श्रीः
श्रीमते रामानुजाय नमः
श्रीमते निगमान्तमहादेशिकाय नमः
॥द्रमिडोपनिषत्सारः॥
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सनिधत्ताम् सदा हृदि ॥
सेवायोग्योऽतिभोग्यः शुभसुभगतनुः सर्वभोग्यातिशायी
श्रेयस्तद्धेतुदाता प्रपदनसुलभोऽनिष्टविध्वम्सशीलः ।
भक्तच्छन्दानुवर्ती निरुपधिकसुहृत्सत्पदव्याम् सहायः
श्रीमान् सर्वोचितायामुपनिषदि मिषत्येष गाथाशतैर्नः ॥ 1 ॥
आद्ये पश्यन्नुपायम् प्रभुमिह परमप्राप्यभूतम् द्वितीये
कल्याणोदारमूर्तेः द्वितयमिदमिति प्रेक्षमाणस्तृतीये ।
ऐश्वर्यादेश्चतुर्थे विषमधुतुलयाऽनन्यभोग्यत्वमिच्छन्
षद्भिः स्वाम् पञ्चमाद्यैरनितरगतितामाचचक्षे मुनीन्द्रः ॥ 2 ॥
परम् निर्वैषम्यम् सुलभमपराधप्रसहनम्
सुशीलम् स्वाराधम् सरसभजनम् स्वार्जवगुणम् ।
सुसात्म्यस्वानन्दप्रदमनघविश्राणनपरम्
मुकुन्दम् निध्यायन्मुनिरधिजगावाद्यशतके ॥ 3 ॥
द्विकाभ्याम् द्व्यष्टाङ्घ्रिर्दुरधिगमनीतिस्थपुटिता
यदन्त्या मीमाम्सा श्रुतिशिखरतत्वम् व्यवृणुत ।
तदादौ गाथाभिः मुनिरधिकविम्शाभिरिह नः
कृती सारग्राहम् व्यतरदिह सङ्गृह्य कृपया ॥ 4 ॥
परत्वाद्यैरित्थम् परिचरणसक्तो गुणगणैः
प्रभुम् सेवायोग्यम् प्रथमशतके वीक्ष्य वरदम् ।
तमेव स्वात्यर्थप्रियमथ च भोक्तुम् व्यवसितो
वरेण्यत्वम् तस्य प्रथमवरणीयम् प्रथयति ॥ 5 ॥
द्वितीयेऽतिक्लेशक्षणविरहमुत्तुङ्गललितम्
मिलत्सर्वास्वादम् व्यसनशमनम् स्वाप्तिमुदितम् ।
स्ववैमुख्यत्रस्तम् स्वजनसुहृदम् मुक्तिरसदम्
स्वकैङ्कर्योद्देश्यम् सुभगसविधस्थम् निरदिशत् ॥ 6 ॥
उपायत्वैकान्तम् प्रथममिह सेव्यत्वमुदितम्
ततश्च प्राप्यत्वौपयिकमतिभोग्यत्वमवदत् ।
द्वयम् तत्स्वासाधारणतनुविशिष्टस्य गणयन्
तृतीये विश्वेशम् शुभसुभगरूपम् कथयति ॥ 7 ॥
अनीदृक्सौन्दर्यम् तनुविहितसर्गादिसुभगम्
स्वसेवार्थाकारम् प्रगुणवपुषम् मोहनतनुम् ।
अपश्यल्लभ्यार्चाविभवमतिदास्यावहतनुम्
सदादृश्यम् स्तुत्याकृतिमघविरुद्धाकृतिमिह ॥ 8 ॥
श्रियः कान्तोऽनन्तः शुभतनुविशिष्टः फलमसौ
फलावाप्तेर्हेतुः स्वयमिति च निर्धार्य शतकैः ।
इदानीम् बुद्धिस्थक्रमत इह युक्त्या मुनिवरः
फलत्वम् तस्यैव द्रढयति तदन्येषु विमुखः ॥ 9 ॥
स्थिरैश्वर्यम् तुर्ये सहजबहुभोग्यम् निरविशत्
मिथः श्लिष्टम् क्लेशावहसहिततुल्यम् निजजनम् ।
कृतार्थीकुर्वन्तम् प्रणयिभिषजम् सद्बहुगुणम्
स्वयस्वापेक्ष्यम् स्वमतफलमुच्चैः स्ववगतम् ॥ 10 ॥
उपायत्वम् यत्तत् प्रथमशतकेऽभाव्यत विभोः
अनन्योपायस्तत् द्रढयति परम् पञ्चममुखैः ।
निरीहस्तत्रादौ निरवधिक निर्हेतुकदया-
सरित्स्रोतः पद्मम् शरणयति नाथस्य चरणम् ॥ 11 ॥
दयानिघ्नम् भक्तैरघविमथनम् प्रेमजनकम्
जगद्रक्षादीक्षम् स्मृतिजुषम् अहम्भावविषयम् ।
शरण्यम् दीनानाम् स्वरसकृत दास्याभ्युपगमम्
प्रचख्यौ तम् प्राप्तम् प्रशकनकृतम् पञ्चमशते ॥ 12 ॥
अनाद्यन्तानन्दस्वरसकरुणाकन्दजनितः
प्रणेतुर्व्यापारः प्रपदनविपाकार्ह उदितः ।
तमाचार्योपज्ञम् चिरविरहितस्वात्मघटन-
स्फुरच्छक्तिम् षष्ठे मुनिरशरणो याति शरणम् ॥ 13 ॥
गुरुद्वारोपेयम् स्वयमभिगतम् वैरिघटकम्
चरित्रैः कर्षन्तम् परविघटनम् स्वान्वितहरम् ।
निदानम् धृत्यादेः घटकवशभूतिद्वयमगात्
अनर्हद्वैघट्यम् त्वविकलशरण्यस्थितिमिह ॥ 14 ॥
तदेवम् षष्ठान्ते विहितसविशेषप्रपदनः
फलालाभात् खिन्नस्त्वरितहृदयः सप्तमशते ।
अनिष्टोपन्यासप्रभृतिभिरनिष्टप्रशमने
स्वतः सिध्यच्छीलम् प्रभुमभिमुखम् सम्मुखयति ॥ 15 ॥
सहन् शाठ्याशङ्काम् उपशमितगर्हः प्रकटयन्
स्वगोप्तृत्वम् गुप्तिक्रमम् अखिलजन्तुप्रणयिताम् ।
श्रिताक्रन्दच्छेत्ता स्मरणविशदः चित्रविभवः
स्तुतौ युञ्जन् स्तोतृव्यसनजित् अदर्शि प्रभुरिह ॥ 16 ॥
अथानिष्टान् पुम्साम् स्वयमुपजिहीर्षन्नपि विभुः
तदिच्छाम् बाह्येषु प्रशमयितुकामः क्रमवशात् ।
निजेच्छासम्सिद्धत्रिविधचिदचिद्वस्तुविततिः
श्रितेच्छावैचित्रीवश इति वदत्यष्टमशते ॥ 17 ॥
दिदृक्षायाम् दृश्यः प्रभुरगणि निस्सङ्गसुलभः
स्वविश्लेषैकान्तः श्रितविहितपौष्कल्यविभवः ।
अपेक्षासापेक्षः स्ववितरणसज्जः हृदि रतः
स्वदास्यम् तन्निष्ठाम् तदवधिमपीह प्रकटयन् ॥ 18 ॥
अभीष्टम् विश्वस्मिन् विषमफलकाङ्क्षिण्यविषमम्
प्रयच्छन्तम् दृष्ट्वा परमपुरुषार्थैकरसिकः ।
निरस्तान्यापेक्षो निखिलजगदीशस्य नवमे
निदानम् सिद्धीनाम् निरुपधि सुहृत्त्वम् गणयति ॥ 19 ॥
अभाव्येको बन्धुः चिरकृतदयः शीलजलधिः
स्वसम्बन्धात् गोप्ता स्वगुणगरिमस्मारणपरः ।
अशक्यो विस्मर्तुम् घटकमृखविस्रम्भविषयः
सुमज्जानिः सिद्ध्युन्मुखसमय इच्छन्नवसरम् ॥ 20 ॥
उदन्तैरित्येवम्म्म् निरुपधिकसौहार्दपिशुनैः
उदन्यामुद्वेलामुपजनितवन्तम् निजपदे ।
त्रिवर्गातिक्रान्तस्थिरनगरघण्टापथगतेः
सहायीकुर्वाणः चरमशतके विन्दति मुनिः ॥ 21 ॥
गतिम् व्यध्वक्लेशच्छिदमपदशङ्कास्पदरसम्
भजद्भिः सुप्रापम् विविधभजनप्रक्रियमिह ।
फले तीव्रोद्योगम् स्वविषयकृतात्यादरमगात्
यदृच्छातुष्टम् सत्सरणिमपुनर्जन्मसयुजम् ॥ 22 ॥
परम् प्राप्यम् पश्यन् परिचरणहेतुम् विगणयन्
परिष्कुर्वन्नाज्ञामनितरशरण्यः शरणयन् ।
अनिष्टप्रध्वम्सप्रभृतिषु निदानम् च कथयन्
मुहुर्देवम् लक्ष्म्यासहितमिह भेजे मुनिवरः ॥ 23 ॥
पुरा शोकः श्लोकोऽभवदिति नयादित्युपनिषत्
मुनेः पुण्यश्लोकादजनि परभक्तेः परिणतिः ।
व्यपोह्य स्वम् भावम् परिचरणसन्तानकलिकाम्
अविक्षद्योगी यस्तनुमतनुकारुण्यविवशः ॥ 24 ॥
सतामित्थम् सारम् द्रमिडनिगमस्यान्वकथयत्
बहूनाम् विद्यानाम् बहुमतिपदम् वेङ्कटपतिः ।
दिशासौधश्रेणी दृढघटितजैत्रध्वजपटी
परामर्शभ्रश्यत्प्रतिमतनिराबाधनिगमः ॥ 25 ॥
मनुव्यासप्राचेतसपरिषदर्हा क्वचिदियम्
सुधासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने ।
निरुन्ध्युः के विन्ध्याचलविकटसन्ध्यानटजटा-
परिभ्रान्ता पङ्गोरुपरि यदि गङ्गा निपतति ॥ 26 ॥
इति कवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य वेदान्ताचार्यस्य
कृतिषु द्रमिडोपनिषत्सारः समाप्तः