[highlight_content]

श्रीभाष्यम् 03-01-01 तदन्तरप्रतिपत्त्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये

तृतीयः साधनाध्यायः  ॥3 ॥

(अधिकरणानि – 55, सूत्राणि 182)

(अध्यायार्थः – परमकारण-परमपुरुषार्थभूतब्रह्मणः प्राप्त्युपायतया वेदान्तनिहितानां विद्यानां चिन्तनम्)

 प्रथम: वैराग्यपादः 3-1

(अधिकरणानि – 6, सूत्राणि – 27)

(पादार्थः – संसारचक्रे परिवर्तमानस्य जीवस्य जाग्रदवस्थाशेषभूतानां अपुरुषार्थभूतानां दोषाणां चिन्तनम्)

 तदन्तरप्रतिपत्त्यिधकरणम्॥

(पञ्चाग्निविद्याविषयम् – छा.उ.5-3-10)

(अधिकरणार्थः – देहाद्देहान्तरं गच्छतां जीवानां गतागती देहारम्भहेतुभिः भूतसूक्ष्मैः सहैव)

२८८. तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम् ॥ ३–१–१ ॥

(सङ्गत्यर्थं पूर्वोत्तरद्विकार्थ (सिद्ध-साध्य) सङ्क्षेपः)

अतिक्रान्ताध्यायद्वयेन निखिलजगदेककारणं निरस्तनिखिलदोषगन्धमपरिमितोदार-गुणसागरं सकलेतरविलक्षणं परं ब्रह्म मुमुक्षुभिरुपास्यतया वेदान्ता: प्रतिपादयन्तीत्ययमर्थ: स्मृतिन्याय-विरोधिपरिहारपरपक्षप्रतिक्षेपवेदान्तवाक्यपरस्परविरोधपरिहाररूपकार्यस्वरूपसंशोधनै: तद्दुर्धर्षणत्वहेतुभिस्सह स्थापित:; अतोऽध्यायद्वयेन ब्रह्मस्वरूपं प्रतिपादितम्  ॥

उत्तरेणेदानीं तत्प्राप्त्युपायैस्सह प्राप्तिप्रकारश्चिन्तयितुमिष्यते  ॥

(तृतीयाध्यायार्थसंक्षेपः)

तत्र तृतीयाध्याये उपायभूतोपासनविषया चिन्ता वर्तते। उपासनारम्भाभ्यर्हितोपायश्च प्राप्यवस्तुव्यतिरिक्तवैतृष्ण्यम्, प्राप्यतृष्णा चेति;  तत्सिद्ध्यर्थं जीवस्य लोकान्तरेषु सञ्चरतो जाग्रतस्स्वपतस्सुषुप्तस्य मूर्च्छतश्च दोषा:, परस्य च ब्रह्मणस्तद्रहितता, कल्याणगुणाकरत्वं च प्रथमद्वितीययो: पादयो: प्रतिपाद्यन्ते  ॥

(प्रकृताधिकरणीयः संशयः)

तत्र देहाद्देहान्तरं गच्छन्नयं जीवो देहान्तरारम्भहेतुभिर्भूतसूक्ष्मैस्सम्परिष्वक्त एव गच्छति, उत नेति चिन्तायाम् –

(सयुक्तिकः पूर्वः पक्षः)

यत्र यत्र जीवो याति; तत्र तत्र भूतसूक्ष्माणां सुलभत्वादसम्परिष्वक्तो यातीति प्राप्तम्। पश्चादपि पूर्वपक्षबीजान्युपन्यस्य निरसिष्यति॥

(सूत्रतः सिद्धान्तस्वरूपवर्णनम्)

तत्र सिद्धान्तमाह  – तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्त:- इति। संज्ञामूर्तिकॢप्ति:  (ब्र.सू. २.४.१७) इति मूर्तिशब्देन देह: प्रस्तुत:; स तच्छब्देन परामृश्यते । तदन्तरप्रतिपत्तौ – देहान्तरगमने भूतसूक्ष्मैस्सम्परिष्वक्तो जीवो रंहति – गच्छतीत्यर्थ:।

कुत:? प्रश्ननिरूपणाभ्यां – प्रश्नप्रतिवचनाभ्याम्।

(सूत्रोपात्तयोः प्रश्न-प्रतिवचनयोः निरूपणम्)

पञ्चाग्निविद्यायामेवं प्रश्नप्रतिवचने आम्नायेते – श्वेतकेतुं किलारुणेयं पाञ्चाल: प्रवाहण: कर्मिणां गन्तव्यदेशं, पुनरावृत्तिप्रकारं, देवयानपितृयाणपथव्यावर्तने, अमुष्य लोकस्याप्राप्तारं च वेत्थेति पृष्ट्वेदमपि पप्रच्छ – वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो  भवन्ति (छां. ५.३.३) इति। तत इमं पश्चिमं प्रश्नं प्रतिब्रुवंश्च द्युलोकमग्नित्वेन रूपयित्वा  तस्मिन्नेतस्मिन्नग्नौ देवा: श्रद्धां जुह्वति तस्या आहुतेस्सोमो राजा सम्भवति (छा.५.४.२) इत्यादिना – देवाख्या: जीवस्य प्राणा:  अग्नित्वेन रूपिते द्युलोके श्रद्धाख्यं वस्तु प्रक्षिपन्ति; सा च श्रद्धा सोमराजाख्यामृतमयदेहरूपेण परिणमते; तं चामृतमयं देहं त एव प्राणा: पर्जन्येऽग्नित्वेन रूपिते प्रक्षिपन्ति; स च देहस्तत्र प्रक्षिप्तो वर्षं भवति; तच्च वर्षं त एव प्राणा: पृथिव्यामग्नित्वरूपितायां प्रक्षिपन्ति; तच्च तत्र प्रक्षिप्तमन्नं भवति; तच्चान्नं त एव पुरुषेऽग्नित्वरूपिते प्रक्षिपन्ति; तच्च तत्र रेतो भवति; तच्च त एव योषायामग्नित्वरूपितायां प्रक्षिपन्ति; तच्च तत्र प्रक्षिप्तं गर्भो भवतीत्युक्त्वा आह –  इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो  भवन्ति (छा.५.९.१) इति । एवं पञ्चम्यामाहुतौ हुतायामाप: पुरुषशब्दाभिलप्या भवन्तीत्यर्थ: ॥

(उक्तार्थसिद्धेर्निगमनम्)

एवमुक्ते – पूर्वास्वप्याहुतिष्वनुवर्तमानानामेवापां सूक्ष्मरूपाणामिदानीं पुरुषाकारत्वं भवतीत्युक्तं भवति। अत एवं प्रश्नप्रतिवचनाभ्यां देहहेतुभूतैर्भूतसूक्ष्मैस्सह तत्र  तत्रयातीति गम्यते॥१॥

(अद्भिः परिष्वङ्गवचसः सर्वभूतसूक्ष्मपरिष्वङ्गपरता)

ननु  आप: पुरुषवचस: (छा.५.९.१) इत्युक्ते अपां पुरुषाकारपरिणामप्रतीतेर्गच्छता जीवेन तासामेव परिष्वङ्ग: प्रतीयते; अत: कथं सर्वेषां भूतसूक्ष्माणां परिष्वङ्ग इति; तत्राह –

२८९. त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ ३–१–२ ॥

तुशब्दश्चोद्यं व्यावर्तयति। देहारम्भकाणामपां केवलानां न देहारम्भसम्भव: देहाद्यारम्भाय हि तासां त्रिवृतं त्रिवृतमेकैकामकरोत् (छा.६.३.३) इति त्रिवृत्करणम्। केवलानामपां श्रवणं तु तासां भूयस्त्वात्। देहे च लोहितादिभूयस्त्वेनारम्भकेष्वपां भूयस्त्वं गम्यते॥२॥

(प्राणगतिश्रवणान्यथानुपपत्त्याऽपि भूतसूक्ष्मपरिष्वङ्गसिद्धिः)

२९०. प्राणगतेश्च॥ ३–१–३ ॥

इतश्च भूतसूक्ष्मपरिष्वक्तस्य गमनमिति गम्यते। उत्क्रामति जीवे प्राणानां तदनुगतिश्श्रूयते – तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति (बृ. ६.४.२) इति। स्मर्यते च  मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति। शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वर: गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् (भ.गी.१५.७) इति। न च निराश्रयाणां गतिरुपपद्यत इति तदाश्रयभूतानां भूतसूक्ष्माणामपि गतिरभ्युपगन्तव्या ॥३॥

(वागादीनां प्राणानां अग्न्याद्यप्ययश्रुतेर्गौणतया निर्वाहः)

२९१. अग्न्यादिगतश्रुतेरिति चेन्न भाक्तत्वात् ॥ ३–१–४ ॥

यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति, वातं प्राणश्चक्षुरादित्यम् (बृ.५.२.१३) इत्यादिना प्राणानां जीवमरणकाले अग्न्यादिष्वप्ययश्रवणान्न तेषां जीवेन सह गमनमिति गतिश्रुतिरन्यथा नेयेति चेत् – न, भाक्तत्वात् अग्न्यादिष्वप्ययश्रवणस्य। कथं भाक्तत्वम्?  ओषधीर्लोमानि वनस्पतीन् केशा: (बृ.५.२.३) इत्यनपियद्भिर्लोमादिभिस्सह श्रवणात्। अतश्चक्षुराद्यप्ययश्रुतिः अधिष्ठातृदेवतापक्रमणपरा ॥४॥

(प्रथमहोमे अपाम् अश्रवणशङ्का, श्रद्धाशब्देन अपामभिधानात्परिहारश्च)

२९२. प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते: ॥ ३–१–५ ॥

यदुक्तमद्भिस्सूक्ष्माभिर्भूतान्तरसंसृष्टाभि: परिष्वक्तो जीवो गच्छतीति प्रश्नप्रतिवचनाभ्यामवगम्यत इति; तन्नोपपद्यते, द्युलोकाग्निविषये प्रथमे होमे अपां होम्यत्वाश्रवणात्।  तस्मिन्नेतस्मिन्नग्नौ देवा: श्रद्धां जुह्वति (छा.५.५.२) इति श्रद्धैव होम्यत्वेन श्रुता। श्रद्धा नाम जीवस्य मनोवृत्तिविशेषत्वेन प्रसिद्धा । अतो नापस्तत्र होम्या इति चेत् – न, यत: ता: आप एव श्रद्धाशब्देन तत्राभिधीयन्ते; कुत:? प्रश्नप्रतिवचनोपपत्ते: ॥

(प्रश्न-प्रतिवचनयोरुपादानम्)

            वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो  भवन्ति (छां.५.३.३) इति प्रश्नस्य प्रतिवनचोपक्रमे हि श्रद्धा द्युलोकाग्नौ होम्यत्वेन श्रुता; तत्र यदि श्रद्धाशब्देनापो नोच्येरन्; ततोऽन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्यसङ्गतं स्यात्।  इति तु पञ्चम्यामाहुतावाप: पुरुषवचस: (छा.५.९.१) इति प्रतिवचननिगमनं च श्रद्धाया अप्त्वमेव सूचयति।  वेत्थ यथा (छा. ५-३-३) इति हि प्रश्नगत: प्रकार:  इति तु पञ्चम्याम् (छां.५.३.३) इतीतिशब्देन परिहारे निगम्यते। श्रद्धासोमराजवर्षान्नरेतोगर्भरूपेणापां परिणाममुक्त्वा ह्येवमाप: पुरुषवचस इति निगम्यते।

(श्रद्धाशब्दस्य अप्परत्वोपपत्तिः)

श्रद्धाशब्दस्य चाप्सु वैदिकप्रयोगो दृश्यते –  अप: प्रणयति श्रद्धा वा आप: इति।  श्रद्धां जुह्वति (तै.ब्रा.२.४.३३) तथा आहुतेस्सोमो राजा सम्भवति (छां.५.४.२) इति सोमाकारेण परिणामश्चापामेवोपपद्यते। अतो भूतान्तरसंसृष्टाभिरद्भिस्सम्परिष्वक्तो जीवो रंहतीत्युपपन्नम् ॥५॥

(श्रुतौ जीवस्याश्रवणात् अप्परिष्वक्तजीवगमनासिद्धिशङ्का-परिहारौ)

२९३. अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते: ॥ ३–१–६ ॥

यत्पुनरुक्तमद्भिस्संपरिष्वक्तो जीवो यातीत्ययमर्थ एतस्माद्वाक्यादवगम्यत इति; तन्नोपपद्यते,  अस्मिन्वाक्ये जीवस्याश्रवणात् । अत्र हि श्रद्धादय एवावस्थाविशेषा होम्यत्वेन श्रुता:; न तु जीवस्तत्परिष्वक्त इति चेत् – तन्न, इष्टादिकारिणां प्रतीते: – अस्मिन्नेव वाक्ये ह्युत्तरत्र ब्रह्मज्ञानविधुरेष्टापूर्तदत्तकारिणो द्युलोकं प्राप्य सोमराजानो  भवन्ति; पुण्यकर्मावसाने च पुनरागत्य गर्भं प्राप्नुवन्तीत्युच्यते  अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति (छा.५.१०.३) इत्यारभ्य पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति (छां.५.१०.३)  तस्मिन्यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते (छां.५.१०.३)  यो यो ह्यन्नमत्ति यो रेतस्सिञ्चति तद्भूय एव भवति (छां.५.१०.३) इति । अत्रापि द्युलोकाग्नौ  श्रद्धां जुह्वति तस्या आहुतेस्सोमो राजा सम्भवति इति तदेकार्थत्वाछ्रद्धावस्थदेहविशिष्टस्सोमरूपदेहविशिष्टो भवतीत्युक्तमिति गम्यते। देहस्य जीवविशेषणतैकस्वरूपस्य वाचक: शब्दो विशेष्ये जीव एव पर्यवस्यति; अतस्सम्परिष्वक्तो जीवो यातीत्युपपद्यते॥६॥

(सोमराजपदस्य जीवपरत्वाभावशङ्का-परिहारौ)

ननु च  तं देवा भक्षयन्ति (छां.५.१.-३) इति देवैर्भक्ष्यमाणत्ववचनात्  सोमो राजा (छां.५.१०.४) इति न जीव उच्यते, जीवस्यानदनीयत्वात्; तत्राह

२९४. भाक्तं वाऽनात्मवित्वात्तथा हि दर्शयति ॥ ३–१–७ ॥

वाशब्दश्चोद्यं  व्यावर्तयति। इष्टादिकारिणोऽनात्मवित्त्वात्स देवानां भोगोपकरणत्वेन इहामुत्र च वर्तते। इहेष्टादिना तदाराधनं कुर्वन्नुपकरोति; आराधनप्रीतैर्देवैर्दत्तममुं लोकं प्राप्य तत्र तत्समानभोगस्तदुपकरणं भवति । यथा पशुरेवं स देवानाम् (बृ.३.४.१०) इत्यनात्मविदो देवानामुपकरणत्वं दर्शयति श्रुति: । स्मृतिरप्यात्मविदां ब्रह्मप्राप्तिमनात्मविदां च देवभोग्यत्वं दर्शयति  देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि (गी.७-२३) इति। अतो जीवस्य देवानां भोगोपकरणत्वाभिप्रायमन्नत्वेन भक्ष्यत्ववचनम्; अतस्तद्भाक्तम्। तेन तृप्तिरेव च देवानां भक्षणमिति श्रूयते  न वै देवा अश्नन्ति न पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति (छा.३.६.१) इति। तस्माद्भूतसूक्ष्मैस्सम्परिष्वक्तो जीवो रंहतीति सिद्धम्॥७॥

इति श्रीशारीरकमीमांसाभाष्ये तदन्तरप्रतिपत्त्यधिकरणम्॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.