[highlight_content]

सुबालोपनिषत्-नवमः खण्डः

सुबालोपनिषत्

 अथ नवमः खण्डः

[उपासकस्य लयस्थानप्रदर्शनम्]

अथ हैनं रैक्वः पप्रच्छ – भगवन्! कस्मिन् सर्वेऽस्तं गच्छन्तीति । तस्मै स होवाच – चक्षुरेवाप्येति । यश्चक्षुरेवास्तमेति, द्रष्टव्यमेवाप्येति । यो द्रष्टव्यमेवास्तमेति,  आदित्यमेवाप्येति । य आदित्यमेवास्तमेति, विराजमेवाप्येति । यो विराजमेवास्तमेति, प्राणमेवाप्येति । य: प्राणमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

 श्रोत्रमेवाप्येति । यः श्रोत्रमेवास्तमेति, श्रोतव्यमेवाप्येति । यः श्रोतव्यमेवास्तमेति, दिशमेवाप्येति । यो दिशमेवास्तमेति, सुदर्शनामेवाप्येति । यः सुदर्शनमेवास्तमेति, अपानमेवाप्येति । योऽपानमेवास्तमेति, विज्ञानमेवाप्येति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमशोकमभयमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

 नासामेवाप्येति । यो नासामेवास्तमेति, घ्रातव्यमेवाप्येति । यो घ्रातव्यमेवास्तमेति, पृथिवीमेवाप्येति । य:  पृथिवीमेवास्तमेति, जितामेवाप्येति । यो जितामेवास्तमेति, व्यानमेवाप्येति । यो व्यानमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमशोकमभयमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

 जिह्वामेवाप्येति । यो जिह्वामेवास्तमेति, रसयितव्यमेवाप्येति । यो रसयितव्यमेवास्तमेति, वरुणमेवाप्येति । यो वरुणमेवास्तमेति, सौम्यामेवाप्येति । यः सौम्यामेवास्तमेति, उदानमेवाप्येति । य उदानमेवास्तति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

 त्वचमेवाप्येति । यस्त्वचमेवास्तमेति, स्पर्शयितव्यमेवाप्येति । यः स्पर्शयितव्यमेवास्तमेति, वायुमेवाप्येति । यो वायुमेवास्तमेति, मोघामेवाप्येति । यो मोघामेवास्तमेति, समानमेवाप्येति । यः समानमेवास्तमेति, विज्ञानमेवाप्येति, यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

 वाचमेवाप्येति । यो वाचमेवास्तमेति, वक्तव्यमेवाप्येति । यो बक्तव्यमेवास्तमेति, अग्निमेवाप्येति । योग्निमेवास्तमेति, कुमारामेवाप्येति । यः कुमारामेवास्तमेति, वैरम्भमेवाप्येति । यो वैरम्भमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

 हस्तमेवाप्येति । यो हस्तमेवास्तमेति, आदातव्यमेवाप्येति । य आदातव्यमेवास्तमेति, इन्द्रमेवाप्येति । य इन्द्रमेवास्तमेति, अमृतामेवाप्येति । योऽमृतामेवास्तमेति, मुख्यमेवाप्येति । यो मुख्यमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

 पादमेवाप्येति । यः पादमेवास्तमेति, गन्तव्यमेवाप्येति । यो गन्तव्यमेवास्तमेति, विष्णुमेवाप्येति । यो विष्णुमेवास्तमेति, सत्यमेवाप्येति । य: सत्यामेवास्तमेति, अन्तर्याममेवाप्येति । योऽन्तर्याममेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

पायुमेवाप्येति । यः पायुमेवास्तमेति, विसर्जयितव्यमेवाप्येति । यो विसर्जयितव्यमेवास्तमेति, मृत्युमेवाप्येति । यो मृत्युमेवास्तमेति, मध्यमामेवाप्येति । यो मध्यमामेवास्तमेति, प्रभञ्जनमेवाप्येति । य: प्रभञ्जनमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

उपस्थमेवाप्येति । य: उपस्थमेवास्तमेति, आनन्दयितव्यमेवाप्येति । य आनन्दयितव्यमेवास्तमेति, प्रजापतिमेवाप्येति । यः प्रजापतिमेवास्तमेति, नासीरामेवाप्येति । यो नासीरामेवास्तमेति, कुमारमेवाप्येति । य: कुमारमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

मन एवाप्येति । यो मन एवास्तमेति । मन्तव्यमेवाप्येति । यो मन्तव्यमेवास्तमेति, चन्द्रमेवाप्येति । यश्चन्द्रमेवास्तमेति, शिशुमेवाप्येति । यः शिशुमेवास्तमेति, श्येनमेवाप्येति । य: श्येनमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। 

बुद्धिमेवाप्येति । यो बुद्धिमेवास्तमेति, बोद्धव्यमेवाप्येति, । यो बोद्धव्यमेवास्तमेति, ब्राह्मणमेवाप्येति । यो ब्रह्माणमेवास्तमेति, सूर्यामेवाप्येति । यः सूर्यामेवास्तमेति, कृष्णमेवाप्येति । य: कृष्णमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । य:  तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

 अहङ्कारमेवाप्येति । योऽहकारमेवास्तमेति, अहङ्कर्तव्यमेवाप्येति । योऽहङ्कर्तव्यमेवास्तमेति, रुद्रमेवाप्येति । यो रुद्रमेवास्तमेति, असुरामेवाप्येति । योऽसुरामेवास्तमेति, श्वेतमेवाप्येति । य: श्वेतमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवाप्येति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।।

चित्तमेवाप्येति । यश्चित्तमेवास्तमेति, चेतयितव्यमेवाप्येति । यश्चेतयितव्यमेवास्तमेति, क्षेत्रज्ञमेवाप्येति । य: क्षेत्रज्ञमेवास्तमेति, भास्वतीमेवाप्येति । यो भास्वतीमेवास्तमेति; नागमेवाप्येति । यो नागमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति होवाच ।।

य एवं निर्बीजं वेद, निर्बीज एव स भवति । न जायते, न म्रियते, न मुह्यते, न भिद्यते, न दह्यते, न छिद्यते, न कम्पते, न कुप्यते, सर्वदहनोऽयमात्मेत्याचक्षते ।  

नेवमात्मा प्रवचनशतेनापि लभ्यते, न बहुश्रुतेन, न बुद्धिज्ञानाश्रितेन न मेधया, न वेदैर्न यज्ञैर्न तपोभिरुग्रैर्न सांख्यैर्न योगेर्नाश्रमैः । नान्यरात्मानमुपलभन्ते । प्रवचनेन प्रशंसया व्युत्थानेन तमेतं ब्राह्मणाः शुश्रुवांसोऽनूचाना उपलभन्ते । शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति । सर्वास्यात्मा भवति, य एवं वेद ।।

।। इति नवमः खण्डः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.