[highlight_content]

श्वेताश्वतरोपनिषत् पञ्चमोऽध्यायः

श्वेताश्वतरोपनिषत्

अथ पञ्चमोऽध्यायः

[विद्याविद्ययो: लक्षणम्]

द्वे अक्षरे ब्रह्मपरे त्वनन्ते

विद्याविद्ये निहिते यत्र गूढे ।

क्षरं त्वविद्या ह्यमृतं तु विद्या

विद्याविद्ये ईशते यस्तु सोऽन्यः ।।१।।

 

पुनरपि ब्रह्ममाहात्म्यं (तादात्म्यं) चिदचिद्विवेकञ्च प्रपञ्चयति – द्वे अक्षरे इति । ब्रह्मपरे ब्रह्माराधनरूपे अनन्ते – असंख्यातव्यक्तिके नित्यानित्यफलसाधनतया (क्षरामृतशब्दिते) विद्याविद्याशब्दिते (ते?) ज्ञानरूपकर्मरूपे (द्वे?) यत्र अक्षरे – आत्मनि दुर्मोचतया लग्ने, सोऽप्यन्यः, आभ्यां समाराध्यमानः तत्फलप्रदश्चान्यः इत्यर्थः ।। १ ।।

यो योनिं योनिमधितिष्ठत्येको

विश्वानि रूपाणि योनीश्च सर्वाः ।

ऋषिं प्रसूतं कपिलं यस्तमग्रे

ज्ञानैर्बिभर्ति जायमानं च पश्येत् ।। २ ।।

योनिमिति । सर्वाणि समष्टिव्यष्टिरूपाणि तत्तद्योनीश्च सर्वाः योऽधितिष्ठति, यस्तु अग्रे – सृष्टि-पूर्वसमये प्रसूतं कपिलं ज्ञानादियुक्तं बिभर्ति – कृतवान् जायमानदशायाञ्च सानुग्रहमेक्षतः सोऽप्यन्य इति पूर्वेण संबन्धः ।। २ ।।

एकैकं जालं बहुधा विकुर्वन्न

स्मिन् क्षेत्रे संहरत्येष देवः ।

भूयस्सृष्ट्वा पतयस्तथेशः

सर्वाधिपत्यं कुरुते महात्मा ॥ ३ ॥

एकैकमिति । यस्मिन् क्षेत्रे प्रकृतिरूपे जालवद् बन्धके महदादिकार्यवर्ग विविधतया कुर्वन् पुनश्च संहरति; तस्मिन्नेव प्रकृतिरूपे क्षेत्रे कल्पान्तरेऽपि भूयः प्रजापत्युपलक्षितं प्रपञ्चं सृष्ट्वा सर्वदा सर्वेषां नियन्तृतया आस्ते यतोऽसौ (ततो?) महामहिमशाल्यात्मा इत्यर्थः ।। ३ ।।

सर्वा दिश ऊर्ध्वमधश्चतिर्यक्

प्रकाशयन् भ्राजते यद्वनड्वान् ।

एवं स देवो भगवान् वरेण्यो

योनिस्वभावानाधितिष्ठत्येकः ।। ४ ।।

ननु एतस्य कथं युगपत् सर्वयोन्यधिष्ठातृत्वम् उपपद्यत इत्यत्राह – सर्वा दिश इति । कालचक्र परिवर्तनहेतुतया अनुडुच्छब्दवाच्यः सूर्यः तिर्यगूर्ध्वमधश्च युगपद्भासयन् यत् – यथा भासते; तथा मुमुक्षुभिर्वरणीयो भजनीयो भगवानेक एव सर्वयोन्यधितिष्ठति भवतीत्यर्थः ।। ४ ।।

 [सर्वदेवोपास्यत्वम्]

यच्च स्वभावं पचति विश्वयोनिः

पाच्यांर्श्च सर्वान् परिणामयेत् यः ।

सर्वमेतद्विश्वमधितिष्ठत्येको

गुणाँश्च सर्वान् विनियोजयेद्यः ।। ५ ।।

 तद्वेदगुह्योपनिषत्सु गूढं

तद्ब्रह्मा वेदते ब्रह्म योनिम् ।।

ये पूर्वं देवा ऋषयश्च तद्विदु–

स्ते तन्मया अमृता वै बभूवुः ।। ६ ।।

यच्चेति । यच्चेति लिङ्गव्यत्ययश्छान्दसः । यः सर्वेषामग्निजलादिवस्तूनाम् उष्णानुगुणस्वभावं पचति सङ्कल्पलक्षणपाकेन निर्वर्तयति; यश्च पाच्यान् परिणामयोग्यान् परिणामयति । सत्वा (सत्या) दींश्च गुणान् प्रवर्तयति, स परमात्मा सर्वप्रकृत्यधिष्ठाता इत्यर्थः । तद्वेदेति । तेषु – प्रसिद्धेषु वेदेषु गुह्योपनिषत्सु (च) तात्पर्यविषयतया प्रतिपाद्यं ब्रह्मणो वेदस्य योनिभूतं तत् परं ब्रह्म सकलवेदप्रवर्तकः ब्रह्मा चतुर्मुखः वेदते – जानाति । अतादृशो न जानाति । ये च पूर्वं देवा ऋषयश्च तत् ज्ञातवन्तः, ते सर्वे (तत्स?) समानाकारा मुक्ता बभूवुः इत्यर्थः ।। ५, ६ ।।

गुणान्वयो यः फलकर्मकर्ता

कृतस्य तस्यैव स चोपभोक्ता ।

स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा

प्राणाधिपः संचरति स्वकर्मभिः ।। ७ ।।

एवं परमात्मस्वरूपं तज्ज्ञानस्यामृतसाधनत्वञ्च उक्त्वा जीवस्वरूपं शोधयति . गुणान्वय इति । सत्वरजस्तमोगुणानामन्वयो यस्य स तथोक्तः । सत्वादिगुणान्वितः सन् फलसाधनभूतं कर्म यः करोति, स एव तस्यैव फलं भुङ्क्ते । एवं नियतकर्तृत्व भोक्तृत्वशाली स्थावरनरपक्ष्यादिरूपयुक्तः कामक्रोधलोभरूपगुणत्रययुक्तो देवयानपितृयाण- कष्टगतिरूपमार्गत्रययुक्तः प्राणसहचरितस्सन् कर्मपाशबद्धः सञ्चरति इत्यर्थः ।। ७ ।।

अङ् गुष्ठमात्रो रवितुल्यरूपः

सङ्कल्पाहङ्कारसमन्वितो यः ।

बुद्धेर्गुणेनात्मगुणेन चैव

आराग्रमात्रो ह्यवरोऽपि दृष्टः ।।८।।

अङ् गुष्ठमात्र इति । बुद्धेः अन्तःकरणस्य सत्वरजस्तमोलक्षणगुणकारितेन आत्मधर्मभूतनानाविधार्थविषयकाध्यवसायेन युक्तः तत्कार्येण तत्तत्फलसंकल्पेन आढ्योऽभिजनवानस्ति इत्यहङ्कारेण (च?) युक्तस्सन् आत्मवत् स्वप्रकाशः, अङ् गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ इत्युक्तरीत्या अङ् गुष्ठपरिमाणः शास्त्रेषु दृष्टः । ततोऽपि अवरः – हीनपरिमाण: आराग्रमात्र इत्यपि दृष्टः – शास्त्रेषु दृष्ट इत्यर्थः ।। ८ ।।

[जीवात्मनः लक्षणम्]

वालाग्रशतभागस्य शतधा कल्पितस्य च ।

भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ।। ९ ।।

स्वमतमुपन्यस्यति – वालाग्रेति । वालाग्रशतांश – शतांशतुल्यपरिमाण एव जीवो मोक्षे धर्मभूतज्ञानविकासेन विभुत्वलक्षणानन्त्याय प्रभवतीत्यर्थः ।। ९ ।।

नैव स्त्री न पुपानेष न चैवायं नपुंसकः ।

यद्यच्छरीरमादत्ते तेन तेन संयुज्यते ।। १० ।।

श्रीनपुंसकत्वादिकमपि तस्य तादृशशरीरसम्बन्धकृतम् न ( स्वाभाविकम् इत्याह नैव स्त्रीति । स्पष्टोऽर्थः ।। १० ।।

सङ्कल्पनस्पर्शनदृष्टिहोमै

र्गासाम्बुवृष्ट्या ऽऽत्मविवृद्ध जन्म ।

कर्मानुगान्यनुक्रमेण देही

स्थानेषु रूपाप्यभिसम्प्रपद्यते ।। ११ ।।

देहप्राप्तौ हेतुमाह – सङ्कल्पेनेति । पुण्यविषयक सङ्कल्पगङ्गादिलक्षण- पुण्यवस्तुस्पर्श तादृशवस्तुदर्शन यागहोमादिभिरात्मनो विवृद्धियुक्तं जन्य उत्कृष्टं जन्य इति यावत् – अनेनक्रमेण (?) कर्मानुसारीणि रूपाणि तेषु तेषु ब्राह्मणादिषु योनिषु (अनुक्रमेण) पर्यायेण प्रपद्यत इत्यर्थः ।। ११ ।।

स्थूलानि सम्माणि बहूनि चैव

रूपाणि देही स्वगुणैर्वृणाति ।

क्रियागुणैरात्मगुणैश्च तेषां

संयोगहेतुरपरोऽपि दृष्ट: ।। ११ ।।

स्थूलानीति । मशकमातङ्गादिस्थूलसूक्ष्मशरीराणि  बहुविधान्यपि  तत्तत्फलाभिसन्ध्यादिलक्षणरागादिरूपात्म गुणप्रयुक्तयागादिरूपक्रियालक्षणै:  गुणैर्हेतुभि: भजते । तादृशात्मगुणयोगे च पूर्वपूर्वं कर्मैव हेतुर्दृष्ट: इत्यर्थः ।। १५ ।।

अनाद्यनन्तं कलिलस्य मध्ये

विश्वस्य स्रष्टारमनेकरूपम् ।

विश्वस्यैकं परिवेष्टितारं

ज्ञात्वा देवं मुच्यते सर्वपाशैः ।। १३ ।।

अनाद्यनन्तमिति । कलिलस्य – कार्यस्य मध्ये स्थित्वा हिरण्यगर्भ- प्रजापत्याद्यनेकरूपतया विश्वस्य स्रष्टारम् इत्यर्थः । शिष्टं पूर्ववत् ।। १३ ।।

भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् ।

कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ।। १४ ।।

।। इति पञ्चमोऽध्यायः ।।

भावेति । भावग्राह्यं – भक्तिग्राह्यं अनीडत्वेन – अनिलयत्वेन अनाधारत्वेन आख्यायमानं विश्वस्य भावाभावकरं – सर्गसंहारकारकं सर्वदा अशुभासृष्टं विद्यासर्गकारणं (कारिणं?) ये पूर्व ज्ञातवन्तः, ते प्रकृतिविनिर्मुक्ता बभूवुः इत्यर्थः ।। १४ ।।

(द्विरुक्तिरध्यायसमाप्त्यर्था)

।। इति पञ्चमाध्यायप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.