[highlight_content]

श्रीभाष्यम् 04-01-01 आवृत्त्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थः फलाध्यायः

(अधिकरणानि – 33 सूत्राणि – 137)

(अध्यायार्थः – विद्यास्वरूपविशोधनपूर्वकम् विद्याफलचिन्तनम्)

प्रथमः आवृत्तिपादः ।। 4-1 ।।

 

 (पादार्थः – उपासनप्रकारचिन्ता, पूर्वोत्तराघाश्लेष-विनाशौ च)

आवृत्त्यधिकरणम् ॥१॥

(अधिकरणार्थः – उपासनस्य असकृदावृत्तस्यैव मोक्षोपायता)

४७०. आवृत्तिरसकृदुपदेशात् ॥ ४–१–१ ॥

(अध्यायसङ्गतिः)

तृतीयेऽध्याये साधनैस्सह विद्या चिन्तिता। अथेदानीं विद्यास्वरूपविशोधनपूर्वकं विद्याफलं चिन्त्यते। तत्र

(प्रस्तुतो विषयः विचार्यांशश्च)

ब्रह्मविदाप्नोति परम् (तै.आन.१.१)  तमेव विदित्वाऽतिमृत्युमेति (श्वे.३.८) ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९)  यदा पश्य: पश्यते रुक्मवर्णम् (मु.३.१.३) इत्यादि वेदान्तवाक्येषु ब्रह्मप्राप्तिसाधनतया विहितं वेदनं किं सकृत्कृतमेव शास्त्रार्थ:, उतासकृदावृत्तमिति संशय:।

(सयुक्तिकः पूर्वपक्षः)

किं युक्तम्? सकृत्कृतमिति;  ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९) इति वेदनमात्रस्यैव विधानात्, असकृदावृत्तौ प्रमाणाभावात् ।

(विषयसिद्धिं यावत् आवृत्तेः सिद्धिशङ्का)

न चावघातादिवद्वेदनस्य ब्रह्मापरोक्ष्यं प्रति दृष्टोपायत्वाद्यावत्कार्यमावृत्तिरिति शक्यं वक्तुम्, वेदनस्य दृष्टोपायत्वाभावात्। ज्योतिष्टोमादिकर्माणि, वेदान्तविहितं च वेदनं परमपुरुषाराधनरूपम्, आराधिताच्च परमपुरुषाद्धर्मार्थकाममोक्षाख्यपुरुषार्थावाप्तिरिति हि फलमत उपपत्ते: (शारी.३.२.३७) इत्यत्र प्रतिपादितम् । अतो ज्योतिष्टोमादिवद्यथाशब्दं सकृत्कृतमेव शास्त्रार्थ: –

(सिद्धान्तः सूत्रार्थविवरणतः)

इति प्राप्ते प्रचक्ष्महे – आवृत्तिरसकृत् इति । असकृदावृत्तमेव वेदनं शास्त्रार्थः ।

कुत:? उपदेशात् – ध्यानोपासनपर्यायेण वेदनशब्देनोपदेशात् । तत्पर्यायत्वं च विद्युपास्तिध्यायतीनामेकस्मिन्विषये वेदनोपदेशपरवाक्येषु प्रयोगादवगम्यते । तथाहि – मनो ब्रह्मेत्युपासीत (छां.३.१८.१) इत्युपासिनोपक्रान्तोऽर्थ:  भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद (छा.३.१८.३) इति विदिनोपसंह्रियते; तथा  यस्तद्वेद यत्स वेद स मयैतदुक्त: (छां.४.१.४) इत्युपक्रमे विदिनोक्तं रैक्वस्य ज्ञानम्,  अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से (छा.४.२.२) इतयुपासिनोपसंह्रियते; तथा  ब्रह्मविदाप्नोति परम् (तै.आन.१-१) इत्यादिवाक्यसमानार्थेषु वाक्येषु  आत्मा वा अरे द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासतिव्य: (बृ.४.४.५) ततस्तु तं पश्यति निष्कलं ध्यायमान: (मु.३.१.८) इत्यादिषु ध्यायतिना वेदनमभिधीयते; ध्यानं च चिन्तनम्; चिन्तनं च स्मृतिसन्ततिरूपम्; न स्मृतिमात्रम्  ॥

(ध्यानोपास्त्योरेकार्थता)

उपास्तिरपि तदेकार्थ:, एकाग्रचित्तवृत्तिनैरन्तर्ये प्रयोगदर्शनात्; तदुभयैकार्थ्यात् असकृदावृत्तसन्ततस्मृतिरिह  ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९)  ज्ञात्वा देवं मुच्यते सर्वपाशै: (श्वे.१.८) इत्यादिषु वेदनादिशब्दैरभिधीयते इति निश्चीयते ॥१॥

(उक्तार्थस्य पुराणस्मृतितः दृढीकरणम्)

४७१. लिङ्गाच्च ॥ ४–१–२ ॥

लिङ्गं – स्मृति:। स्मृतेश्चायमर्थोऽवगम्यते। स्मर्यते हि मोक्षसाधनभूतं वेदनं स्मृतिसन्ततिरूपं  तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्स्पृहा । तद्ध्यानं प्रथमैष्षड्भिरङ्गैर्निष्पाद्यते तथा (विष्णु.६.७.९१) इति तस्मादसकृदावृत्तमेव वेदनं शास्त्रार्थ: ॥२॥

इति श्रीशारीरकमीमांसाभाष्ये आवृत्त्यधिकरणम्॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.