[highlight_content]

श्रीभाष्यम् 03-01-02 कृतात्ययाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कृतात्ययाधिकरणम्॥२॥

(अधिकरणार्थः सुकृतफलमनुभूय अमुष्माल्लोकान्निवर्तमानस्य भुक्तशेषेण कर्मणा सहैव जीवस्य प्रत्यवरोहः)

२९५. कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ३–१–८ ॥

(सङ्गतिप्रतिपादनं विषयश्च)

केवलेष्टापूर्तदत्तकारिणां धूमादिना पितृयाणेन पथा गमनं कर्मफलावसाने पुनरावर्तनं चाम्नातं  यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनिर्निवर्तन्ते (छा.५.१०.३) इति  ॥

(अधिकरणीयः संशयः)

तत्र प्रत्यवरोहन् जीव: किमनुशयवान् प्रत्यवरोहति, उत नेति संशय्यते ।

(पूर्वपक्षः सयुक्तिकः)

किं युक्तम्? कर्मण: कृत्स्नस्योपभुक्तत्वात् नानुशयवानिति प्राप्तम् । अनुशयो ह्युपभुक्तशिष्टं कर्म। तच्च कृत्स्नफलोपभोगे सति नावशिष्यते ।  यावत्सम्पातमुषित्वा (छा.५.१०.४) इति वचनात् कृत्स्नोपभोगश्च ज्ञायते । सम्पतन्त्यनेन स्वर्गं लोकमिति सम्पात: कर्मोच्यते। श्रुत्यन्तरं च  प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।  तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे (बृ.६.४.६) इति॥

(सिद्धान्तस्य प्रतिपादनम्)

एवं प्राप्तेऽभिधीयते – अनुशयवान् प्रत्यवरोहति – इति। कुत:? दृष्टस्मृतिभ्याम्  – श्रुतिस्मृतिभ्यामित्यर्थ:। श्रुतिस्तावत् – तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं क्षत्रिययोनिं वैश्ययोनिं वा अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डलायोनिं वा (छा.५.१०.७) इति प्रत्यवरूढान् प्रति श्रूयते। अमुष्माल्लोकात्प्रत्यवरूढेषु रमणीयकर्माणो रमणीयां ब्राह्मणादियोनिं प्रतिपद्यन्ते; कपूयचरणा: – कुत्सितकर्माण: कुत्सितां श्वसूकरचण्डलादियोनिं प्रतिपद्यन्त इति प्रत्यवरूढानां पुण्यपापकर्मयोगं दर्शयति । स्मृतिरपि  वर्णा आश्रमाश्च स्वकर्मनिष्ठा: प्रेत्य कर्मफलमनुभूय तत: शेषेण विशिष्टदेशजातिकुलरूपायुश्श्रुतवित्तवृत्तसुखमेधसो जन्म प्रतिपद्यन्ते विष्वञ्चो विपरीता नश्यन्ति (गौतम.२.११.१२,१३) इति । तथा  तत: परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यन्ते तच्चक्रवदुभयोर्लोकयोस्सुख एव वर्तते (आपस्तम्ब.२.१.२,३) इति ।  यावत्सम्पातम् (छा.५.१०.७) इति फलदानप्रवृत्तकर्मविशेषविषयम्;  यत्किंचेह करोत्ययम् (बृ.६.४.६) इतीदमपि  तद्विषयमेव । अभुक्तफलानामकृतप्रायश्चित्तानां च कर्मणां कर्मान्तरफलानुभवान्नाशोऽप्यनुपपन्न:। अतोऽमुं लोकं गतास्सानुशया एव यथेतमनेवं च पुनर्निवर्तन्ते – आरोहणप्रकारेण प्रकारान्तरेण च पुनर्निवर्तन्त इत्यर्थ: ।

(आरोहणावरोहणक्रमयोः विवरणम्)

आरोहणं हि धूमरात्र्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशचन्द्रक्रमेण। अवरोहणं तु चन्द्रमस: स्थानादाकाश-वायुधूमाभ्रमेघक्रमेण। तत्राकाशावरोहणाद्यथेतम्; वाय्वादिप्राप्ते: पितृलोकाद्यप्राप्तेश्चानेवम् ॥८॥

(चरण शब्दस्य पुण्यपापपरत्वाभावशङ्का-परिहारौ)

२९६. चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनि:॥ ३–१–९ ॥

रमणीयचरणा: (छा.५.१०.७)  कपूयचरणा: (छां.५.१०.७) इति न चरणशब्देन पुण्यपापरूपं कर्माभिधीयते, चरणशब्दस्य लोकवेदयोराचारे प्रसिद्धे: । लौकिका: खलु चरणमाचार: शीलं वृत्तमिति पर्यायानभिमन्यते । वेदे च यान्यनवद्यानि कर्माणि तानि सेवितव्यानि (तै.शि.११.२) यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि (तै.शि. ११.२) इति चरणकर्मणी भेदेन व्यपदिश्येते, अत: चरणात् – शीलात् योनिविशेषप्राप्ति:, नानुशयादिति चेत् – तन्न, चरणश्रुति: कर्मोपलक्षणार्थेति कार्ष्णाजिनिराचार्यो मन्यते, केवलादाचारात्सुखदु:खप्राप्त्यसम्भवात्। सुखदु:खे हि पुण्यपापरूपकर्मफले॥९॥

(आचारवैफल्यात् तद्विधानानर्थक्यशङ्का-परिहारौ)

२९७. आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ ३–१–१० ॥

एवं तर्ह्यफलत्वादाचारस्य स्मृतिविहितस्यानर्थक्यमेवेति चेत् – तन्न तदपेक्षत्वात्पुण्यस्य कर्मण:। आचारवत एव पुण्यकर्मस्वधिकार: –  सन्ध्याहीनोऽशुचिर्नित्यमनर्हास्सर्वकर्मसु (दक्ष.स्मृ. २-२२)  आचारहीनं न पुनन्ति वेदा: इत्यादिवचनेभ्य:। अतश्चरणश्रुति: कर्मोपलक्षणार्थेति कार्ष्णाजिनेरभिप्राय: ॥१०॥

(चरणशब्दाभिधेयत्वं पुण्यपापकर्मणोरेवेति बादर्याशयः)

२९८. सुकृतदुष्कृते एवेति तु बादरि: ॥ ३–१–११ ॥

पुण्यं कर्माचरति, पापं  कर्माचरति इति कर्मणि चरते: प्रयोगात् पृथङ्निर्देशस्य च प्रत्यक्षश्रुतिसिद्धाचारानुमितश्रुतिसिद्धविषयत्वेन गोबलीवर्दन्यायेनोपपत्ते:। मुख्ये सम्भवति न लक्षणा न्याय्येति सुकृतदुष्कृते एव चरणशब्दाभिधेये; इति बादरिराचार्यो मन्यते ।

(अस्मिन् विषये बादरिमतस्यैव बादरायणमतत्वम्)

अत्र बादरिमतमेव स्वमतम्; आचारानुमितश्रुतिविहितसन्ध्यावन्दनादे: कर्मान्तराधिकार-सम्पादनं फलमिति तु स्वीकृतम्। अतस्सानुशया एव प्रत्यवरोहन्ति॥ ११॥

इति श्रीशारीरकमीमांसाभाष्ये कृतात्ययाधिकरणम्॥२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.