सर्वश्रुतीनामनन्यपरत्वनिरूपणम्)

यथा सर्वासु श्रुतिषु केवलपरब्रह्मस्वरूपविशेषप्रतिपादनायैव प्रवृत्तो नारायणानुवाकस्तथेदं वैष्णवं च पुराणम् –

सोऽहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।

बभूव भूयश्च यथा महाभाग भविष्यति ॥  (वि.पु.१.१.४)

यन्मयं च जगद्ब्रह्मन्यतश्चैतच्चराचरम् ।

लीनमासीद्यथा यत्र लयमेष्यति यत्र च ॥   (वि.पु.१.१.५)

इति परं ब्रह्म किमिति प्रक्रम्य,

विष्णो: सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।

स्थितिसंयमकर्तासौ जगतोऽस्य जगच्च स: ॥   (वि.पु.१.१.३)

पर: पराणां परम: परमात्मात्मसंस्थित: ।

रूपवर्णादिनिर्देशविशेषणविवर्जित: ॥    (वि.पु.१.२.१०)

अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभि: ।

वर्जित: शक्यते वक्तुं य: सदस्तीति केवलम् ॥  (वि.पु.१.२.११)

सर्वत्रासौ समस्तं च वसत्यत्रेति वै यत: ।

तत: स वासुदेवेति विद्वद्भि: परिपठ्यते ॥   (वि.पु.१.२.१२)

तद्ब्रह्म परमं नित्यमजमक्षयमव्ययम् ।

एकस्वरूपं च सदा हेयाभावाच्च निर्मलम् ॥   (वि.पु.१.२.१३)

तदेव सर्वमेवैतद्व्यक्ताव्यक्तस्वरूपवत् ।

तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥   (वि.पु.१.२.१४)

स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश्च मुने व्यतीत: ।

अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥  (वि.पु.६.५.८३)

समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशोद्धृतभूतवर्ग: ।

इच्छागृहीताभिमतोरुदेह: संसाधिताशेषजगद्धितोऽसौ ॥  (वि.पु.६.५.८४)

तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशि: ।

पर: पराणां सकला न यत्र क्लेशादय: सन्ति परावरेशे ॥   (वि.पु.६.५.८५)

स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूप: प्रकटस्वरूप: ।

सर्वेश्वर: सर्वदृक्सर्ववेत्ता समस्तशक्ति: परमेश्वराख्य: ॥  (वि.पु.६.५.८६)

संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।

संदृश्यते वाप्यधिगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥      (वि.पु.६.५.८७)

इति परब्रह्मस्वरूपविशेषनिर्णयायैव प्रवृत्तम् ।

अन्यानि सर्वाणि पुराणान्येतदविरोधेन नेयानि । अन्यपरत्वं च तत्तदारम्भप्रकारैरवगम्यते । सर्वात्मना विरुद्धांशस्तामसत्वादनादरणीय: ।

(पुराणवचनतः त्रिमूर्तिसाम्यशङ्कापरिहारौ)

नन्वस्मिन्नपि

सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्नुशिवात्मिकाम् ।

स संज्ञां याति भगवानेक एव जनार्दन: ॥  (वि.पु.१.२.६७)

इति त्रिमूर्तिसाम्यं प्रतीयते । नैतदेवम् । एक एव जनार्दन इति जनार्दनस्यैव ब्रह्मशिवादिकृत्स्न-प्रपञ्चतादात्म्यं विधीयते ।

(कृत्स्नप्रपञ्चस्य ब्रह्मतादात्म्योपपादनम्)

जगच्च स इति पूर्वोक्तमेव विवृणोति

स्रष्टा सृजति चात्मानं विष्णु: पाल्यं च पाति च ।

उपसंह्रियते चान्ते संहर्ता च स्वत्यंप्रभु: ॥               (वि.पु.१.२.६८)

इति च स्रष्टृत्वेनावस्थितं ब्रह्माणं सृज्यं च संहर्तारं संहार्यं च युगपन्निर्दिश्य सर्वस्य विष्णुतादात्म्योपदेशात्सृज्यसंहार्यभूताद्वस्तुन: स्रष्टृसंहर्त्रोर्जनार्दनविभूतित्वेन विशेषो दृश्यते । जनार्दनविष्णुशब्दयो: पर्यायत्वेन ब्रह्मविष्णुशिवात्मिकामिति विभूतिम् । अत एव स्वेच्छया लीलार्थं विभूत्यन्तर्भाव उच्यते । यथेदमनन्तरमेवोच्यते

पृथिव्यापस्तथा तेजो वायुराकाश एव च ।

सर्वेन्द्रियान्त:करणं पुरुषाख्यं हि यज्जगत् ॥ (वि.पु.१.२.६९)

स एव सर्वभूतात्मा विश्वरूपो यतोऽव्यय: ।

सर्गादिकं ततोऽस्यैव भूतस्थमुपकारकम् ॥ (वि.पु.१.२.७०)

स एव सृज्य: स च सर्वकर्ता स एव पात्यत्ति च पाल्यते च ।

ब्रह्माद्यवस्थाभिरशेषमूर्तिर्विष्णुर्वरिष्ठो वरदो वरेण्य: ॥ (वि.पु.१.२.७१) इति ।

(हेयप्रत्यनीके ब्रह्मणि हेयप्रपञ्चतादात्म्यानुपपत्तिः – तत्परिहारौ)

अत्र सामानाधिकरण्यनिर्दिष्टं हेयमिश्रप्रपञ्चतादात्म्यं निरवद्यस्य निर्विकारस्य समस्तकल्याण-गुणात्मकस्य ब्रह्मण: कथमुपपद्यत इत्याशङ्ख्य स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः (वि.पु.१.२.७०)इति स्वयमेवोपपादयति । स एव सर्वेश्वर: परब्रह्मभूतो विष्णुरेव सर्वं जगदिति प्रतिज्ञाय सर्वभूतात्मा विश्वरूपो यतोऽव्यय इति हेतुरुक्त: । सर्वभूतानामयमात्मा विश्वशरीरो यतोऽव्यय इत्यर्थ: । वक्ष्यति च  तत्सर्वं वै हरेस्तनु: (वि.पु.१.२८.३८) इति ।

एतदुक्तं भवति । अस्याव्ययस्यापि परस्य ब्रह्मणो विष्णोर्विश्वशरीरतया तादात्म्यविरुद्धमित्यात्मशरीरयोश्च स्वभावा व्यवस्थिता एव ।

(भगवदवतारे हेतुः तत्फलं च)

एवंभूतस्य सर्वेश्वरस्य विष्णो: प्रपञ्चान्तर्भूतनियाम्यकोटिनिविष्ट ब्रह्मादिदेव-तिर्यङ्मनुष्येषु तत्तत्समाश्रयणीयत्वाय स्वेच्छावतार: पूर्वोक्त:। तदेतद्ब्रह्मादीनां भावनात्रयान्वयेन कर्मवश्यत्वं भगवत: परब्रह्मभूतस्य वासुदेवस्य निखिलजगदुपकाराय स्वेच्छया स्वेनैव रूपेण देवादिष्ववतार इति च षष्टेंऽशे शुभाश्रयप्रकरणे सुव्यक्तमुक्तम् ।

(भगवतो विलक्षणविग्रहवत्त्वे महाभारतप्रमाणम्)

अस्य देवादिरूपेणावतारेष्वपि न प्राकृतो देह इति महाभारते  न भूतसंघसंस्थानो देहोऽस्य परमात्मन: । (म.भा.शान्ति.२०६.६०)  इति प्रतिपादित: । श्रुतिभिश्च  अजायमानो बहुधा विजायते, तस्य धीरा: परिजानन्ति योनिम्  (तै.आ.पु.३.१२) इति । कर्मवश्यानां ब्रह्मादीनामनिच्छतामपि तत्तत्कर्मानुगुणप्रकृतिपरिणाम-रूपभूतसंघ संस्थानविशेषदेवादिशरीरप्रवेशरूपं जन्मावर्जनीयम् । अयं तु सर्वेश्वर:,  सत्यसंकल्पो भगवानेवंभूतशुभेतर जन्माकुर्वन्नपि स्वेच्छया स्वेनैव निरतिशय-कल्याणरूपेण देवादिषु जगदुपकाराय बहुधा जायते, तस्यैतस्य शुभेतरजन्माकुर्वतोऽपि स्वकल्याणगुणानन्त्येन बहुधा योनिं बहुविधजन्म धीराधीरमतामग्रेसरा जानन्तीत्यर्थ:।

(परस्य ब्रह्मणः सर्वस्मात्परत्वं शारीरकसूत्रसिद्धम्)

तदेतन्निखिलजगन्निमित्तोपादानभूतात् जन्माद्यस्य यत:, प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् इत्यादिसूत्रै: प्रतिपादितात्परस्माद्ब्रह्मण: परमपुरुषादन्यस्य कस्यचित्परतरत्वं परमत: सेतून्मानसंबन्धभेदव्यपदेशेभ्य इत्याशङ्क्य सामान्यात्तु (ब्र.सू.३.२.३१), बुद्ध्यर्थ: पादवत् (ब्र.सू.३.२.३१), स्थानविशेषात्प्रकाशादिवत् (ब्र.सू.३.२.३३), उपपत्तेश्च (ब्र.सू.३.२.३४),  तथान्यप्रतिषेधात् (ब्र.सू.३.२.३६), अनेन सर्वगतत्वमायामादिशब्दादिभ्यः (ब्र.सू.३.२.३६) इति सूत्रकार: स्वयमेव निराकरोति ।

(नारायणस्य सर्वस्मात्परस्य मनुस्मृतिसिद्धम्, हिरण्यगर्भादीनां क्षेत्रज्ञता च)

मानवे च शास्त्रे –

प्रादुरासीत्तमोनुद:  (म.स्मृ. १.६)

सिसृक्षुर्विविधा: प्रजा: ।

अप एव ससर्जादौ तासु वीर्यमपासृजत् ॥  (म.स्मृ. १.८)

तस्मिञ्जज्ञे स्वयं ब्रह्म    (म.स्मृ. १.९)

इति ब्रह्मणो जन्मश्रवणात्क्षेत्रज्ञत्वमेवावगम्यते । तथा च स्रष्टु: परमपुरुषस्य तद्विसृष्टस्य च ब्रह्मण:

अयं तस्य ता: पूर्वं तेन नारायण: स्मृत: ।        (वि.पु.१.४.६)

तद्विसृष्ट: स पुरुषो लोके ब्रह्मेति कीर्त्यते ।       (वि.पु.१.११)

इति नामनिर्देशाच्च । तथा च वैष्णवे पुराणे हिरण्यगर्भादीनां भावनात्रयान्वयादशुद्धत्वेन शुभाश्रयत्वानर्हातोपपादनात्क्षेत्रज्ञत्वं निश्चीयते ।

(सिद्धेऽर्थे शब्दव्युत्पत्तेरभावः इति प्राभाकरसमता पूर्वपक्षः)

यदपि कैश्चिदुक्तम्  सर्वस्य शब्दजातस्य विध्यर्थवादमन्त्ररूपस्य कार्याभिधायित्वेनैव प्रामाण्यं वर्णनीयम्, व्यवहारादन्यत्र शब्दस्य बोधकत्वशक्त्यवधारणासंभवाद्व्यवहारस्य च कार्यबुद्धिमूलत्वात्कार्यरूप एव शब्दार्थ: । न परिनिष्पन्ने वस्तुनि शब्द: प्रमाणमिति ।

(व्युत्पत्तिक्रमप्रदर्शनपूर्वकम् उक्तपूर्वपक्षनिरासः)

अत्रोच्यते । प्रवर्तकवाक्यव्यवहार एव शब्दानामर्थबोधकत्वशक्त्यवधारणं कर्तव्यमिति किमियं राजाज्ञा । सिद्धवस्तुषु शब्दस्य बोधकत्वशक्तिग्रहणमत्यन्तसुकरम् । तथा हि  केनचिद्धस्तचेष्टादिनापवरके दण्ड: स्थित इति देवदत्ताय ज्ञापयेति प्रेषित: कश्चित्तज्ज्ञापने प्रवृत्तोऽपवरके दण्ड: स्थित इति शब्दं प्रयुङ्क्ते । मूकवद्धस्तचेष्टामिमां जानन् पार्श्वस्थोऽन्य: प्राग्व्युत्पन्नोऽपि तस्यार्थस्य बोधनायापवरके दण्ड: स्थित इत्यस्य शब्दस्य प्रयोगदर्शनादस्यार्थस्यायं शब्दो बोधक इति जानातीति किमत्र दुष्करम् । तथा बाल:, तातोऽयं, इयं माता, अयं मातुल:, अयं मनुष्य:, अयं मृग:, चन्द्रोऽरयं, अयं च सर्प इति मातापितृप्रभृतिभि: शब्दै: शनै: शनैरङ्गुल्या निर्देशने तत्र तत्र बहुश: शिक्षित: तैरेव शब्दैस्तेष्वर्थेषु स्वात्मनश्च बुद्ध्युत्पत्तिं दृष्ट्वा तेष्वर्थेषु तेषां शब्दानामङ्गुल्या निर्देशपूर्वक: प्रयोग: सम्बन्धान्तराभावात् संकेतयितृ-पुरुषाज्ञानाच्च बोधकत्वनिबन्धन इति क्रमेण निश्चित्य पुनरप्यस्य शब्दस्यायमर्थ इति पूर्ववृद्धै: शिक्षित: सर्वशब्दानामर्थमवगम्य स्वयमपि सर्वं वाक्यजातं प्रयुङ्क्ते । एवमेव सर्वपदानां स्वार्थाभिधायित्वं संघातविशेषणां च यथावस्थितसंसर्गविशेषवाचित्वं च जानातीति कार्यार्थैव व्युत्तिपत्तिरित्यादिनिर्बन्धो निर्निबन्धन: । अत: परिष्पन्ने वस्तुनि शब्दस्यबोधकत्वशक्त्यवधारणात् सर्वाणि वेदान्तवाक्यानि सकलजगत्कारणं सर्वकल्याणगुणाकरमुक्तलक्षणं ब्रह्म बोधयन्त्येव ।

(कार्य एवार्थे व्युत्पत्तेरभ्युपगमेऽपि, वेदान्तानां सिद्धस्वरूपब्रह्मबोधकत्वोपपादनम्)

अपि च कार्यार्थ एव व्युत्पत्तिरस्तु । वेदान्दवाक्यान्यप्युपासनविषयकार्याधिकृत-विशेषणभूतफलत्वेन दु:खासंभिन्नदेशविशेषरूपस्वर्गादिवद्रात्रिसत्रप्रतिष्ठानादिवदपगोरणशतयातना-साध्यसाधनभाववच्च कर्योपयोगितयैव सर्वं बोधयन्ति । तथाहि  ब्रह्मविदाप्नोति परम् (तै.उ.आ.१.१) इत्यत्र ब्रह्मोपासनविषयकार्याधिकृत-विशेषणभूतफलत्वेन ब्रह्मप्राप्ति: श्रूयते  परप्राप्तिकामो ब्रह्म विद्यादित्यत्र प्राप्यतया प्रतीयमानं ब्रह्मस्वरूपं तद्विशेषणं च सर्वं कार्योपयोगितयैव सिद्धं भवति । तदन्तर्गतमेव जगत्स्रष्टृत्वं संहर्तृत्वमाधारत्वमन्तरात्मत्वम् इत्याद्युक्तमनुक्तं च सर्वमिति न किंचिदनुपपन्नम् ।

(मन्त्रार्थवादाद्यभिधेयस्यार्थस्य यागोपासनादिकार्योपयोगितया सिद्धिः)

एवं च सति मन्त्रार्थवादगता ह्यविरुद्धा अपूर्वाश्चार्था: सर्वे विधिशेषतयैव सिद्धा भवन्ति । यथोक्तं द्रमिडभाष्ये  ऋणं हि वै जायत (द्र.भा) इति श्रुतेरित्युपक्रम्य यद्यप्यवदानस्तुतिपरं वाक्यं तथापि नासता स्तुतिरुपपद्यत इति ।

(उक्तस्यार्थस्योपपादनम्, प्राभाकरोक्तकार्यार्थानुपपत्तिस्फुटीकारश्च)

एतदुक्तं भवति – सर्वो ह्यर्थवादभागो देवताराधनभूतयागादे: साङ्गस्याराध्यदेवतायाश्चादृष्टरूपान् गुणान् सहस्रशो वदन् सहस्रश: कर्मणि प्राशस्त्यबुद्धिमुत्पादयति। तेषामसद्भावे प्राशस्त्यबुद्धिरेव न स्यादिति कर्मणि प्राशस्त्यबुद्ध्यर्थं गुणसद्भावमेव बोधयतीति, अनयैव दिशा सर्वे मन्त्रार्थवादावगता अर्था: सिद्धा: ।

(कार्यपदार्थशोधनम्)

अपि च कार्यवाक्यार्थवादिभि: किमिदं कार्यत्वं नामेति वक्तव्यम् । कृतिभावभाविता कृत्युद्देश्यता चेति चेत्। किमिदं कृत्युद्देश्यत्वम् । यदधिकृत्य कृतिर्वर्तते तत्कृत्युद्देश्यत्वमिति चेत् – पुरुषव्यापाररूपाया: कृते: कोऽयमधिकारो नाम । यत्प्राप्तीच्छया कृतिमुत्पादयति पुरुष: तत्कृत्युद्देश्यत्वमिति चेद्धन्त तर्हीष्टत्वमेव कृत्युद्देश्यत्वम् ।

(प्रेरकत्वं कृत्युद्देश्यत्वम् इत्यभिप्रायस्य दूषणम्)

अथैवं मनुषे – इष्टस्यैव रूपद्वयमस्ति । इच्छाविषयतया स्थिति: पुरुषप्रेरकत्वं च । तत्र प्रेरकत्वाकार: कृत्युद्देश्यत्वमिति सोऽयं स्वपक्षाभिनिवेशकारितो वृथाश्रम: । तथा हीच्छाविषयतया प्रतीतस्य स्वप्रयत्नोत्पत्तिमन्तरेणासिद्धिरेव प्रेरकत्वम् । तत एव प्रवृत्ते: । इच्छायां जातायामिष्टस्य स्वप्रयत्नोत्पत्तिमन्तरेणासिद्धि: प्रतीयते चेत्ततश्चिकीर्षा जायते तत: प्रवर्तते पुरुष इति तत्त्वविदां प्रक्रिया । तस्मादिष्टस्य कृत्यधीनात्मलाभत्वातिरेकि कृत्युद्देश्यत्वं नाम किमपि न दृश्यते ।

(पुरुषानुकूलत्वं कृत्युद्देश्यत्वं इत्यभिप्रायस्य दूषणम्)

अथोच्येत  इष्टताहेतुश्च पुरुषानुकूलता । तत्पुरुषानुकूलत्वं कृत्युद्देश्यत्वमिति चेत् । नैवम्। पुरुषानुकूलं सुखमित्यनर्थान्तरम् । तथा पुरुषप्रतिकूलं दु:खपर्यायम् । अत: सुखव्यतिरिक्तस्य कस्यापि पुरुषानुकूलत्वं न संभवति ।

(सुखेतरस्यापि अनुकूलपदवाच्यत्वशङ्कातत्परिहारौ)

ननु च दु:खनिवृत्तेरपि सुखव्यतिरिक्ताया: पुरुषानुकूलता दृष्टा । नैतत् । आत्मानुकूलं सुखमात्मप्रतिकूलं दु:खमिति हि सुखदु:खयोर्विवेक: । तत्रात्मानुकूलं सुखमिष्टं भवति । तत्प्रतिकूलं दु:खं चानिष्टम् । अतो दु:खसंयोगस्यासह्यतया तन्निवृत्तिरपीष्टा भवति । तत एवेष्टतासाम्यादनुकूलताभ्रम: । तथा हि  प्रकृतिसंसृष्टस्य संसारिण: पुरुषस्यानुकूलसंयोग: प्रतिकूलसंयोग: स्वरूपेणावस्थितिरिति च तिस्रोऽवस्था:। तत्र प्रतिकूलसंबन्धनिवृत्तिश्चानुकूल-संबन्धनिवृत्तिश्च स्वरूपेणावस्थितिरेव। तस्मात्प्रतिकूलसंयोगे वर्तमाने तन्निवृत्तिरूपा स्वरूपेणावस्थितिरपीष्टा भवति । तत्रेष्टतासाम्यात् अनुकूलताभ्रम:।

अत: सुखरूपत्वादनुकूलताया: नियोगस्यानुकूलतां वदन्तं प्रामाणिका: परिहसन्ति । इष्टस्यार्थविशेषस्य निवर्तकतयैव हि नियोगस्य नियोगत्वं स्थिरत्वमपूर्वत्वं च प्रतीयते । स्वर्गकामो यजेत (का.श्रौ.सू.४.४७) इत्यत्र कार्यस्य क्रियातिरिक्तता, स्वर्गकामपदसमभिव्याहारेण स्वर्गसाधनत्वनिश्चयादेव भवति।

(नियोगस्य तदुक्तप्राधान्यादेः प्रतिक्षेपः)

न च वाच्यं यजेतेत्यत्र प्रथमं नियोग: स्वप्रधानतयैव प्रतीयते स्वर्गकामपदसमभिव्याहारात्स्वसिद्धये स्वर्गसिद्ध्यनुकूलता च नियोगस्येति । यजेतेति हि धात्वर्थस्य पुरुषप्रयत्नसाध्यता प्रतीयते । स्वर्गकामपदसमभिव्याहारादेव धात्वर्थातिरेकिणो नियोगत्वं स्थिरत्वमपूर्वत्वं चेत्यादि । तच्च स्वर्गसाधनत्वप्रतीतिनिबन्धनम् । समभिव्याहृत-स्वर्गकामपदार्थान्वययोग्यं स्वर्गसाधनमेव कार्यं लिङादयोऽभिदधतीति लोकव्युत्पत्तिरपि तिरस्कृता ।

(परोक्तस्य नियोगस्य तदुक्तानन्यार्थत्वस्य प्रतिक्षेपः)

एतदुक्तं भवति  समभिव्यहृतपदान्तर-वाच्यार्थान्वययोग्यमेव इतरपदप्रतिपाद्यम् इत्यन्विताभिधायिपदसंघातरूपवाक्यश्रवण-समनन्तरमेव प्रतीयते । तच्च स्वर्गसाधनरूपम् । अत: क्रियावदनन्यार्थतापि विरोधादेव परित्यक्तेति । अत एव गङ्गायां घोष इत्यादौ घोषप्रतिवास-योग्यार्थोपस्थापनपरत्वं गङ्गापदस्याश्रीयते ।प्रथमं गङ्गापदेन गङ्गार्थ: स्मृत इति गङ्गापदार्थस्य पेयत्वं न वाक्यार्थान्वयीभवति ।एवमत्रापि यजेतेत्येतावन्मात्रश्रवणे कार्यमनन्यार्थं स्मृतमिति वाक्यार्थान्वयसमये कार्यस्यानन्यार्थता नावतिष्ठते।

(नियोगस्य पुरुषानुकूलतायाः प्रतिक्षेपः)

कार्याभिधायिपदश्रवणवेलायां प्रथमं कार्यमनन्यार्थं प्रतीतमित्येतदपि न संगच्छते । व्युत्पत्तिकाले गवानयनादिक्रियाया दु:खरूपाया इष्टविशेषसाधनतयैव कार्यताप्रतीते: । अतो नियोगस्य पुरुषानुकूलत्वं सर्वलोकविरुद्धं नियोगस्य सुखरूपपुरुषानुकूलतां वदत: स्वानुभवविरोधश्च। कारीर्या वृष्टिकामो यजेत (तै.सं.सा.भा.२.४.७) इत्यादिषु सिद्धेऽपि नियोगे वृष्ट्यादिसिद्धिनिमित्तस्य वृष्टिव्यतिरेकेण नियोगस्यानुकूलता नानुभूयते । यद्यप्यस्मिञ्जन्मनि वृष्ट्यादिसिद्धेरनियमस्तथाप्यनियमादेव नियोगसिद्धिरवश्याश्रयणीया । तस्मिन्ननुकूलतापर्याय-सुखानुभूतिर्न दृश्यते । एवमुक्तरीत्या कृतिसाध्येष्टत्वातिरेकिकृत्युद्देश्यत्वं न दृश्यते ।

(कृत्युद्देश्यत्वस्वरूपविवेचनम्)

कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वमिति चेत् । किमिदं शेषित्वं किं च शेषत्वमिति वक्तव्यम् । कार्यं प्रति संबन्धी शेष: । तत्प्रतिसंबन्धित्वं शेषित्वमिति चेत् । एवं तर्हि कार्यत्वमेव शेषित्वमित्युक्तं भवति । कार्यत्वमेव विचार्यते । परोद्देशप्रवृत्तकृतिव्याप्त्यर्हात्वं शेषत्वमिति चेत् । कोऽयं परोद्देशो नामेति ।

(शेषशेषिभावस्वरूपनिर्णयः)

अयमेव हि विचार्यते । उद्देश्यत्वं नामेप्सितसाध्यत्वमिति चेत् । किमिदमीप्सितत्वम् ? कृतिप्रयोजनत्वमिति चेत्पुरुषस्य कृत्यारम्भप्रयोजनमेव हि कृतिप्रयोजनम् । स चेच्छाविषय: कृत्यधीनात्मलाभ इति पूर्वोक्त एव। अयमेव हि सर्वत्र शेषशेषिभाव: । परगतातिशयाधानेच्छाया उपादेयत्वमेव यस्य स्वरूपम्  स शेष: पर: शेषी । फलोत्पत्तीच्छया यागादेस्तत्प्रयत्नस्य चोपादेयत्वं यागादिसिद्धीच्छया अन्यत्सर्वमुपादेयम् ।        एवं गर्भदासादीनामपि पुरुषविशेषा-तिशयाधान उपादेयत्वमेव स्वरूपम् ।

(सर्वस्यापि ईश्वरशेषता)

एवमीश्वरगतातिशयाधानेच्छया उपादेयत्वमेव चेतनाचेतनात्मकस्य नित्यस्यानित्यस्य च सर्वस्य वस्तुन: स्वरूपमिति सर्वमीश्वरशेषत्वमेव सर्वस्य चेश्वर: शेषीति सर्वस्य वशी सर्वस्येशान: (बृ.उ.६.४.२२), पतिं विश्वस्य, इत्याद्युक्तम् । कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयत इत्ययमर्थ: श्रद्दधानेष्वेव शोभते ।

(प्राभाकरसम्मतकार्यानुबन्ध्यर्थदूषणम्)

अपि च स्वर्गकामो यजेत (का.श्री.सू.4-3-47) इत्यादिषु लकारवाच्यकर्तृविशेषसमर्पणपराणां स्वर्गकामादिपदानां नियोज्यविशेषसमर्पणपरत्वं शब्दानुशासनविरुद्धं केनावगम्यते?

साध्यस्वर्गविशिष्टस्य स्वर्गसाधने कर्तृत्वान्वयो न घटत इति चेत् । नियोज्यत्वान्वयोऽपि न घटत इति हि स्वर्गसाधनत्वनिश्चय: । स तु शास्त्रसिद्धे कर्तृत्वान्वये स्वर्गसाधनत्वनिश्चय: क्रियते। यथा भोक्तुकामो देवदत्तगृहं गच्छेदित्युक्ते भोजनकामस्य देवदत्तगृहगमने कर्तृत्वश्रवणादेव प्रागज्ञातमपि भोजनसाधनत्वं देवदत्तगृहगमनस्यावगम्यते। एवमत्रापि भवति । न क्रियान्तरं प्रति कर्तृतया श्रुतस्य क्रियान्तरे कर्तृत्वकल्पनं युक्तम्  यजेतेति हि यागकर्तृतया श्रुतस्य बुद्धौ कर्तृत्वकल्पनं क्रियते । बुद्धे: कर्तृत्वकल्पनमेव हि नियोज्यत्वम् । यथोक्तं नियोज्यस्स च कार्यं य: स्वकीयत्वेन बुध्यते (प्रक.पं.२) इति । यष्टृत्वानुगुणं तद्बोधृत्वमिति चेत्, देवदत्त: पचेदिति पाककर्तृतया श्रुतस्य देवदत्तस्य पाकार्थगमनं पाकानुगुणमिति गमने कर्तृत्वकल्पनं न युज्यते।

(कर्मफलप्रदत्वेन परमात्मनस्सिद्ध्या, अपूर्वस्यानुपयोगः)

किं च लिङादिशब्दवाच्यं स्थायिरूपं किमित्यपूर्वमाश्रीयते । स्वर्गकामपद-समभिव्याहारानुपपत्तेरिति चेत्। काऽत्रानुपपत्ति: । सिषाधयिषितस्वर्गो हि स्वर्गकाम: । तस्य स्वर्गकामस्य कालान्तरभाविस्वर्गसिद्धौ क्षणभङ्गिनी यागादिक्रिया न समर्थेति चेत् । अनाघ्रातवेदसिद्धान्तानामियमनुपपत्ति: । सर्वै: कर्मभिराराधित: परमेश्वरो भगवान्नारायणः तत्तदिष्टं फलं ददातीति वेदविदो वदन्ति । यथाहुर्वेदविदग्रेसरा द्रमिडाचार्या:  फलसंबिभत्सया हि कर्मभिरात्मानं पिप्रीषन्ति स प्रीतोऽलं फलाय इति शास्त्रमर्यादा इति । फलसंबन्धेच्छया कर्मभिर्यागदानहोमादिभिरिन्द्रादिदेवतामुखेन तत्तदन्तर्यामिरूपेणावस्थितमिन्द्रादि-शब्दवाच्यं परमात्मानं भगवन्तं वासुदेवमारिराधयिषन्ति, स हि कर्मभिराराधितस्तेषामिष्टानि फलानि प्रयच्छतीत्यर्थ: ।

(परमात्मनः कर्मफलप्रदातृतायाः श्रुतितः सिद्धिः)

तथा च श्रुति:  इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभि:  (तै.ना.उ.११.६) इति । इष्टापूर्तमिति सकलश्रुतिस्मृतिचोदितं कर्मोच्यते । तद्विश्वं बिभर्ति  इन्द्राग्निवरुणादिसर्वदेवता-संबन्धितया प्रतीयमानं तत्तदन्तरात्मतयावस्थित: परमपुरुष: स्वयमेव बिभर्ति स्वयमेव स्वीकरोति । भुवनस्य नाभि:  ब्रह्मक्षत्रादिसर्ववर्णपूर्णस्य भुवनस्य धारक:  तैस्तै: कर्मभिराराधितस्तत्तदिष्टफलप्रदानेन भुवनानां धारक इति नाभिरित्युक्त: । अग्निवायुप्रभृतिदेवतान्तरात्मतया तत्तच्छब्दाभिधेयोऽयमेवेत्याह-

    तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमा:   (तै.ना.उ.१.७) इति ।

यथोक्तं भगवता

(उक्तस्यार्थस्य भगवद्वचनतः स्फुटीकरणम)

यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति ।

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥    (भ.गी.७.२१)

स तस्य श्रद्धया युक्तस्तस्याराधनमीहते ।

लभते च तत: कामान्मयैव विहितानिह तान् ॥   (भ.गी.७.२२) इति ।

यां यां तनुमितीन्द्रादिदेवताविशेषास्तत्तदन्तर्यामितयावस्थितस्य भगवतस्तनव: शरीराणीत्यर्थ: ।

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।  (भ.गी.९.२४)

इत्यादि । प्रभुरेव चेति सर्वफलानां प्रदाता चेत्यर्थ: । यथा च

यज्ञैस्त्वमिज्यसे नित्यं सर्वदेवमयाच्युत ।      (वि.पु.५.२०.६५)

यै: स्वधर्मपरैर्नाथ नरैरादाधितो भवान् ।

ते तरन्त्यखिलामेतां मयामात्मविमुक्तये ॥     (वि.पु.५.३०.१६)

इति । सेतिहासपुराणेषु सर्वेष्वेव वेदेषु सर्वाणि कर्माणि सर्वेश्वराराधनरूपाणि, तैस्तै: कर्मभिराराधित: पुरुषोत्तमस्तत्तदिष्टं फलं ददातीति तत्र तत्र प्रपञ्चितम् ।

(भगवत एव सर्वकर्मभोक्तृत्वं फलप्रदत्वं च)

एवमेव हि सर्वज्ञं सर्वशक्तिं सर्वेश्वरं भगवन्तम् इन्द्रादिदेवतान्तर्यामिरूपेण यागदानहोमादिवेदोदितसर्वकर्मणां भोक्तारं सर्वफलानां प्रदातारं च सर्वा: श्रुतयो वदन्ति । चतुर्होतारो यत्र संपदं गच्छन्ति देवै: (तै.आ.११.३) इत्याद्या: । चतुर्होतारो यज्ञा:, यत्र परमात्मनि देवेष्वन्तर्यामिरूपेणावस्थिते, देवै: संपदं गच्छन्ति  देवै: संबन्धं गच्छन्ति यज्ञा इत्यर्थ: । अन्तर्यामिरूपेणावस्थितस्य परमात्मन: शरीरतयावस्थितानामिन्द्रादीनां यागादिसंबन्ध इत्युक्तं भवति। यथोक्तं भगवता

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । (भ.गी.५.२९)

इति । तस्मादग्न्यादिदेवतान्तरात्मभूतपरमपुरुषाराधनरूपभूतानि सर्वाणि कर्माणि, स एव चाभिलषितफलप्रदातेति किमत्रापूर्वेण व्युत्पत्तिपथदूरवर्तिना वाच्यतयाभ्युपगतेन कल्पितेन वा प्रयोजनम्।

(लिङाद्यर्थविशदीकरणम्)

एवं च सति लिङादे: कोऽयमर्थ: परिगृहीतो भवति । यज् देवपूजायां (पा.धा.१००२) इति देवताराधनभूतयागादे: प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयोऽभिदधतीति न किंचिदनुपपन्नम् । कर्तृवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्य: । भूतवर्तमानादिकमन्ये वदन्ति । लिङादयस्तु कर्तृव्यापारसाध्यतां वदन्ति ।

 अपि च कामिन: कर्तव्यता कर्म विधाय कर्मणो देवताराधनरूपतां तद्द्वारा फलसंभवं च तत्तत्कर्मविधिवाक्यान्येव वदन्ति । वायव्यं श्वेतमालभत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति (तै.सं.२.१.१.१) इत्यादीनि ।

(यागादेः फलसाधनत्वावगमस्य औपदानिकत्वशङ्कापरिहारौ)

नात्र फलसिद्ध्यनुपपत्ति: कापि दृश्यत इति फलसाधनत्वावगतिरौपादानिकीत्यपि न संगच्छते; विध्यपेक्षितं यागादे: फलसाधनत्वप्रकारं वाक्यशेष एव बोधयतीत्यर्थ: । तस्मात् ब्राह्मणाय नापगुरेत (तै.सं.२.६.१०.१)  इत्यत्रापगोरणनिषेधविधिपरवाक्यशेषे श्रूयमाणं निषेध्यस्यापगोरणस्य शतयातनासाधनत्वं निषेधविध्युपयोगीति हि स्वीक्रियते । अत्र पुन: कामिन: कर्तव्यतया विहितस्य यागादे: काम्यस्वर्गादि-साधनत्वप्रकारं वाक्यशेषावगतमनादृत्य किमित्युपादानेन यागादे: फलसाधनत्वं परिकल्प्यते । हिरण्यनिधिमपवरके निधाय याचते कोद्रवादिलुब्ध: कृपणं जनमिति श्रूयते तदेतद्युष्मासु दृश्यते ।

(चेतनस्य सुखदुःखादीनां परमपुरुषायत्तत्वम्, श्रुत्यादिसिद्धम्)

शतयातनासाधनत्वमपि नादृष्टद्वारेण । चोदितान्यनुतिष्ठतो विहितं कर्माकुर्वतो निन्दितानि च कुर्वत: सर्वाणि सुखानि दु:खानि च परमपुरुषानुग्रहनिग्रहाभ्यामेव भवन्ति । एष ह्येवानन्दयाति (तै.उ.आ.७.१),  अथो सोऽभयं गतो भवति (तै.उ.आ.७.२), अथ तस्य भयं भवति (तै.उ.आ.७.२),  भीषास्माद्वात: पवते भीषोदेति सूर्य:, भीषास्मादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चम: (तै.उ.आ.८.१) इति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत:  एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्या: प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ता: (बृ.उ.५.८.८) इत्याद्यनेकविधा: श्रुतय: सन्ति । यथोक्तं द्रमिडभाष्ये  तस्याज्ञया धावति वायुर्नद्य: स्रवन्ति तेन च कृतसीमानो जलाशया: समदा इव मेषविर्सपितं कुर्वन्ति (द्र.भा) इति । तत्संकल्पनिबन्धना हीमे लोका: न च्यवन्ते न स्फुटन्ते; स्वशासनानुवर्तिनां ज्ञात्वा कारुण्यात्स भगवान् वर्धयेत विद्वान् कर्मदक्ष: (द्र.भा) इति च ।

(विहितनिषिद्धानुष्ठानयोः परमपुरुषनिग्रहानुग्रहद्वारा सुखदुःखादिहेतुत्वम्)

परमपुरुष-याथात्म्यज्ञानपूर्वकतदुपासनादिविहितकर्मानुष्ठायिन: तत्प्रसादात्तत्प्राप्ति-पर्यन्तानि सुखान्यभयं च यथाधिकारं भवन्ति । तज्ज्ञानपूर्वकं तदुपासनादिविहितं कर्माकुर्वतो निन्दितानि च कुर्वतस्तन्निग्रहादेव तदप्राप्तिपूर्वकापरिमितदु:खानि भयं च भवन्ति । यथोक्तं भगवता नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मण: (भ.गी.३.८) इत्यादिना कृत्स्नं कर्म ज्ञानपूर्वकमनुष्ठेयं विधाय, मयि सर्वाणि कर्माणि संन्यस्य (भ.गी.३.३०) इति सर्वस्य कर्मण: स्वाराधनतामात्मनां स्वनियाम्यतां च प्रतिपाद्य,

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवा: ।

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभि: ॥  (भ.गी.३.३१)

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।

सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतस: ॥  (भ.गी.३.३२)

इति स्वाज्ञानुवर्तिन: प्रशस्य विपरीतान् विनिन्द्य पुनरपि स्वाज्ञानुपालनमकुर्वतामासुरप्रकृत्यन्तर्भावं अभिधायाधमा गतिश्चोक्ता ।

तानहं द्विषत: क्रूरान् संसारेषु नराधमान् ।

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥    (भ.गी.१६.१९)

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।

मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥     (भ.गी.१६.२०) इति ।

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रय: ।

 मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥   (भ.गी.१८.५६)

इति च स्वाज्ञानुवर्तिनां शाश्वतं पदं चोक्तम् ।

(कर्मकाण्डीयदेवताधिकरणतात्पर्यं ऐक्यशास्त्रस्य वेदवित्सम्मतत्वञ्च)

अश्रुतवेदान्तानां कर्मण्यश्रद्धा मा भूदिति देवता-धिकरणे अतिवादा: कृता: कर्ममात्रे यथा श्रद्धा स्यादिति सर्वमेकशास्त्रमिति वेदवित्सिद्धान्त: ।

(परमात्मनः भोग्यभोगोपकरणभोगस्तानात्मकनित्यविभूतिमत्त्वम्)

तस्यैतस्य परस्य ब्रह्मणो नारायणस्यापरिच्छेद्यज्ञानानन्दामलत्वस्वरूपवज्ज्ञान-शक्तिबलैश्वर्यवीर्यतेज: प्रभृत्यनवधिकातिशयासंख्येयकल्याणगुणवत्स्वसंकल्पप्रवर्त्यस्वेतर-समस्तचिदचिद्वस्तुजातवत्स्वाभिमतस्वानुरूपैकरूप दिव्यरूपतदुचितनिरतिशयकल्याणविविधानन्तभूषणस्वशक्तिसदृशापरिमितानन्ताश्चर्य-नानाविधायुधस्वाभिमतानुरूप स्वरूपगुणविभवैश्वर्यशीलादि अनवधिकमहिममहिषीस्वानुरूपकल्याणज्ञानक्रियाद्यपरिमेयगुणानन्तपरिजनपरिच्छेदस्वोचित-निखिलभोग्यभोगोपकरणाद्यनन्तमहाविभवावाङ्मनसगोचरस्वरूपस्वभावदिव्यस्थानादिनित्यता-निरवद्यतागोचराश्च सहस्रश: श्रुतय: सन्ति ।

(नित्यविभूतिदिव्यविग्रहादिविषयिण्यः श्रुतयः)

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमस: परस्तात् (तै.आ.पु.३.१३.२), य एषोऽन्तरादित्ये हिरण्मय: पुरुष: । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी । (छा.उ.१.६.६.७) य एषोऽन्तर्हृादय आकाशस्तस्मिन्नयं पुरुषो मनोमयोऽमृतो हिरण्मय: । (तै.उ.शी.६.१)  मनोमय इति मनसैव विशुद्धेन गृह्यत इत्यर्थ:  सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधि  (तै.ना.उ.११.११) विद्युद्वर्णात्पुरुषादित्यर्थ:  नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा (तै.ना.उ.११.११) मध्यस्थनीलतोयदा विद्युल्लेखेव सेयं दहरपुण्डरीकमध्यस्थाकाशवर्तिनी वह्निशिखा, स्वान्तर्निहित-नीलतोयदाभपरमात्मस्वरूपा स्वान्तर्निहितनीलतोयदा विद्युदिवाभातीत्यर्थ: । मनोमय:   प्राणशरीरो भारूप:, सत्यकाम: सत्यसंकल्प:, आकाशात्मा सर्वकामा सर्वकाम: सर्वगन्ध: सर्वरस: सर्वमिदं अभ्यात्त: अवाक्यानादर:  (छा.उ.३.१४.२), माहारजनं वास (बृ.उ.४.३.६) इत्याद्या: । अस्येशाना जगतो विष्णुपत्नी (तै.सं.४.४.१२.१४), ह्रीश्च ते लक्ष्मीश्च पत्न्यौ (तै.आ.पु.३.१३.६), तद्विष्णो: परमं पदं सदा पश्यन्ति सूरय: (सुबा.उ.६), क्षयन्तमस्य रजस: पराके (तै.सं.२.२.१२.१८), यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमस: परस्तात् (तै.ना.उ.१.५), यो वेद निहितं गुहायां परमे व्योमन् (तै.उ.आ.१.१), योऽस्याध्यक्ष: परमे व्योमन् (तै.ब्रा.२.८.९.६), तदेव भूतं तदु भव्यमा इदं तदक्षरे परमे व्योमन् (तै.ना.उ.१.२) इत्यादिश्रुतिशतनिश्चितोऽयमर्थ: ।

तद्विष्णो: परमं पदम् (सुबा.उ.५) इति विष्णो: परस्य ब्रह्मण: परं पदं सदा पश्यन्ति सूरय इति वचनात्सर्वकालदर्शनवन्त: परिपूर्णज्ञाना: केचन सन्तीति विज्ञायते ।

(तद्विष्णोः परमं पदम् इति श्रुतौ अनेकार्थविधानकृतवाक्यभेदशङ्का तत्परिहारौ)

ये सूरयस्ते सदा पश्यन्तीति वचनव्यक्ति:, ये सदा पश्यन्ति ते सूरय इति वा । उभयपक्षेऽप्यनेकविधानं न संभवतीति चेन्न, अप्राप्तत्वात्सर्वस्य सर्वविशिष्टं परमं स्थानं विधीयते । यथोक्तं  तद्गुणास्ते विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टा: (पू.मी.सू.१.४.९) इति । यथा यदाग्नेयोऽष्टाकपाल: (तै.सं.२.६.३.४) इत्यादिकर्मविधौ कर्मणो गुणानां चाप्राप्तत्वेन सर्वगुणविशिष्टं कर्म विधीयते, तथात्रापि सूरिभि: सदा दृश्यत्वेन विष्णो: परमस्थानमप्राप्तं प्रतिपादयतीति न कश्चिद्विरोध:।

(मन्त्रार्थविषये वैदिकानामाशयः)

करणमन्त्रा: क्रियमाणानुवादिन: स्तोत्रशस्त्ररूपा जपादिषु विनियुक्ताश्च प्रकरणपथिताश्च अप्रकरणपथिताश्च स्वार्थं सर्वं यथावस्थितमेवाप्राप्तमविरुद्धं ब्राह्मणवद्बोधयन्तीति हि वैदिका: । प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं स्तोत्रम् । अप्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं शस्त्रम् । विनियुक्तार्थप्रकाशिनां च देवतादिष्वप्राप्ताविरुद्धगुणविशेषप्रतिपादनं विनियोगानुगुणमेव ।

(तद्विष्णोः इति श्रुतः मुक्ताविषयकत्वाशङ्कापरिहारौ)

नेयं श्रुतिर्मुक्तजनविषया । तेषां सदादर्शनानुपपत्ते: । नापि मुक्तप्रवाहविषया । सदा पश्यन्ति (सुबा.६) इत्येकैककर्तृकविषयतया प्रतीते: श्रुतिभङ्गप्रसङ्गात् । मन्त्रार्थवादगता ह्यर्था: कार्यपरत्वेऽपि सिद्ध्यन्तीत्युक्तम्। किं पुन: सिद्धवस्तुन्येव तात्पर्ये व्युत्पत्तिसिद्ध इति सर्वमुपपन्नम् ।

(तद्विष्णोः श्रुतेः अर्थान्तरपरत्वचोद्यं तत्परिहारश्च)

ननु चात्र तद्विष्णो: परमं पदम् (सुबा.उ.६) इति परस्वरूपमेव परमपदशब्देनाभिधीयते । समस्तहेयरहितं विष्ण्वाख्यं परं पदम् (वि.पु.१.२२.५३) इत्यादिष्वव्यतिरेकदर्शनात् । नैवम् । क्षयन्तमस्य रजत: पराके (तै.सं.२.३,१२.१८), तदक्षरे परमे व्योमन् (तै.ना.उ.१.२), यो अस्याध्याक्ष: परमे व्योमन् (तै.ब्रा.२.८.९.६), यो वेद निहितं गुहायां परमे व्योमन् (तै.उ.आ.१.१) इत्यादिषु परमस्थानस्यैव दर्शनम् । तद्विष्णो: परमं पदम् इति व्यतिरेकनिर्देशाच्च । विष्ण्वाख्यं परमं पदम् (वि.पु.१.२२.५३) इति विशेषणादन्यदपि परमं पदं विद्यत इति च तेनैव ज्ञायते । तदिदं परस्थानं सूरिभि: सदा दृश्यत्वेन प्रतिपाद्यते ।

(उक्तस्थले परमपदशब्दार्थविशदीकरणम्)

एतदुक्तं भवति –  क्वचित्परस्थानं परमपदशब्देन प्रतिपाद्यते, क्वचित्प्रकृतिवियुक्तात्म-स्वरूपं, क्वचिद्भगवत्स्वरूपम् । तद्विष्णो: परमं पदं सदा पश्यन्ति सूरयः (सुबा.उ.६) इति परस्थानम् । सर्गस्थित्यन्तकालेषु त्रिविधैव प्रवर्तते । गुणप्रवृत्त्या परमं पदं तस्यागुणं महत् ॥ (वि.पु.१.२२.४१) इत्यत्र प्रकृतिवियुक्तात्मस्वरूपम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ (वि.पु.१.२२.५३) इत्यत्र भगवत्स्वरूपम् । त्रीण्यप्येतानि परमप्राप्तत्वेन परमपदशब्देन प्रतिपाद्यन्ते।

(परमपदशब्दबोध्यार्थत्रयस्यापि प्राप्यतौचित्यम्)

कथं त्रयाणां परमप्राप्यत्वमिति चेत् । भगवत्स्वरूपं परमप्राप्यत्वादेव परमं पदम् । इतरयोरपि भगवत्प्राप्तिगर्भत्वादेव परमपदत्वम् । सर्वकर्मबन्धविनिर्मुक्तात्मस्वरूपावाप्ति: भगवत्प्राप्तिगर्भा । त इमे सत्या: कामा अनृतापिधाना: (छा.उ.८.३.१) इति भगवतो गुणगणस्य तिरोधायकत्वेनानृतशब्देन स्वकर्मण: प्रतिपादनात् ।

(अनृतशब्दस्य परमपदप्राप्तिविरोधिक्षेत्रज्ञकर्मवाचिता)

अनृतरूपतिरोधानं क्षेत्रज्ञकर्मेति कथमवगम्यत इति चेत् । अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते । (वि.पु.६.७.६१)  यया क्षेत्रज्ञशक्ति: सा वेष्टिता नृप सर्वगा ॥ संसारतापानखिलान् अवाप्नोत्यतिसंततान् । (वि.पु.६.७.६२) तया तिरोहितत्वाच्च (वि.पु.६.७.६३) इत्यादिवचनात्।

परस्थानप्राप्तिरपि भगवत्प्राप्तिगर्भैवेति सुव्यक्तम् ।

(परमपदाख्यविष्णुस्थानस्य श्रुत्यन्तरात् सिद्धिः)

क्षयन्तमस्य रजस: पराके (तै.सं.२.२.१२.१८) इति रजश्शब्देन त्रिगुणात्मिका प्रकृतिरुच्यते केवलस्य रजसोऽनवस्थानात् । इमां त्रिगुणात्मिकां प्रकृतिमतिक्रम्य स्थिते स्थाने क्षयन्तम्  वसन्तमित्यर्थ: । अनेन त्रिगुणात्मकात्क्षेत्रज्ञस्य भोग्यभूताद्वस्तुन: परस्ताद्विष्णोर्वासस्थानमिति गम्यते । वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमस: परस्तात् (तै.आ.पु.३.१३.२) इत्यत्रापि तम:शब्देन सैव प्रकृतिरुच्यते । केवलस्य तमसोऽनवस्थानादेव । रजस: पराके क्षयन्तमित्यनेनैक-वाक्यत्वात्तमस: परस्ताद्वसन्तं महान्तमादित्यवर्णं पुरुषमहं वेदेत्ययमर्थोऽवगम्यते ।

(अस्य परमपदस्य अक्षरपरमव्योमादिशब्दाभिधेयता)

सत्यं ज्ञानमनन्तं ब्रह्म, यो वेद निहितं गुहायां परमे व्योमन् (तै.उ.आ.१.१), तदक्षरे परमे व्योमन् (तै.उ.आ.१.२) इति तत्स्थानमविकाररूपं परमव्योमशब्दाभिधेयमिति च गम्यते । अक्षरे परमे व्योमन्नित्यस्य स्थानस्याक्षरत्वश्रवणात्क्षररूपादित्य-मण्डलादयो न परमव्योमशब्दाभिधेया: । यत्र पूर्वे साध्या: सन्ति देवा: (तै.आ.पु.३.१२.१८), यत्रर्षय: प्रथमजा ये पुराणा: (तै.सं.४.७.१३.२) इत्यादिषु च त एव सूरय इत्यवगम्यते । तद्विप्रासो विपण्यवो जागृवांस: समिन्धते विष्णोर्यत्परं पदम् (सुबा.उ.६) इत्यत्रापि विप्रासो – मेधाविन:, विपन्यव: – स्तुतिशीला:, जागृवांस: – अस्खलितज्ञाना:। त एवास्खलितज्ञानास्तद्विष्णो: परमं पदं सदा स्तुवन्त: समिन्धत इत्यर्थ: ।

एतेषां परिजनस्थानादीनां सदेव सोम्येदमग्र आसीत् (छा.उ.६.२.१) इत्यत्र ज्ञानबलैश्वर्यादि-कल्याणगुणगणवत् परब्रह्मस्वरूपान्तर्भूतत्वात्सदेवैकमेवाद्वितीयमिति ब्रह्मान्तर्भावोऽवगम्यते। एषामपि कल्याणगुणैकदेशत्वादेव सदेव सोम्येदमग्र आसीत् (छा.उ.६.२.१) इत्यत्रेदमिति शब्दस्य कर्मवश्यभोक्तृवर्गमिश्रतद्भोग्यभूतप्रपञ्चविषयत्वाच्च सदा पश्यन्ति सूरयः (सुबा.उ.६)इति सदादर्शित्वेन च तेषां कर्मवश्यानन्तर्भावात् । अपहतपाप्मा (छा.उ.८.१.५) इत्यादि अपिपास: (छा.उ.८.१.५) इत्यन्तेन सलीलोपकरणभूतत्रिगुण-प्रकृतिप्राकृततत्संसृष्टपुरुषगतं हेयस्वभावं सर्वं प्रतिषिध्य सत्यकाम इत्यनेन स्वभोग्यभोगोपकरणजातस्य सर्वस्य सत्यता प्रतिपादिता । सत्या: कामा यस्यासौ सत्यकाम:। काम्यन्त इति कामा: । तेन परेण ब्रह्मणा स्वभोग्यतदुपकरणादय: स्वाभिमता ये काम्यन्ते ते सत्या:  नित्या इत्यर्थ: । अन्यस्य लीलोपकरणस्यापि वस्तुन: प्रमाणसंबन्धयोग्यत्वे सत्यपि विकारास्पदत्वेनास्थिरत्वाद्तद्विपरीतं स्थिरत्वमेषां सत्यपदेनोच्यते। सत्यसंकल्प: (छा.उ.८.१.५) इत्येतेषु भोग्यतदुपकरणादिषु नित्येषु निरतिशयेष्वनन्तेषु सत्स्वप्यपूर्वाणामपरिमितानामर्थानामपि संकल्पमात्रेण सिद्धिं वदति । एषां च भोगोपकरणानां लीलोपकरणानां चेतनानामचेतनानां स्थिराणामस्थिराणां च तत्संकल्पायत्तस्वरूपस्थितिप्रवृत्तिभेदादि सर्वं वदति सत्यसंकल्प:  (छा.उ.८.१.५) इति ।

(उक्तार्थानां वेदोपबृंहणतो लाभः)

इतिहासपुराणयोर्वेदोपबृंहणयोश्चायमर्थ उच्यते –

तौ तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।

वेदोपबृंहणार्थाय तावग्राहयत प्रभु: ॥    (वा.रा.बा.४.६)

इति वेदोपबृंहणतया प्रारब्धे श्रीमद्रामायणे –

व्यक्तमेष महायोगी परमात्मा सनातन: ।

अनादिमध्यनिधनो महत: परमो महान् ॥  (वा.रा.यु.११४.१४)

तमस: परमो धाता शङ्खचक्रगदाधर: ।

श्रीवत्सवक्षा नित्यश्रीरजय्य: शाश्वतो ध्रुव: ॥      (वा.रा.यु.११४.१५)

शारा नानाविधाश्चापि धनुरायतविग्रहम् ।

अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहा: ॥         (उ.रा.१०९.७)

विवेश वैष्णवं तेज: सशरीर: सहानुग: ॥              (उ.रा.११०.१२)

श्रीमद्वैष्णवपुराणे

समस्ता: शक्तयश्चैता नृप यत्र प्रतिष्ठिता: ।

तद्विश्वरूवैरूप्यं रूपमन्यद्धरेर्महत् ॥               (वि.पु.६.७.७०)

मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरि: ॥ (वि.पु.१.२२.६३)

नित्यैवैषा जगन्माता विष्णो: श्रीरनपायिनी ।

यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ (वि.पु.१.८.१७)

देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।

विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥ (वि.पु.१.१०.१४५)

एकान्तिन: सदा ब्रह्मध्यायिनो योगिनो हि ये ।

तेषां तत्परं स्थानं यद्वै पश्यन्ति सूरय: ॥ (वि.पु.१.६.३८)

कलामुहूर्तादिमयश्च कालो न यद्विभूते: परिणामहेतु: ॥ (वि.पु.४.१.३८)

महाभारते च

दिव्यं स्थानमजरं चाप्रमेयं दुर्विज्ञेय, चागमैर्गम्यमाद्यम् ।

गच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पे कल्पे जायमान: स्वमूर्त्या ॥ (म.भा.भौ.५.२७)

काल: सम्पच्यते तत्र न कालस्तत्र वै प्रभु: । (म.भा.शान्ति.१९१.९)

इति ।

(भगवद्दिव्यमङ्गळविग्रहादेः शारीरकसूत्रादितो लाभः)

परस्य ब्रह्मणो रूपवत्त्वं सूत्रकारश्च वदति  अन्तस्तद्धर्मोपदेशात् (ब्र.सू.१.१.२१)  इति । योऽसावादित्यमण्डलान्तर्वर्ती तप्तकार्तस्वरगिरिवरप्रभ: सहस्रांशुशतसहस्रकिरणो गम्भीराम्भस्स-मुद्भूतसुमृष्टनालरविकरविकसितपुण्डरीकदलामलायतेक्षण: सुभ्रूललाट: सुनास: सुस्मिताधरविद्रुम: सुरुचिरकोमलगण्ड: कम्बुग्रीव: समुन्नतांसविलम्बिचारुरूपदिव्यकर्णकिसलय: पीनवृत्तायतभुजश्चारु-तराताम्रकरतलानुरक्ताङ्गुलीभिरलंकृत: तनुमध्यो विशालवक्षस्स्थल: समविभक्तसर्वाङ्गः अनिर्देश्यदिव्यरूपसंहनन: स्निग्धवर्ण: प्रबुद्धपुण्डरीकचारुचरणयुगल: स्वानुरूपपीताम्बरधरः  अमलकिरीटकुण्डलहारकौस्तुभ केयूरकटकनूपुरोदरबन्धनाद्यपरिमिताश्चर्यानन्त-दिव्यभूषण: शङ्ख-चक्रगदासिश्रीवत्सवनमालालङ्कृतोऽनवधिकातिशय सौन्दर्याहृताशेषमनोदृष्टिवृत्तिर्लावण्यामृत- पूरिताशेषचराचरभूतजातोऽत्यद्भुताचिन्त्यनित्ययौवन: पुष्पहाससुकुमार: पुण्यगन्धवासितानन्त-दिगन्तरालस्त्रैलोक्याक्रमणप्रवृत्तगम्भीरभाव:। करुणानुरागमधुरलोचन- अवलोकिताश्रित-वर्ग: पुरुषवरो दरीदृश्यते । स च निखिलजगदुदयविभवलयलीलो निरस्तसमस्तहेय: समस्तकल्याणगुण-गणनिधि: स्वेतरसमस्तवस्तुविलक्षण: परमात्मा परं ब्रह्म नारायण इत्यवगम्यते । तद्धर्मोपदेशात्, स एष सर्वेषां लोकानामीष्टे सर्वेषां कामानाम्, स एष सर्वेभ्य: पापभ्य उदित: (छा.उ.१.६.७) इत्यादिदर्शनात् । तस्यैते गुणा: सर्वस्य वशी सर्वस्येशान: (बृ.उ.६.४.२२), अपहतपाप्मा विजर इत्यादि सत्यसंकल्प (छा.उ.८.१.५) इत्यन्तम्  विश्वत: परमं नित्यं विश्वं नारायणं हरिम् (तै.ना.उ.११.२), पतिं विश्वस्यात्मेश्वरम् इत्यादिवाक्यप्रतिपादिता:।

(भगवद्दिव्यमङ्गळविग्रहादेः वाक्यकारभाष्यकारसम्मतत्वम्)

वाक्यकारश्चैतत्सर्वं सुस्पष्टमाह – हिरण्यमय: पुरुषो दृश्यत इति प्राज्ञ: सर्वान्तर: स्याल्लोककामेशोपदेशात्तथोदयात्पाप्मनाम् (ब्र.न.वा) इत्यादिना । तस्य च रूपस्यानित्यतादि वाक्यकारेणैव प्रतिषिद्धम्  – स्यात्तद्रूपं कृतकमनुग्रहार्थं तच्चेतनानामैश्वर्यादित्युपासितुरनुग्रहार्थ: परमपुरुषस्य रूपसंग्रह (ब्र.न.वा) इति पूर्वपक्षं कृत्वा, रूपं वातीन्द्रियमन्त:करणप्रत्यक्षं तन्निर्देशात् (ब्र.न.वा) इति । यथा ज्ञानादय: परस्य ब्रह्मण: स्वरूपतया निर्देशात्स्वरूपभूतगुणास्तथेदमपि रूपं श्रुत्या स्वरूपतया निर्देशात्स्वरूपभूतमित्यर्थ: । भाष्यकारेणैतद्व्याख्यातम्  अञ्जसैव विश्वसृजो रूपं तत्तु न चक्षुषा ग्राह्यं मनसा त्वकलुषेण साधनान्तरवता गृह्यते, न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेन इति श्रुते:, न ह्यरूपाया देवताया रूपमुपदिश्यते, यथाभूतवादि हि शास्त्रम्, माहारजनं वास:  वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमस: परस्तादिति प्रकरणान्तरनिर्देशाच्च साक्षिणः (द्र.भा) इत्यादिना हिरण्यमय इति रूपसामान्याच्चन्द्रमुखवत् (ब्र.न.वा), न मयडत्र विकारमादाय प्रयुज्यते, अनारभ्यत्वादात्मनः (द्र.भा) इति । यथा ज्ञानादिकल्याणगुणगणानन्तर्यनिर्देशात् अपरिमितकल्याण-गुणगणविशिष्टं परं ब्रह्मेत्यवगम्यत एवमादित्यवर्णं पुरुषमित्यादिनिर्देशात् स्वाभिमतस्वानुरूपकल्याणतमरूप: परब्रह्मभूत: पुरुषोत्तमो नारायण इति ज्ञायते।

(भगवतः पत्नीपरिजनादेः श्रौतत्वम्, द्रमिडभाष्यकारसम्मतिश्च)

तथा अस्येशना जगतो विष्णुपत्नी (तै.सं.४.४.१२.१४),  ह्रीश्च ते लक्ष्मीश्च पत्न्यौ (तै.आ.पु,३.१३.६)  सदा पश्यन्ति सूरय: (सु.बा.६),  तमस: परस्तात् (तै.आ.पु,३.१३.२), क्षयन्तमस्य रजस: पराके (तै.सं.४.४.१२.१८) इत्यादिना पत्नीपरिजनस्थानादीनां निर्देशादेव तथैव सन्तीत्यवगम्यते। यथाह भाष्यकार: – यथाभूतवादि हि शास्त्रम् (द्र.भा) इति ।

एतदुक्तं भवति  यथा सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आ.१.१) इति निर्देशात्परमात्मस्वरूपं समस्तहेयप्रत्यनीकानवधिकानन्तैकतानतयापरिच्छेद्यतया च सकलेतरविलक्षणं तथा य: सर्वज्ञ: सर्ववित् (मु.उ.१.१.१०), परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.उ६.८),  तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति (कठ.उ.५.१५) इत्यादिनिर्देशान्निरतिशयासंख्येयाश्च गुणा: सकलेतरविलक्षणा: । तथा आदित्यवर्णम् इत्यादि निर्देशाद्रूपपरिजनस्थानादयश्च सकलेतरविलक्षणा: स्वासाधारणा अनिर्देश्यस्वरूपस्वभावा इति ।

(वेदप्रामाण्यं कर्मकाण्डसम्मतम्)

वेदा: प्रमाणं चेद्विध्यर्थवादमन्त्रगतं सर्वमपूर्वमविरुद्धमर्थजातं यथावस्थितमेव बोधयन्ति । प्रामाण्यं च वेदानां औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः (पू.मी.सू.१.१.७) इत्युक्तम् । यथाग्निजलादीनामौष्ण्यादिशक्तियोग: स्वाभाविक:, यथा च चक्षुरादीनामिन्द्रियाणां बुद्धिविशेष-जननशक्ति: स्वाभाविकी तथा शब्दस्यापि बोधनशक्ति: स्वाभाविकी ।

(बोधकत्वशक्तेः शब्दस्याभाव्यायत्तत्वम्)

न च हस्तचेष्टादिवत्संकेतमूलं शब्दस्य बोधकत्वमिति वक्तुं शक्यम् । अनाद्यनुसंधान- अविच्छेदेऽपि संकेतयितृपुरुषाज्ञानात् । यानि संकेतमूलानि तानि सर्वाणि साक्षाद्वा परंपरया वा ज्ञायन्ते । न च देवदत्तादिशब्दवत्कल्पयितुं युक्तम् । तेषु च साक्षाद्वा परंपरया वा संकेतो ज्ञायते । गवादिशब्दानां त्वनाद्यनुसंधानाविच्छेदेऽपि संकेताज्ञानादेव बोधकत्वशक्ति: स्वाभाविकी । अतोऽग्न्यादीनां दाहकत्वादिशक्तिवदिन्द्रियाणां बोधकत्वशक्तिवच्च शब्दस्यापि बोधकत्वशक्तिः आश्रयणीया॥

ननु च इन्द्रियवच्छब्दस्यापि बोधकत्वं स्वाभाविकं संबन्धग्रहणं बोधकत्वाय किमित्यपेक्षते, लिङ्गादिवदिति उच्यते  यथा ज्ञातसंबन्धनियमं धूमाद्यग्न्यादिविज्ञानजनकं तथा ज्ञातसंबन्ध-नियम: शब्दोऽप्यर्थविशेषबुद्धिजनक: ।

(शब्दाख्यप्रमाणस्य अनुमानान्तर्भावशङ्कापरिहारौ)

एवं तर्हि शब्दोऽप्यर्थविशेषस्य लिङ्गमित्यनुमानं स्यात् नैवम् । शब्दार्थयो: संबन्धो बोध्यबोधकभाव एव धूमादीनां तु संबन्धान्तर इति तस्य संबन्धस्य ज्ञानद्वारेण बुद्धिजनकत्वमिति विशेष: । एवं गृहीतसंबन्धस्य बोधकत्वदर्शनादनाद्यनुसंधानाविच्छेदेऽपि संकेताज्ञानाद्बोधकत्व-शक्तिरेवेति निश्चीयते ।

(शब्देषु पौरुषेयापौरुषेयविभागोपपत्तिः वेदनित्यत्वोपपादनं च)

एवं बोधकानां पदसंघातानां संसर्गविशेषबोधकत्वेन वाक्यशब्दाभिधेयानामुच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकस्ते पौरुषेया: शब्दा इत्युच्यन्ते । यत्र तु तदुच्चारणक्रम: पूर्वपूर्वोच्चरणक्रमजनित-संस्कारपूर्वक: सर्वदापौरुषेयास्ते च वेदा इत्युच्यन्ते । एतदेव वेदानामपौरुषेयत्वं नित्यत्वं च यत्पूर्वोच्चारणक्रमजनितसंस्कारेण तमेव क्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यमाणत्वम् । ते चानुपूर्वीविशेषेण संस्थिता अक्षरराशयो वेदा ऋग्यजु:सामाथर्वभेदभिन्ना अनन्तशाखा वर्तन्ते । ते च विध्यर्थवादमन्त्ररूपा वेदा: परब्रह्मभूतनारायणस्वरूपं तदाराधनप्रकाराधितात्फलविशेषं च बोधयन्ति। परमपुरुषवत्तत्स्वरूपतदाराधनतत्फलज्ञापक वेदाख्यशब्दजातं नित्यमेव ।

(वेदोपहबृंहणप्रणयनहेतुः)

वेदानामनन्तत्वाद्दुरवगाहत्वाच्च परमपुरुषनियुक्ता: परमर्षय: कल्पे कल्पे निखिलजगदुपकारार्थं वेदार्थं स्मृत्वा विध्यर्थवादमन्त्रमूलानि धर्मशास्त्राणीतिहासपुराणानि च चक्रु: ।

(लौकिकवैदिकशब्दैक्यम्)

लौकिकाश्च शब्दा वेदराशेरुद्धृत्यैव तत्तदर्थविशेषनामतया पूर्ववत्प्रयुक्ता: पारंपर्येण प्रयुज्यन्ते । ननु च वैदिक एव सर्वे वाचका: शब्दाश्चेच्छन्दस्यैवं भाषायामेवमिति लक्षणभेद: कथमुपपद्यते । उच्यते  तेषामेव शब्दानां तस्यामेवानुपूर्व्यां वर्तमानां तथैव प्रयोग: । अन्यत्र प्रयुज्यमानानामन्यथेति न कश्चिद्दोष: ।

(ग्रहणसौकर्यार्थं उक्तानामर्थानां संगृरह्य कथनम्)

एवमितिहासपुराणधर्मशास्त्रोपबृंहितसाङ्गवेदवेद्य: परब्रह्मभूतो नारायणो निखिलहेयप्रत्यनीक: सकलेतरविलक्षणोऽपरिच्छिन्न ज्ञानानन्दैकस्वरूप: स्वाभाविकानवधिकातिशय असंख्येयकल्याणगुणगणाकर: स्वसंकल्पानुविधायिस्वरूपस्थिति प्रवृत्तिभेदचिदचिद्वस्तुजातः अपरिच्छेद्यस्वरूपस्वभावानन्तमहाविभूति: नानाविधानन्तचेतनाचेतनात्मकप्रपञ्चलीलोपकरण इति प्रतिपादितम् ।

(ऐक्यश्रुत्यादेः उपपत्तिवर्णनम्)

सर्वं खल्विदं ब्रह्म (छा.उ.३.१४.१), ऐतदात्म्यमिदं सर्वं,  तत्त्वमसि श्वेतकेतो (छा.उ.६.८.७),

एनमेके वदन्त्यग्निं मरुतोऽन्यो प्रजापतिम् ।

इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥            (मनु.स्मृ.१२.१२३)

ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास्त्रयी च ।

त्रयोऽग्नयश्चाहुतयश्च पञ्च सर्वे देव देवकीपुत्र एव ॥      (वि.पु.६.५.७२)

त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकार: परंतप: ।                  (वा.रा.यु.१२०.२०)

ऋतुधामा वसु: पूर्वो वसूनां त्वं प्रजापति: ॥                   (वा.रा.यु.१२०.७)

जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।

अग्नि: कोप: प्रसादस्ते सोम: श्रीवत्सलक्षण: ॥             (वा.रा.यु.१२०.२६)

ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च ।

नद्य: समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥ (वि.पु.२.१२.३८)

इत्यादिसामानाधिकरण्यप्रयोगेषु सर्वै: शब्दै: सर्वशरीरतया सर्वप्रकारं ब्रह्मैवाभिधीयत इति चोक्तम् ।

(सामानाधिकरण्यस्य स्वरूपैक्यनिबन्धनत्वनिरासः)

सत्यसंकलपं परं ब्रह्म स्वयमेव बहुप्रकारं स्यामिति संकल्प्याचित्समष्टि-रूपमहाभूतसूक्ष्मवस्तु भोक्तृवर्गसमूहं च स्वस्मिन् प्रलीनं स्वयमेव विभज्य तस्माद्भूतसूक्ष्माद्वस्तुनो महाभूतानि सृष्ट्वा तेषु च भोक्तृवर्गात्मतया प्रवेश्य तैश्चिदधिष्ठितैर्महाभूतैरन्योन्यसंसृष्टै: कृत्स्नं जगद्विधाय स्वयमपि सर्वस्यात्मतया प्रविश्य परमात्मत्वेनावस्थितं सर्वशरीरं बहुप्रकारमवतिष्ठते ।

(प्रकृतिपुरुषौ तयोः परमात्मप्रकारता च)

यदिदं महाभूतसूक्ष्मं वस्तु तदेव प्रकृतिशब्देनाभिधीयते । भोक्तृवर्गसमूह एव पुरुषशब्देन चोच्यते । तौ च प्रकृतिपुरुषौ परमात्मशरीरतया परमात्मप्रकारभूतौ । तत्प्रकार: परमात्मैव प्रकृतिपुरुषशब्दाभिधेय: । सोऽकामयत बहु स्यां प्रजायेयेति,  तत्सृष्ट्वा तदेवानुप्रविशत् तदनुप्रविश्य सच्च त्यच्चाभवन्निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत् (तै.उ.आ.६.२-३) इति पूर्वोक्तं सर्वमनयैव श्रुत्या व्यक्तम् ।

(भगवत्प्राप्त्युपायविषये वक्तव्यार्थस्फुटीकरणम्)

ब्रह्मप्राप्त्युपायश्च शास्त्राधिगततत्त्वज्ञानपूर्वकस्वकर्मानुगृहीतभक्तिनिष्ठा-साध्यानवधिक-अतिशयप्रियविशदतम प्रत्यक्षतापन्नानुध्यानरूप परभक्तिरेवेत्युक्तम् । भक्तिशब्दश्च प्रीतिविशेषे वर्तते । प्रीतिश्च ज्ञानविशेष एव ।

(सुखस्य ज्ञानरूपता, ब्रह्मणः सुखरूपता च)

ननु च सुखं प्रीतिरित्यनर्थान्तरम् । सुखं च ज्ञानविशेषसाध्यं पदार्थान्तरमिति हि लौकिका: । नैवम् । येन ज्ञानविशेषेण तत्साध्यमित्युच्यते स एव ज्ञानविशेष: सुखम् ।

एतदुक्तं भवति  विषयज्ञानानि सुखदु:खमध्यस्थसाधारणानि । तानि च विषयाधीनविशेषाणि तथा भवन्ति । येन च विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकमित्यभिमतं तद्विषयं ज्ञानमेव सुखं, तदतिरेकि पदार्थान्तरं नोपलभ्यते । तेनैव सुखित्वव्यवहारोपपत्तेश्च । एवंविधसुखस्वरूप-ज्ञानस्य विशेषकत्वं ब्रह्मव्यतिरिक्तस्य वस्तुन: सातिशयमस्थिरं (सातिशयत्वमस्थिरत्वं) च । ब्रह्मणस्त्वनवधिकातिशयं स्थिरं चेति । आनन्दो ब्रह्म (तै.उ.भृ.६.१) इत्युच्यते । विषयायत्तत्वात् ज्ञानस्य सुखस्वरूपतया ब्रह्मैव सुखम् । तदिदमाह  रसो वै स:,  रसं हे एवायं लब्ध्वानन्दी भवति (तै.उ.आ.७.१) इति ब्रह्मैव सुखमिति ब्रह्म लब्ध्वा सुखी भवतीत्यर्थ: । परमपुरुष: स्वेनैव स्वयमनवधिकातिशयसुख: सन् परस्यापि सुखं भवति । सुखस्वरूपत्वाविशेषात्। ब्रह्म यस्य ज्ञानविषयो भवति स सुखी भवतीत्यर्थ: ।

(सर्वशेषिणो भगवत एव स्वप्रापकत्वम्)

तदेवं परस्य ब्रह्मणोऽनवधिकातिशयासंख्येयकल्याणगुणगणाकरस्य निरवद्यस्यानन्त-महाविभूतेः अनवधिकातिशयसौशील्यसौन्दर्य वात्सल्यजलधे: सर्वशेषित्वादात्मन: शेषत्वात् प्रतिबंधितया अनुसंधीयमानं अनवधिकातिशयप्रीतिविषयं सत्परं ब्रह्मैवैनमात्मानं प्रापयतीति।

(आत्मना भगवच्छेषतायाः अपुरुषार्थत्वशङ्कापरिहारौ)

ननु चात्यन्तशेषतैवात्मनोऽनवधिकातिशयसुखमित्युक्तं भवति । तदेतत्सर्वलोकविरुद्धम् । तथा हि सर्वेषामेव चेतनानां स्वातन्त्र्यमेव इष्टतमं दृश्यते, पारतन्त्र्यं दु:खतरम् । स्मृतिश्च –

सर्वं परवशं दु:खं सर्वमात्मवशं सुखम् । (मनु.स्मृ.४.१६०)

तथा हि

सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् । (मनु.स्मृ.४.६)

इति ।

तदिदमनधिगतदेहातिरिक्तात्मरूपाणां शरीरात्माभिमानविजृम्भितम् । तथा हि  शरीरं हि मनुष्यत्वादिजातिगुणाश्रयपिण्डभूतं स्वतन्त्रं प्रतीयते । तस्मिन्नेवाहमिति संसारिणां प्रतीति: । आत्माभिमानो यादृशस्तदनुगुणैव पुरुषार्थप्रतीति: । सिंहव्याघ्रवराहमनुष्ययक्षरक्ष: पिशाचदेवदानव-स्त्रीपुंसव्यवस्थित-आत्माभिमानानां सुखानि व्यवस्थितानि । तानि च परस्परविरुद्धानि । तस्मादात्माभिमानानुगुण-पुरुषार्थव्यवस्थया सर्वं समाहितम् ।

(पुरुषार्थप्रतीतिवैविध्यस्य सहेतुकत्वोपपादनम्)

आत्मस्वरूपं तु देवादिदेहविलक्षणं ज्ञानैकाकारम् । तच्च परशेषतैकस्वरूपम् । यथावस्थितात्माभिमाने तदनुगुणैव पुरुषार्थप्रतीति: । आत्मा ज्ञानमयोऽमल: (वि.पु.६.७.२२)  इति स्मृतेर्ज्ञानैकाकारता प्रतिपन्ना । पतिं विश्वस्य (तै.ना.उ.११.३) इत्यादि श्रुतिगुणै: परमात्मशेषतैकाकारता च प्रतीता । अत: सिंहव्याघ्रादिशरीरात्माभिमानवत्स्वातन्त्र्याभिमानोऽपि कर्मकृतविपरीतात्मज्ञानरूपो वेदितव्य: ।

(फलसाधनत्वावगमस्य)

अत: कर्मकृतमेव परमपुरुषव्यतिरिक्तविषयाणां सुखत्वम्। अत एव तेषामल्पत्वमस्थिरत्वं च । परमपुरुषस्यैव स्वत एव सुखत्वम् । अतस्तदेव स्थिरमनवधिकातिशयं च  कं ब्रह्म खं ब्रह्म (छा.उ.४.१०.३), आनन्दो ब्रह्म (तै.उ.भृ६.१), सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आ.१.१) इति श्रुते: । ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य वस्तुन: स्वरूपेण सुखत्वाभाव: कर्मकृतत्वेन चास्थिरत्वं भगवता पराशरेणोक्तम्

नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ।

वस्त्वेकमेव दु:खाय सुखायेर्ष्यागमाय च ।            (वि.पु.२.६.४४)

कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुत: ॥            (वि.पु.२.६.४५)

सुखदु:खाद्येकान्तरूपिणो वस्तुनो वस्तुत्वं कुत: । तदेकान्तता पुण्यपापकृतेत्यर्थ: । एवमनेकपुरुषापेक्षया कस्यचित्सुखमेव कस्यचिद्दु:खं भवतीत्यवस्थां प्रतिपाद्य, एकस्मिन्नपि पुरुषे न व्यवस्थितमित्याह –

तदेव प्रीयते भूत्वा पुनर्सु:खाय जायते ।                  (वि.पु.२.६.४५)

तदेव कोपाय यत: प्रसादाय च जायते ॥

तस्माद्दु:खात्मकं नास्ति न च किंचित्सुखात्मकम् ।        (वि.पु.२.६.४६)

इति सुखदु:खात्मकत्वं सर्वस्य वस्तुन: कर्मकृतं न वस्तुस्वरूपकृतम् । अत: कर्मावसाने तदपैतीत्यर्थ:।

(पारतन्त्र्यस्य दुःखात्मकत्वशङ्कापरिहारौ)

यत्तु सर्वं परवशं दु:खम् इत्युक्तं तत्परमपुरुषव्यतिरिक्तानां परस्परशेषशेषिभावाभावात् तद्व्यतिरिक्तं प्रति शेषता दु:खमेवेत्युक्तम् । सेवा श्ववृत्तिराख्याता इत्यत्राप्यसेव्यसेवा श्ववृत्तिरेवेत्युक्तम् । स ह्याश्रमै: सदोपास्य: समस्तैरेक एव तु  इति सर्वैरात्मयाथात्म्यवेदिभि: सेव्य: पुरुषोत्तम एक एव। यथोक्तं भगवता-

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।

स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥    (भ.गी.१४.२६)

इति ।

(परमपुरुषसेवायाः परमपुरुषार्थत्वम्)

इयमेव भक्तिरूपा सेवा ब्रह्मविदाप्नोति परम् (तै.उ.आ.१.१), तमेवं विद्वानमृत इह भवति (तै.आ.पु.३.१२.१७), ब्रह्म वेद ब्रह्मैव भवति  (मु.उ.३.२.९) इत्यादिषु वेदनशब्देनाभिधीयत इत्युक्तम्।

(ज्ञानिभक्तानां भगवत्प्रियतमत्वविशदीकरणम्)

यमेवैष वृणुते तेन लभ्यः (मु.उ.३.२.३) इति विशेषणाद्यमेवैष वृणुत इति भवगता वरणीयत्वं प्रतीयते । वरणीयश्च प्रियतम: । यस्य भगवत्यनवधिकातिशया प्रीतिर्जायते स एव भगवत: प्रियतम:। तदुक्तं भगवता

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ।           (भ.गी.७.१७)

इति । तस्मात्परभक्तिरूपापन्नमेव वेदनं तत्त्वतो भगवत्प्राप्तिसाधनम् । यथोक्तं भगवता द्वैपायनेन मोक्षधर्मे सर्वोपनिषद्व्याख्यानरूपम् –

न संदृशो तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।

भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह ॥(म.भा.शान्ति.२१.६२)

धृत्या समाहितात्मा भक्त्या पुरुषोत्तमं पश्यति  साक्षात्करोति  – प्राप्नोतीत्यर्थ: । भक्त्या त्वनन्यया शक्यः  (भ.गी.११.५४) इत्यनेनैकार्थ्यात् । भक्तिश्च ज्ञानविशेष एवेति सर्वमुपपन्नम् ।

सारासारविवेकज्ञा गरीयांसो विमत्सरा: ।

प्रमाणतन्त्रा: सन्तीति कृतो वेदार्थसङ्ग्रह: ॥

। इति श्रीभगवद्रामानुजविरचितः श्री वेदार्थसंग्रहः समाप्तः ।।

।। श्रीमते रामानुजाय नमः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.