Testing post

पराशरभट्टैः विरचित

श्रीगुणरत्नकोशः

[वसुराश्यभिधाव्याख्यासहितः]

श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।

श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ||

[व्याख्यातृप्रतिज्ञा]

श्रीगुरुपङ्क्तिपादसरसीरुहसम्विनतः

श्रीगुणरत्नकोशविवृतिम् वसुराश्यभिधाम् ।

श्रीनगदेशिकेन्द्रतनयः शुभवात्स्यकुलः

श्रीयुतवीरराघवगुरुर्वितनोतितराम् ||

श्रीमन्महाहरितवम्शविशुद्धवृत्त-

मुक्तामणिः सकलशास्त्रविदग्रगण्यः ।

भट्टारको विरचयन् गुणरत्रकोशम्

स्तोत्रम् श्रियो नमति तामिह विघ्रशान्त्यै ||

[अवतारिका]

श्रीमत्कुरकुलपयःपारावारसुधाकरश्रीमद्रामानुजमुनीन्द्रकृपालब्ध श्रीभाष्यदप्रबन्धपरिचयमहिमोल्लासबुद्धिः, द्रविडोपनिषद्गम्भीराशय-

विवरणश्रीरङ्गराजकमलापदलालितः, श्रीरङ्गनाथदिव्याज्ञालब्धपराशर-.

भट्टारकनामधेयः, कैशिकपुराणश्रवणसमुदितमहिमोल्लासभासुररङ्ग- रमणकरुणाप्रसादसमासादितब्रह्मरथवैभवः, यतिवरचरणाम्भोरुहप्रवणान्ते

वासिजनाग्रेसरकूरेशतनूभवः, सकलशास्त्रविदग्रेसरः, श्रीभट्टाख्यदेशिकः निखिलजगदुदयविभवलयलीलाशालिभगवत्प्रापकभूताम् श्रियम् तत्कृत-महोपकारातिशयानुसन्धानेन दयाबात्सल्यादिगुणातिशयपरिशीलनेन स्तोतुकामः, प्रारिप्सितग्रन्थनिर्विघ्नपरिसमाप्त्यर्थम् शिष्टाचारपरम्परा-

प्राप्तम् मङ्गलमाचरम्स्तामेव स्तौति –

श्रियै समस्तचिदचिद्विधानव्यसनम् हरेः ।

अङ्गीकारिभिरालोकैः सार्थन्त्यै कृतोऽञ्जलिः ||||

श्रिया इति । हरेः – हरति परिहरति स्वासम्श्लिष्टान् करोति पाप्मन इति हरिः *अपहतपाप्मा*(छा.उ.८-४-१) इति श्रुतेः । अनेन  हेयगुण-प्रतिभटत्वमुक्तम् भवति । हरत्याश्रितपापानीति वा हरिः । *हरिर्हरति पापानि (हर्यष्टकम्.१) इति स्मृतेः । अनेन सम्श्रितानाम् स्वप्राप्तिविरोधि-सर्वपापहरणोक्त्या मोक्षप्रदत्वम् पापहरणस्य तज्ज्ञान तन्निवर्तककृपा-क्षमादिसापक्षत्वेन कल्याणगुणाकरत्वम् च फलितम् । हरति सर्वम् स्ववशीकरोतीति वा हरिः । *सर्वस्य वशी* (बृ.उ.६-४-२२) *यत्र कामगमो वशी* इति श्रुतिस्मृत्योस्सद्भावात् । वशीत्यस्य सर्व वशे यस्य स वशी इति श्रुतप्रकाशिकाचार्यैः व्याख्यानम् कृतम् । अनेन  उभयविभूतियोगः फलितः । *हरिम् हरन्तमनुयन्ति देवाः* (तै.आर.३-१५-१) *ब्रह्माणमीशम् रुद्रम् च यमम् वरुणमेव च । प्रसह्य हरते यस्मात्तस्माद्धरिरिहोच्यते* || इति श्रुतिनिर्वचनाभ्याम् भगवतस्सर्वस्मात्परत्वम् सर्वदेवनियन्तृत्वम् च सिद्धम् ।

तस्य समस्तचिदचिद्विधानव्यसनम् अत्र चिदचिच्छब्दाभ्याम् *अचिदविशेषितान् प्रलयसीमनि सम्सरतः करणकलेबरैर्घटयितुम् दयमान- मनाः । वरद निजेच्छयेव परवानकरोः प्रकृतिम्महदभिमानभूतकरणावलि-

कोरकिणीम्’ || (श्रीरम्.स्त.२-४१) इत्युक्तसृष्टियोग्यसम्सारिचेतनमिश्र-सत्वे गृह्येते । समस्तशब्देन ब्रह्मादिपिपीलिकान्तम् चेतनजातम् चतु-र्विम्शतितत्त्वात्मकम् प्रकृतितत्कार्यजातम् च विवक्षितम्, तेषाम् समस्त- चिदचिताम् विधानम् करणकलेबरयोजनलक्षणा तदर्थम् महदहङ्कारभूत- करणग्रामोत्पादनलक्षणा च सृष्टिः, स्थितिलययोरपि एतदुपलक्षणम् ।
यद्वा समस्तचिदचिताम् बद्धमुक्तनित्यरूपाणाम् चेतनानाम् शुद्ध-सत्त्व-मिश्रसत्त्व-सत्त्वशून्यलक्षणानाम् अचेतनानाम् च विधानम् । *इच्छात एव तव विश्वपदार्थसत्ता । नित्यम् प्रियास्तव तु केचन ते हि नित्याः*(श्रीवै.स्त.३६) इति श्रीवत्साङ्कश्रीसूक्तिप्रकारेण भगवतो नित्ये-च्छया नित्यसूरीणाम् नित्यासङ्कुचितज्ञानतया सङ्कल्पनम्, मुक्ताना-माविर्भूतापहतपाप्मत्वादिगुणाष्टकतया सङ्कल्पनम्, बद्धानाम् करणादि-प्रदानकर्मतारतम्यज्ञानोत्पादनादि च, एवम् चेतनविषये विधानम् वेदितव्यम् ।
अचेतनविषये तु शुद्धसत्त्वस्य स्वेच्छया नित्यविभूतौ विमानगोपुर- मण्डपप्रासादादिरूपेण परिणमयितृत्वम् । मिश्रसत्त्वस्य सम्सारिचेत- नान्प्रति भोग्यभोगोपकरणभोगस्थानरूपेणाण्डतदावरणचतुर्दशभुवन- समस्तदेहेन्द्रियादिरूपेण चोत्पादनम् । सत्त्वशून्यस्य कालस्य चेतन- कर्मानुगुण्येन कलाकाष्ठामुहूर्तयामदिनपक्षमासायनसम्वत्सरादिरूपेण
परिणमयितृत्वम् च विधानम् ।
तत्र व्यसनमभिनिवेशमायासम् वा । अङ्गीकार एषामस्तीति अङ्गी- कारिणः तैरङ्गीकारसूचकैः इत्यर्थः । आलोकैः कटाक्षैः *स्मितविकसित-गण्डम् व्रीडविभ्रान्तनेत्रम् मुखमवनमयन्ती स्पष्टमाचष्ट सीता* इतिवन्न-यनलीलयैव अङ्गीकारस्सूच्यते न तु *पूर्णोक्ताद्दक्षिणापथाः* इतिवदेवमेव कार्यमिति स्पष्टोक्त्येत्यर्थः । सार्थयन्त्यै स्वानुमोदेन सफलम् कुर्वत्यै । स्वानुमोदाजनने हरेर्जगत्सृष्ट्यादिलीला विरसा स्यात् । तदुक्तम् श्रीस्तवे *क्रीडेयम् खलु नान्यथास्य रसदा स्यादैकरस्यात्तया’ (श्रीस्त.१) इति । अनेन भगवत एव जगज्जन्मादिकारणत्वम्, श्रियस्तु तदनुमोदेन तदुत्त- म्भकत्वमात्रम् सूचितम् । एवम् परत्वमुक्तम् ।
सौलभ्यमाह – श्रिया इति । श्रियै तत्तत्पुरुषार्थलाभाय सर्वसम्श्रय- णीयायै श्रीरङ्गनायक्यै । अत्र श्रीशब्दस्य षोढा व्युत्पत्तिर्द्रष्टव्या, ततो घटकत्वसिद्धिः । व्युत्पत्तिषट्कय च मदीये श्रीगुणसुधासारलहरीस्तोत्रे
प्रदर्शितम् – *श्रितास्यन्यैस्सर्वैः श्रयसि रमणम् सम्श्रितगिरः शृणोषि प्रेयाम्सम् श्रितजनवचः श्रावयसि च । शृणास्येतद्दोषान् जननि ! निखि-लान्सर्वजगतीम् गुणैः श्रीणासि त्वम् तदिह भवतीम् श्रीरिति विदुः* || इति ।
अञ्जलिः स्वशेषत्वसूचकस्सुकरः क्षिप्रप्रसादहेतुश्च *अञ्जलिः परमा
मुद्रा क्षिप्रम् देवप्रसादिनी'(ग.पु.२-११-२६) इत्युक्तेः । कृतः कृतो भवति ।
मयेति शेषः ।
अत्र हरेः समस्तचिदचिद्विधानव्यसनमालोकैस्सार्थयन्त्या इति वस्तुना यथा कस्यचित्प्रभोः प्रीत्यै केनचित्प्रयत्नसाध्ये कर्मणि कृते प्रभुणा तद्दर्श- नतदनुमोदने कर्तुर्महानन्दो भवति, तथा समस्तचिदचिद्विधानव्यसनिनो हरेरपि तत्प्रयत्ने श्रिया दर्शनेनानुमोदिते तस्यापि महानन्दो भवतीति वस्तु ध्वन्यत इत्यस्य स्तोत्रस्योत्तमत्वम् सूचितम् । *ध्वनिप्रधानता यत्र तदुत्तममुदाहृतम्* इति लक्षणात् ।
अञ्जलिरिति कमलमुकुलाकारकरतलयुगलयोगरूपञ्जल्युक्त्या
कायिकनमस्कारः कृत इति वाचा तदनुवादेन वाचिकनमस्कार: *मनः
पूर्वो वागुत्तर:’ (ऐ.उ.१-१-२) इति मनः प्रसरणपूर्वकत्वाद्वाचो मानसिक- नमस्कारश्च कृत इति मन्तव्यम् ।
मङ्गलारम्भसम्भवाय स्तोत्रादौ श्रीशब्दप्रयोगः । *देवतावाचका-श्शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्यास्युर्लिपितो गणतोऽपि वा* || इत्युक्तेरादौ रोगफलकजगणप्रयोगदोषो नेति ध्येयम् || १ ||

उल्लासपल्लवितपालितसप्तलोकीनिर्वाहकोरकितनेमकटाक्षलीलाम् ।श्रीरङ्गहर्म्यतलमङ्गलदीपरेखाम्श्रीरङ्गराजमहिषीम् श्रियमाश्रयामः ||||       उल्लासेति । अत्र उल्लासपदान्वयाय सप्तलोक्या इति षठ्यन्तम् पदम् लभ्यते । तथा च सप्तलोक्या उल्लासेन उदयेन पल्लविता सञ्जातपल्लवा, पालिताया रक्षितायास्सप्तलोक्या, निर्वाहेण स्थित्या, कोरकिता सञ्जातकोरका पल्लवितकोरकितेत्युभयत्रापि *तदस्य सञ्जातम्* (पा.सू.५-२-३५) इति तारकादित्वादितच्प्रत्ययः । नेम-कटाक्षोऽर्धवीक्षणम् *नेम इत्यर्धे* इति सिद्धान्तकौमुद्याम् । तस्य तथा-भूता लीलाविलासो यस्यास्ताम् । उल्लासपल्लवितेत्यनेन लक्ष्मीकटाक्ष-लीलाया जगदुत्पत्तिप्राक्कालापेक्षया भूयस्त्वम् । निर्वाहकोरकिता इत्यने-नोत्पन्नजगत्स्थितिजनितहर्षेण ततोऽपि भूयस्त्वम् च गम्यते । अनेन लक्ष्म्या जगदुत्पत्तिस्थितिप्रयोजकत्वमुक्तम् । ततः परत्वम् फलितम् ।
सौलभ्यमाह – श्रीरङ्गेति । श्रीरङ्गे दिव्यनगरे हर्म्यतलस्य दिव्य- विमानप्रदेशस्य श्रीरङ्गाख्यदिव्यविमानप्रदेशस्य वा मङ्गलदीपरेखाम्
शोभनदीपकलिकामिव श्रीरङ्गविमानान्तःप्रकाशिकामिति भावः । मङ्गले- त्यनेन अनुष्णत्वद्योतनात्प्रसिद्धदीपापेक्षया व्यावृत्तिः । दीपरेखामिति
औज्ज्वल्यम् च द्योत्यते । श्रीरङ्गराजमहिषीम् श्रीरङ्गराजेन सह विश्व-रक्षणे कृताभिषेकाम् । *कृताभिषेका महिषी*(अ.को.२-६५) इत्यमरः ।
श्रियम् सर्वसमाश्रयणीयाम् लक्ष्मीम् आश्रयामः शरणम् गच्छामः । कटाक्षलेशलीलाकल्पितजगदुत्पत्तिस्थितिकाम् सर्वसम्श्रयणीयत्वाय श्रीरङ्गे कृतनित्यवासाम् श्रीरङ्गेश्वरवल्लभाम् । अत एव श्रियम् शरणम् गच्छाम इति भावः । अत्र सप्तलोक्युत्पत्तिस्थित्योः लक्ष्मीनेमकटाक्ष-लीलापल्लव कोरकत्वरूपणात् कटाक्षलीलालतात्वमर्थसिद्धमिति सावयव-रूपकमलङ्कारः । एकदेशरूपणे सर्वरूपणमप्यर्थसिद्धम् । *प्रौढमौक्तिक-रुचः पयोमुचाम् बिन्दवः कुटजपुष्पबन्धवः । विद्युताम् नभसि नाट्य-मण्डपे कुर्वते स्म कुसुमाञ्जलिश्रियः*(सा.चिम्.) || इत्यत्र पयोमुचाम् बिन्दवो नभसि नाट्यमण्डपे कुसुमाञ्जलिश्रियः कुर्वत इत्यनेन विद्युताम्
नटीनामित्यर्थसिद्धमिति साहित्यचिन्तामणिकारोक्तेः । श्रीरङ्गहर्म्यतल-
मङ्गलदीपरेखामित्यत्र निरवयवरूपकमलङ्कार इति सावयवनिरवयव
रूपकयोस्सम्सृष्टिः । *भेदेनावस्थितिर्येषाम् सा सम्सृष्टिरुदाहृता* इति
लक्षणात् || २ ||
अथ मङ्गलभूयस्त्वसिद्ध्या एव श्लोकद्वयेन स्वस्मिन् लक्ष्मीकटाक्ष- प्रार्थनेनाशीर्वादमङ्गलमाचरति –

अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः ।स्तननयनगुलुच्छस्फारपुष्पद्विरेफारचयतु मयि लक्ष्मीकल्पवल्लीकटाक्षान् ॥ ३ ॥   अनुकलेति – अनुकलम् अनुक्षणम् इदम् शुम्भदिति प्रकाशने अन्वेति । तनुः काण्ड इव तनुकाण्डः काण्डो दण्डः *काण्डोऽस्त्री दण्डबाणार्ववर्गाव- सरवारिषु* इत्यमरः (३-३-४३) । तस्य तनुकाण्डस्यालिङ्गनारम्भेण, तनुकाण्डेनालिङ्गनारम्भे वा शुम्भन्ती प्रकाशमाना । दिशासु दिशासु प्रतिदिशम् । *अव्ययम् विभक्ति…*(पा.सू.२-१-६) इति सप्तम्यर्थेऽव्ययी- भावः । सर्वासु दिशास्वित्यर्थः । भुजाः शाखा इव भुजशाखाः । प्रति-दिशम् भुजशाखा यस्य स तथोक्तः । श्रियस्सखा श्रीसखः । *राजाहस्स-खिभ्यष्टच्*(पा.सू.५-४-९)इति टच्प्रत्ययान्ततया श्रीसखशब्दोऽकारान्तः । श्रीसखः अनोकह इव श्रीसखानोकहः । प्रतिदिशभुजशाखश्चासौ श्रीसखा-नोकहश्च स तथोक्ताः तस्य ऋद्धिः ज्ञानशक्त्यादीनाम् आत्मगुणानाम् औज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्यादीनाम् विग्रहगुणानाम् च सम्पत् । अनुकलतनुकाण्डालिङ्गनारम्भशुम्भन्ती प्रतिदिशभुजशाख-श्रीसखानोकहर्द्धिर्यस्यास्सेति बहुव्रीहिः । स्वालिङ्गनारम्भप्रतिफलप्रकाश- मानभगवत्स्वरूपरूपगुणसमृद्धिरित्यर्थः ।
लक्ष्मीतनोः काण्डौपम्यादार्जवम् सूचितम् । प्रतिदिशशब्देन भगव- द्भुजेषु चतुष्टुम् भुजाः शाखाः इवेत्यनेन भुजानाम् शाखौपम्यादायतत्वम्
सूचितम् । श्रीसख इत्यनेन सर्वस्मात् परत्वम्, अनोकह इत्यनेन
श्रीतनुकाण्डालिङ्गनसुखजनितम् वैवश्यम् च द्योतितम् । भगवतः श्री-सख इति रूढ्या श्रियो भगवत्स्वरूपनिरूपकत्वेन च प्रयोगः । अनोकह इति भगवत आनन्दनिर्भरत्वेन स्तब्धतयावस्थानात् वृक्षौपम्यम् *वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः*(श्वे.उ.३-९) इति श्रुतेः । भवाध्वश्रान्त-
विश्रान्तिपदत्वेन वा वृक्षौपम्यम् *वासुदेवतरुच्छाया नातिशीता न घर्मदा*(गा.पु.१-२२२-२५, विह.सम्.२४-१४) इति स्मृतेः । एवम् लक्ष्म्याः विग्रहसौन्दर्यस्वाधीनपतिकत्वञ्चोक्तम् ।
अथावयवसौन्दर्यमाह – स्तननयनेति । स्तनौ च नयने च स्तन- नयनम् गुलुच्छौ गुच्छौ स्फारपुष्पयोः विकचपुष्पयोः द्विरेफौ, भ्रमरौस्फारपुष्पद्विरेफौ गुलुच्छौ च स्फारपुष्पद्विरेफौ च गुलुच्छस्फारपुष्प-द्विरेफम् स्तननयनम् गुलुच्छस्फारपुष्पद्विरेफमिव यस्यास्सा तथोक्ता । स्तनयोः गुलुच्छौपम्येन सौन्दर्यम्, नयनयोः स्फारपुष्पौपम्येन विकासो वैपुल्यम् च गम्यते । कनीनकयाः द्विरेफौपम्येन नेल्यस्निग्धते द्योतिते। लक्ष्मीः कल्पवल्लीव लक्ष्मीकल्पवल्लीपुष्पादितुल्यावयवयोगेन सर्वाभीष्ट-प्रदत्वेन च लक्ष्म्याः कल्पवल्यौपम्यम् । मयि स्तुत्युद्यते । कटाक्षान् रचयतु माम् कटाक्षलक्ष्यम् करोत्वित्यर्थः । अत्र इवेत्युपमावाचका-प्रयोगात् वाचकलुप्तोपमालङ्कारः ।
नन्वत्र तनौ काण्डत्वरूपणम् तदालिङ्गनारम्भशोभिषु श्रीसखभुजेषु
नानादिग्व्यापिशाखत्वरूपणम् तद्वति श्रीसखे वृक्षत्वरूपणम् स्तनयोः
गुलुच्छत्वरूपणम् सतारकनयनयोस्सभ्रमरविकचपुष्पत्वरूपणम् लक्ष्याम्
कल्पवल्लीत्वरूपणम् चेति सावयवरूपकमेवालङ्कारोऽस्तु स्फुटत्वाञ्चा-रुतातिशयावहत्वाच्चेति चेत् न; अर्थबाधे स्फुटत्वचारुतातिशयावहत्वयोर-
किञ्चित्करत्वात्, लक्ष्मीकल्पवल्लीकटाक्षात्रचयत्वित्यत्र लक्ष्म्याम्
कल्पवल्लीत्वरूपणे कल्पवल्ल्याः कटाक्षरचनानुपपत्तेः । न हि लक्ष्म्या इव कल्पवल्ल्याः कटाक्षास्सभवंति स्थावरजाती-यत्वान् न च कल्पवल्ल्यास्सर्वफलप्रदत्वेन कटाक्षरचनमपि युज्यत इति वाच्यम् । विचित्र वसनाभरणाद्यपेक्षितप्रदत्वेऽपि तस्याः कटाक्षसद्भावे मानाभावादिति दिक् । न च तदुपपत्त्यै परिणाम एवात्रालङ्कारोऽस्त्विति वाच्यम्, तनुकाण्डेत्यादि सर्वविशेषणवैयर्थ्यप्रसङ्गात् । लक्ष्मीकल्प-वल्लीति विशेष्यमात्रे कटाक्षरचनौचित्याय परिणामप्राप्तेः । तस्मात् वाचकलुप्तोपमैवालङ्कार इति तत्त्वम् || ३ ||
भगवत्तस्स्थावरजङ्गमतरतमभावसृष्टिनियामक भ्रूविक्षेपा श्रुतिशिरसा- मपि परतत्त्वसम्शयनिवर्तकपदरागा स्वभोगोपक्रमलीलाल्पीकृत भगव- द्वैश्वरूप्यविभवा लक्ष्मीः सुधातरङ्गान्तरङ्गैः अपाङ्गैरस्मानभिषिञ्चतु इत्याशास्ते –

यद्भ्रूभङ्गाः प्रमाणम् स्थिरचररचनातारतम्ये मुरारेःवेदान्तास्तत्त्वचिन्ताम् मुरभिदुरसि यत्पादचिह्नैस्तरन्ति ।

भोगोपोद्घातकेलीचुलुकितभगवद्वैश्वरूप्यानुभावासा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ||||     यद्भ्रूभङ्गा इति – मुरारे: मुरद्विषः श्रीरङ्गराजस्य स्थिरचररचना- तारतम्ये स्थावरजङ्गमसृष्टिनीचोच्चभावे । स्थावरसृष्टौ नीचोच्चभावः – कल्पवृक्ष चन्दनरसालाश्वत्थनारिकेलाद्यपेक्षया स्नुहिबुर्बूरार्ककण्टकि- द्रुमाणाम् नीचभावस्तत्प्रतियोगिनामुक्तानाम्  कल्पवृक्षादीनामुच्चभावः । चरसृष्टिनीचोच्चभावस्तु देवापेक्षया मनुष्याणाम् मनुष्येषु च ब्राह्मणा-पेक्षया क्षत्रियाणाम् तदपेक्षया वैश्यानाम् तदपेक्षया शूद्रादीनाम् नीचभावः तदपेक्षया तिरश्चाम् तेष्वपि हम्सगरुशुकसारिकामयूरकोकिलाद्यपेक्षया क्ङ्कगृध्रकाकघूकादीनाम् नीचभावस्तत्प्रतियोगिनामुक्तानाम् देवादीनामुच्च भावश्चेति बोद्धव्यम् । तत्र यस्याः लक्ष्म्याः भ्रूभङ्गाः भ्रूविक्षेपाः प्रमाणम् नियामकाः श्रीभ्रूभङ्गतारतम्यम् दृष्ट्वा हरिः स्थावरजङ्गमात्मकम् जगत्तरतमभावेन सृजतीति भावः । श्रीभ्रूभङ्गतारतम्ये च तत्तत्कर्म-तारतम्यम् हेतुरिति श्रियो न वैषम्यनैर्घृण्य- प्रसङ्गः । भ्रूभङ्गाः प्रमाणमित्यनेन धातुर्जगत्सृष्टौ यथा वेदाः प्रमाणम् तथा भगवतोऽपि स्थिरचररचनातारतम्ये श्रीभ्रूभङ्गाः प्रमाणमिति भावः ।

वेदान्ताः उपनिषदः तत्त्वचिन्ताम् ब्रह्मा शिवो विष्णुर्वा परतत्त्वमिति
सम्शयम् मुरभिदुरसि श्रीरङ्गेशवक्षसि यत्पादचिह्नैः यस्याः श्रियः
पादचिह्नैः पादालक्तकाङ्कैः । तरन्ति – निरतिशयदीप्त्यापादकश्रीपद-
मुद्रितश्रीरङ्गराज एव परतत्त्वमिति निर्णयेन निवृत्तसम्शया भवन्ति ।
अत्र वेदान्तशब्देन चैतन्ययोगिनस्तदधिष्ठातृपुरुषा उच्यन्ते । तेषामेव
तत्त्वचिन्ताया देवतान्तरासम्भवन्मुरभिद्वक्षोनिष्ठलक्ष्मीचरणलाक्षाचिह्न-दर्शनस्य ततस्तदङ्कितो मुरभिदेव परतत्त्वमिति निवृत्तसम्शयत्वस्य चोपपत्तेः । *अतश्च वेदान्तपुरुषा वेदेषु*  *न किरिन्द्रत्वदुत्तरः*(ऋ.वे. ४-३०-१) *अग्निरग्रे प्रथमो देवतानाम्*(तै.ब्रा.२-४-३-३) *एक एव रुद्रो श्श
न द्वितीयाय तस्थे*(श्वे.उ.३-४, ४-१२)  *विश्वाधिको रुद्रो महर्षिः*(तै.सम्. ४-१-८)  *हिरण्यगर्भः समवर्तताग्रे*(ऋवे.१०-१२१-१) इति नानादेवता-पारम्यप्रतिपादनात्, *एको ह वै नारायण आसीत्*(महो.उ.१-१) *अग्नि-रवमो देवतानाम् विष्णुः परमः*(तै.सम्.५-५-१-४) इति तत्सा-धारण्येन विष्णुपारम्यस्यापि प्रतिपादनादुक्तेष्वेतेषु कः परतत्त्वमिति सम्शये सति स्वयम् निर्णेतुमसमर्थाः श्रीरङ्गधामनि मुरभिदम् श्रीरङ्ग-राजमासेव्य तदुरस्यसाधारणश्रीपदलाक्षालाञ्छनदर्शनेन अयमेव परतत्त्वमिति निश्चिन्वत इति भगवतः श्रीपराशरभट्टार्यस्य तात्पर्यम् । यद्वा वेदान्ता उपनिषदस्तत्त्वचिन्ताम् *न किरिन्द्र त्वदुत्तरः*(ऋ.वे. ४-३०-१) इत्याद्युक्तरीत्या स्वैर्नानादेवपारम्यप्रतिपादनादिषु कः परतत्त्वमिति पर-तत्त्वविषये श्रोतृसम्शयजनननिमित्ताम् चिन्ताम् खेदम् मुरभिदुरसि भगव- द्वक्षसि यत्पादचिह्नैः इत्यनेन लक्ष्मीसम्बन्धो लक्ष्यते । तरन्ति अतिवर्त्तन्ते । प्राशस्त्यप्रतिपादनसाधारण्येऽपि कारणवाक्येषु *एको ह वै नारायण आसीत् न ब्रह्मा नेशानः*(महो.उ.१-१) इतीतरनिषेधपूर्वकम् भगवतः प्रलयसमयावस्थितिम् प्रतिपाद्य *अथ पुरुषो ह वै नारायणो
अकामयत प्रजास्सृजेयेति*(ना.उ.१) इत्यादिना तस्य पुरुषशब्दवाच्यताम् जगत्सृष्ट्यादिकर्तृताम् च प्रतिपाद्य *सहस्रशीर्षा पुरुषः*(तै.आर. ३-१२-१)
इत्यारभ्य *तस्य धीराः परिजानन्ति योनिम्*(तै.आर.३-१३-२) इत्यन्तेन
वाक्यजातेन नारायण पुरुषशब्दवाच्यस्य सहस्रशिरः पादादिमत्त्वविश्व-
शरीरत्व-मोक्षप्रदत्व-महामहिमत्व, सर्वतोज्यायस्त्व-सर्वभूतैकपादत्व-
त्रिपाद्विभूतिमत्त्व-विश्वाक्रमणकर्तृत्व-चराचरोत्पादकनानावयवत्त्वतमः-
पारवर्त्तित्व-सर्वनामरूपव्याकर्तृत्व-कर्मकृतजन्मरहितत्वस्वेच्छाकृतानेका-
वतारत्वतदवतारहेत्वपारकारुणिकत्वानि प्रतिपाद्य एवम् विभवो नारायण-शब्दवाच्यश्च क इत्यपेक्षायाम् *ह्रीश्चते लक्ष्मीश्च पत्न्यौ *(तै.आर.३-१३-२) श्रियम् लोके देवजुष्टामुदाराम्’ (श्री.सू.५) इति तस्य लक्ष्मीपतित्वप्रति-पादनाल्लक्ष्मीपतिरेव नारायणपुरुषशब्दवाच्यः पूर्वोक्त-सर्ववैभवयुक्तः परतत्त्वम् चेति श्रोतारो निश्चिनुयुस्ततो नास्माभिश्चिन्ता कार्येति खेदम् मुञ्चन्तीत्यर्थः । तरन्तीत्यनेन मातापितृसहस्रेभ्यो वत्सलतरतया वेदान्तानाम् तत्खेदस्य दुस्तरत्वम् सूचितम् । अनेन लक्ष्म्याः वेदान्त-वेद्यत्वम् सूचितम् । भोगोपोद्धातकेलीचुलुकितभगवद्वैश्वरूप्यानुभावा भोगस्य श्रीविषयस्य भगवत्कृतस्यालिङ्गनचुम्बनालोकनश्लाघनादि- रूपोद्धात उपक्रमः, तस्मिन्केल्या लीलया चुलुकितः प्रसृति-पीतोऽल्पीकृतो वा भगवद्वैश्वरूप्यस्य विश्वशरीरत्वस्य अनन्तभुजवक्त्रनेत्रशीर्षत्वरूपस्य अनुभावो माहात्म्यम् यस्यास्सा तथोक्ता स्वालिङ्गनचुम्बनाद्युपक्रम-केल्यपर्याप्तभगवद्विश्वविग्रहविभवेत्यर्थः । तदुक्तम् यामुनार्यैः *स्ववैश्व-रूप्येण सदानुभूतयाप्यपूर्ववद्विस्मयमादधानया*(स्तो.र.३८) इति । वक्ष्यति चायम् *दशशतपाणिपादे*त्यादिना ।

यद्वा भोगस्य श्रीकृतस्वभगवत्स्वरूपरूपगुणविभूत्यनुभवस्य
उपोद्घातकेलीत्यादेः पूर्ववदर्थः । पूर्वयोजनायाम् स्वानुभवसाधनत्वा-पर्याप्तभगवद्विश्वविग्रहविभवत्वम् । द्वितीययोजनायाम् स्वानुभवविषया-पर्याप्तभगवद्विश्वविग्रहविभवत्वम् चार्थ इति भेदः । पूर्वयोजनायाम् लक्ष्म्यास्सौन्दर्यातिशयस्सूचितः । द्वितीययोजनायाम् तद्ज्ञानशक्ति-चातुर्यादिवैलक्षण्यम् सूचितम् । सा पूर्वोक्तगुणविशिष्टा भगवत्स्वरूप-निरूपकत्वेन प्रसिद्धा वा । पादत्रयेणापि परत्वमुक्तम् । अथ सौलभ्यमाह – श्रीरिति । स्वेतरैः श्रीयत इति श्रीः । अमृतलहरिधीलङ्घनीयैः अमृत-लहरीधिया अमी अमृततरङ्गा इति बुद्ध्या लङ्घनीयैः प्राप्यैः । लघेर्ग-त्यर्थत्वात् स्वेषु अमृततरङ्गबुद्धिजनकैरित्यर्थः । यद्वा अमृतलहरिधीः अमृततरङ्गबुद्धिस्तदपेक्षया लङ्घनीया त्याज्या यैस्तैः प्रयोजकैस्सर्वे-षामिति शेषः । अमृततरङ्गेभ्योप्यतिमधुरतया सर्वेषाममृततरङ्गाशा-निवर्तकैः इत्यर्थः । अपाङ्गैः कटाक्षैः । नः अस्मान् । आस्तृणीताम् – आच्छादयतु अभिषिञ्चतु इत्यर्थः । आङ्पूर्वात् *स्तृञ् आच्छादने* (धा. पा.२५३) इत्यस्माद्धातोः श्नाप्रत्यये *ईहल्यघोः*(पा.सू.६-४-१३) इतीत्वे लोडात्मनेपदप्रथमपुरुषैकवचनम् ||||
श्लोकद्वयप्रार्थितप्रकारेण लक्ष्मीकटाक्षामृतवीचिविशदीकृतविज्ञान-विषयीकृततत्स्वरूपरूपगुणविभूतिः ब्रह्माद्यशक्यस्तव तद्वैभववैपुल्यम्
स्ववाक्फल्गुताम् चानुसन्धाय तत्स्तुतिसाहसप्रवृत्तस्य स्वस्य वाक्प्रशस्त्ये स्वस्तीति साभिप्रायमाह –

यद्यावत्तव वैभवम् तदुचितस्तोत्राय दूरे स्पृहा स्तोतुम् के वयमित्यदश्च जगृहुः प्राञ्चो विरिञ्यादयः ।अप्येवम् तव देवि वाङ्मनसयोर्भाषानभिज्ञम् पदम्कावाचः प्रयतामहे कवयितुम् स्वस्ति प्रशस्त्यै गिराम् ||||      यद्यावत्तवेति – हे देवि श्रीरङ्गेश्वरि ! तव वैभवम् यत् यत्स्वरूपम्
यावत् यावत्परिमाणम् तदुचितस्तोत्राय तदुभयानुरूपस्तवनाय *क्रिया- र्थोपपद*….. (पा.सू.२-३-१४) इत्यादिना चतुर्थी । स्पृहा इच्छा दूरे दूरतः एव न सम्भवतीत्यर्थः । इच्छा जाताऽपि विफलैव निरवधिकविभवस्तुतेः अशक्यत्वादित्यर्थः । इच्छादूरे इत्यत्र सम्बन्ध्यनिर्देशात् सर्वेषामिति गम्यते ।
ननु मद्विभवस्य स्तोतुमशक्यत्वे विरिञ्ज्यादयः कथम् तुष्टुवु-रित्यत्राह – स्तोतुम् क इति । प्राञ्चः प्राचीनाः नाद्यतनाः तेन ज्ञान-शक्तिवैपुल्यम् सूचितम् । विरिञ्चिः ब्रह्मा *ब्रह्मा ब्रह्मविदाम्वरः*(वि.स.ना.) इति प्रसिद्धविभवश्चतुर्मुख आदिर्येषाम् ते तथोक्ताः। आदिशब्देन शिवशत- मखादयो गृह्यन्ते । अदश्चेत्यत्र चशब्दो भिन्नक्रमः विरिञ्ज्यादयश्च
इत्यर्थः । ते च वयम् मितप्रज्ञा इत्यर्थः । अद इदम् वैभवम् अद-श्शब्देन *यतो वाचः*(तै.आर.२-४-५) इति श्रुत्युक्त-वाङ्मनसागोचरत्वम् सूच्यते । स्तोतुम् के कियच्छक्तिका इति इदम् वचनम् जगृहुः अवदन् न तुष्टुवुरित्यर्थः ।
यद्वा वयम् स्तोतुम् क इति वचनम् । अदश्च इदम् वैभवम् च जगृहुः । स्तोतुमशक्यमिति वदन्त एव तूष्णीम् भवितुमशक्ताः वैभवम् यथाशक्तितुष्टुवुरित्यर्थः । तेन स्तुतावसाकल्यम् सूचितम् ।

अप्येवम् एवमपि ब्रह्माद्यशक्यस्तवत्वेऽपि वाङ्मनसयोः वाक्यचित्तयो- रुपनिषदामपीति शेषः । वाङ्मनसशब्दोऽकारान्तः *अचतुरविचतुर*(पा.सू. ५-४-८८) इति सूत्रेण निपातितः । भाषा भाषणम् । वाक्चित्ताभ्याम् परिच्छेदः तदनभिज्ञम् वाङ्मनसागोचरमित्यर्थः । यद्वा वाङ्मनसयोर्भाषा वाङ्मनसवाचकशब्द स्तदनभिज्ञम् तद्वाचकशब्दमेव न जानाति कुतस्ते जानीयात् तद्गोचरत्वम् दूरापास्तमिति भावः । तव पदम् पद्यत इति पदम् त्वत्स्वरूपम् । कवयितुम् वर्णयितुम् । कावाचः कुत्सितवाचः । *ईषदर्थे च*(पा.सू.६-३-१०४) इति कुशब्दस्य कादेशः । अनेन स्तुति-सामग्रीवैकल्यम् सूचितम् । प्रयतामहे प्रकृष्टयत्नम् कुर्महे अहो साहसि-कत्वम् अस्माकमिति भावः । गिराम् स्तुतिवचसाम् प्रशस्त्यै प्रसिद्ध्यै । स्वस्ति मङ्गलद्ध्यै स्यादितिशेषः । स्यादिति काकुः न स्यादित्यर्थः । अतिसाहसिकप्रयत्नोऽयम् न फलतीति हृदयम् । स्तुतिप्रयत्नस्य साहस- कृत्यत्वेऽपि शेषत्वस्वरूपोचितकिञ्चित्काररूपत्वात् वाक्प्रसिद्ध्यै स्वस्ति भवत्विति प्रार्थनायाम् वा तात्पर्यम् ||||
ब्रह्माद्यशक्यस्तवत्वेऽपि श्रियस्तद्गुणविस्तारेण न स्तोतृत्वम् स्वस्मि- न्नेव पर्यवस्यतीत्याह –

स्तोतारम् तमुशन्ति देवि! कवयो यो विस्तृणीते गुणान्स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति ।यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गुणाःक्षान्त्यौदार्यदयादयो भगवति स्वाम् प्रस्नुवीरन्प्रथाम् ||||      स्तोतारमिति – हे देवि ! स्तोतव्यस्य स्तुत्यस्य गुणान् यो विस्तृणीते विस्तारयति विपूर्वात् स्तृञ् आच्छादने*(धा.पा.२५३) इति धातोः श्नाप्रत्यये *ई हल्यघोः*(पा.सू.६-४-११३) इतीत्वे त इत्यस्य एत्वे कृते विस्तृणीत इति रूपम् । तम् कवयः पण्डिताः । *सङ्ख्यावान् पण्डितः कविः* इत्यमरः (अ.को.२-७५) । स्तोतारम् स्तावकम् उशन्ति कथयन्ते । *वश कान्तौ*(धा.पा.१०८०) इत्यस्माद्धातोः *ग्रहिज्या*(पा.सू. ६-१-१६) इति सम्प्रसारणे *झोऽन्तः*(पा.सू.७-१-३)इत्यन्तादेशे उशन्तीति रूपम् ।
ततः गुणविस्तारकस्यैव स्तोतृत्वकथनात् । चेति चकारेण पूर्वश्लोक- सूचितस्वरूपोचितकिञ्चित्काररूपस्तुतिप्रवृत्तिर्हेतुत्वेन समुच्चीयते । ते स्तुतिधुरा त्वद्विषयस्तोत्रभारः । धुराशब्द आकारान्तः हलन्तानाम्
भावन्तत्वम् भागुरिर्मन्यते । मय्येव न विरिञ्ज्यादिषु तेषाम् श्रुतिमधुर- वाक्त्वादिति भावः । विश्राम्यति पर्यवस्यति स्तोतृत्वम् च ममैवोचित-मित्यर्थः ।
कथम् त्वया मद्गुणा विस्तीर्यन्ते येन तवैव स्तोतृता स्यादित्यत
आहयस्मादिति । यस्मात् यतो हेतोः अस्मदमर्षणीयफणितिस्वीकारतो
मत्कठोरवचनविषयीभावतः ते तव क्षान्त्यौदार्यदयादयः वाग्दोषसहनेन
क्षान्तिः अयोग्येनापि मया स्वस्तुतिनिर्वर्तनादौदार्यम् । स्तुत्यकरणे
दुःखितस्य मे फणिति स्वीकारेणानुकम्पना दया । आदिशब्देन फणिति-दोषे गुणत्वबुद्धेर्वात्सल्यम् चेति गुणाः स्वाम् स्वकीयाम् । प्रथाम् सिद्धिम् प्रकाशम् वा प्रस्नुवीरन् जनयेयुः । *ष्णु प्रस्रवणे*(धा.पा.१०३८) इत्यस्माद्धातोः लिङात्मनेपदबहुवचने *लिङस्सीयुट:*(पा.सू.३-४-१०२) सलोपे उवङि झस्यरनादेशेप्रस्नुवीरन् इति रूपम् ||||
एवम् स्वस्य स्तोत्राधिकारम् प्रसाध्य लक्ष्म्यनुग्रहेण स्वसूक्तिसमग्र-ताम् प्रार्थयते –

सूक्तिम् समग्रयतु नःस्वयमेव लक्ष्मीःश्रीरङ्गराजमहिषी मधुरैः कटाक्षैः ।वैदग्ध्यवर्णगुणगुम्फनगौरवैर्याम्कण्डूलकर्णकुहराः कवयो धयन्ति ||||       सूक्तिमिति – श्रीरङ्गराजमहिषी श्रीरङ्गेश्वरवल्लभा । लक्ष्मीः श्रीः । श्रीरङ्गराजमहिषी लक्ष्मीरिति विशेषणविशेष्याभ्याम् पतिवाल्लभ्यकृतम्
स्वविभवसामर्थ्यम् सूचितम् । मधुरैः स्वादुभिः प्रियैश्च *स्वादुप्रियौ तु
मधुरौ*(अ.को.३-३-१९) इत्यमरः । कटाक्षैः – अपाङ्गैः न त्वध्यापनैः
नोऽस्माकम् । सूक्तिम् – शोभनाम् वाचम् । स्वस्तुतिम् स्वयमेव अस्म- त्प्रयत्नमनपेक्ष्यैव अस्मत्प्रयत्नापेक्षणे शोभनत्वम् न सिध्येदिति भावः ।
समग्रयतु समग्राम् करोतु सम्पूर्णाम् निर्वर्तयतु इत्यर्थः ।
उत्तरार्धेनोक्तशोभनतामेव विशदयति – वैदग्ध्येति । यामुक्तिम्
वैदग्ध्यवर्णगुणगुम्फनगौरवैः वैदग्ध्येन चातुर्येण वर्णानाम् अक्षराणाम्
गुणानाम् ओजःप्रसादशय्यापाकादीनाम् गुम्फनगौरवैः ग्रथनातिशयैः ।
यद्वा वैदग्ध्यम् अर्थकल्पना वर्णगुणाः वर्णधर्माः प्रसादमाधुर्यादयः तेषाम् गुम्फनम् रचना तद्गैरवैः तदतिशयैः निमित्तैः । कवयः पण्डिताः । कण्डूलकर्णकुहराः कण्डूरेषामस्तीति कण्डूलानि मत्वर्थे लच् तथाभूतानि
कर्णकुहराणि श्रोतृविवराणि येषाम् ते तथोक्ताः श्रवणसकुतूहलश्रुतिविवराः
सन्तः सदा दत्तकर्णा इत्यर्थः । धयन्ति पिबन्ति *धेट् पाने* (धा.पा. ९०२) इत्यस्माद्धातोः तिङि शप् प्रत्यये अयादेशे *झोऽन्तः*(पा.सू.७-१-३) इत्यन्तादेशे धयन्तीतिरूपम् । धयन्तीति पानोक्त्या सूक्त्याः सुधा-साम्यम् सूचितम् ||||
सङ्ग्रहेणोक्तम् विवक्षितोक्तिगौरवम् विवृण्वन् स्वस्मै श्रीरेव तद्विस्ता- रयतु इति प्रार्थयते –

अनाघ्रातावद्यम् बहुगुणपरीणाहि मनसोदुहानम् सौहार्दम् परिचितमिवाथापि गहनम् ।पदानाम् सौभ्रात्रादनिमिषनिषेव्यम् श्रवणयोः त्वमेव श्रीर्मह्यम् बहुमुखय वाणीविलसितम् ||||     अनाघ्रातेति – हे श्रीः । अनाघ्रातावद्यम् – अनाघ्रातमस्पृष्टमवद्यम्
वर्णपदवाक्यगतः श्रुतिकट्वश्लीलप्रक्रमभङ्गादिदोषो यस्य तत् तथोक्तम् । बहूनाम् गुणानाम् पाकवृत्तिशब्दार्थालङ्कारादीनाम् परीणाहो विशालता-स्यास्तीति तथोक्तम् । मनसः सौहार्दम् सन्तोषम्। दुहानम् दोग्धृ सम्पूर्णरसमित्यर्थः । अनेन विशेषणत्रयेण काव्यसामान्यलक्षणमुक्तम् । निर्दोषसगुणसरसशब्दार्थयोरेव काव्यत्वात् । परिचितमिव ज्ञातार्थमिव स्थितम् । श्रोतॄणामिति शेषः । अथापि गहनम् अज्ञातार्थबहुलम् ध्वनि-प्रधानमित्यर्थः । अनेन उत्तमकाव्यत्वम् सूचितम् । *ध्वनिप्रधानता यत्र तदुत्तममुदाहृतम्* इति लक्षणात् ।
पदानाम् सुप्तिङन्तानाम् सौभ्रात्रात् स्नेहात् शय्याया इत्यर्थः । *या
पदानाम्परान्योन्यमैत्री शय्येति कथ्यते* इति लक्षणात् । श्रवणयोः श्रोत्रयोः । अनिमिषम् निर्निमेषम् सावधानम् साश्चर्यम् वा निषेव्यम् सेवितुमर्हम्, ग्राह्यमित्यर्थः । वाण्याः सरस्वत्याः । *गीर्वा-ग्वाणी सरस्वती* इत्यमरः (अ.को.१-६-१) । विलसितम् भाषारूपम् विलासम् कर्म भावे क्तः । त्वमेव मह्यम् बहुमुखय बहुमुखीकुरु । न त्वहम् वाणीम् प्रसादयामि । अनन्यदैवत्वस्वरूपविरुद्धत्वात् । त्वत्प्रा-सादलक्षणराजकुलमाहात्म्यलब्धस्यैव तद्विलसितस्य स्वरसत्वाच्चेति भावः ॥ ८ ॥

स्वप्रार्थनानुगुण्येन लक्ष्मीकटाक्षलब्धवाग्विलासपूर्वम् श्रीरङ्गराज-
स्तवे त्रिम्शदुत्तराभ्याम् पूर्वोत्तरशतकाभ्याम् श्रीरङ्गराजमुच्चैरभिष्टूय एक-षष्ठिश्लोकपरिमितत्वेन ततः शब्दसङ्कोचेप्यर्थपौष्कल्येन, रसपौष्कल्येन सन्दर्भविशेषविशिष्टतया च ततोप्यतिशयिताम् श्रीस्तुतिम् चिकीर्षुः स्वापेक्षया श्रियोऽधिकतया स्तवने श्रीरङ्गराजः कुपितः स्यादिति तत्कोपशान्तये तम् श्रियः श्रीःश्रीरङ्गेशयेतिविशेषणविशेष्याभ्याम् प्रसाद्य स्ववाल्लभ्येन चिकीर्षितम् सप्रागल्भ्यम् प्रतिजानीते –

श्रियः श्रीः श्रीरङ्गेशय! तव च हृद्याम् भगवतीम्श्रियम् त्वत्तोऽप्युञ्चैर्वयमिह (भ) फणामः शृणुतराम् ।दृशौ ते भूयास्ताम् सुखतरलतारे श्रवणतः पुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः कञ्ञ्जुकशतम् ||||    श्रियः श्रीरिति । श्रियः सर्वसमाश्रयणीयायाः श्रीः आश्रयणीयः श्रिय इति सर्वेषाम् श्रीसमाश्रयणेन स्वरूपलाभः । श्रीरिति श्रियो भगवत्समाश्र- यणेन स्वरूपलाभश्च सूचितः । तथा श्रिय इति श्रियः स्वव्यतिरिक्तैकोन- सर्वशेषित्वम् । श्रीरितिभगवतः स्वव्यतिरिक्तसर्वशेषित्वम् सूचितम् । श्रीरङ्गे दिव्यनगरे श्रीरङ्गाख्ये दिव्यविमाने वा शेत इति श्रीरङ्गेशय सर्वसमाश्रयणोचितसौलभ्यसीमाभूमे! एवम् विशेषणविशेष्य पदाभ्याम् श्रीरङ्गेशः प्रसादितः । तव च हृद्यामिति साभिप्रायम् वचनम् स्वेतरसर्व- जनहृद्यस्त्वमुच्चैः फणितः । तव च हृद्यायास्त्वत्तोऽप्युच्चैः फणनमुचित- मिति त्वया न कोपः कार्य इति । हृद्याम् हृदयङ्गमाम् भोग्याम् वक्षः- स्थलनिवासिनीम् वा भगवतीम् –  षाड्गुण्यपरिपूर्णाश्रीकाममाहात्म्यादि-युक्ताम् वा अत एव श्रियम् पुरुषकारत्वेनास्मदाद्याश्रयणीयाम्। त्वत्तोऽप्यु- च्चैः भवतोऽप्यतिशयेन त्वदपेक्षया श्रियमतिशयितत्वेन त्वम् श्रीस्तुतिम् करोषि चेद्यथाकुर्यास्ततोऽप्यतिशयेनेतिवार्थः ।
मत्तोऽप्युच्चैः के फणिष्यन्तीत्यत आह – वयमिति । वयम् युष्मत्प्र-सादैकलब्धविशदतमज्ञानाः । अनेन स्वप्रयत्नपूर्वकाविशदज्ञानब्रह्मादि- व्यावृत्तिः । वयमिति बहुवचनेन स्वसमानज्ञानश्रीवत्साङ्कमिश्रयतिवर-
यामुनाचार्या गृह्यन्ते । इह त्वत्समक्षमेव फणामः स्तुमः, न तु परोक्षे यत्किञ्चत्प्रगल्भवचनम् ब्रूमः । अत्र स्तुतिर्नाम नाविद्यमानगुणारोपो
विद्यमानयावद्गुणपरिच्छेदो *वा किन्तु यथावज्ज्ञातगुणवर्णनम् तत्तथैव क्रियते शृणुतराम् सम्यक्छ्रवणम् कुर्याः त्वमेव साक्षीभवेति भावः ।
न केवलम् श्रीस्तुतिश्रवणेन ते कोपाभावः प्रत्युत श्रवणसुखेन चक्षु- षोर्वैवश्यम् सन्तोषातिशयादपरिमितकञ्चुकस्फुटनहेतुर्गात्रपरिपोषश्च
भवेदित्याह – दृशौ त इत्यादिना । श्रवणतः स्तुतिश्रवणात् ते दृशौ
सुखेन तरले चञ्चले तारके कनीनिके ययोस्ते तथोक्तम् भूयास्ताम् पुनः
किञ्चेत्यर्थः । हर्षोत्कर्षात् आनन्दातिशयात् । भुजयोः अधिकरणे
सप्तमी कञ्चुकशतम् स्फुटतु प्रथममेककञ्चुकस्फोटे ततोऽपि पृथुत्वे-नापरकञ्चुकधारणे गात्रजृम्भणेन तस्यापि स्फुटने ततोऽपि विपुल-कञ्चुकधृतौ विग्रहविवृद्ध्या अस्यापि स्फोट इत्येव प्रकारेणापरिमित-कञ्चुकस्फोटो भवत्वित्यर्थः । पुनरित्यस्य मुहुरिति वा अर्थः ||||
प्रतिज्ञातक्रमेण श्रियम् स्तोष्यन् मानाधीना मेयसिद्धिरिति न्यायेन
श्रीस्वरूपरूपगुणादिषु सपरिकराम् श्रुतिम् प्रमाणयन् अर्थतः श्रीगुणरत्न- कोशाख्याम् स्तुतेः सूचयति –

देवि श्रुतिम् भगवतीम् प्रथमे पुमाम्सःत्वत्सद्गुणौघमणिकोशगृहम् गृणन्ति ।तद्द्वारपाटनपटूनि च सेतिहास-सन्तर्कणस्मृतिपुराणपुरस्सराणि || १० ||    देवीति । हे देवि! प्रथमे पूर्वे *प्रथमचरम*(पा.सू.१-१-३३) इत्यादिना विकल्पेन सर्वनामसञ्ज्ञा । पुमाम्सः वसिष्ठवाल्मीकिपराशरपाराशर्यादि- परमर्षयः । श्रीपराङ्कुशपरकालयतिवरादयश्च । भगवतीम् स्वतःप्रमाण-त्वसकलपुरुषार्थप्रतिपादकत्वरूपमाहात्म्ययुक्ताम् श्रुतिम् नित्यम् श्रूय- माणाम् त्रयीम् अनेनापौरुषेयत्वनिर्दोषत्वादीनि सूचितानि । त्वत्सद्गु-णौघाः त्वत्कल्याणगुणगणाः । ओघशब्देन गुणानामानन्त्यम् सूचितम् । त एव मणिकोशारत्नराशयः । *कोशोऽस्त्रीसञ्चयेऽपि च* इति रत्नमाळा । गुणानामुज्ज्वलत्वमङ्गलावहत्वाभ्याम् मणित्वरूपणम् तेषाम् मणिकोशानाम् गृहम् भाण्डागारम् गृणन्ति व्यक्तम् कथयन्ति । उपनिषदमित्यनुक्त्वा श्रुतिमिति सामान्यवचनेन पूर्वोत्तरभागात्मक- कृत्स्नवेदेऽपि श्रीवैभवप्रतिपादनम् क्रियत इति भावः ।
तथैव *गृणाहि* *घृतवती*(ऋ.वे.६-७०-१) इत्यादिना पूर्वकाण्डे
*सुमज्जानये विष्णवे*(तै.ब्रा.४-४-३-९) *श्रद्धया देवो देवत्वमश्नुते*(तै.ब्रा. ३-१२-३-१) *ह्रीश्च ते लक्ष्मीश्च पत्न्यौ*(तै.आर.३-१३-२) *हिरण्यवर्णाम् हरिणीम्*(श्री.सू.१) इत्यादिना परस्सहस्राणि वाक्यानि उत्तरकाण्डे च श्रीवैभवप्रतिपादकानि सन्ति । अत्र त्वत्सद्गुणेति श्रीगुणेत्यस्य मणि-कोशेति रत्नकोशेत्यस्य च सूचनादर्थतः श्रीगुणरत्न-कोशाख्यस्तोत्रनाम सूचितम् ।
इतिहासाः श्रीरामायणादयः । सम्यक् तर्कणम् सन्तर्कणम् समीचीन तर्क इत्यर्थः । *यस्तर्केणानुसन्धत्ते स धर्मम् वेद नेतर:’ (म.स्मृ.१२-१०६) इति स्मृतेः । सन्तर्कणम् वेदार्थविचाररूपमीमाम्सा वा । इतिहाससन्तर्कणैस्सहितानि सेतिहाससन्तर्कणानि । स्मृतयो मन्वादिस्मृतयः । पुराणानि श्रीविष्णुपुराणप्रभृतीनि स्मृतयश्च पुराणानि च स्मृतिपुराणानि तान्येव पुरस्सराणि प्रमुखानि येषाम् तानि तथोक्तानि सेतिहाससन्तर्कणानि च तानि स्मृतिपुराणपुरस्सराणि चेति कर्मधारयः । पुरस्सराणीति लक्ष्मीतन्त्रादीनि द्राविडदिव्यप्रबन्धरूपाणि प्रमाणानि च स ङ्गृह्यन्ते ।
पटूनि च इत्यत्र चकारो भिन्नक्रमः । पुरस्सराणि चेति चस्त्वर्थः । तानि तु तद्द्वारपाटनपटूनि तस्य श्रुतिलक्षणत्वगुणमणिकोशगृहस्य द्वारपाटने कवाटविवृतौ त्वद्गुणवैभवतात्पर्यविवृतौ इत्यर्थः । पटूनि समर्थानि कुञ्चिकारूपाणि गृणन्तीत्यनुषङ्गः । तदुक्तम् – *इतिहास-पुराणाभ्याम् वेदम् समुपबृम्हयेत् । बिभेत्यल्पश्रुताद्वेदो मामयम् प्रतरिष्यति* (महाभा.आदि.१-२७३) इति श्रुतिम् त्वद्गुणौघमणिकोशगृहम् स्मृतिपुराणपुरस्सराणि तद्द्वारपाटनपटूनि च गृणन्ति इति यथाश्रुत-मेवान्वयः । इतिहासेषु श्रीरामायणस्य वेदोपबृम्हणत्वम् श्रीविभव- प्रतिपादकत्वम् च *वेदोपबृम्हणार्थाय तावग्राहयत प्रभुः । काव्यम्
रामायणम् कृत्स्नम् सीतायाश्चरितम् महत्*(रा.बा.का.४-६) || इति तत्रैव
प्रसिद्धम् । महाभारतादेस्तु भगवद्वैभवप्रतिपादने श्रियस्तदन्तर्भावात्
तद्वैभवप्रतिपादकत्वम् च सिद्धम् । श्रीविष्णुपुराणस्य श्रीवैभवप्रति-पादकत्वम् *नमामि सर्वलोकानाम् जननीम्*(वि.पु.१-९-११७) इत्यादिना स्पष्टमेव । एवमन्यत्रापि योजनीयम् || १० ||
इत्थम् श्रीविभवे सपरिकराम् श्रुतिम् प्रमाणीकृत्य यावत्परमतम् न
निराक्रियते तावत्स्वमतमस्थिरमिति न्यायेन बाह्यकुदृष्टिमतानि निरसितुम् तन्मतान्युपक्षिप्य बाह्यप्रभृतयो न मया निरसनीयाः, किन्तु मिथो विरोधात् परस्परमेव प्रतिहता बभूवुः यतस्तव कटाक्षलक्ष्यताम् न गता इति श्रियम् सम्बोध्याह –

आहुर्वेदानमानम् कतिचन कति चाराजकम् विश्वमेतत्राजन्वत्केचिदीशम् गुणिनमपि गुणैस्तम् दरिद्राणमन्ये ।भिक्षावन्ये सुराजम् भवमिति च जडास्ते तलातल्यकार्षुःये ते श्रीरङ्गहर्म्याङ्गणकनकलते न क्षणम् लक्ष्यमासन् ।। ११ ।।
आहुरिति । हे श्रीरङ्गहर्म्याङ्गणकनकलते, श्रीरङ्गे पुरे हर्म्यस्य
दिव्यविमानस्य श्रीरङ्गाख्यस्य दिव्यविमानस्य वा अङ्गणमजिरम् पुरःप्रदेशः । *अङ्गणम् चत्वराजिरे*(अ.को.२-१-१३) इत्यमरः । तस्य कनकलते तत्रोद्भूत-कनकलतेवस्थिते ! कनकेत्यनेनौज्वल्यलावण्य-सौन्दर्यानि सूचितानि, लतेत्यनेन सौगन्ध्यसौकुमार्ययौवनानि सूचितानि । ये पुरुषाः ते तव लक्ष्यम् जायमानकटाक्षविषयाः । क्षणम् क्षणमपि जन्मपरम्परासु कदापि नासन् नाभवन् *जायमानम् हि पुरुषम् यम् पश्येन्मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः* । (महाभा.मो.प.३५८-७३) इति वचनम् लक्ष्मीजायमानकटाक्ष-स्याप्युपलक्षणम् । तत्कटाक्षतदुपेक्षयोः इष्टानिष्टसाधनत्वम् स्पष्टम् श्रीविष्णुपुराणे *सः श्लाघ्यः स गुणी धन्यः स
कुलीनः स बुद्धिमान् । स शूरः स तु विक्रान्तो यम् त्वम् देवि ! निरीक्षसे ! सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । पराङ्मुखी जगद्धात्री यस्य त्वम् विष्णुवल्लभे*(वि.पु.१-९-१३१,१३२) || इति जडा: –
तत्त्वज्ञानहेतुत्वतत्कटाक्षविषयराहित्यादेव जडाः अज्ञानान्यथाज्ञान-
विपरीतज्ञानव्याकुलास्ते । कतिचन सुगतचार्वाकादयो वेदबाह्याः
तेषामव्यपदेश्यत्वात् कतिचनेत्युक्तिः । एवम् कतिचेत्यादिष्वपि बोध्यम् । वेदान् अपौरुषेयत्वनित्यत्वनिर्दोषत्वाखिलपुरुषार्थाऽऽवेदकत्वादिभिः
प्रमाणतमान् अमानम् अप्रमाणम् आहुरिति साहसिकत्वम् सूचितम् ।
कतिचन कापिलाः एतत्क्षेत्रज्ञा ज्ञातोपादानकविविधविचित्र-
भूधरसमुद्रादिरूपम् ब्रह्मादिपिपीलिकान्तम् च विश्वम् जगत् अराजकम्
राजशून्यमनाथमाहुरित्यनुषङ्गः । ते हि प्रकृतिपुरुषावेव जगत्कारणम्
प्रकृतिः पुरुषसन्निधानात्स्वव्यतिरिक्तत्रयोविम्शतितत्त्वात्मना विकुरुते ।
प्रकृतिपुरुषाभ्याम् सह पञ्चविम्शतितत्त्वान्येव सन्ति तदतिरिक्त ईश्वरो
नास्तीत्युपगच्छन्ति, उदाहरन्ति च *मूलप्रकृतिरविकृतिर्महदाद्याः
प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः*
(सां.का.३) इति ।
केचित् काणादाः राजन्वत् सुराजकम् आनुमानिकनिमित्तमात्रेश्वरम् *सुराज्ञिदेशे राजन्वान्* इत्यमरः (अ.को.२-१-१२) ।
विश्वमित्यनुषङ्गः । आहुरिति सर्वत्रान्वेति ।
अन्ये मृषावादिनः ईशम् नियन्तारम् गुणिनमपि *परास्य
शक्तिर्विविधैव श्रूयतेस्वाभाविकौ ज्ञानबलक्रिया च*(श्वे.उ.६-८) *यस्सर्वज्ञ- स्सर्ववित्*(मुं.उ.२-२-७) अपहतपाप्मा………….सत्यकामः सत्यसङ्कल्पः*(छां.उ.८-१-१) *तस्मिन्यदन्तस्तदन्वेष्टव्यम्*(छां.उ.८-१-५)  *तस्मिन्कामाः समाहिताः*(छां.उ.८-१-५) *काम्यन्त इतिकामाः कल्याणगुणाः*(श्री.भा.१-१९९) इति भाष्यम् । *तेजोबलैश्वर्यमहावबोध-
सुवीर्यशक्त्यादिगुणैकराशिः*(वि.पु.६-५-८५) *सङ्ख्यातुम् नैव शक्यन्ते गुणा दोषाश्च शार्ङ्गिणः । आनन्त्यात्प्रथमोराशिरभावादेव पश्चिमः* ||
इत्यादिपरस्सहस्रवेदान्तस्मृतीतिहासपुराणागमादिप्रसिद्धापरिमितगुण-
सागरमपि तमेव सर्वप्रमाणविरोधेन गुणैर्दरिद्राणम् शून्यम् *दरिद्रा दुर्गतौ* (धा.पा.१०७३) इत्यतः चानशि दरिद्राणमिति रूपम् । आहुरित्यन्वयः ।
ते हि निर्गुणश्रुतितात्पर्यमजानन्तः सजातीय-विजातीय-स्वगतभेद- शून्यम् निर्गुणमेव ब्रह्म तदेवाविद्यापरिकल्पितम् सगुणत्वमनुभवतीति
कथयन्ति । तेषाम् *स्वाभाविकी ज्ञानबलक्रिया च*(श्वे.उ.६-८) इत्यादि-भिर्विरोधः स्फुट एव । निर्गुणश्रुतितात्पर्यम् वर्णितम् श्रीवत्साङ्कमिश्रैः
*दूरे गुणास्तव तु सत्त्वरजस्तमाम्सि तेन श्रुतिः प्रथयति त्वयि निर्गुण-त्वम्*(श्रीवै.स्त.४९) इति ।
अन्ये शैवाः । भिक्षौ स्वकुक्षिपूरणेऽप्यशक्ते भिक्षुके कपालिनीत्यर्थः । सुराजे भवम् सुराजत्वम् । *कर्तृकर्मणोश्च भूकृञोः*(पा.सू.३-३-१२७) इति भूधातोः खच्प्रत्यये कृते भावे सुराजम् भवमिति रूपम् । आहुरिति हेलनम् । *ब्रूञ् व्यक्तायाम् वाचि*(धा.पा.१०४४) इत्यस्माद्धातोः *ब्रुवः पञ्चानाम्*(पा.सू.३-४-८४) इत्यादिसूत्रेण आहादेशे लिट्परस्मैपदबहु- वचनस्य झेरुसादेशे च कृते आहुरिति रूपम् । इति उक्तप्रकारेण तलैश्च तलैश्च प्रहृत्येदबहु युद्धम् प्रवर्तते इति तलातलि तलप्रहारम् अकार्षुः अकुर्वन् मिथ इति शेषः । इति चेत्यत्र चकारेण गुणगुण्यभेदमुक्तितार-
तम्यवादादिना केचन तलातल्यकार्षुरिति ते च सङ्गृह्यन्ते || ११ ||

त्वत्कटाक्षविषयताविधुराः मिथः प्रतिहता इत्युक्त्वा तद्विषयत्व-भाग्यशालिनः त्वन्महिमानमनुभवन्तीत्याह –

मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेनश्रुतिशिरसि निगूढम् लक्ष्मि ! ते वीक्षमाणाः ।निधिमिव महिमानम् भुञ्जते येऽपि धन्याःननु भगवति ! दैवीम् सम्पदम् तेऽभिजाताः || १२ ||      मनसीति । भगवति सकलकल्याणगुणसम्पन्ने ! ननु लक्ष्मि हे
श्रीः! धन्याः त्वत्कटाक्षविषयत्वरूपभाग्यवन्तः येऽपि ये केचन पुरुषाः ।
येऽपीत्यनेन तेषामतिशयो वाचामगोचर इति सूचितम् । भक्तिसिद्धाञ्ज-नेन भक्तिः युष्मत्स्वरूपरूपगुणविभूतिषु अनितरसाधारणप्रावण्यम् सिद्धा-ञ्जनमिव गूढार्थप्रकाशकाञ्जनविशेष इव यस्य तेन भक्तिविशदीकृते-नेत्यर्थः । अत एव मनसि हृदये । विलसता प्रकाशमानेन अक्ष्णा दृष्ट्या ज्ञानेनेत्यर्थः । श्रुतिशिरसि वेदान्ते श्रुतिशिरसीति जात्येकवचनम् श्रुतिशिरस्वित्यर्थः । निगूढम् नितराम् गूढम् वेदरहस्यम् वस्तुत्वादिति-भावः । ते तव महिमानम् स्वरूपरूपादिविभवम्, भक्तिसिद्धाञ्जनेन भक्ति- युक्तम् रचनायुक्तम् सिद्धाञ्जनम् सिद्ध्यञ्जनम् यस्य तेन तथोक्तेन अत एव विलसता विशेषप्रकाशमानेन अक्ष्णा चक्षुषा श्रुतिशिरसि श्रवणकोणे निगूढम् नितराम् गूढम् परश्रवणानभिज्ञम् रहस्योपदिष्टमित्यर्थः । शिरसि निगूढमित्यनेन निधेः पर्वतशिरोनिगूढत्वमपि सूच्यते । तथाभूतम् निधि- मिव वीक्षमाणास्सन्तः । भुञ्जते अनुभवन्ति ।
निधिपक्षे भुक्तिर्धनविनियोगः महिमपक्षे तदनुसन्धानम् वेदितव्यम् ।
ते पुरुषाः दैवीम् सम्पदम् अभिमोक्षहेतुभूतदैवसम्पदमभिमुखीकृत्य दैव-सम्बन्धिनी सम्पद्दैवी देवा भगवदाज्ञानुवर्त्तनशीलास्तेषाम् सम्पत् सा च भगवदाज्ञानुवृत्तिरेव तामभिमुखीकृत्य जाता उत्पन्ना भवन्तीति शेषः | कार्यात्कारणमनुमीयते इति भावः । भगवति ! लक्ष्मि ! ते दैवीम् सम्पदम् अभिजाता ननु सम्पदुद्देशेनोत्पन्ना हीति वान्वयः ।
यथा निधिसम्पदनुभावकभाग्यवत्तया तदुद्देशेनोत्पन्ना एव निध्यञ्ज- नाक्तदृशः पर्वतादिनिगूढम् निधिम् वीक्षमाणास्तमनुभवन्ति तथा दैव- सम्पदुद्देशेनोत्पन्ना एव भक्तिसिद्धाञ्जनस्फुरत्प्रबोधदृशा श्रुतिशिरोनि-गूढम् त्वन्महिमानम् विलोक्यानुभवन्तीति भावः ।
अत्र श्रुतिशिरसि निगूढम् निधिमिव दैवीम् सम्पदमिति पदैः *तम्
दुर्दर्शम् गूढमनुप्रविष्टम् गुहाहितम् गह्वरेष्ठम् पुराणम्’ (कठ.उ.३-१२) *तद्यथा हिरण्यनिधिम् निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः* (छां.उ.८-३-२) *दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता*(भ.गी.१६-५) || इति श्रुतिस्मृतिप्रमाणानि स्मारितानि || १२ ||
प्राधान्येन श्रीसूक्तस्य श्रीसमृद्धिप्रतिपादकत्वम् दर्शयन् पुरुषसूक्ता- देरपि श्रीसमृद्धिपरत्वम् दर्शयति –

अस्येशाना जगत इति ते धीमहे याम् समृद्धिम्श्रीः श्रीसूक्तम् बहुमुखयते ताम् च शाखानुशाखम् ।ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तःतम् च त्वत्कम् पतिमधिजगावुत्तरश्चानुवाकः || १३ ||     अस्येति – *अस्येशाना जगतः*(तै.सं.४-४-१२) इति श्रुत्यनुवादः ।
हे श्रीः ! विष्णुपत्नि ! अस्य जगतः ईशाना ईश्वरीत्यनया श्रुत्या ते तव
याम् समृद्धिम् ऐश्वर्यम् अधीमहे अधीताम् कुर्महे । अधिपूर्वात् *इङ्
अध्ययने*(धा.पा.१०४६) इति धातोरुत्तमपुरुषबहुवचनम् । ताम् समृद्धिम् चेति चकारेणाधिकाञ्च समृद्धिम् । श्रीसूक्तम् – *हिरण्यवर्णाम् हरिणीम्*
इत्यादिकम् शाखानुशाखम् । शाखानुगता शाखा यस्मिन्कर्मणि तद्यथा
भवति तथा सर्वशाखावच्छेदेनेत्यर्थः । बहुमुखयते बहुप्रकारम् प्रतिपाद-यति  । यद्वा *इदम् हि पौरुषम् सूक्तम् सर्ववेदेषु पठ्यते* इत्युक्तप्रकारेण श्रीसूक्तमपि शाखानुशाखम् स्थितमिति शेषः । सर्वासु वेदान्तशाखा-स्वधीतम् सत् त्वत्समृद्धिम् बहुमुखयते इत्यर्थः ।तथाहि-
*हिरण्यवर्णाम्* – हिरण्यस्य वर्ण इव वर्णो यस्यास्ताम् तद्वत्पीतभास्व- रविग्रहवर्णाम् अनेन विग्रहस्य निर्मलत्वप्रतीत्या हेयप्रतिभटत्वम् सूचितम् । यद्वा हिरण्यमिव स्पृहणीयो वर्णः श्रीरिति शब्दो यस्यास्ताम् श्रीशब्दो हि षोढा व्युत्पत्तिसूचितत्वेन सर्वविधोपकारकस्ववाच्यवस्तुतया *शेष एष इति शेषताकृतेः प्रीतिमानहिपतिस्स्वनामनि* इत्युक्त शेषशब्द इव स्पृहणीयतमः ।
*हरिणीम्* – सुवर्णप्रतिमाम् तामिवौज्वल्यसौन्दर्यलावण्यवतीम् ।
यद्वा हरिणीम् मृगीम् तद्वद्विशाललोचनाम् । *योषिद्वृत्ताप्सरोभेदः सुवर्णप्रतिमा मृगी । हरिताश्च हरिण्यश्च स्युः* इति नानार्थरत्नमाला । हरिम् नयति चेतनामिति चेतनानाम् भगवदाश्रयणे पुरुषकारभूताम् वा हरिणीम् ।

*सुवर्णरजतस्रजाम्* – तत्तद्दिव्यावयवोचितसुवर्णरजतादिमयदिव्य-
भूषणकलापाम् । *आबन्तत्वम् हलन्तानाम्* इति भागुरिवचनात् स्रजा- मित्याबन्तत्वम् ।

*चन्द्राम्* – मुखे चन्द्रसदृशीम् आह्लादिनीम् वा । *चदि आह्लादने*(धा.पा.६८)इति धातोः *इदित*(पा.सू.७-१-५८) इति नुमागमे औणादिके रन्प्रत्यये *अजाद्यत*(पा.सू.४-१-४) इति टाप्यमि च चन्द्रामिति रूपम् ।
*हिरण्मयीम्* – *तस्मिन्कामास्समाहिताः* इतिवत् हिरण्यस्पृहणीय-
कल्याणगुणगणप्रचुराम् हिरण्यप्रभृतिसकलधनप्रचुराम् वा ।
*लक्ष्मीम्* – भगवतश्चेतनानाम् च सम्पदम् । यद्वा लक्ष्माण्यु-त्तमस्त्रीलक्षणानि अस्यास्सन्तीति लक्ष्मीस्ताम् । *चिन्हम् लक्ष्म च लक्षणम्* इत्यमरः(अ.को.१-३-१७) ।
*अनपगामिनीम्* – वात्सल्यातिशयेन दोषभूयस्त्वेऽप्यविमुक्तचेतन- जाताम् । भगवन्नित्यानपायिनीम् वा ।
*अश्वपूर्वाम्* – अश्वाः पूर्वे प्रथमप्राकाराजिरस्थितायस्यास्ताम् ।
*रथमध्याम्* – रथाः मध्यप्रकाराजिरस्था यस्यास्ताम् ।
*हस्तिनादप्रबोधिनीम्* – हस्तिनाम् ततोऽपि तृतीयप्रकाराजिर-
वर्त्तिनाम् दन्तिनाम् नादैः बृम्हितैः प्रबोधिनीम् जागरणशीलाम् लक्ष्मी- दिव्यनगरे प्रथमप्राकारावृतवीथ्यामश्वाः, द्वितीयप्राकारावृतवीथ्याम् रथाः, तृतीयप्राकारावृतवीथ्याम् हस्तिनश्च निवसन्ति । तत्र हस्तिनाम् तृतीय-प्राकारान्तः स्थिततया तेषाम् लक्ष्मीदिव्यभवनसान्निध्यात्तन्नादैः सुप्रातः प्रबुद्धा भवतीत्यर्थः । अनेन तस्या निरतिशयैश्वर्य सूचितम् । यद्वा *कोणपत्रगजैर्हेमकमलैरमृतोदकैः । सम्भृत्तैस्तर्प्यमाणाम् ताम् बोध्य-मानाम् च तैर्गजैः* इति स्वायम्भुववचनरीत्या स्वासनपद्मदलस्थितहस्ति-नादैरहरहः प्रबुद्ध्यमानाम् ।
*श्रियम्* एवम् निरङ्कुशैश्वर्येऽपि चेतनरक्षणतृष्णया भगवन्तमा-श्रिताम् । तत्फलमाह –
*देवीम्* इति । देवयति क्रीडयति कान्तमिति देवी! ताम् भगवतो भक्तदोषालक्ष्यीकरणाय तस्य क्रीडापारवश्यमापादयन्तीमित्यर्थः । तदयम् श्रीपराशरभट्टार्योऽपि वक्ष्यति – *किमेतन्निर्दोषः क इह जगति*(श्रीगु.र. को.५२) इत्यादिना ।
*काम्* कम् सुखमस्या अस्तीति काम् । सुखरूपाम् । अर्श आदि- त्वान्मत्वर्थीयोऽच्प्रत्ययः । सर्वानुकूलस्वभावामित्यर्थः । तत्स्वभावमेव विशदयति –
*सोत्स्मिताम्* इति । उत् अतिशयितम् स्मितम् उत्स्मितम्
उत्स्मितेन सह वर्तत इति सोत्स्मिता ताम् निस्सहापराधजननिश्शङ्क-सम्श्रयणाय नित्यव्यक्तमन्दहासाम् । अनेनानुग्रहमयीत्वम् सूचितम् । तत्कार्यमाह –
*हिरण्य* इति । *हिरण्यप्राकाराम्* *अजायमानो बहुधा विजायते* (तै.आर.३-१३-१) *स उ श्रेयान्भवति जायमानः*(ऋ.वे.३-८-४ तै.ब्रा.३-६-१) इतिवत् । *देवत्वे देवदेहेयम् मनुष्यत्वे च मानुषी* । *राघवत्वे भवेत्सीता रुक्मिणी कृष्णजन्मनि*(वि.पु.१-९-१४५) || *अन्येषु चावतारेषु विष्णोरेषानपायिनी*(वि.पु.१-९-१४४) || इति । *इच्छाकृतोज्ज्वलानेक- भगवदभिमतानुरूपविग्रहाम् । हिरण्मयप्राकारपरिवृतानन्दमयमहामणि-मण्डपान्तर्निवासिनीम्* वा ||
*आर्द्राम्* – अनुकूलविषये दयार्द्रदृशम् अनुकूलतेजसम् वा ।
*ज्वलन्तीम्* – प्रतिकूलविषये ज्वलन्तीम् तदभिभावकतेजोयुक्ताम् ।
*नित्यानुकूलमनुकूलनृणाम् परेषामुद्वेजनम् तव तु तेज उदाहरन्ति*(श्रीवै.  स्त.५६) इति श्रीवत्साङ्कश्रीसूक्तिः श्रीविषयेऽपि समाना । प्रतिकूलत्वम् च प्रातिकूल्यकर्तृबुद्ध्या बोद्ध्यम् ।
*तृप्ताम्* – स्वकृतेन भगवत्स्वरूपरूपगुणविभूत्यनुभवेन तत्सम्श्लेष- जनितानन्देन वा तृप्ताम् ।
*तर्पयन्तीम्* – भगवत्कृतस्वरूपाद्यनुभवेन स्वसम्श्लेषसुखेन वा तम् तर्पयन्तीम् । स्वस्वकान्तोभयस्वरूपरूपगुणविभूत्यनुभवप्रापणेन
सम्श्रिताम्स्तर्पयन्तीम् वा । *आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ’*!
(भ.गी.७-१६) इत्युक्तचतुर्विधाधिकारिणः तत्तदभिलषितप्रापणेन तर्प- यन्तीम् वा ।
*पद्मे स्थिताम्* – स्वसौन्दर्यसौगन्ध्यसौकुमार्यानुगुणसुन्दर-सुगन्धसुकुमारसरसिजासनासीनाम् ।
*पद्मवर्णाम्* – *नारीणामुत्तमा* वधूः इत्युक्तप्रकारेणोत्तमकान्ता-
त्वेन पद्मारुणपाणिपादतलप्रान्तलोचनाम् पद्मसमविग्रहवर्णा वा ।
*श्रियम्* – सर्वैराश्रयणीयाम् ।
*चन्द्राम्* – चन्दयत्यानन्दयति चेतनानीश्वरम् च स्वगुणैरिति
चन्द्राम् ताम् ।
*प्रभासाम्* – भासो भासनम् तदानन्दजनितहर्षसम्भूत प्रकृष्ट-कान्तिम् *अभिषिच्य तु लङ्कायाम् राक्षसेन्द्रम् विभीषणम् । कृतकृत्य-स्तदा रामो विज्वरः प्रमुमोद ह*(रा.बा.का.१-८५) इतिवत् ।
*यशसाज्वलन्तीम्* – यशसासम्श्रितानाम् सर्वाभीष्टप्रापणकीर्त्या
ज्वलन्तीम् । सोपबृम्हणश्रुत्या लोके च प्रकाशमानाम् ।
*श्रियम्* – जगदगुणैर्योजयन्तीम् ।
*देवजुष्टाम्* – देवे नारायणे *दिव्यो देव एको नारायणः*(सुबालो. ६-१) इति श्रुतेः । जुष्टाम् प्रीताम् प्रेमसम्पन्नाम् देवैर्ब्रहादिभिस्तत्तदभि-
लषितलाभाय जुष्टाम् सेविताम् वा । *जुषी प्रीतिसेवनयोः*(धा.पा.१२८९) इत्युभयत्र धातुः ।
*उदाराम्* – काङ्क्षाधिकदातृत्वलक्षणनिरतिशयौदार्याम् ।
*ताम्* – उक्तवैभवयुक्ततया सर्ववेदान्तप्रसिद्धाम् ।
*पद्मनेमीम्* – नेमिः सुदर्शनम् । *पवित्रम् नेमिर्लोकद्वारम् सुदर्शनम्* इति निघण्टुः । पद्मम् नेमिरिवयस्यास्ताम् चक्राकारविकसित-पद्मपाणिमित्यर्थः । यद्वा पद्ममेव नेमिर्ननयनसाधनम् यस्यास्ताम् । *नियो मिः*(उ.सू.४९२) इत्यौणादिको मिप्रत्ययः । स्वकरस्थकमलेना-श्रितानामनिष्टमपनीय सर्वमिष्टमुपनीय स्वचरणाम्बुजे तान् प्रापयन्ती-मित्यर्थः । एवमादिप्रकारेण श्रीसूक्तम् श्रीसमृद्धिम् बहुमुखयत इति बोध्यम् ।

ननु *देविश्रुतिम्* – इत्यादिना मत्समृद्धेः सर्वश्रुतिवेद्यताम् प्रतिज्ञाय
*अस्येशाना जगतः…… श्रीसूक्तम् बहुमुखयत* इति पूर्वकाण्डस्थयत्कि-ञ्चिद्वाक्यस्य श्रीसूक्तस्य च मत्समृद्धिप्रतिपादकत्वमुपपादितम् । तावता पुरुषसूक्तादिरूपायाः श्रुतेः कथम् मत्समृद्धिपरत्वमित्यत आह ईष्ट इति ।
पौरुषे सूक्ते पुरुषसूक्ताख्योपनिषदि कश्चित्पुरुषो जगतः ईष्टे, जगत इति कर्मणि षष्ठी, जगन्नियमयतीत्यर्थः । *ईश ऐश्वर्ये*(धा.पा.१०२०)
इत्येतस्माद्धातोरदादिकाच्छपो लुकि लटस्तङि तकारस्यैत्वे *व्रश्च*(पा.सू. ८-२-३६) इति षत्वे ष्टुत्वे च ईष्ट इति रूपम् । अयम् चार्थानुवादः *पुरुष एवेदम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येशानः*(पु.सू.२) इत्येव श्रवणात् । इति य उक्तः तम् तत्प्रतिपादितम् चेति चकारेण महानाराय-णमहोपनिषदादिप्रतिपादितम् चेति लभ्यते । पुरुषमिति शेषः ।

उत्तरोऽनुवाकः । अभ्द्यः सम्भूतानुवाकः । चेति चकारेण *ह्रीश्च ते लक्ष्मीश्च पत्न्यौ'(तै.आर.३-१३-२) *सुमज्जानये विष्णवे*(तै.ब्रा. ४-४-३-९) *श्रद्धया देवो देवत्वमश्नुते*(तै.ब्रा.३-१२-३-१) इत्यादि वेदान्तवाक्य-जातम् च सङ्गृह्यते । तञ्च त्वत्कम् तावकम् । पतिम् स्वामिनम् । अधिजगौ अधिकम् गायति स्म । त्वत्पतित्वकृतसमृद्धिम् प्रत्यपाद-यदित्यर्थः । ततश्च तस्य त्वदधीनसमृद्धिकत्वात्तत्समृद्धिपराणाम् पुरुष-सूक्तादीनाम् त्वत्समृद्धिपरत्वमिति साधूक्तम् । तस्य त्वदधीनसमृद्धिक-त्वम् च वक्ष्यति *त्वदायत्तर्दित्वेऽप्यभवदपराधीनविभवः* इति ।

अयम् भावः – पुरुषसूक्तनारायणमहोपनिषदादि प्रतिपादितस्य
महाविभवस्य भगवतो *वेदाहमेतम् पुरुषम् महान्तमादित्यवर्णम् तमसः* (पु.सू.१६) इति पुरुषसूक्ततुल्यानुपूर्व्यवगतदैवतैक्योऽभ्द्यः सम्भूतानुवाको *ह्रीश्च ते लक्ष्मीश्च पत्न्यौ*(तै.आर.३-१३-२) इति तदतिरिक्तवेदान्तवाक्य-जातम् च *ह्रीश्च ते लक्ष्मीश्च पत्न्यौ*(तै.आर.३-१३-२) *सुमज्जानये विष्णवे*(तै.ब्रा.४-४-३-९) *श्रद्धया देवो देवत्वमश्नुते*(तै.ब्रा. ३-१२-३-१) इत्यादिप्रकारेण च तस्य लक्ष्मीपतित्वम् प्रत्यपादयत् । तद्वैभवम् सर्व लक्ष्मीपतित्वप्रयुक्तमवगमयतीति तत्समृद्धिपरा सर्वापि श्रुतिः श्रीसमृद्धिपरैव || १३ ||

अत्यादरेणोपनिषत्प्रतिपाद्यताम् वदन्नेव न केवलमुपनिषत्त्वद्वैभवम्
प्रतिपादयति, किन्तु इतिहासादयोपीत्याह –

उद्बाहुस्त्वामुपनिषदसावाहनैकानियन्त्रीम्श्रीमद्रामायणमपि परम् प्राणिति त्वञ्चरित्रे । स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणैःनिन्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम् || १४ ||       उद्बाहुरिति – हे अस्मज्जननि ! असौ उपनिषदेकैव श्रीसूक्तादि रूपावैताळिक इव त्वमेव जगत्स्वामिनीति शपथम् कुर्वाणेव वा उद्बाहुः उद्यतबाहुः सती त्वाम् नियन्त्रीम् जगत्स्वामिनीम् । आह किन्तु श्रीमद्रामायणमपि त्वञ्चरित्रे परम् तव चरित्रे सत्येव प्राणिति जीवति तव चरित्रप्रतिपादनरूपधारकेणैव जीवतीति भावः । यद्वा परमिति क्रिया- विशेषणम् सोत्कर्षमित्यर्थः । त्वञ्चरित्रे इत्यधिकरणे सप्तमी । तथा च रामादिचरित्रे प्राणिति जीवनमात्रम् धत्ते । त्वञ्चरित्रे तु परम् प्राणिति सोत्कर्ष जीवतीत्यर्थः । अतिशयितजीवनस्यैव फलत्वादिति हृदयम् । प्रपूर्वात् *अन प्राणने*(धा.पा.१०७०) इत्यस्माद्धातोः *रुदादिभ्यः सार्व- धातुके*(पा.सू.७-२-७६) इति इटि णत्वे च कृते प्राणिति इति रूपम् ।

त्वञ्चरित्रे परम् प्राणितीत्यनेन *काव्यम् रामायणम् कृत्स्नम् सीतायाश्चरितम् महत्*(रा.बा.कां.४-६) इति वाल्मीकिवचनम् स्मारितम् । सीताचरितमहत्त्वम् च तत्पुरुषकारोपयुक्तकृपापारतन्त्र्यानन्यार्हत्वप्रति-पादनेन । कृपाप्रकाशनम् रावणापहारकृते भगवता सीतायाः प्रथमवियोगे सुस्पष्टम् । तथा हि रावणवधानन्तरम् रामविजयरूपप्रिया-ख्यापकतया सन्निहितान्महोपकारात्स्वस्यामार्द्रापराधाश्चित्रवधार्हाराक्षसीर्दृष्ट्वातदपरा- धानुगुणम् चित्रवधम् कर्तुमुद्यतान्मारुतेः *पापानाम् वा शुभानाम् वा वधा- र्हाणाम् प्लवङ्गम । कार्यम् करुणमार्येण न कश्चिन्नापराध्यति*(रा.यु. कां.११३-४५) || इत्याद्युपदेशेन तासाम् सम्रक्षणान्महती कृपा प्रकाशिता । स्वयम् रावणगृहे बन्दीभूय बन्दीकृतसुरसुन्दरीविमोचनाद्वा महती कृपा प्रकाशिता । द्वितीयविश्लेषे भर्तृनियमनानतिक्रमणेन वाल्मीक्याश्रमे तस्या निवासात्पारतन्त्र्यम् प्रकाशितम् । तृतीयविश्लेषे पतिपरित्यक्तायास्तस्याः पृथगाश्रयानवलम्बेन भूमौ प्रवेशादनन्यार्हत्वम् प्रकाशितमिति कृत्स्न-स्यापि श्रीरामायणस्य सीताचरितत्वम् सिद्धम् । यतमे ये स्मर्तारः – स्मृतिप्रणेतारः पराशरादयः । ततमेऽपि च तेऽमि । अपिचेत्येकम् पदम् । यत्तच्छब्दौ डतमच् प्रत्ययान्तौ सर्वनामसञ्ज्ञौ । वेदान् तत्त्वहितपुरुषा-र्थवेदकतया वेदशब्दवाच्यान् आम्नायान् सेतिहासैः इतिहाससहितैः इतिहासशब्देन भारतादिर्गृह्यते, श्रीरामायणस्य पूर्वमेव निर्देशात् । पुराणैः
श्रीविष्णुपुराणादिभिः । त्वन्महिम्नि तव विभवे प्रमाणम् भावप्रधानोयम्
निर्देशः । प्रमाणताम् इत्यर्थः । निन्युः नयन्ति स्म । वेदानाम् त्वन्म- हिमवेदकतया तत्प्रमाणताम् स्मृतीतिहासपुराणैः पराशरादयो अदर्शय-न्नित्यर्थः । निन्युरिति नियो द्विकर्मकत्वात्कर्मद्वयम् || १४ ||

इत्थम् लक्ष्मीविभवे सपरिकरम् प्रमाणमुपन्यस्य तत्प्रतिपन्नम्
तदैश्वर्यमाह –

आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकात्ऐश्वर्यम् यदि होत्तरोत्तरगुणम् श्रीरङ्गभर्तुः प्रिये ।तुङ्गम् मङ्गलमुज्ज्वलम् गरिमवत्पुण्यम् पुनः पावनम्धन्यम् यत्तददश्च वीक्षणभुवस्ते पञ्चषा विप्रुषः || १५ ||

आकुग्रामेति – हे श्रीरङ्गभर्तुः प्रिये श्रीरङ्गराजवल्लभे ! आकु- ग्रामनियामकात् कुग्रामनियामकमारभ्य । कुग्रामो ग्रामटिका, पल्ली- त्यर्थः । सर्वनिर्वाहकात् सर्वलोकशासितुः । आविभोरपि ब्रह्मपर्यन्तम् ।
उत्तरोत्तरगुणम् उत्तरोत्तरातिशयितम् । यदैश्वर्यमस्ति तुङ्गम् उन्नतम् मेर्वादि, मङ्गलम् चन्दनकुसुमादि । उज्ज्वलम् मणिद्युमणिदीपादि । गरिमवत् गुरुत्वगुणयुक्तम् हिमवन् मन्दरादि । पुण्यम् परलोक-साधनभूतम् यज्ञादि । पुनः भूयः पावनम् पवित्रीकुर्वत् कावेरीप्रभृति । धन्यम् भाग्यफलभूतम् नवनिधिरूपम् चेति यदैश्वर्यमस्ति तत्पूर्वोक्तम् कुग्रामाधिपप्रभृति स्रवप्रभुपर्यन्तैश्वर्यम् । अदश्च इदम् तुङ्गाद्यैश्वर्यम् । चेति चकारेणानुक्तमन्यदप्यैश्वर्यम् । ते तव, वीक्षणभुवः कटाक्षकन्द- लिताः पञ्च वा षड्वामानम् येषाम् ते पञ्चषाः । *सङ्ख्याव्ययेति* (पा.सू.४-१-२६) सूत्रेण बहुव्रीहिसमासे *बहुव्रीहौ सङ्ख्येये*(पा.सू.५-४२३) इत्यादि सूत्रेण डचि *टे:*(पा.सू.६-४-५५) इति टिलोपे पञ्चषा इति रूपम् । विप्रुषः बिन्दवः लेशा इत्यर्थः । लोके समीचीनम् सर्व वस्तु त्वत्कटाक्षलेशायत्तमित्युक्तम् भवति || १५ ||
सम्प्रत्यैश्वर्यदारिद्रयोर्लक्ष्मीकटाक्षतदभावहेतुकतामुदाहरति –

एको मुक्तातपत्रप्रचलमणिघणात्कारिमौलिर्मनुष्योदृप्यद्दन्तावलस्थो न गणयति नतान् यत्क्षणम् क्षोणिपालान् ।यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन् दन्तपडिक्तम्तत्ते श्रीरङ्गराजप्रणयिनि! नयनोदञ्चितन्यञ्चिताभ्याम् || १६ ||एक इति । हे श्रीरङ्गराजप्रणयिनि ! एको मनुष्यः !
दृप्यद्दन्तावलस्थः मदद्विरदमस्तकस्थितः मुक्तातपत्रप्रचलमणिघणा-
त्कारिमौलिः मुक्तातपत्रे मौक्तिकच्छत्रे गजगमनेन प्रचलैर्मणिभिर्घट्टने
घणात्कारिभिः शब्दायमानो मौलिः किरीटम् यस्य स तथोक्तस्सन् नतान् नम्रान् क्षोणिपालान् नानामण्डलाधिपतीन् न गणयतीति यत्
इयमैश्वर्यपराकाष्ठा ।
अथ दारिद्र्यकाष्ठामाह – अन्य इति । अन्यः इतरो मनुष्यः अशरणो रक्षकान्तररहितस्सन् कृपणम् दैन्यप्रकाशो यथा भवति तथा दन्तपङ्क्तिम् दर्शयन् तस्मै दन्तावलस्थिताय पुरुषाय । तिष्ठते स्वाभि-प्रायम् प्रकटयन्नास्ते । इति यत्तदुभयम् क्रमेण ते तव नयनोदञ्चित-न्यञ्चिताभ्याम् नयनयोरुदञ्चितेन कटाक्षेण न्यञ्चितेन सङ्कोचेन च भवतीति शेषः || १६ ||
*स श्लाघ्यस्स गुणी धन्यस्स कुलीनस्स बुद्धिमान् । स शूरस्स
च विक्रान्तो यम् त्वम् देवि निरीक्षसे* || (वि.पु.१-९-१३१) इत्युक्त-प्रमाणानुसारेण सर्वसम्पदाम् लक्ष्मीभ्रूविलासप्रसराभिमुखजङ्घालतामाह –

रतिर्मतिसरस्वतीधृतिसमृद्धिसिद्धिश्रियःसुधासखि! यतोमुखम् चिचलिषेत्तव भ्रूलता ।ततोमुखमथेन्दिरे! बहुमुखीमहम्पूर्विकाम्विगाह्य च वशम्वदाः परिवहन्ति कूलङ्कुषाः || १७ ||     रतिरिति – हे सुधासखि अमृतसोदरे! अनेन मधुरतमत्वम् जगदु- ज्जीवनहेतुत्वम् च व्यञ्जितम् । हे इन्दिरे ! तव भ्रूलता यतोमुखम्
यत्पुरुषाभिमुखम् चिचलिषेत् चलितुमिच्छेत् । चलनम् विनापि चलने-च्छायामेव । ततोमुखम् तत्पुरुषाभिमुखम् रतिः प्रीतिः मतिसरस्वती-धृतिसमृद्धिसिद्धिश्रियः मतिः ज्ञानम्, सरस्वती वाक् वागधिदेवता च, धृतिः स्थैर्यम्, समृद्धिः परिपूर्णत्वम्, सिद्धिः अभिलषितावाप्तिः, श्रियः सम्पदश्च अथ साकल्येन *प्रश्नकार्त्स्न्येष्वथो अथ* इत्यमरः (अ.को. ३-३-२४७) । बहुमुखीम् बहुप्रकाराम् । अहम्पूर्विकाम् अहम्पूर्वम् प्रवहाम्यहम् पूर्वमित्यहन्ताम् विगाह्य प्रविश्य वशम्वदाः विधेयाः सत्यः

। कूलङ्कुषा: – उद्वेलाः । परिवहन्ति पुत्रपौत्रशिष्यप्रशिष्यपर्यन्तम् प्रसरन्तीत्यर्थः । *सर्वकूलाभ्रकरीषेषु कषः*(पा.सू.३-२-४२) इति खच्प्र-त्यये मुमागमे च कृते कूलङ्कुषा इति रूपम् || १७ ||
सर्ववस्तु नीचोच्चभावो लक्ष्मीकटाक्षविकाससङ्कोचायत्त इत्याह –

सह स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैःअनोकहबृहस्पतिप्रबलविक्लवप्रक्रियम् ।इदम् सदसदात्मना निखिलमेव निम्नोन्नतम्कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि ! तत्ताण्डवम् || १८ ||     सहेति – हे लक्ष्मि! स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैः सह स्थिराः स्थावराः शैलवृक्षादयः परित्रसाः परिस्पन्दनशीलाः जङ्गमाः तेषाम् व्रजैः समूहैः विरिञ्चनो ब्रह्मा अकिञ्चनो दरिद्रस्तैः सह अनोकहाः वृक्षाः बृह-स्पतिः गुरुः प्रबलो – बलवान् विक्लवो दुर्बलः समस्तमपि, सदसदात्मना समीचीनासमीचीनरूपेण निम्नोन्नतम् नीचोच्चम् इति यत्तव कटाक्षतदु- पेक्षयोः वीक्षणावीक्षणयोः ताण्डवम् नटनम् हि || १८ ||
सम्प्रति भगवतो जगत्सृष्टिः लक्ष्मीविहारायेत्याह –

काले शम्सति योग्यताम् चिदचितोरन्योन्यमालिङ्गतोः भूताहङ्कृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः ।अण्डानावरणैः सहस्रमकरोत्तान् भूर्भुवःस्वर्वतःश्रीरङ्गेश्वरदेवि! ते विहृतये सङ्कल्पमानः प्रियः || १९ ||
काल इति – हे श्रीरङ्गेश्वरदेवि! काले सर्गाद्यसमये योग्यताम्
सृष्ट्यौन्मुख्यम् शम्सति सति स्रष्टुमयमवसर इति सूचयति सति, चिदचितोः प्रकृतिपुरुषयोः अन्योन्यमालिङ्गतोः मिथो मिलितयोः सतोः प्रियः श्रीरङ्गराजः सङ्कल्पमानो *बहु स्याम् प्रजायेय*(छां.उ.६-२-३) इति बहुभवनसङ्कल्पम् कुर्वन् ते विहृतये भूताहङ्कृतिबुद्धिपञ्चकरणी-
स्वान्तप्रवृत्तीन्द्रियैः भूतानि पृथिव्यादीनि, अहङ्कृतिः प्रकृतिविकाररूपम् अहङ्कारतत्त्वम्, बुद्धिर्महत्तत्त्वम्, पञ्चानाम् करणानाम् समाहारः पञ्च- करणी पञ्च ज्ञानेन्द्रियाणि, स्वान्तम् मनः, प्रवृत्तीन्द्रियाणि वागादिपञ्च- कर्मेन्द्रियाणि तैः सह आवरणैः सप्तावरणैः समम्, तान् प्रसिद्धान् भूर्भुवः स्वर्वतः त्रैलोक्यवतः सहस्रमण्डान् अनन्तान् अकरोत् कृतवान् || १९ ||
*विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम्*(वि.त.) इत्युक्तप्रमाणानु- सारेण करणकलेबरयोगरूपभगवत्कैङ्कर्यार्थत्वेऽपि तद्विस्मृत्य तानि करणानि शब्दादिप्रवणानि कुर्वाणानात्मनो भगवानेव तथाभूतान्कार- यम्स्तव परिहासरसमुत्पादयतीत्याह –

शब्दादीन्विषयान्प्रदर्श्यविभवम् विस्मार्य दास्यात्मकम्
वैष्णव्या गुणमाययात्मनिवहान्विप्लाव्य पूर्वः पुमान् ।
पुम्सा पण्यवधूविडम्बिवपुषा धूर्तानिवायासयन्
श्रीरङ्गेश्वरि! कल्पते तव परीहासात्मने केलये || २० ||

शब्दादीनिति – हे श्रीरङ्गेश्वरि – श्रीरङ्गराजप्रिये! पूर्वः पुमान् ।
पुराणपुरुषः श्रीरङ्गराजः शब्दादीन् शब्दस्पर्शरूपरसगन्धान् विषयान्
प्रदर्श्य दर्शयित्वा दास्यात्मकम् दासत्वरूपम् विभवम् ऐश्वर्यम् विस्मार्य
विस्मृतम् कृत्वा वैष्णव्या विष्णुसम्बन्धिन्या स्वकीययेत्यर्थः । *मम
माया दुरत्यया*(भ.गी.७-१४) इत्युक्तेः । गुणमायया त्रिगुणात्मिकया
प्रकृत्या । अत्र मायाशब्दो विचित्रसृष्टिनिबन्धनः, *देवमायेव निर्मिता*
(रा.बा.१-२७) इतिवत् । आत्मनिवहान् जीवसमूहान् विप्लाव्य वञ्च-यित्वा पण्यवधूविडम्बिवपुषा वेश्यानुकारिशरीरवेषेण पुम्सा पुरुषेण धूर्तानिव धृष्टपुरुषानिव आयासयन् विवशान् कुर्वन् भगवानेवात्मनिवहान्
धूर्ताश्चायासयति गुणमायावेश्यानुकारिपुरुषश्च द्वारमात्रमिति भावः । तव परीहासात्मने परिहासरसरूपाय केलये विहाराय कल्पते समर्थो भवति । *कृपू सामर्थ्ये*(धा.पा.७६२) इत्यस्माद्धातोः *कृपो रो लः*(पा.सू.८-२-१८) इति लकारे कल्पत इति रूपम् ।
केचित्तु धूर्तानिवायासयन्नित्यत्र धूर्तानायासयन् सूत्रधार इवेति
योजयन्ति तञ्चिन्त्यम् सूत्रधारपदाध्याहारप्रसङ्गात् । धूर्तानिवेति धूर्त- पदान्वितस्येवशब्दस्य अध्याहृत सूत्रधारपदान्वये व्यवहितान्वयश्च ।
तव परीहासात्मने केलये कल्पत इति वचनानुपपत्तिश्च । सूत्रधारस्य
लक्ष्मीपरिहासरसापादने दृष्टान्तत्वायोगात् । न हि लोकस्य परिहासर-
समापादयन्सूत्रधारो लक्ष्म्या अपि तमापादयति येन तस्य दृष्टान्तता स्यात् ।
न च लोकस्येत्यध्याहृत्य पण्यवधूविडम्बिवपुषा पुम्सा धूर्ताना- पादयन् सूत्रधारो लोकस्येव गुणमाययाऽऽत्मनिवहान् विप्लाव्य पूर्वः पुमान् तव परीहासात्मने केलये कल्पत इति योजना क्रियत इति
वाच्यम्; तथासत्याविष्कृतमेव व्याख्यानकौशलम् पण्डितमन्यैः ।
प्रथमान्तषष्ठ्यन्तपदद्वयाध्याहारदोषात्, इवशब्दस्य लोकपदान्वये
नात्यन्तव्यवधानदोषाञ्च । अव्यवधानेनानध्याहारेण च वाक्यार्थ-वर्णनसम्भवे व्यवधानाध्याहारकल्पनानौचित्याञ्च । तथाकल्पने विशेषस्वारस्यासिद्धेश्च ।
न च त्वत्पक्षापेक्षया दृष्टान्तदार्ष्टान्तिकभेदसिद्धिरेवास्मत्पक्षे
विशेषसिद्धिरिति वाच्यम्; धूर्तायासयितृत्वात्मनिवहविप्लावकत्वरूप-भिन्नविशेषणविशिष्टवेषेणैकस्यैव दृष्टान्तदार्ष्टान्तिकभावे स्वारस्याक्षते-श्चेत्यलम् पल्लवितेन || २० ||

Continued….

श्रीः

श्रीमते रामानुजाय नमः

पराशरभट्टैः विरचित

श्रीगुणरत्नकोशः Part 2

[वसुराश्यभिधाव्याख्यासहितः]

     इत्थम् लक्ष्म्या लीलाविभूत्युपयोगमुक्त्वा नित्यविभूतियोगमाह –
यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतम्यत्कालादपचेलिमम् सुरपुरी यद्गच्छतो दुर्गतिः । सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहम् मद्गिराम्तद्विष्णोः परमम् पदम् तव कृते मातः ! समाम्नासिषुः || २१ ||     यदिति – हे मातः । यत् स्थानम् । मनसो दूरे स्मर्त्तुमशक्यमि-त्यर्थः । मनस इत्यसङ्कोचेनोक्तेः । ब्रह्मादीनामपि वाङ्मनसागोचरत्वम् विवक्षितम् । तदुक्तम् श्रीभाष्यकारैः – *ब्रह्मादीनाम् वाङ्मनसागोचरे श्रीमति वैकुण्ठे*(गद्यत्रय.वैकुण्ठे) इति । यत्तमस इति । यत्तमसः प्रकृति- मण्डलस्य पार एव परस्तादेव । एवकारेण रजस्तमोलवस्पर्शोऽपि नेति सूचितम् । यदेव तमसः पारे यत्पदमेव प्रकृतिमण्डलपारवर्ति ब्रह्मादीनाम् पदम् तु न तथेति विशेष्य सङ्गत एवायमेवकारः । *क्षयन्तमस्य रजसः पराके*(ऋ.वे.७-१००-५) इति श्रुतेः रजस्तमश्शब्दौ तत्तदगुणप्रधानप्रकृति-वाचिनौ यदत्यद्भुतम् अत्याश्चर्यावहम् यत्कालादपचेलिमम् यत्कालाद्धेतो-रपचेलिमम् अपरिपक्वम् । अकालकाल्यद्धेतो *न कालस्तत्र वै प्रभुः* (महा.भा.मो.३४-८०) इति स्मृतेः । प्रभुत्वम् परिपाकहेतुत्वम् ।
सुरपुरी सुराणाम् ब्रह्मादीनाम् पुरी, वैराजा अमरावत्यादिरूपा, यद्गच्छतः यत्स्थानम् गच्छतः पुम्सः, दुर्गतिः नरकः,*एते वै निरयास्तात स्थानस्य परमात्मनः*(महा.भा.श.प.१९६-६) इति स्मृतेः । सायुज्यस्य परमपुरुष- साम्यापत्तेः यदेव यत्स्थानमेव सूतिरुत्पादकम् न त्वितरदित्यर्थः । अथवा किमेतैर्लक्षणैः इदमेव तल्लक्षणमित्याह – यद्दुर्ग्रहमिति । मद्गिराम् मद्वाचाम् यद्दुर्ग्रहमगोचरम् विष्णोः परवासुदेवस्य तत्परमम् पदम् अत्युत्कृष्टस्थानम् तव कृते त्वदर्थ त्वन्नित्यवासार्थमित्यर्थः । समाम्नासिषुः अभ्यस्तवन्तः । वेदा इति शेषः । सम्पूर्वात् *म्ना अभ्यासे*(धा.पा.९२९) इत्यस्माद्धातोः *लुङि च्ले:*(पा.सू.३-१-४४) सिचि *यमरम*(पा.सू.७-२-७३) इत्यादिना इट्सकोः कृतयोः *आदेशप्रत्यययोः* (पा.सू.८-३-५९)इति षत्वे झेर्जुसि, समाम्नासिषुरिति रूपम् । *तद्विष्णोः परमम् पदम् सदा पश्यन्ति सूरयः*(ऋ.वे.१-२२-२०, तै.सं.१-३-६-२) इति श्रुतिरिह प्रमाणम् द्रष्टव्यम् || २१ ||
सेश्वरम् विभूतिद्वयम् तद्वर्तिवस्तुजातम् च लक्ष्मीपरिकरभूतमित्याह –

हेलायामखिलम् चराचरमिदम् भोगे विभूतिः परापुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः ।श्रीरङ्गेश्वरदेवि! केवलकृपानिर्वाह्यवर्गे वयम्शेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे || २२ ||      हेलायामिति – हे श्रीरङ्गेश्वरदेवि श्रीरङ्गराजप्रिये ! अखिलम् चरा-चरम् जङ्गमस्थावरात्मकमिदम् परिदृश्यमानम् जगत् तव हेलायाम् क्रीडायाम् विनियुक्तम्  *हरे! विहरसि क्रीडाकन्दुकैरिव जन्तुभिः*(वि.ध.) इत्युक्तेः । परा उत्कृष्टा परममहती वा *त्रिपादस्यामृतम् दिवि*(तै.आर. ३-१२-२) इति श्रुतेः । विभूतिः शुद्धसत्त्वरूपा तव भोगे विनियुक्ता भोग्य-भोगोपकरणभोगस्थानत्वेन विनियुक्तेत्यर्थः । त्वाम् त्वत्प्रियम् च ये सदा पश्यन्ति साक्षात्कुर्वन्ति । पुण्याः युष्मत्सदानुभवहेतुसुकृतशीलास्ते सूरयो विष्वक्सेनादयः ते तव परिचारकर्मणि विनियुक्ताः । वयम् बुभुक्षु- मुमुक्षुभेदभिन्नाः जीवाः तव केवलकृपानिर्वाह्यवर्गे त्वन्निर्हेतुककृपा- निर्वाहकर्मीकृतानाम् वर्गे सन्ततौ विनियुक्ताः । परमः पुमान् परमःपुरुषः । त्वत्प्रियः तव शेषित्वे विनियुक्तः । इत्येते पूर्वोक्ताः सर्वेपि तव स्फारणे व्याप्तौ त्वद्विभव इत्यर्थः । परिकरा हि उपकरणभूताः । खलु हि इत्याश्चर्ये || २२ ||
श्रीश्रीपत्योः परमव्योम्नि वैकुण्ठनगरीयोगमाह –

आज्ञानुग्रहभीमकोमलपुरीपाला फलम् भेजुषाम्याऽयोध्येत्यपराजितेति विदिता नाकम् परेण स्थिता ।भावैरद्भुतभोगभूमगहनैः सान्द्रा सुधास्यन्दिभिःश्रीरङ्गेश्वरगेहलक्ष्मि! युवयोस्ताम् राजधानीम् विदुः || २३ ||
आज्ञेति – हे श्रीरङ्गेश्वरगेहलक्ष्मि ! श्रीरङ्गेश्वरदिव्यविमानालङ्क-
रणभूते! या पुरी आज्ञानुग्रहभीमकोमलपुरीपाला आज्ञया शासनेन अनु-ग्रहेण दयया यथाक्रमम् भीमाः भयङ्कराः कोमलाः सौम्याः पुरीपालाः नगररक्षकाः यस्याः सा तथोक्ता । भेजुषाम् भजताम् फलम् भक्तानाम्
प्रपन्नानाम् च स्वतः पुरुषार्थभूता अयोध्येत्यपराजितेति योद्धमशक्येति
परैरजितेति च हेतोर्या तत्तदाख्यया विदिताप्रसिद्धा श्रुताविति शेषः ।
*देवानाम् पूरयोध्या*(तै.आ.१-२७-३) इति *विशालापराजिता* इति च श्रुतेः ।
नाकम् परेण नाकस्य परमाकाशस्य परेण उपरिष्टात् परमव्योम्नी- त्यर्थः । स्थिता वर्तमाना *परेण नाकम् निहितम् गुहायाम्*(तै.आर.१०-१०-३) इति श्रुतेः । सुधास्यन्दिभिः अमृतस्राविभिः भोग्यतमैरित्यर्थः । अद्भुतभोगभूमगहनैः अद्भुतभोगानाम् आश्चर्यसुखानाम् अनुभवानाम् वा, भूम्ना बाहुल्येन, गहनैः सम्भृतैः पदार्थैः सान्द्रा निबिडा च भवति । ताम् युवयोः राजधानीम् प्रधाननगरीम् विदुः श्रुतयो मुनयो वेति शेषः । प्रधाननगरी राज्ञाम् राजधानीति कथ्यते* इत्यमरशेषः || २३ ||
तत्र स्थितमास्थानमनुसन्धत्ते –

तस्याम् च त्वत्कृपावन्निरवधिजनताविश्रमार्हावकाशम्सङ्कीर्णम् दास्यतृष्णाकलितपरिकरैः पुम्भिरानन्दनिघ्नैः ।स्नेहादस्थानरक्षाव्यसनिभिरभयम् शार्ङ्गचक्रासिमुख्यैःआनन्दैकार्णवम् श्रीर्भगवति युवयोराहुरास्थानरत्नम् || २४ ||      तस्यामिति – भगवति! षाड्गुण्यपरिपूर्णे! हे श्रीः ! तस्याम्
त्वत्कृपावत् त्वद्दयेव निरवधिजनताविश्रमार्हावकाशम् निरवधेः ।
अवधिशून्यायाः असड्ख्यायाः, जनतायाः जनसमूहस्य, विश्रमार्ह:-
विश्रान्तियोग्यः, अवकाशः अन्तरम् यस्मिन् तत्तथोक्तम् । त्वत्कृपाया:-
सर्वविषयत्वात् तथात्वमविवादम् तद्वदिदमपीति भावः । दास्यतृष्णा-
कलितपरिकरैः दास्ये कैडर्यकरणे तृष्णया स्पृहया कलिताः गृहीताः
परिकरा: छत्रचामरपतद्गृहकलाचिकादयो यैस्तैः आनन्दनिघ्नैः आनन्द-विवशैः पुम्भिः मुक्तपुरुषैः सङ्कीर्णम् सम्भृतम् ।
स्नेहात् भगवद्दिव्यमङ्गलविग्रहप्रेम्णः अस्थानरक्षाव्यसनिभिः
अस्थाने अकाण्डे रक्षायाम् रक्षणे व्यसनिभिः व्याकुलैः, परमपदे भय-शङ्काया अनवकाशाद्रक्षाव्यसनस्यास्थानत्वम् । शार्ङ्ग चक्रासिमुख्यैः
चापसुदर्शनखड्गप्रभृतिभिः पञ्चायुधैः अभयम् भयरहितम् । आनन्दै-कार्णवम् आनन्दस्यानुकूलज्ञानस्य अर्णवम् समुद्रम् अपरिछिन्नानन्दा-वहमित्यर्थः । तथाभूतम् युवयोः श्रीः श्रीपत्योः आस्थानरत्नम् महामणि-मण्डपश्रेष्ठम् चाहुः । वेदान्ता इति शेषः । तस्याञ्च इत्यत्र चशब्दस्य आस्थानरत्नम् चाहुरित्युत्तरत्रान्वयः । *प्रजापतेस्सभाम् वेश्म प्रपद्यन्ते* (छां.उ.८-१४-१) इति श्रुतिरत्र प्रमाणतयाऽनुसन्धेया || २४ ||
तन्मण्डपे शेषसिम्हासने विश्वरक्षादीक्षितेन स्वामिना सह सर्वा- नन्दावहत्वमाह –

तत्र स्रक्स्पर्शगन्धम् स्फुरदुपरिफणारत्नरोचिर्वितानम्विस्तीर्यानन्तभोगम् तदुपरि नयता विश्वमेकाधिपत्यम् । तैस्तैः कान्तेन शान्तोदितगुणविभवैरर्हतात्वामसङ्ख्यैःअन्योन्याद्वैतनिष्ठाघनरसगहनान्देवि! बध्नासि भोगान् || २५ ||
तत्रेति – हे देवि! तत्र महामणिमण्डपे स्रकस्पर्शगन्धम् स्रजः
पुष्पमालिकायाः स्पर्शगन्धाविव स्पर्शगन्धौ यस्य तम् तथोक्तम् ।
स्फुरदुपरिफणारत्नरोचिर्वितानम् स्फुरतामुपरि फणारत्नानाम् उपरितन-
माणिक्यानाम् रोचीम्ष्येव वितानम् उल्लोचः यस्य तम् । अनन्तभोगम्
अनन्तस्य शेषस्य भोगम् कामम् विस्तीर्य विस्तृतम् कृत्वा तदुपरि
अनन्तभोगोपरि निविश्येति शेषः । विश्वम् विभूतिद्वयम् एकाधिपत्यम्
एकच्छत्राधिपत्यम् । नयता गमयता असङ्ख्यैः सङ्ख्यातीतैः तैः अवा- ङ्मनसगोचरैः शान्तोदितगुणविभवैः शान्तोदितस्य भगवच्छान्तोदित-दशायाः स्ववैश्वरूप्यानुभवरूपायाः गुणविभवैः गुणातिशयैः त्वामर्हता त्वदनुरूपेण कान्तेन प्रियेण हरिणा सह अन्योन्याद्वैतनिष्ठाघनरस-गहनान् अन्योऽन्यम् परस्परम्, अद्वैतनिष्ठया एकीभावेन परस्परगाढानु- रागेणेत्यर्थः । घनेन निबिडेन, रसेन आनन्देन, गहनान्निर्भरान् भोगान् अनुभवान्, बध्नासि घटयसि । युवयोः सेवकानाम् सूरिपरिषदाम् चेति भावः । *बन्ध बन्धने*(धा.पा.१५०९)इत्यस्माद्धातोः श्नाप्रत्यये लटस्सिपि बध्नासीति रूपम् || २५ ||
न केवलम् पत्युस्त्वमेवानन्दावहा त्वमिव पत्युस्तव च भोग्यभूताः
परस्सहस्रम् सपत्न्यः सन्तीत्याह –

भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैस्समम्निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम् ।देवि त्वामनु नीलया सह महीदेव्यस्सहस्रम् तथायाभिस्त्वम् स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियम् श्लाघसे || २६ ||     भोग्या इति – हे देवि ! वामपि भोग्यभूतयोर्युवयोरपि । पुष्पाङ्ग- रागैस्समम् स्रक्चन्दनादितुल्यम् अङ्गरागशब्देन अङ्गरचनाहेतुभूतघन-
सारकुङ्कुमकस्तूर्यादयोऽपि गृह्यन्ते । नान्तरीयकतया स्वभोग्यतोप-योगेन भोग्याः यथा पुष्पाङ्गरागादीनाम् प्रधानभूतस्वभोग्यतोपयोगेन भोग्यत्वम् तथा तासामपीति भावः ।
निर्वृत्तप्रणयातिवाहनविधौ निर्वृत्तस्य परिपूर्णस्य उद्वेलस्येत्यर्थः ।
प्रणयस्य प्रेमरसस्य, अतिवाहनिविधौ अतिप्रवाहणे परीवाहताम् निर्गम- प्रवाहताम् नीताः प्रापिताः । श्रीश्रीपत्योरुन्मस्तकः प्रेमरसस्सपत्नीमुखेन
प्रवहतीति भावः । यथा तटाकः परिपूर्णस्सन् निर्गमप्रवाहम् विना न
निर्वहति तथा श्रीश्रीशयोरत्युत्कटप्रेमरसो भूनीलादिसपत्नीमुखेन प्रवहणम्
विना न निर्वहतीति हृदयम् । नीलया नीलादेव्या सह मही भूदेवी त्वामनु त्वद्व्याप्यतयेत्यर्थः । नीलया सहेति नीलादेव्या भूम्यपेक्षया व्याप्यत्वम् स्फुटम् *सहयुक्तेऽप्रधाने*(पा.सू.२-३-१९) इत्यनुशासनात् । तथा भूनीले इव त्वामनुसृत्य सहस्रम् देव्यस्सन्तीति शेषः । त्वम् याभिः देवीभिः स्वाभिः स्वकाभिः स्तनबाहुदृष्टिभिरिव स्वावयवैरिव । प्रियम् प्रेयाम्सम् श्लाघसे सन्तोषयसि । *श्लाघृ कत्थने*(धा.पा.११५) इत्यस्माद्धातोः – लडात्मनेपदि मध्यमपुरुषैकवचनम् । स्तनबाहुदृष्टिभि-रित्यत्र महाविभाषया द्वन्द्वैकवद्भावविकल्पः । न केवलम् लक्ष्म्यास्ताभि-स्समम् सापत्न्यकलहाभावः परन्तु भगवतस्ताभिस्सह सम्श्लेषे स्वावयव-सम्श्लेष इव तस्या महतीप्रीतिर्वर्धत इति भावः || २६ ||
इत्थम् लक्ष्म्यास्सपत्नीसहस्रमुक्त्वा परिचारकवर्गमाह –

ते साध्यास्सन्ति देवा जननि! गुणवपुर्वेषवृत्तस्वरूपैःभोगैर्वा निर्विशेषास्सवयस इव ये नित्यनिर्दोषगन्धाः ।हे श्रीः! श्रीरङ्गभर्त्तुस्तव च पदपरीचारवृत्यै सदापिप्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः || २७ ||        त इति – हे जननि श्रीः । साध्याः साध्यनामकाः देवाः द्योतमानाः
मोदमाना वा नित्यनिर्दोषगन्धाः नित्यम् कालत्रयेऽपि निर्दोषगन्धाः ।
निर्गतावद्यलेशाः । *लेशेऽपि गन्धः*(अ.को.) इत्यमरः | अस्पृष्टसम्सार- गन्धा इत्यर्थः । गुणवपुर्वेषवृत्तस्वरूपैः गुणैः अपहतपाप्मत्वादिभिः ज्ञान- शक्त्यादिभिश्च वपुर्भिः विग्रहैः वेषैः शङ्खचक्राद्यलङ्कारैः वृत्तैः निरङ्कुश-व्यापारैः, स्वरूपैः ज्ञानानन्दामलात्मस्वरूपैः भोगैः सविभूतिकभगवत् कल्याणगुणानुभवैर्वा वाशब्दश्चार्थः । भोगैश्चेत्यर्थः । निर्विशेषाः विशेष-रहिताः । तुल्या इत्यर्थः । युवाभ्याम् परस्परम् चेति शेषः ।
अत एव सवयस इव समानवयस्का इव सखाय इव वा । ये सन्ति ते सूरयः श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै श्रीपादकैङ्कर्यकरणाय सदापि सर्वदेशसर्वकालसर्वावस्थास्वपि प्रेमप्रद्राणभावाविलहृदयहठात्कार
कैङ्कर्यभोगाः प्रेम्णा प्रीत्या प्रद्राणेन द्रवीभूतेन भावेन अभिप्रायेण अवस्थाविशेषेण वा आविलेन कलिलेन हृदयेन मनसा हठात्कारो झटि-त्याचरणम् यस्य तत्तथोक्तम् । तथाभूतम् कैङ्कर्यम् परिचरणमेव भोगो भृतिः सुखम् वा येषान्ते तथोक्ताः । तथाभूता भवन्तीति शेषः । *भोग-स्सुखेस्त्र्यादिभृतौ* इत्यमरः (अ.को.३-३-२३) । यद्वा ये साध्याः साध्य-नामकाः इत्यादिपूर्वविशेषणविशिष्टाः प्रेमप्रद्राणभावाविलहृदयहठात्कार-कैङ्कर्यभोगास्ते सूरयः श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सन्तीत्य-न्वयः || २७ ||
अथ लक्ष्म्या भगवत्स्वरूपनिरूपकधर्मतामाह –

स्वरूपम् स्वातन्त्र्यम् भगवत इदम् चन्द्रवदने !त्वदाश्लेषोत्कर्षाद्भवति खलु निष्कर्षसमये ।त्वमासीर्मातः श्रीः कमितुरिदमित्थम् त्वविभवःतदन्तर्भावात्त्वाम् न पृथगभिधत्ते श्रुतिरपि || २८ ||        स्वरूपमिति – हे चन्द्रवदने ! आश्रितानन्दनमुखि! मातः! श्रीः! निष्कर्षसमये निर्णयवेलायाम् भगवतः श्रीमन्नारायणस्य इदम् स्वरूपम्
दिव्यात्मस्वरूपम् स्वातन्त्र्यम् निरङ्कुशस्वतन्त्रत्वम् च त्वदाश्लेषो-त्कर्षात् त्वन्नित्ययोगातिशयात् भवति खलु । तत्र हेतुमाह – त्वमासी-रिति । कमितुः प्रेयसः त्वमिदमित्थम्त्वविभवः आसीः अयमीश्वरः इती-दन्त्वविभवः ईदृश ईश्वर इतीत्थम्त्वविभवः उभयमपि त्वमेवाभवः । सन्तस्त्वाम् भगवति दृष्ट्वा त्वदाश्रयमीश्वरम् निश्चिन्वन्ति । त्वत्पति-तित्वमीश्वरलक्षणम् जानन्ति चेति भावः । श्रुतिस्त्वामपि तदन्तर्भावात् भगवत्स्वरूपनिरूपककोटावन्तर्भावात् । पृथक् भगवतः पृथक्कृत्य । नाभिधत्ते न वदति । अभिपूर्वात् *डुधाञ् धारणपोषणयोः*(धा.पा.१०९३) इत्यस्माद्धातोर्जौहोत्यादिकाच्छपः *श्लौ*(पा.सू.६-१-१०) इति द्वित्वे अभ्या-सह्रस्वत्वे, श्नाभ्यस्तयोरातः*(पा.सू.६-४-११२) इत्यालोपे *दधस्तथोश्च*
(पा.सू.८-२-३८) इति भष्भावे अभिधत्त इतिरूपम् || २८ ||
*मङ्गलम् भगवान्विष्णुर्मङ्गलम् मधुसूदनः । मङ्गलम् पुण्ड-रीकाक्षो मङ्गलम् गरुडध्वजः । पवित्राणाम् पवित्रम् यो मङ्गलानाम् च मङ्गलम्* । इति भगवति प्रयुज्यमानम् मङ्गलपदम् श्रीसम्बन्धायत्त-मित्याह –
तव स्पर्शादीशम् स्पृशति कमले मङ्गलपदम्तवेदम् नोपाधेरुपनिपतितम् श्रीरसि यतः ।प्रसूनम् पुष्यन्तीमपि परिमलद्धिम् जिगदिषुःन चैवम्त्वादेवम् स्वदत इति कश्चित्कवयते || २९ ||
तवेति – हे कमले! ईशम् स्वामिनम् । तव स्पर्शात् त्वत्सम्ब-न्धात् मङ्गलपदम् मङ्गलशब्दः स्पृशति बोधयति इदम् एतन्मङ्गल-पदम् उपाधेः प्रयोजकान्तरात् तव नो निपतितम् न त्वद्वाचकत्वेन सम्बद्धम् किम् तु स्वत एव । तत्र हेतुमाह – यतः श्रीरसीति । यतो हेतोस्त्वम् श्रीर्मङ्गलमसि । तत्र दृष्टान्तमाह – प्रसूनमिति । प्रसूनम् – पुष्पम् पुष्यन्तीम् अतिशयितम् कुर्वतीम् परिमलर्द्धिमपि गन्धसम्पदमपि जिगदिषुः स्वाद्याम् गदितुमिच्छुः एवम्त्वात् एतादृशगुणयोगात् एवम् स्वदते इत्थम् हृद्या भवति इति कश्चित् कोऽपि पुमान् न च कवयते न कथयति हि । चो ह्यर्थः । पुष्पातिशयनिरूपणे परिमलापेक्षेव परिमलाति-शयनिरूपणे गुणान्तरापेक्षा यथा नास्ति तथा भगवन्मङ्गलत्वे श्रीसम्ब- न्धो नियामकः, न तु तस्यास्तत्वे नियामकान्तरापेक्षेति भावः || २९ ||
सर्वेश्वरस्य लोकपालानाम् च लक्ष्मीकटाक्षलब्धविभवत्वमुक्त्वा सर्वे-श्वरम् लोकपालाम्श्च प्रतिपादयन्वेदस्त्वामेव प्रतिपादयतीत्याह –

अपाङ्गा भूयाम्सो यदुपरि परम् ब्रह्म तदभूत् अमी यत्र द्वित्रास्स च शतमखादिस्तदधरात् ।अतः श्रीराम्नायस्तदुभयमुशम्स्त्वाम् प्रणिजगौप्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम् || ३० ||       अपाङ्गा इति – हे श्रीः । तव भूयाम्सः बहुसङ्ख्याः अपाङ्गाः
कटाक्षा: यदुपरि यस्य वस्तुन उपरि प्रसृता इति शेषः । तत् – वस्तु परम् ब्रह्माभूत् । तव भूयः कटाक्षविषयीभूतम् वस्तु परब्रह्मत्वमगमदि-त्यर्थः । अमी अपाङ्गाः यत्र वस्तुनि द्वित्रा द्वौ वा त्रयो वा मानम् येषाम् ते द्वित्राः ते प्रसृताः स च तदधरात् ततः परब्रह्मणः अधरात् अर्वाचीनः
शतमखादिरभूत् । इदमुपलक्षणम् विधिशिवयोरपि तदवरत्वम् बोध्यम्
*नारायणाद्ब्रह्मा जायते नारायणाद्रुद्रो जायते*(ना.उ.१) *क इति ब्रह्मणो
नाम ईशोऽहम् सर्वदेहिनाम् । आवाम् तवाङ्गे सम्भूतौ तस्मात्केशव-नामवान्* । (ह.वं.१३-४८) इति ब्रह्मरुद्रयोरपि भगवत उत्पन्नतया श्रुति-स्मृत्यवगतत्वात्, स चेति शतमखाद्यपेक्षया पुल्लिङ्गनिर्देशः । अतस्त्व-त्कटाक्षलब्धविभवत्वात्तदुभयम् परब्रह्मविधिशिवशतमखादिरूपम् । उशन्
कामयमानः वदन्नित्यर्थः । आम्नायो वेदः । त्वाम् प्रणिजगौ प्रव्यक्तम्
गदितवान् । प्रणि-पूर्वात् *गैशब्दे*(धा.पा.९१७) इत्यस्माद्धातोर्लिट्परस्मै-
पदप्रथमपुरुषैकवचनम् । तथाहि पुरीकोशकथनम् पुर्या राजधान्याः
कोशस्य धनसञ्चयादेश्च कथनम् अतिशयेन वर्णनम् क्रियत इति यत् जनैरिति शेषः । सा राज्ञः तत्परिपालकस्य प्रभोः । प्रशस्तिः प्रसिद्धिः अत्र पुरीकोशकथनम् राज्ञः प्रशस्तिरिति सामान्यनिर्देशेन परब्रह्मादिपरा-
म्नायकृतलक्ष्मीप्रशस्तिकथन विशेषस्य समर्थनात् सामान्येन विशेषसम- र्थनरूपार्थान्तरन्यासालङ्कारः || ३० ||
भगवत्स्वरूपम् स्वातन्त्र्यम् त्वदाश्लेषादिति प्रागुक्तम् सिम्हावलोक-नेन निरीक्ष्य तथात्वे पराधीनत्वमन्याहितातिशयित्वम् विगुणत्वम् च
प्रसजेदित्याशङ्काम् हेतुविशेषेण दृष्टान्तबलेन च परिहरति –

स्वतः श्रीस्त्वम् विष्णोः स्वमसि तत एवैष भगवान्त्वदायत्तद्धित्वेऽप्यभवदपराधीनविभवः । स्वया दीप्त्या रत्नम् भवदपि महार्घम् न विगुणम्न कुण्ठस्वातन्त्र्यम् भवति च न चान्याहितगुणम् || ३१ ||
स्वत इति – हे श्रीः ! त्वम् विष्णोः स्वतः स्वभावात् निरुपाधिकात्म- स्वरूपस्वभावादित्यर्थः । स्वमसि शेषभूतासि *स्वत्वमात्मनि सञ्जातम् स्वामित्वम् ब्रह्मणि स्थितम् । आत्मदास्यम् हरेस्स्वाम्यम् स्वभावम् च
सदा स्मर*|| (वि.त.) इत्याद्यनेकप्रमाणप्रसिद्धेः । तत एव स्वत्वादेव एष भगवान् श्रीरङ्गराजः त्वदायत्तद्धित्वेऽपि अपराधीनविभवोऽभवत् ।
तथाहि – रत्नम् माणिक्यम् स्वया दीप्त्या स्वकान्त्या महार्घम् निरवधि-कमूल्यम् भवदपि विगुणम् गुणहीनम् न कुण्ठस्वातन्त्र्यम् प्रतिहत- स्वोत्कर्षम् च न ।

अन्याहितगुणम् पराधीनातिशयम् च न भवति । तद्वत्त्वत्प्रियोऽपि त्वद- धीनसम्पत्त्वेऽपि न विगुणो न कुण्ठस्वातन्त्र्यो नान्याहितातिशयश्च भव- तीति भावः || ३१ ||
इत्थम् लक्ष्मीस्वरूपमनुसन्धाय स्वरूपाश्रितान् दिव्यमङ्गलविग्रहा-श्रिताम्श्च कल्याणगुणान्विवक्षुः प्रथमम् श्रीश्रीशयोस्साधारणगुणाननु-सन्धत्ते –

प्रशकनबलज्योतिर्ज्ञानैश्वरीविजयप्रथा-प्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराः ।अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरेतव भगवतश्चैते साधारणा गुणराशयः || ३२ ||     प्रशकनेति – हे इन्दिरे ! परमैश्वर्यप्रदे! श्रीः ! प्रशकनम् प्रकृष्टा शक्तिः, बलम् सर्वजगद्भरणसामर्थ्य ज्योतिः तेजः, ज्ञानम् सर्वदा सर्ववस्तुसाक्षा- त्कारः, ऐश्वरी ईश्वरत्वम् विजयप्रथा जयशीलत्वप्रशस्तिः, प्रणतवरणम् आश्रितवशीकारः, प्रेम आश्रितविषयप्रीतिः, क्षेमङ्करत्वम् आश्रितेष्ट-प्रापकत्वम् तदनिष्टनिवर्तकत्वम् च पुरस्सराः प्रधानानि येषाम् ते
तथोक्ताः । एते दिव्यात्मस्वरूपगुणाः । अथ दिव्यमङ्गलविग्रहगुणा-नाहम् – अपीति । अपि अपिचेत्यर्थः । न केवलमात्मगुणा एव साधारणा: विग्रहगुणा अपि चेत्यपिशब्दार्थः । परिमलः सौगन्ध्यम्, कान्तिः सौन्दर्यम् सा चावयवशोभा, लावण्यम् समुदायशोभा, अर्चिः औज्वल्यम् परप्रकाशकत्वमिति यावत् । इत्येते द्विविधा अपि स्वरूप-विग्रहाश्रितगणराशयो गुणसमूहाः तव भगवतश्च साधारणासमाना इत्यर्थः । अत्र भगवतो विजयप्रथा श्रीरामायणे *शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः*(रा.यु.कां.१०४-६) इति रावणवचनादभिव्यक्ता । सीतायास्तु वासिष्ठरामायणे शतकन्धरसम्हारे विजयप्रथा सुव्यक्ता । भगवतः क्षेमङ्करत्वमुभयविधमपि साक्षादेव । लक्ष्म्यास्त्विष्टप्रापणम् साक्षात्परम्परया वापि सम्भवति । अनिष्टनिवर्त्तकत्वम् तु भगवद्द्वारेति बोध्यम् || ३२ ||
पुनस्साधारणगुणाननुसन्धत्ते –

अन्येऽपि यौवनमुखा युवयोस्समानाःश्रीरङ्गमङ्गलविजृम्भणवैजयन्ति ।तस्मिन्स्तव त्वयि च तस्य परस्परेणसम्स्तीर्य दर्पण इव प्रचुरम् स्वदन्ते || ३३ ||     अन्येऽपीति – हे श्रीरङ्गमङ्गलविजृम्भणवैजयन्ति ! श्रीरङ्गोत्सव
प्रकाशनोद्यतकेतो! श्रीरङ्गोत्सववृद्धिकरीत्यर्थः । अन्ये उक्तगुणव्यतिरिक्ता
यौवनमुखाः यौवनादयः मुखशब्देन सौकुमार्यादयो गृह्यन्ते । युवयोः
भगवतस्तव च समानाः साधारणास्सन्तः तव गुणाः तस्मिन् तस्य
गुणाः त्वयि च दर्पण इव सम्स्तीर्य अभिव्याप्य, परस्परेण अन्योऽन्यम्
प्रचुरम् प्रकामम् स्वदन्ते रस्या भवन्ति *स्वद आस्वादने*(धा.पा.१८)
इत्यस्माद्धातोर्लडात्मनेपदप्रथमपुरुषबहुवचनम् । भगवान् लक्ष्म्याम्
प्रशकनबलादीनवलोक्य स्वकीया एवैते गुणा इत्यानन्दमनुभवति । एवम् लक्ष्मीरपि भगवति तानुपलक्ष्य स्वकीया एवैत इति सम्मोदम् भजत इति वक्त्रभिप्रायः || ३३ ||
ननु उभयोस्स्वरूपरूपगुणसाधारण्ये सेवकानाम् श्रीश्रीशपृथगनुभवः
कथम् घटत इत्यत्राह –

युवत्वादौ तुल्येऽप्यपरवशताशत्रुशमन-स्थिरत्वादीन्कृत्वा भगवति गुणान्पुम्स्त्वसुलभान् ।त्वयि स्त्रीत्वैकान्तान्म्रदिमपतिपारार्थ्यकरुणा-क्षमादीन्वा भोक्तुम् भवति युवयोरात्मनि भिदा ॥ ३४ ॥
युवत्वादाविति – हे श्रीः ! युवत्वादौ यौवनादौ तुल्येऽपि युवयोरिति शेषः । भगवति हरौ । पुम्स्त्वसुलभान् पुरुषैकनिष्ठान् अपरवशताशत्रु-शमनस्थिरत्वादीन् अपरवशता स्वातन्त्र्यम्, शत्रुशमनम् विरोधिनिवर्त्त- कत्वम्, स्थिरत्वम् अप्रकम्प्यत्वम् आदिर्येषाम् तान् गुणान् कृत्वा भेदकाननुसन्धाय त्वयि भवत्याम् स्त्रीत्वैकान्तान् स्त्रीस्वभावान्तरङ्गान् । म्रदिमपतिपारार्थ्यकरुणाक्षमादीन्वा म्रदिमा मृदुहृदयत्वम्, पतिपारार्थ्य भर्तृपारतन्त्र्यम्, करुणा परदुःखासहिष्णुत्वम्, क्षमा अपराधसहत्वम् आदिर्येषाम् तान् । वा शब्दश्चार्थः । क्षमादीश्चेत्यर्थः । कृत्वा भेदकान-नुसन्धाय भोक्तुम् अनुभवितुम् युवयोरात्मनि स्वरूपे विग्रहे च भिदा भवति भेदस्सिद्ध्यति । अनुभवितृणामिति शेषः । यद्यपि म्रदिमकरुणा-क्षमा भगवतोऽपि समानाः तथापि स्वातन्त्र्यासमवहितास्ता इह विवक्षिताः । भगवतो म्रदिमाद्यास्तु न तथाविधा इति भावः || ३४ ||
श्रीश्रीपत्योः स्वरूपभेदकगुणाननुसन्धाय रूपभेदकगुणाननुसन्धत्ते –

घनकनकद्युती युवदशामपि मुग्धदशाम्युवतरुणत्वयोरुचितमाभरणादि परम् ।ध्रुवमसमानदेशविनिवेशि विभज्य हरौत्वयि च कुशेशयोदरविहारिणि निर्विशसि || ३५ ||     घनेति – कुशे उदके शेत इति कुशेशयम् पद्मम् *जीवनीयम् कुशम्
विषम्*(अ.को.१-११-२६६) इत्यमरः । तस्योदरे गर्भे विहरतीति कुशेशयो- दरविहारिणि! कमलनिलये, घनकनकद्युती घनस्य नीलमेधस्य कनकस्य सुवर्णस्य द्युती इव द्युती, युवदशाम् युवत्वम् । मुग्धदशाम् तारुण्यमपि । युवतरुणत्वयोः युवत्वतारुण्ययोः उचितम् योग्यम् परम् उत्कृष्टम् पर-स्परविलक्षणम् वा अत एवासमानदेशविनिवेशि असमानदेशे परस्पर-भिन्नदेशे धर्मिणि, विनिवेश: सम्वेशनम् यस्य तत्तथोक्तम् । आभरणादि भूषणादि, आदिशब्देनश्मश्रुपीताम्बरोर्ध्वपुण्ड्रयज्ञोपवीतादिस्तनवस-नाञ्जनहरिद्राकाश्मीरकमरिकापत्रादि च गृह्यन्ते, हरौ त्वयि च विभज्य विभाजकम् कृत्वा । निर्विशसि अनुभवसि, हरिम् त्वाम् चेति शेषः । ध्रुवम् एतत्सत्यम् । एवम् विभाजकधर्माननुसन्धाने युवयोर्भेदग्रहो युवयोरेव न भवेदिति भावः । निरित्युपसर्गात् *विश प्रवेशने*(धा.पा. १४२५) इत्यस्माद्धातोर्लण्मध्यमपुरुषैकवचने निर्विशसीति रूपम् || ३५ ||
क्षीराब्धिसारसमष्टितया लक्ष्मीविग्रहम् वर्णयित्वा कल्पलतादेस्तदृजी-षतामुत्प्रेक्ष्य तथा वर्णनम् पयोधेराविर्भूतस्य अप्राकृतस्य लक्ष्मीदिव्य-
मङ्गलविग्रहस्य च युक्तमित्याह –

अङ्गम् ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुम्फतःक्षीराब्धेः किमृजीषतामुपगता मन्ये महार्घास्ततः ।इन्दुः कल्पलता सुधामधुमुखा इत्याविलाम् वर्णनाम्श्रीरङ्गेश्वरि! शान्तकृत्रिमकथम् दिव्यम् वपुर्नार्हति || ३६ ||
अङ्गमिति – हे श्रीरङ्गेश्वरि ! ते तव अङ्गम् वपुः अङ्गशब्देना-
वयववाचिना तत्समुदायरूपना वपुर्लक्ष्यते । मृदुशीतमुग्धमधुरोदारैः
मृदुत्वशीतत्वमुग्धत्वमधुरत्वोदारत्वैः, भावप्रधानोऽयम् निर्देशः ।  गुणै- र्विग्रहगुणैः सारभूतैरिति शेषः । गुम्फतो ग्रथयतः, क्षीराब्धेः त्वत्पितुः
इन्दुः चन्द्रः, कल्पलता सुधामधुमुखाः कल्पलतासुधे प्रसिद्धे, मधु सुरा,
कल्पलतासुधामधूनि मुखमादिर्येषाम् ते तथोक्ताः । ते ऋजीषताम् असारताम् उपगताः किमुत्त्प्रेक्षा । किम् शब्दः सम्भावनायाम् । ततस्त्व-दवयवऋजीषत्वान्महार्घा अमूल्याः भवन्तीति शेषः । मन्ये इत्युत्प्रेक्षा-व्यञ्जनम् । इति पूर्वोक्तप्रकारेण आविलाम् -कलुषाम् वर्णनाम् उत्प्रेक्षाम् प्रति शान्तकृत्रिमकथम् अपगतकृत्रिमप्रशसम्, दिव्यम् अप्राकृतम्, वपुः
विग्रह: नार्हति नोचितम् भवति । अकृत्रिमस्य लक्ष्मीविग्रहस्य कृत्रिम-वस्तुसारत्वोत्प्रेक्षणमयुक्तमिति भावः || ३६ ||
पुनर्विग्रहमेव वागगोचरम् वर्णयति –

प्रणमदनुविधित्सावासनानम्रमग्रेप्रणयिपरिचिचीषाकुञ्चितम् पार्श्वकेन ।कनकनिकषञ्चञ्चम्पकस्रक्समान-प्रवरमिदमुदारम् वर्ष्म वाचामभूमिः || ३७ ||
प्रणमदिति – अत्र श्रीस्तवेति पदद्वयमध्याहार्यम् । हे श्रीः ! अग्रे
उत्तमाङ्गे प्रणमदनुविधित्सावासनानम्रम् प्रणमताम् सेवकानाम् अनु-विधित्साया अनुविधानेच्छायाः, वासनया परिचयेन नम्रम् ईषद्विनतम् । पार्श्वकेन पार्श्वभागेन प्रणयिपरिचिचीषा कुञ्चितम् प्रणयिनः प्रियस्य, परिचिचीषया परिचर्येच्छया, कुञ्चितम् भयभक्तिभ्याम् हेतुभ्याम् सङ्कु-चितम् कनकनिकषचञ्चञ्चम्पकस्त्रक्समानप्रवरम् कनकनिकषस्य छायायास्सुवर्णरेखायाश्चञ्चत्याः स्फुरन्याः चम्पकस्रजः चम्पकमालि-कायाश्च, समानस्तुल्यः, प्रवरो गोत्रम् यस्य तत्तथोक्तम् तयोः सदृश-मित्यर्थः । अनेनौज्वल्यसौगन्ध्ये सूचिते । उदारम् ऊर्जितम् सर्वा-भीष्टप्रदम् वा इदम् एतत् अप्राकृतम् तव वर्ष्म वपुः वाचामभूमिः अपदम् वागगोचरमित्यर्थः || ३७ ||
आश्रितरक्षानुकूलाधिराज्यसूचकासिकाविशेषविशिष्टाम् श्रियमनुसन्धत्ते –

एकम् न्यञ्च्यम् नतिक्षमम् मम परम् चाकुञ्च्य पादाम्बुजम्मध्येविष्टरपुण्डरीकमभयम् विन्यस्य हस्ताम्बुजम् ।त्वाम् पश्येम निषेदुषीम् प्रतिकलम् कारुण्यकूलङ्कष- स्फारापाङ्गत्तरङ्गमम्ब! मधुरम् मुग्धम् मुखम् बिभ्रतीम् || ३८ ||     एकमिति – अम्ब हे श्रीः! मम दासभूतस्य नतिक्षमम् प्रणामयोग्यम् । एकम् पादाम्बुजम् दक्षिणम् न्यञ्च्य सिम्हासनादधः प्रसार्य परम् इतरत् वाम पादाम्बुजम् आकुञ्च्य तिर्यगिति शेषः । अभयम् अभय-सूचकम्, अभयदायि वा हस्ताम्बुजम् मध्येविष्टरपुण्डरीकम् आसनपद्म-मध्ये विन्यस्य निषेदुषीम् आसीनाम् कारुण्यकूलङ्कषस्फारापाङ्ग-तरङ्गम् कारुण्येन दयया कूलङ्कषौ उत्कूलौ स्फारौ विशालौ अपाङ्गौ तरङ्गाविव यस्य तत्तथोक्तम् । मधुरम् प्रियम् भोग्यम् वा । *स्वादु प्रियौ तु मधुरौ* इत्यमरः (अ.को.३-३-१९१) । मुग्धम् सुन्दरम् । *मुग्धः सुन्दरमूढयोः* इत्यमरः । मुखम् आननम् बिभ्रतीम् त्वाम् प्रतिकलम् सर्वकालम् पश्येम सेवेमहि । विश्वरक्षणोपयुक्तसिम्हासनावस्थितिविशेष एव ते सन्ततसेवनीयः सम्श्रितानामिति भावः ॥ ३८ ॥
इत्थम् श्रियम् सम्सेव्य सेवाजनितप्रीत्या तत्पादौ शरणमुप-गच्छति –

सुरभितनिगमान्तम् वन्दिषीयेन्दिरायाःतव कमलपलाशप्रक्रियम् पादयुग्मम् ।वहति यदुपमर्देर्वैजयन्ती हिमाम्भःप्लुतिभिरिव नवत्वम् कान्तवाहान्तराले ॥ ३९ ॥
सुरभितेति – इन्दिरायाः परमैश्वर्यप्रदायास्तव कमलपलाशप्रक्रियम् कमलपलाशानाम् प्रक्रिया रीतिर्यस्य तत् कमलदलसदृशाम्गुलीत्यर्थः । *पलाशः किम्शुके पत्रे* इति विश्वः । सुरभितनिगमान्तम् वासित-वेदान्तम् । वेदान्तवेद्यमिति यावत् । पादयुग्मम् वन्दिषीये अभिवादयेय स्तुवीय वा *वदि अभिवादनस्तुत्योः*(धा.पा.११) इत्यस्माद्धातोर्लिङात्मने- पदोत्तमपुरुषे *इदितो नुम्*(पा.सू.७-३-५८) इति नुमागमे *लिङः सीयुट्* (पा.सू.३-४-१०२) इति सीयुडागमे तस्य इडागमे षत्वे *इटोत्*(पा.सू.३-४-१०६) इति इटः अदादेशे वन्दिषीयेति रूपम् ।
उत्तरार्धेन पादयुग्ममेव विशिनष्टि – वहतीति । वैजयन्ती वनमाला
कान्तवाहान्तराले प्रियवक्षसि यदुपमर्दैः यस्य पादयुगस्य उपमर्दैः सङ्घर्षैः हिमाम्भ: प्लुतिभिरिव हिमसलिलसेचनैरिव । नवत्वम्  नूतनत्वम् वहति । अमृतस्यन्दिसुकुमारश्रीपादसम्स्पर्शेन शोभातिशयम् धत्त इति भावः || ३९ ||
लक्ष्मीकटाक्षविग्रहवैलक्षण्यमनुसन्धत्ते –

त्वत्स्वीकारकलावलेपकलुषा राज्ञाम् दृशो दुर्वचानित्यम् त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्याम् पतिम् ।दृग्भ्यामेव हि पुण्डरीकनयनम् वेदो विदामास ते साक्षाल्लक्ष्मि! तवावलोकविभवः काक्का कया वर्ण्यते || ४० ||
त्वदिति – हे लक्ष्मि! राज्ञाम् लोकपालप्रभृत्याधुनिकपर्यन्तानाम्
प्रभूणाम् दृशो दृष्टयः त्वत्स्वीकारकलावलेपकलुषाः त्वत्स्वीकारकला
त्वत्कटाक्षलेशः स्वीकारशब्देन सदयदृष्टिर्लक्ष्यते । कलाशब्देनावयववा-चिना लेशो लक्ष्यते, तेन जातेनावलेपेन गर्वेण, कलुषाः आविलास्सत्य:
दुर्वचाः वर्णयितुमशक्याः भवन्ति, कवीनामिति शेषः । त्वत्कटाक्षलेश-
प्रसरणगर्वेण शोभाविशेषजुष्टाः प्रभुदृष्टयः कविवागगोचरा भवन्तीत्यभि-
प्रायः । किमुत लोकपालानाम् ?

पत्युस्तव पुण्डरीकनयनत्वम् च त्वद्विग्रहानुभवसमयसक्तविग्रहरक्ति-
मायत्तमित्याह – नित्यमिति । नित्यम् सर्वकालम् त्वन्मधुपानमत्तमधु-पश्रीनिर्भराभ्याम् त्वन्मधुपाने त्वद्रूपमकरन्दपाने मत्तमधुपयोः दृप्तषट्प-दयोः श्रिया सम्पदा निर्भराभ्याम् पूर्णाभ्यामेव यथा मधुपाने मत्तमधुपो
नैश्चल्यम् रक्तताम् चानुभवति तथा मधुरूपत्वदनुभवे मधुपतुल्यनैश्चल्य-रागसम्पूर्णाभ्यामेवेत्यर्थः । दृग्भ्याम् लोचनाभ्याम् हेतुभूताभ्याम् ते तव पतिम् प्रियम् वेदः *तस्य यथा कप्यासम् पुण्डरीकमेवमक्षणी*(छां.उ.१-६-७) इति छान्दोग्योपनिषद्रूपः पुण्डरीकनयनम् पुष्कराक्षम् विदामास
विज्ञातवान्खलु । *विदज्ञाने*(धा.पा.१०६४) इत्यस्माद्धातोः *उषविद*
(धा.पा.३-१-३८) इत्यादिना आम्प्रत्यये *कृञ्चानुप्रयुज्यते लिटि*(पा. सू.३-१-४०) इति अस्तेरनुप्रयोगे विदामासेति रूपम् । एवम् सकल-लोचनातिशयस्य त्वदवलोकनाधीनत्वे त्वदवलोकसौन्दर्यवर्णनातीत-मित्याह साक्षादिति । तव साक्षादवलोकविभवः कटाक्षसौन्दर्य कया काक्वा कीदृश्या भङ्गया वर्ण्यते न कयापीत्यर्थः || ४० ||
पुनर्लक्ष्मीकटाक्षानेव वर्णयन् तैः स्वरक्षणम् प्रार्थयति –

आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल-

प्रेमार्द्रैरपि कूलमुद्वहकृपासम्प्लावितास्मादृशैः । पद्मे ते प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कम्भकैःऐश्वर्योद्गमगद्गदैरशरणम् माम् पालयालोकितैः || ४१ ||      आनन्देति – हे पद्मे ! तव अत्र यद्यपि *युष्मदस्मदोरामन्त्रितम्
पूर्वमविद्यमानवत्* इत्यामन्त्रितस्य अविद्यमानवद्भावेन त इत्यादेशो न
सम्भवति । तथाप्यविद्यमानवद्भावस्यानित्यत्वम् काशिकायामुक्तम्
*विद्यमानवच्चेति वक्तव्यम्* इति वार्तिकात् । युक्तम् च तत् अत एव
*भिक्षो ! ते दयितास्ति किम् ! न हि नहि प्राणप्रिया कुण्डिका* इति
महाकविप्रयोगः । अत एव च शुभकार्यारम्भे *लक्ष्मीपते ! तेऽङ्घ्रियुगम्
स्मरामि* इति सर्ववैदिकप्रयोगः ।
यद्वा पद्मे ते पद्मम् कमलम् इते प्राप्ते ! कमलवासिनीत्यर्थः । पद्मे
लीलारविन्दे इता हस्ताभ्याम् प्राप्ता पद्मेता तस्यास्सम्बुद्धिर्वा । आनन्दा त्मभिः आनन्द एवात्मा स्वरूपम् येषाम् तैरानन्दरूपैरित्यर्थः । ईश-मज्जनमदक्षीबालसैः ईशस्य हरेः मज्जनेन स्वेष्ववगाहनेन यो मदस्तेन क्षीबैर्मत्तैः अलसैः मन्दरैः आगलप्रेमार्द्रेः आगलम् आकण्ठम्, प्रेम्णा प्रीत्या आर्द्रेः शिशिरैरपि । अपिश्चार्थः । कूलमुद्वहकृपासम्प्लावितास्मा-दृशैः कूलमुद्वहया तीररोधिन्या उद्वेलयेत्यर्थः । कृपया सम्प्लाविताः स्ना-पिताः अस्मादृशा अकिञ्चना यैस्तैः ।
प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कम्भकैः प्रतिबिन्दु प्रतिकटाक्षलेशम्
बद्धकलिकाः ममायम् कटाक्षलेशोऽस्तु ममायमिति बद्धकलहाः ब्रह्मादय एव विष्कम्भका निर्वाहका येषाम् तैः । विष्कम्भशब्दो नगररक्षार्थार्गल-दण्डवाची तत्सादृश्यात्रिर्वाहकसामान्ये गौणः । *तद्विष्क-म्भोऽर्गलम् न ना*(अ.को.२-२-१७) इत्यमरः । ऐश्वर्योद्गमगद्गदैः ऐश्वर्यस्य सम्पदः उद्गमेन उत्पादनेन गद्गदैः विलासातिशयेन स्खलितगतिभिः । आलोकितैः कटाक्षैः । भावे क्तः । अशरणम् रक्षकान्तरशून्यम् माम् पालय *पा रक्षणे*(धा.पा.१०५६) इत्यस्माद्धातोः *हेतुमति च*(पा.सू.३-१-२६) इति णिचि *पातेर्णौ लुगागमो वक्तव्यः*(वार्तिकम्.४५२०) इति लुगागमे पालयेति लोण्मध्यमपुरुषैकवचनम् || ४१ ||
लक्ष्म्याः सौकुमार्यमनुसन्धत्ते –

पादारुन्तुदमेव पङ्कजरजश्चेटीभृशालोकितैःअङ्गम्लानिरथाम्ब साहसविधौ लीलारविन्दग्रहः ।दोला ते वनमालया हरिभुजे हाकष्टशब्दास्पदम्केन श्रीरतिकोमला तनुरियम् वाचाम् विमर्दक्षमा || ४२ ||     पादेति – हे अम्ब श्रीः । पङ्कजरजः पद्मरेणुः ते पादारुन्तुदमेव
पादयोः पादतलयोः पादशब्देन पादतले लक्ष्येते । अरुन्तुदम् कण्टक
इव मर्मस्पृक् *अरुन्तुदन्तु मर्मस्पृक्*(अ.को.३-१-८१) इत्यमरः ।
चेटीभृशालोकितैः चेटीनाम् सन्ततसहवासपरिचारिकाणाम् भृशालोकितैः
अधिकवीक्षणैः अङ्गम्लानिः गात्रतान्तिः भवतीति शेषः । अथेति
वाक्यान्तरारम्भे, *मङ्गलानन्तरारम्भप्रश्नकार्त्स्त्रेष्वथो अथ* इत्यमरः
(अ.को.३-३-२४७) । ते तव लीलारविन्दग्रहः लीलाकमलधारणम्
साहसविधौ साहसकर्मविधाने भवतीति सर्वत्रानुषज्यते । ते तव हरिभुजे
प्रियवक्षसि भुजशब्देन तन्मध्यम् लक्ष्यते । वनमालया वैजयन्त्या दोला दोलाविहरणम् हाकष्टशब्दास्पदम् हेति कष्टमिति च शब्दौ आस्पदम् यस्य तत्कर्म भवति । अतिकोमला अतिसुकुमारा इयम् अप्राकृता तनु-र्विग्रहः केन केन हेतुना वाचाम् स्तुतिवचसाम् विमर्दक्षमा विमर्दस्य प्रतिपाद्यतया सङ्घर्षस्य क्षमा योग्या भवति । न केनापीत्यर्थः । अति-सुकुमारस्य श्रीवपुषः पुरुषवचस्तवनमयुक्तमिति भावः || ४२ ||
अथ श्रियस्तारुण्यम् वर्णयति –

आमर्यादमकण्टकम् स्तनयुगम् नाद्यापि नालोकित-भ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वायशः ।सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभम्भोगस्त्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः || ४३ ||
आमर्यादमिति – हे श्रीः । ते तव । स्तनयुगम् आमर्यादम् यावत्परि- माणमर्यादम् अद्यापि अकण्टकम् न किन्तु सकण्टकम् सप्रतिबन्धमेव
स्तनपरिमाणपूर्तिरद्यापि न जातेति भावः । पूर्णयौवन एव परिमाणपूर्तिः
स्यादिति हृदयम् । आलोकितभ्रूभेदस्मितवभ्रमाः आलोकितस्य वीक्षणस्य
भ्रूभेदस्य भ्रूभङ्गस्य स्मितस्य मन्दहासस्य विभ्रमा विलासा वा । वा- शब्दश्चार्थः । नैसर्गिकत्वायशः स्वभावसिद्धत्वापयशः न जहति न मुञ्चन्ति । तारुण्यप्रयुक्तनेत्रादिलीलास्त्वतिचञ्चलाः सत्यः स्वभाव-प्रयुक्तत्वशङ्कामेवापादयन्ति न तु यौवनप्रयुक्तामिति भावः । भोग-स्रोतसि क्रीडाप्रवाहे । कान्तदेशिककरग्राहेण कान्तः प्रिय एव देशिकः परिज्ञाता तस्य करग्राहेण हस्तावलम्बेन । कान्तहस्तम् गृहीत्वेति यावत् । गाहे अवगाहने क्षमो योग्यः मौग्ध्यातिशयात् एवम् भोगः कार्य इति कान्तोपदेशसापेक्ष इत्यर्थः । शैशवयौवनव्यतिकरः शैशवस्य बाल्यस्य यौवनस्य युवत्वस्य च व्यतिकरः सन्धिः तारुण्यमित्यर्थः । ते तव गात्रेषु अवयवेषु सौरभम् निरतिशयसौगन्ध्यम् सूते जनयति तारुण्योदयात् कुचोदञ्चननेत्रविलासगात्रसौरभाणि सञ्जातानीति भावः || ४३ ||
श्रियो दिव्यमङ्गलविग्रहम् पुष्पदामत्वेन र्वणयित्वा तस्य हरिवक्षः
परिष्कारतामापाद्यसुकुमारतमम् वपुस्तथावर्णयन्तम् स्वात्मानमुपालभते –
आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत्सौन्दर्यामृतसेकशीतलमिदम् लावण्यसूत्रार्पितम् । श्रीरङ्गेश्वरि! कोमलाङ्गसुमन:सन्दर्भणम् देवि ! तेकान्तोरःप्रतियत्नमर्हति कवि धिङ्मामकाण्डाकुलम् || ४४ ||
आमोदेति – हे देवि ! आमोदाद्भुतशालि आमोदाद्भुतेन अद्भुतसौगन्ध्येन । शालत इति शालि । *आमोदो गन्धहर्षयोः*(अ.को.१-४-२४) इत्यमरः ।यौवनदशाव्याकोचम् यौवनदशया तारुण्येन व्याकोचम् विकासि, इत्थम् भावे तृतीया, तारुण्याभिन्नविकासमित्यर्थः । अम्लानिमत् अतान्तम्
सौन्दर्यामृतसेकशीतलम् सौन्दर्यम् अवयवशोभैव अमृतम् तस्य सेकेन
व्याप्त्येत्यर्थः । शीतलम् शिशिरम्, लावण्यसूत्रार्पितम् लावण्यम् समुदाय-शोभैव सूत्रम् गुणः तस्मिन्नर्पितम् ग्रथितम् लावण्यस्य सर्वावयवानुस्यू-तत्वात् सूत्रत्वरूपणम् ते तव कोमलाङ्गसुमनःसन्दर्भणम् सुकुमारावयव-पुष्पमालिका कान्तोरःप्रतियत्नम् कान्तस्य हरेः उरसो वक्षसः प्रतियत्नम् परिष्कारम् अर्हति । हरिवक्षोऽलङ्करणार्ह भवतीत्यर्थः । अकाण्डाकुलम् अकाण्डे अनवसरे आकुलम् विवशम् कविम् माम् धिक् निन्दनीयम् ।
पुष्पापेक्षयानिरतिशयसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययुक्तलक्ष्मीवपुषः
पुष्पदामत्वरूपणम् तस्य दनुजवृषविषाणोल्लिखितकठिनहरिवक्षः परि- ष्करणत्वकल्पनम् चायुक्तमिति स्वस्याकाण्डाकुलत्वम् ततो निन्द्यत्वम्
चेति बोध्यम्। कठिनतमेऽपि हरिवक्षस्याश्रितरक्षणचापल्यात् सुकुमाराया
अपि श्रियः स्थितिरुपपन्नैवेति मन्तव्यम् ॥ ४४ ॥
श्रियो भगवता सह सम्भोगशृङ्गारम् वर्णयति –

मर्मस्पृशो रसशिराः व्यतिविध्य वृत्तैःकान्तोपभोगललितैर्लुलिताङ्गयष्टिःपुष्पावलीव रसिकभ्रमरोपभुक्तात्वम् देवि ! नित्यमभिनन्दयसे मुकुन्दम् ॥ ४५ ॥
मर्मेति – हे देवि ! मर्मस्पृशो मर्मस्पर्शिनीः रसशिराः रसनाडीः व्यति- विध्य वेधिताः कृत्वा वृत्तैः उद्भूतैः कान्तोपभोगललितैः सम्भोगविलासैः लुलिताङ्गयष्टिः मृदितगात्रयष्टिः सती रसिकभ्रमरोपभुक्ता रसिकभ्रमरेण रसास्वादनचतुरचञ्चरीकेण उपभुक्ता । निपीतरसा पुष्पावलीव स्थिता त्वम् मुकुन्दम् प्रेयाम्सम् अभिनन्दयसे आनन्दयसि । नयनहृदयानन्द- कन्दलितम् करोषीत्यर्थः || ४५ ||
श्रियो दिव्याभरणगणयोगकृतकान्तिविशेषमनुसन्धत्ते –

कनकरशनामुक्ताताटङ्कहारललाटिकामणिसरतुलाकोटिप्रायैर्जनार्दनजीविके ।प्रकृतिमधुरम् गात्रम् जागर्ति मुग्धविभूषणैःवलयशकलैर्दुग्धम् पुष्पैश्च कल्पलता यथा || ४६ ||    कनकेति – हे जनार्दनजीविके ! श्रीरङ्गराजजीवनौषधि ! कनकरशना स्वर्णमेखला स्वर्णसूत्रम् वा मुक्ताताटङ्के मौक्तिककर्णपत्रे हारो मुक्ताहारः ललाटिका कनकमयम् माणिक्यमयम् वा तिलकम् ललन्ती वा मणि-सराः मणिमालिकाः तुलाकोटी मणिमञ्जीरौ एते प्रायाः प्रधानानि
येषाम् तैः । मुग्धविभूषणैः सुन्दराभरणैः प्रकृतिमधुरम् स्वभावरम्यम् ते
गात्रम् वलयशकलैः शर्कराखण्डैः दुग्धम् यथा क्षीरमिव, पुष्पैः कल्पलता
यथा कल्पवल्लीव च जागर्ति विशेषेण प्रकाशते || ४६ ||
*रूपाकारविभूतिभिश्च सदृशीम्* इत्युक्तरीत्या भगवतः परमसाम्या- पन्नायाः श्रियः कौस्तुभवैजयन्तीपञ्चायुधधारणस्य साधारण्येऽपि
तेषाम् भगवदेकधारणे हेतुमुत्प्रेक्षते –

सामान्यभोग्यमपि कौस्तुभवैजयन्ती-पञ्चायुधादि रमणः स्वयमेव बिभ्रत् ।तद्भारखेदमिव ते परिहर्तुकामःश्रीरङ्गधाममणिमञ्जरि गाहते त्वाम् || ४७ ||
सामान्येति – हे श्रीरङ्गधाममणिमञ्जरि ! श्रीरङ्गधाम्नः हरेः दिव्य- विमानस्य वा मणिमञ्जरी रत्नगुच्छिका रत्नदीपिका वा तस्याः सम्बुद्धिः । सामान्यभोग्यमपि युवयोरिति शेषः । सामान्येन साधारण्येन भोग्य- मपि भूषणतया प्रहरणतया च धार्यमपि कौस्तुभवैजयन्ती पञ्चायुधादि
कर्म आदिशब्देन परशुपरिघादि गृह्यते तद्भारखेदम् तद्वहनायासम् ते तव
परिहर्तुकाम इवेत्युत्प्रेक्षा। स्वयमेव बिभ्रत्सन् त्वाम् गाहते सम्श्लिष्यति
दिव्याभरणदिव्यायुधगणम् वहन् प्रियस्त्वामनुसरतीति भावः || ४७ ||
*राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु
विष्णोरेषानपायिनी*(वि.पु.१-९-१४४) इत्युक्तरीत्या भगवतः तत्तदवतारा-नुगुणम् श्रियोऽनवतारे भगवते लीला न रोचत इत्याह –

यदि मनुजतिरश्चाम् लीलया तुल्यवृत्तेःअनुजनुरनुरूपा देवि ! नावातरिष्यः ।असरसमभविष्यत्रर्म नाथस्य मातः !दरदलदरविन्दोदन्तकान्तायताक्षि || ४८ ||      यदीति – दरदलदरविन्दस्य ईषद्विकसितपुण्डरीकस्य उदन्तो वृत्तान्तः तेन गर्भपत्रम् लक्ष्यते तत्कान्ते शोभमाने आयते विशाले अक्षिणी यस्यास्तस्याः सम्बुद्धिः । मातः जननि ! लीलया स्वेच्छया न तु कर्मणा, मनुजतिरश्चाम् मनुष्यतिर्यस्जन्तूनाम् इदमुपलक्षणम् सुरनर- तिर्यक्स्थावरशरीरचतुर्विधात्मनामपि तुल्यवृत्तेः रामकृष्णमत्स्यकूर्म-
कुब्जाम्रादिरूपेण समानशीलस्य नाथस्य श्रीरङ्गराजस्य अनुजनुः
प्रत्यवतारम् अनुरूपा रुक्मिण्यादिरूपेणानुरूपाकारा नावातरिष्यो यदि
नावतरसि चेत् नाथस्य तस्य नर्म *क्रीडा खेला च नर्म च*(अ.को.१-७-३२) इत्यमरः । असरसम् विरसम् अभविष्यत् । तदवतारानुरूपमवतीर्य त्वदभिनन्दने सत्येव तस्य तन्नर्म प्रीत्यै भवेत् न चेन्नेतिन् भावः || ४८ ||
सम्श्रितार्थ समुद्रमथनायासम् भजतो भगवतः श्रमापनयनाय समुद्रा- दाविर्भूतासीत्याह –

स्खलितकटकमाल्यैर्दोर्भिरर्ब्धि मुरारे:भगवति दधिमाथम् मथतः श्रान्तिशान्त्यै ।भ्रमदमृततरङ्गावर्ततः प्रादुरासीःस्मितनयनसुधाभिः सिञ्चती चन्द्रिकेव || ४९ ||
स्खलितेति – हे भगवति षड्गुणैश्वर्यसम्पन्ने । स्खलितानि प्रति- हतानि कटकानि वलयानि माल्यानि मालिका येषु तैर्दोर्भिः बाहुभिः
अब्धिम् क्षीरार्णवम् दधिमाथम् दधीव उपमानार्थे णमुल्प्रत्ययः । मध्नतो मथनम् कुर्वतः अमृतार्थमितिभावः । मुरारे: माधवस्य श्रान्ति-शान्त्यै श्रमापनयनाय स्मितनयनसुधाभिः स्मितम् मन्दहासः नयनान्य-वलोकनानि नयनशब्देन अवलोकितानि लक्ष्यन्ते । तान्येव सुधाः ताभिः सिञ्चती सती चन्द्रिकेव भ्रमदमृततरङ्गावर्ततः भ्रमताम् उल्लोलानाम् अमृततरङ्गाणाम् सुधावीचीनाम् आवर्ततो वलयात् तत्सारतयेति भावः । तदुक्तम् श्रीवत्साङ्कमिश्रैः – *उदधिगमन्दराद्रिमणिमन्थन लब्धपयोमधुर-रसेन्दिराह्वसुधसुन्दरदो: परिघम्*(सुं.बा.स्त.४) इति । प्रादुरासीः आवि-र्भूतासि । यथा – जगत् सुधाभिः सिञ्चती चन्द्रिका पयोधेराविर्भवति तथा भगवन्तम् स्मितनयनसुधाभिः सिञ्चती पयः – पयोध्युल्लुठत्सुधा- तरङ्गावर्तात् त्वमाविर्भूतासीति भावः || ४९ ||
अथ भगवत्क्षमाया अपि लक्ष्मीक्षमामतिशयितामुदाहृत्य महापराधि- नोऽस्मानानन्दयत्वित्याशास्ते –

मातर्मैथिलि ! राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वयारक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता ।काकम् तम् च विभीषणम् शरणमित्युक्तिक्षमौ रक्षतःसा नः सान्द्रमहागसस्सुखयतु क्षान्तिस्तवाकस्मिकी || ५० ||
मातरिति – हे मातः निरुपाधिकजननि मैथिलि ! कृपैकमूर्तितया
सीतावतारम् कुर्वाणे ! श्रीरङ्गेश्वरि ! त्वयि त्वद्विषये, तदैव हनूमदागम- नाव्यवहितपूर्वसमय एव, रावणस्य तदानीमेव नाशादिति भावः । तथै-वेति पाठे तथैव रामराहित्येनेत्यर्थः । रावणजीवनदशायाम् यथा तथैव तन्नाशदशायामपीति वार्थः । आर्द्रापराधाः रावणनाशापरिज्ञानाद्धनूम-दागमनपर्यन्तमविरतापराधाः । राक्षसीः एकाक्ष्यादिकाः । पवनात्मजात् तिर्यगुद्भूतात्स्वतो मर्कटात्, रक्षन्त्या पालयन्त्या एतेन बुद्धिशून्यत्वम् दुस्साधत्वम् च व्यञ्जितम् ।
काकम् काकासुरम्, तम् *विभीषणस्तु धर्मात्मा न तु राक्षस-चेष्टितः*(रा.आर.कां.१७-२३) इति प्रसिद्धविभीषणम् च । शरणमि-त्युक्तिक्षमौ *त्रीन्लोकान् सम्परिक्रम्य तमेव शरणम् गतः*(रा.सुं.कां.३८-३२) *त्यक्त्वा पुत्राम्श्च दाराम्श्च राघवम् शरणम् गतः*(रा.कि.कां.५३-१६) इति शरणवरणोक्तिक्षमौ । रक्षतः पालयतः, उभयोः शरणवरणम् रक्षणनिमित्तम् सूचितम् । *वध्यम् प्रपन्नम् न प्रतिप्रयच्छन्ति* इति श्रुतेः । रामस्य त्वत्प्रियस्य गोष्ठी परिषत्, लघुतरा लघीयसी कृता । रामो लघूकृत इति वक्तव्ये गोष्ठ्याम् तदुक्तिरपचारभिया रामस्य गुण-परिषद्वा । मन्दबुद्धेर्दुस्साध्यान्निर्निमित्तमार्दापराधरक्षणशीलया त्वया-निमित्तमपेक्ष्यरक्षतो रामस्य गुणगोष्ठीलघूकरणम् युक्तमिति तात्पर्यम् । सा आर्द्रापराधसहत्वरूपेण प्रसिद्धा । आकस्मिकी निर्हेतुका तव क्षान्तिः सान्द्रमहागसः निरन्तरमहापराधानस्मान् सुखयतु सुखिनः करोतु । सा क्षमैवास्माकमाश्वासहेतुरिति भावः । अत्र केचित् – *प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा*(रा.सु.कां.२७-४६, ५८-९०) इति श्रीरामायणवचनेन लक्ष्मीक्षमाया अपि प्रणिपातहेतुकत्वप्रतितेराकस्मिकत्वम् नास्तीति वदन्ति । तदापातप्रतीतिविलसितम्, तथा हि – कल्याणस्वप्नदर्शिन्या त्रिजटया मैथिल्याः श्रेयःकालः समागतस्तदेनाम् मा पीडयत प्रत्युत शरणम् गच्छत रावणे हतेपि युष्मानियम् रक्षिष्यतीत्युक्त्वा महापराध- कारिणीरस्मान्कथम् रक्षिष्यतीति तदाशङ्काम् *प्रणिपातप्रसन्ना हि
मैथिली*(रा.सुं.कां.२७-४६, ५८-९०) इत्यौचित्यात्स्वबुद्ध्यैव परिहृतवती । नतु प्रणिपातप्रसन्नता मैथिलीधर्मः । अत एव रावणवधानन्तरमपि
तद्वधापरिज्ञानेन हिम्समाना राक्षसीर्हनूमतो रक्षितवती । अत एव स्व-विषये महापराधम् काकासुरम् विमुखपतितम् भगवत्पादारविन्दयोर्जि-तवती, अतस्साधूक्तमेव क्षान्तिस्तवाकस्मिकीति । एतच्छङ्कापरिहारा-वस्मदुक्तश्रीगुणसुधासारलहरीस्तोत्रे प्रदर्शितौ – *तव क्षान्तिम् भट्टारक-गुरुरवादीत्तव नुतावकस्मादुद्भूतामिह जननि केचिज्जडधियः । प्रसन्ना हीत्युक्तेः प्रणिपतनतो मैथिलसुता सहेतुस्सापि स्यादिति जगदुरापात-मतितः । स्वबुद्ध्यैव प्रोक्तम् प्रणतसुमुखीति त्रिजटया न चैतद्धर्मस्ते नलिनदलनेत्रप्रियतमे । यदेकाक्षीप्रख्यायतबहुलहिम्सानवधिकप्रवृद्धार्द्रा गस्काः पवनतनयाद्रक्षितवति* || इति || ५० ||
अस्माकम् भगवदुद्देश्यत्वम् त्वत्सम्बन्धनिबन्धनम् । अतस्तद्दर्शन-तदाश्रयणतत्कैर्ङ्यकरणतज्जनितानन्दबाष्पादीन्यस्माकमुपपद्यन्त इत्याह –

मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयम्त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च ।जामाता दयितस्तवेति भवतीसम्बन्धदृष्ट्या हरिम्पश्येम प्रतियाम याम च परीचारान्प्रहृष्येम च || ५१ ||
मातरिति – हे मातः जननि ! ते तव मैथिलजनः यथा स्वीय इति शेषः । तेनाध्वना मार्गेण तद्वदित्यर्थः । वयमपि स्वीया इत्यर्थः । ततः किमित्यत्राह – त्वदिति । त्वद्दास्यैकरसाभिमानसुभगैः त्वद्दास्ये
त्वत्कैर्ङ्ये एकरसो मुख्यप्रीतिः त्वदभिमानेन भगवत्कैर्ङ्येऽपि त्वत्कै-र्ङ्यबुद्धेत्यर्थः । सुभगैः शोभनैः भावैः अभिप्रायैः । जामातेति जनकश्री-विष्णुचित्तयोरिति शेषः । मैथिलजनाभिप्रायेण जनकोक्तिः । अस्मदभि- प्रायेण श्रीविष्णुचित्तोक्तिः । तव दयित इति । भवती सम्बन्धदृष्ट्या भवत्यास्सम्बन्धज्ञानेन, *भूसत्तायाम्*(धा.पा.१) इति धातोः *लटः शतृ-शानचौ*(पा.सू.३-२-१२४) इति शत्रादेशे, *उगितश्च*(पा.सू.४-१-६) इति ङीपि भवतीति रूपम् । हरिम् श्रीरामम् श्रीरङ्गनायकम् च । इहामुत्र च लीलाविभूतौ नित्यविभूतौ च पश्येम सदा दर्शिनो भवेम । प्रतियाम शरणम् गच्छेम परीचारान् किङ्करवृत्ती: याम भजेम च प्रहृष्येम प्रकृष्टा-नन्दभावा भवेम, मैथिलजनः स्वप्रभुजनकजामातेति तव प्रिय इति च श्रीरामम् यथोपचरन्ति तथा प्रपन्नजनकूटस्थत्वत्पितृविष्णुचित्तजामा-तेति त्वत्प्रिय इति च श्रीरङ्गराजम् वयमुपचराम इति भावः || ५१ ||
*चन्द्रमा मनसो जातः*(ऋ.वे.८-४-१९) इत्युक्तरीत्या शीताशयेपि
भगवति यावत्कालमविच्छिन्नमहापराधान् अस्मानवलोक्य मनाङ्नि- ग्रहाभिमुखम् मनः कुर्वति सति तदनुचितमिति तम् ततः कर्मणो
निवर्त्त्य वात्सल्यातिशयात् त्वमस्मान् स्वजनयसीत्याह –

पितेव त्वत्प्रेयाञ्जननि परिपूर्णागसि जनेहितस्रोतोवृत्त्या भवति च कदाचित्कलुषधीः ।किमेतन्निर्दोषः क इह जगतीति त्वमुचितैःउपायैर्विस्मार्य स्वजनयसि माता तदसि नः || ५२ ||
पितेति – हे जननि श्रीः ! त्वत्प्रेयान् तव प्रियः श्रीरङ्गराजः परि- पूर्णागसि सम्पूर्णापराधे जने चेतनवर्गे पितेव पुत्र इति शेषः । हितस्रोतो- वृत्त्या तत्कालाप्रियम् पथ्यपर्यवसायि च हितम् तदेव स्रोतः प्रवाहः तत्र वृत्त्या वर्तनेन हितैकपरत्वादित्यर्थः । *याचितोपि सदा भक्तैर्नाहितम् कारयेद्धरिः* इत्युक्तेः । कदाचित् कदापि सन्ततमनुकूल एव सन् महा-पराधदर्शनेन कदापि समये कलुषधीः कुपितमनाः भवति च भवत्यपि न तु कुपितमनस्त्वम् तस्य नैजमिति भावः । तद्दर्शिन्याः श्रियो व्यापार-माह – किमेतदिति । एतत् इदम् कालुष्यम् किम् किम् निबन्धनम्
अनुचितमित्यर्थः । अनुचितत्वमुपपादयति – निर्दोष इति । इह दोषै-काश्रये जगति लीलाविभूतौ निर्दोषः कः? न कोपीत्यर्थः । एतद्विभूति-सम्बन्धेन हेयप्रतिभटस्य तवापि दोषः प्रसज्येदिति भावः । अतो दोष-दर्शनेन तव मनःकालुष्यम् न युक्तमित्येवम् प्रकारेण उचितैः अपराध-क्षमापणयोग्यैः उपायैः आलोकालाप नीवीश्लथनादिभिः विस्मार्य तस्य दोषादर्शित्वमापाद्य नः अस्मान् स्वजनयसि भगवतस्स्वत्वाभिमान-गोचरान्करोषि । तत् तस्मात्कारणात् प्रियैकपरतयेत्यर्थः । त्वम् मातासि पितुर्हितपरत्वम् मातुः प्रियपरत्वम् च सुप्रसिद्धम् युवयोर्दृष्टमिति भावः || ५२ ||
*परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् । धर्मसम्स्थापनार्थाय
सम्भवामि युगे युगे*(भ.गी.४-८) । *अन्येषु चावतारेषु विष्णोरेषान- पायिनी*(वि.पु.१-९-१४४) इति प्रमाणद्वयोक्तप्रकारेण सम्श्रितरक्षणाय श्रीश्रीशौ कृपास्वातन्त्र्याभ्याम् हेतुभ्याम् लीलाविभूताववतीर्य सुकुमार- वपुर्ग्लपनविरहक्लेशादिकमनुभूतवन्तावत एतत्कृपास्वातन्त्र्ये धिगिति
तद्विग्रहप्रेमपारवश्यादाह –

नेतुर्नित्यसहायिनी जननि नस्त्रातुम् त्वमत्रागतालोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्दम् बहु ।क्लिष्टम् ग्रावसु मालतीमृदुपदम् विश्लिष्य वासो वनेजातो धिक्करुणाम् धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् || ५३ ||
नेतुरिति – हे जननि ! श्रीः नेतुर्नायकस्य नित्यसहायिनी त्वम्,
नः अस्मान् अकिञ्चनात् त्वत्स्थलासन्निहितान् वा त्रातुम् रक्षितुम्
त्वन्महिमावबोधबधिरे त्वद्वैभवज्ञानशून्ये अत्र लोके लीलाविभूतौ आगता समवतीर्णा सती बहु अधिकम् विमर्दम् आयासम् प्राप्ता गतवती ।
आयासप्राप्तिमुपपादयति – क्लिष्टमिति । मालतीमृदु जातिकुसुम-
सुकुमारम् पदम् पदद्वयम् । ग्रावसु पाषाणेषु क्लिष्टम् क्लेशम् प्राप्तवत् । वने विश्लिष्य विरहम् प्राप्य वासो जातः वर्तनम् जातम् नित्यानपायिनोः युवयोः पृथग्वर्तनम् जातम् । अत्यङ्कुशाम् अमर्यादाम् विग्रहसौकुमार्य-विरोधिनीम् युवयोः करुणाम् प्रति धिगस्तु निन्दा भवतु । अत्यङ्कुशम् स्वातन्त्र्यम् च प्रतिधिगस्तु निन्दा भवतु तदुभयप्रयुक्तत्वादुभयोरेतादृश-क्लेशस्येतिभावः । सुकुमारभगवद्दिव्यमङ्गलविग्रहप्रेमपारवश्यात् धिक् करुणाम् धिक्स्वातन्त्र्यमिति स्तोतुस्तदुभयनिन्दा युक्तैवेति मन्तव्यम् || ५३ ||
सम्श्रितरक्षणोपयुक्तम् श्रियः स्वाधीनपतिकात्वमाह –

अधिशयितवानब्धिम् नाथो ममन्थ बबन्ध तम् हरधनुरसौ वल्लीभञ्जम् बभञ्ज च मैथिलि ! |अपि दशमुखीम् (खम्) लूत्वा रक्षःकबन्धमनर्तयत्किमिव न पतिः कर्ता त्वञ्चाटुचुञ्चुमनोरथः || ५४ ||
अधीति – हे मैथिलि ! सीतावतारभेदानुसन्धानेन श्रीरङ्गनायक्या
मैथिलीति सम्बोधनम् । असौ नाथः त्वत्प्रियः त्वञ्चाटुचुञ्चुमनोरथः सन् त्वच्चादुना त्वत्प्रियाचरणेन वित्तः सम्पन्नो मनोरथो यस्य स तथोक्तस्सन् । *तेन वित्तश्चञ्चुप्चणपौ*(पा.सू.५-२-२६)इति चुञ्चुप्प्रत्ययः । अब्धिमधि अब्धौ, *अधिशीङ्स्थासाम् कर्म*(पा.सू.१-४-४६) इति सप्त-म्यर्थे द्वितीया । शयितवान् शयनम् कृतवान् त्वज्जननभवनप्रीत्येति भावः । तम् अब्धिम् ममन्थ मथितवान् । बबन्ध च सेतुना बद्धवाश्च । हरधनुः शिवकोदण्डम् वल्लीभञ्जम् वल्लीमिव, उपमानार्थे णमुल्प्रत्ययः । बभञ्ज च भङ्गम् कृतवाम्श्च । दशमुखीम् (खम्) दशानाम् मुखानाम् समाहारम् दशापि मुखानीत्यर्थः । लूत्वा रक्षःकबन्धम् रावणशरीरम् अनर्त्तयदपि नर्त्तितवाम्श्च, अपिश्चार्थः । रणरङ्ग इति शेषः । सर्वत्र त्वल्लाभायेति योज्यम् ।
अब्धिशयन-तन्मथन-हरधनुर्भजन-अब्धिबन्धन-रक्षःकबन्ध-नर्त्त- नानाम् क्रमेण वक्तव्यत्वेपि *अत्यन्तभक्तियुक्तानाम् शास्त्रम् न च क्रमः* इति प्रमाणानुसारेण भक्त्यतिशयादत्र क्रमो नानुसम्हितः। न परमिदमेव किन्त्वशक्यमपि कुर्यादित्याह – किमिवेति । पतिस्त्वत्प्रियः किमिव न कर्त्ता किम् वा न कुर्यात् इवशब्दो वार्थः । अघटितम् सर्वमपि कुर्यादे-वेत्यर्थः । अत एवोक्तम् हनूमता *यदिरामस्समुद्रान्ताम् मेदिनीम्
परिवर्त्तयेत् । अस्या हेतोर्विशालाक्ष्या युक्तमित्येव मे मतिः*(रा.यु.कां.१६-१३) इति । कर्तेति *डुकृञ् करणे*(धा.पा.१४७३) इति धातोः कर्तरि
लुट् || ५४ ||
भगवतस्सर्वप्रकारविभवोऽपि लक्ष्मीविलासलवानुभवे न पर्याप्त इत्याह –

दशशतपाणिपादवदनाक्षिमुखैरखिलैःअपि निजवैश्वरूप्यविभवैरनुरूपगुणैः ।अवतरणैरतैश्च रसयन्कमिता कमलेक्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते || ५५ ||
दशशतेति – हे कमले! ते तव कमिता नायको हरिः *सहस्रशीर्षा
पुरुषः*(पु.सू-१) *अनन्तबाहूदरवकत्रनेत्रम्*(भ.गी.११-१६) इति श्रुतिस्मृत्यु-क्तप्रकारेण दशशतानि सहस्रसङ्ख्याः पाणयो हस्ताः पादाश्चरणाः वदनानि मुखानि अक्षीणि नयनानि मुखानि आदीनि येषाम् तैस्तथोक्तैः अनुरूप- गुणैः त्वद्गुणानुरूपैः अखिलैः अन्यूनैः निजवैश्वरूप्यविभवैः निजम्
स्वकीयम् नित्यम् वा *निजम् नित्ये स्वके त्रिषु* इत्यमरः (अ.को.३-३-३२) । विश्वरूपमेव वैश्वरूप्यम् विश्वरूपसम्बन्धि वा तस्य विभवैः अति-शयैरपि, अपिश्चार्थः । अतैः तद्भिन्नैः – वैश्वरूप्यविभवभिन्नैरित्यर्थः । अवतरणैः वासुदेवादिचातुर्व्यूहविरिञ्चिगिरीशमध्यवर्तिविष्णूपेन्द्रमत्स्य-कूर्मादिरूपैश्च रसयन् अनुभवन् त्वद्विभ्रममिति शेषः । क्वचन च क्वापि
समुद्रे तुषारवदेकदेश इत्यर्थः । विभ्रमभ्रमिमुखे विलासावर्तगह्वरे विनिम-ज्जति निमग्नो भवति । न त्वेकदेशमपि प्रयातीत्यर्थः । विनिपूर्वात् *टुमस्जो शुद्धौ*(धा.पा.११७७) इत्यस्माद्धातोः सस्य जश्त्वेन दत्वे श्चुत्वे
विनिमज्जतीति रूपम् || ५५ ||
श्रियो दुग्धार्णवपरमपदश्रीरङ्गेषु नित्यवासे हेतुमाह –

जननभवनप्रीत्या दुग्धार्णवम् बहुमन्यसेजननि दयितप्रेम्णा पुष्णासि तत्परमम् पदम् ।उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षण-क्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे || ५६ ||       जननेति – हे जननि श्रीरङ्गेश्वरि ! जननभवनप्रीत्या जन्मगृह- प्रणयेन दुग्धार्णवम् क्षीराब्धिम् बहुमन्यसे मानयसि, तत्र वासम्
विधत्स इत्यर्थः । बहुपूर्वाद्दिवादिपठितात् *मन ज्ञाने*(धा.पा.११७६)
इत्यस्माद्धातोः *दिवादिभ्यः श्यन्*(पा.सू.३-१-६९) इति श्यन्प्रत्यये
बहुमन्यसे इति लण्मध्यमपुरुषैकवचनम् । तत् प्रसिद्धम् *तद्विष्णोः
परमम् पदम्*(ऋ.वे.१-२-७) इति वेदान्तविदितम् परमम् पदम् परम-व्योम दयितप्रेम्णा प्रियप्रीत्या प्रियगृहप्रीत्येत्यर्थः । पुष्णासि पोषयसि तत्र सान्निध्यम् कुरुष इत्यर्थः । *पुष पुष्टौ*(धा.पा.१५३०) इति धातोः
परस्मैपदपठितात् श्नाप्रत्यये पुष्णासीति रूपम् । उदधिपरमव्योम्नोः
दुग्धार्णवपरमपदयोः विस्मृत्य विस्मरणम् कृत्वा तत्रस्थानाम् नित्यम्
सन्निहितेयमिति बुद्धिमुत्पाद्येत्यर्थः । *अधीगर्थदयेशाम् कर्मणि*(पा.सू. २-५-५२) इति कर्मणि षष्ठी । मादृशरक्षणक्षममिति घिया मादृशा- किञ्चिनपालनयोग्यमिति बुद्ध्या भूयः पुनरतिशयेन वा श्रीरङ्गधामनि श्रीरङ्गनगरे दिव्यविमाने वा मोदसे मोदम् भजसि । अत्र दुग्धार्णवम् बहुमन्यसे परमपदम् पुष्णासीत्युक्त्या श्रीरङ्गराजधामनि मोदसे इत्या-नन्दभजनोक्त्या सम्श्रितरक्षणोपयुक्तत्वेन श्रीरङ्गधाम्नस्तदुभयतोप्या-नन्दावहत्वव्यतिरेको व्यज्यत इति व्यतिरेकालङ्कारध्वनिः वाक्यगतो द्रष्टव्यः || ५६ ||
*अर्चावतारविषये मयाप्युद्देशतस्तव । उक्ता गुणा न शक्यन्ते वक्तुम् वर्षशतैरपि’ । (विष्व.सं.) इत्युक्तप्रकारेण सर्वावतारापेक्षया श्रियः श्रीरङ्ग- धामन्यर्चावतारे सर्वगुणानामतिशयितत्वमाह –

औदार्यकारुणिकताश्रितवत्सलत्व-पूर्वेषु सर्वमतिशायितमत्र मातः ।श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्तिसीतावतारमुखमेतदमुष्य योग्या || ५७ ||
औदार्येति – हे मातः ! श्रीरङ्गेश्वरि ! औदार्यकारुणिकताश्रित-
वत्सलत्वपूर्वेषु औदार्य स्वार्थनैरपेक्ष्येण परेष्टप्रापकत्वम्, कारुणिकता परदुःखासहिष्णुत्वम्, आश्रितवत्सलत्वम् आश्रितदोषभोग्यत्वम्, तानि पूर्वाणि प्रधानानि येषाम् तेषु गुणेष्विति शेषः । सर्वम् गुणजातम् श्रीरङ्गधाम्नि श्रीरङ्गनगरे दिव्यविमाने वा, अत्र त्वदीयार्चावतारे अति-शायितम् अतिशयम् प्राप्तम् । मातर्मैथिलीत्यादिना सीतावतारे क्षमादया-द्यतिशयवर्णनादत्र कथम् ततोप्यतिशय इत्यत्राह – यदुतेत्यादिना । अन्यत् अर्चावतारादितरत् सीतावतारमुखम् सीतावतारप्रभृत्यवतारम् अतिशयितगुणमुदाहरन्तीति यदेतत् अमुष्यार्चावतारस्य योग्यम् अभ्यासः । सर्वावतारेषु कारुण्यादिगुणव्यसनेन सर्वगुणातिशयवान्
अयमर्चावतारः परिणत इति भावः || ५७ ||
श्रियो वाङ्मनसागोचरमौदार्यम् वर्णयति –

ऐश्वर्यमक्षरगतिम् परमम् पदम् वाकस्मैचिदञ्जलिभरम् वहते वितीर्य ।अस्मै न किञ्चिदुचितम् कृतमित्यथाम्बत्वम् लज्जसे कथय कोयमुदारभावः || ५८ ||      ऐश्वर्यमिति – हे अम्ब श्रीरङ्गेश्वरि ! अञ्जलिभरम् अञ्जलिमेव
करतलयुगलयोजनमेव भरम् त्वदभिप्रायेण गुरुतरभारम् वहते, न तु
तदधिकतया किञ्चिदस्तीतिभावः । कस्मैचित् कुलगोत्रवृत्तिशून्याय
जन्तवे ऐश्वर्यम् ऐहलौकिकम् पारलौकिकम् च अक्षरगतिम् कैवल्यम् परमम् पदम् परमपुरुषार्थलक्षणभगवत्कैङ्कर्यम् वा, वा शब्दश्चार्थः कैङ्कर्यम् चेत्यर्थः । अथ कार्त्स्न्येन वितीर्य दत्त्वा अस्मै अञ्जलिभर-वाहिने उचितम् तद्भारवहनानुगुणम् किञ्चित् किमपि न कृतमिति नोपकृतमिति त्वम् लज्जसे व्रीडाविनम्रवदनासि । *ओलजी व्रीडायाम्* (धा.पा.११४०) इति धातोर्लडात्मनेपदमध्यमपुरुषैकवचनम् । अयमुदार-भावः कः लोकविलक्षणो वाचामगोचरवैभवश्चेत्यर्थः ॥ ५८ ॥
इतः परम् श्लोकद्वयेन स्वनैच्यमनुसन्धत्ते-

ज्ञानक्रियाभजनसम्पदकिञ्चनोह-मिच्छाधिकारशकनानुशयानभिज्ञः ।आगाम्सि देवि युवयोरपि दुस्सहानि बध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥ ५९ ॥
ज्ञानेति – हे देवि! *अर्थे समर्थो विद्वान्* इत्युक्तेः इच्छाधिकार-
शकनानुशयानभिज्ञः इच्छा पुरुषार्थस्पृहा, अधिकारो नियोज्यत्वम्,
शकनम् कर्मानुष्ठानसामर्थ्यम्, अनुशयो विहिताकरणकृतानुतापः तेषाम्
अनभिज्ञः, अत एव ज्ञानक्रियाभजनसम्पदकिञ्चनः ज्ञानम् ज्ञानयोगः,
क्रिया कर्मयोगः, भजने भक्तिप्रपत्ती ता एव सम्पदैश्वर्य तेनाकिञ्चनो
दरिद्रोऽहम् युवयोरपि अपराधैकोपहारयोर्भवतोरपि दुःसहानिसोढुम-शक्यानि आगाम्सि भगवदपचार- भागवतापचार- असह्यापचाररूपाणि बध्नामि समूहरूपेण सञ्चिनोमि, न केवलम् त्वद्विषयानुकूल्याभावः प्रातिकूल्यपरिपूर्णश्चास्मीत्याशयः । ततः किमित्यत्राह – मूर्खेति । मूर्खचरितो बालिशव्यापारः, इदम् हेतुगर्भविशेषणम् । मूर्खचरितत्वादहम् वात्सल्यातिशयभाजोपि तव दुर्भरोऽस्मि सोढुमशक्यो भवामि । रक्षण-विषयो नास्मीत्यर्थः || ५९ ||
उक्तम् नैच्यमपि पूर्वाचार्यनैच्यानुकरणमात्रम् न मनःपूर्वकम् ततो
निर्हेतुककृपयैव त्वम् शरणमसीत्याह –

इत्युक्तिकैतवशतेन विडम्बयामितानम्ब सत्यवचसः पुरुषान्पुराणान् ।यद्वा न मे भुजबलम् तव पादपद्म-लाभे त्वमेव शरणम् विधितः कृतासि || ६० ||
इत्युक्तीति – हे अम्ब श्रीरङ्गेश्वरि ! इति पूर्वोक्तप्रकारेण एतत्स- जातीयतया वा उक्तिकैतवशतेन कपटनैच्यवचनसहस्रेण तान् भगव- न्निर्हेतुककटाक्षैकलब्धविशदतमज्ञानतया प्रसिद्धान् सत्यवचसो यथार्थ- वाचः, प्रामाणिकानित्यर्थः । पुराणान् पूर्वाचार्यान् पराङ्कुशपरकालयामुन- यतिवरादीन् विडम्बयामि अनुकरोमि *न धर्मनिष्ठोऽस्मि*(स्तो.र.२२) ‘*मनोवाक्कायैः*(वै.स्त.८८) *सत्कर्म नैव किल किञ्चन सञ्चिनोमि* (श.ग.१०) इत्यादि तत्तन्नैच्यानुसन्धानवदहमपि नैच्यानुसन्धानम्
करोमीत्यर्थः । पराङ्कुशादिनैच्यानुसन्धानम् भाषान्तरत्वान्न सूचितम् । तन्नैच्यानुकरणमात्रेण मद्रक्षणम् कार्यमित्याशयः । रक्षणे हेत्वन्तर-माह – यद्वेति । यद्वा नो चेत् तव पादपद्मलाभे त्वञ्चरणारविन्दसम्प्राप्तौ मे भुजबलम् न मत्सामर्थ्यसाध्यम् किञ्चिदपि नास्ति । किन्तु विधितः
त्वन्निर्हेतुककृपया *ईशेशितव्यसम्बन्धादनिदम् प्रथमादपि*(ल.तं.१७-७०) इत्युक्तनिरुपाधिकेशेशितव्यसम्बन्धनियतेर्वा त्वमेव शरणम् उपायः
कृतासि । विधितः कुतोपीति पाठे निर्हेतुकादित्यर्थः । तदा शरणमित्य- नन्तरमिति शेषः । विधिशब्दः कृपावाचित्वेन श्रीपराङ्कुशैः द्रविडोपनिष- त्पञ्चमशतकाद्यगाथातृतीयचरणे प्रयुक्तः व्याख्यातश्च तथा कलिमथन- देशिकैः || ६० ||
दृष्टादृष्टे उभे अपि श्रीमुखतः प्रार्थयन् स्तोत्रम् परिसमापयति –

श्रीरङ्गे शरदः शतम् सह सुहृद्वर्गेण निष्कण्टकम्निर्दुःखम् सुसुखम् च दास्यरसिकाम् भुक्त्वा समृद्धिम् पराम् ।युष्मत्पादसरोरुहान्तररजस्स्याम त्वमम्बा पितासर्वम् च धर्ममपि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् || ६१ ||
श्रीरङ्ग इति – हे श्रीरङ्गेश्वरि ! श्रीरङ्गे दिव्यनगरे शतम् शरदः
*शतायुः पुरुषः*(कठ.उ.१-२३) इति श्रुत्युक्तप्रकारेण शतमपि वत्सरान्
*कालाध्वनोरत्यन्तसम्योगे द्वितीया* । (पा.सू.२-३-५) सुहृद्वर्गेण सह पुत्रपौत्रबन्धुशिष्यप्रशिष्यादिभिः समम् निष्कण्टकम् निरुपद्रवम् निर्दुःखम् दुःखासम्स्पर्श सुसुखम् सुतराम् सौख्यम् च यथा भवति तथा दास्यरसिकाम् त्वत्कैङ्कर्यरसज्ञाम् पराम् सर्वोत्कृष्टाम् समृद्धिम् श्रीरङ्ग-श्रियम् भुक्त्वा अनुभूय, एवम् दृष्टमुक्त्वा अदृष्टमाशास्ते – युष्मदिति । युष्मत्पादसरोरुहान्तररजः युवयोः पादपद्मगर्भरेणुः स्याम भवेम, युष्मञ्च-रणकमल-कैङ्कर्यैकभोगा भवेमेत्यर्थः । एवम् श्रियो दृष्टादृष्टप्रदाने हेतु-माह – त्वमित्यादिना । त्वमम्बा त्वमेव माता, त्वमेव पिता, त्वमेव जनकः, अब्भक्षो वायुभक्ष इतिवत् त्वमित्यवधारणगर्भः, त्वमेव भव इत्युपरितन एवकारो वानुकृष्यते । सर्वविधोपि बन्धुस्त्वमेवेत्यर्थः । ननु मम सर्वबन्धुत्वेपि मत्प्राप्त्युपायाननुष्ठाने तव कथम् मत्प्राप्तिसिद्धिरित्यत आह – सर्वमिति । त्वमेव नः अस्माकम् सर्वमपि धर्ममलौकिकश्रेयः- साधनम् कर्मज्ञानभक्तिप्रपत्त्यादिकम् भव । *स्याद्धर्ममस्त्रियाम् पुण्यम्* इत्यमरः (अ.को.१-४-२४) । सर्वधर्मस्थाने पुरुषकारतया त्वमेव स्थित्वा सिद्धोपायेन भगवता मदिष्टम् प्रापयेत्याशयः । त्वयि गुणलेशाभावे कथम् मम तथा भाव इत्यत आह – स्वीकुर्विति । अकस्मात्कृपाम्
निर्हेतुकदयाम् स्वीकुरु अङ्गीकुरुष्व । मद्गुणलवनिरीक्षणे कृपाया निर्हेतुकता न सिध्येदिति तदनपेक्षमेव माम् रक्षेति भावः || ६१ ||

|| इति श्रीवत्सकुलतिलकस्य वीरराघवाचार्यस्य कृतिषुश्रीगुणरत्नकोशव्याख्यानम् ||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.