[highlight_content]

श्रीभाष्यम् 03-01-03 अनिष्टादिकार्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये  अनिष्टादिकार्यधिकरणम्॥३॥

(अधिकरणार्थः – केवलपापकारिणां चन्द्रारोहावरोहौ विनैव गतागती)

२९९. अनिष्टादिकारिणामपि च श्रुतम् ॥ ३–१–१२ ॥

(सङ्गतिः, अधिकरणविचार्योंशश्च)

केवलेष्टापूर्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्तन्त इत्युक्तम्; इदानीमनिष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति, नेति चिन्त्यते । ये विहितं न कुर्वन्ति, निषिद्धं च कुर्वन्ति, त उभयेऽपि पापकर्माणोऽनिष्टादिकारिण: ।

(पूर्वपक्षारम्भः सयुक्तिकः)

किं युक्तम्? तेऽपि चन्द्रमसं गच्छन्तीति, कुत:? तेषामपि हि तद्गमनं श्रुतं –  ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति (कौषी.१.२) इत्यविशेषेण सर्वेषामेव गतिश्रवणात्॥१२॥

(पुण्यपापकर्मणोरुभयोरपि गतितौल्यशङ्का-परिहारौ)

एवं तर्हि सुकृतदुष्कृतकारिणोरुभयोरप्यविशिष्टैव गतिस्स्यात्; नेत्याह –

३००. संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ ३–१–१३ ॥

तु शब्दश्शङ्कां व्यावर्तयति; इतरेषाम्  अनिष्टादिकारिणां चन्द्रारोहावरोहौ संयमने – यमशासने तत्प्रयुक्तयातना अनुभूयैव, नान्यथा; कुत:? तद्गतिदर्शनात् – दृश्यते हि पापकर्मणां यमवश्यतया तद्गमनम्  अयं लोको नास्ति न पर इति मानी पुन:पुनर्वशमापद्यते मे (कठ.१-२- ६) वैवस्वतं सङ्गमनं जनानां यमं राजानम् (तै.आरण्.२.१) इत्यादिषु॥३॥

(अविशेषेण सर्वेषां यमवश्यतास्मृतिः)

३०१. स्मरन्ति च ॥३–१–१४॥

स्मरन्ति च सर्वेषां यमवश्यतां पराशरादय:  सर्वे चैते वशं यान्ति यमस्य भगवन्किल (वि.पु ३-७-५) इत्यादिषु॥१४॥

(पापकारिभिर्गन्तव्याः सप्त नरकाः)

३०२. अपि सप्त॥ ३–१–१५ ॥

पापकर्मणां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपि स्मरन्ति॥१५॥

ननु सप्तसु लोकेषु गच्छतां कथं यमसदनप्राप्ति:, अत आह –

(सप्तलोकेषु यमसम्बन्धोपपत्तिः)

३०३. तत्रापि तद्व्यापारादविरोध: ॥ ३–१–१६ ॥

तेष्वपि सप्तसु यमाज्ञयैव गमनादविरोध: ।

(पूर्वपक्षोपसंहरणम्)

अतोऽनिष्टादिकारिणामपि यमलोकं प्राप्य स्वकर्मानुरूपं यातनाश्चानुभूय पश्चाच्चन्द्रारोहावरोहौ स्त: ॥१६॥

(सिद्धान्तारम्भः)

इति प्राप्त उच्यते –

३०४. विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ ३–१–१७ ॥

तु शब्द: पक्षव्यावृत्त्यर्थ:।  अनिष्टादिकारिणामपि चन्द्रप्राप्तिरस्तीत्येतन्नोपपद्यते; कुत:? विद्याकर्मणोरिति विद्याकर्मणो: फलभोगार्थत्वाद्देवयानपितृयाणयो:।

(विद्याप्रसङ्गस्य दृष्टान्तार्थत्वम्)

            एतदुक्तं भवति –  अनिष्टादिकारिणां यथा विद्याविधुरत्वाद्देवयानेन पथा गमनं न सम्भवति; तद्वदेवेष्टापूर्तदत्तविधुरत्वात्पितृयाणेन चन्द्रगमनमपि न सम्भवति – इति ।

(उक्तविभागावगमकप्रदर्शनम्)

देवयानपितृयाणयो: विद्याविषयत्वं पुण्यकर्मविषयत्वं च कथमवगम्यत इति चेत् – प्रकृतत्वात्तयो:। प्रकृता हि देवयाने विद्या, पितृयाणे च कर्म  तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१) इत्युक्त्वा  तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽह: (छा.५.१०.१) इत्यादिना देवयानवचनात्,  अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते (छां.५.१०.३) इत्युक्त्वा  ते धूममभिसम्भवन्ति (छा.५.१०.३) इत्यादिना पितृयाणवचनाच्च  ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति (कौषी.१.२) इत्येतदपि वचनं  य इष्टादिकारिण: ते सर्वे इति परिणेयम् ॥

(पापकर्मिणां चन्द्रगमनाभावे शरीरानारम्भशङ्का-परिहारौ)

ननु पापकर्मणां चन्द्रगमनाभावे पञ्चमाहुत्यसम्भवाच्छरीरारम्भ एव नोपपद्यते;  पञ्चम्यामाहुतावाप: पुरुषवचसो  भवन्ति (छा.५.९.१) इति हि शरीराम्भश्श्रूयते, सा चाहुतिश्चन्द्रप्राप्तिपूर्विकेति दर्शितम्; अतश्शरीरारम्भायैव तेषामपि चन्द्रारोहावरोहाववश्याभ्युपेत्यौ इत्यत आह –

३०५. न तृतीये तथोपलब्धे: ॥ ३–१–१८ ॥

तृतीयस्थानस्य शरीरारम्भाय न पञ्चमाहुत्यपेक्षा; कुत:? तथोपलब्धे: – तृतीयस्थानशब्देन केवलपापकर्माण उच्यन्ते, तेषां देहारम्भे पञ्चमाहुत्यनपेक्षत्वमुपलभ्यते  वेत्थ यथा केनासौ लोकाे न संपूर्यते (छा.५.३.३) इत्यस्य प्रश्नस्य प्रतिवचने  अथैतयो: पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि  भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यते (छा.५.१०.८) इति तृतीयस्थानस्य द्युलोकारोहावरोहाभावेन द्युलोकासंपूर्तिवचनादस्य तृतीयस्थानस्य शरीरारम्भाय न पञ्चमाहुत्यपेक्षा ।  पञ्चम्यामाहुतौ (छा.६.३.१) इति चापां पञ्चमाग्निसम्बन्धस्य पुरुषवचस्त्वहेतुत्वमात्रं प्रतिपादयति, नान्यन्निवारयति, अवधारणाश्रवणात् ॥१८॥

(मनुष्येष्वपि केषुचित् देहारम्भे पञ्चमाहुत्यनपेक्षा)

३०६. स्मर्यतेऽपि च लोके ॥ ३–१–१९ ॥

पुण्यकर्मणामपि केषाञ्चित्पञ्चमाहुत्यनपेक्षया देहारम्भो लोके स्मर्यते द्रौपदीधृष्टद्युम्नप्रभृतीनाम्॥१९॥

(पञ्चमाहुत्यनपेक्षया देहारम्भस्य श्रुतितोऽपि सिद्धिः)

३०७. दर्शनाच्च ॥ ३–१–२० ॥

श्रुतावपि दृश्यते केषाञ्चित्पञ्चमाहुत्यनपेक्षया देहारम्भ:  तेषां खल्वेषां भूतानां त्रीण्येव बीजानि  भवन्ति आण्डजं जीवजमुद्भिज्जम् (छां. ६.३.१) इति। एषूद्भिज्जस्वेदजयो: भूतयो: पञ्चमाहुतिमन्तरेणोत्पत्तिर्दृश्यते॥२०॥

(उद्भिज्जशब्देन स्वेदजानां सङ्ग्रहः)

ननु स्वेदजानामत्र न सङ्कीर्तनमस्ति  त्रीण्येव बीजानि (छां.६.३.१) इति वनचात्; तत्राह –

३०८. तृतीयशब्दावरोधस्संशोकजस्य॥ ३–१–२१ ॥

संशोकजस्य – स्वेदजस्यापि  आण्डजं जीवजमुद्भिज्जम् (छा.६.३.१) इत्यत्र तृतीयेनोद्भिज्जशब्देनावरोध: संग्रहो विद्यत इत्यर्थ:; अत: केवलपापकर्मणां चन्द्रप्राप्तिर्न सम्भवति॥२१॥

इति श्रीशारीरकमीमांसाभाष्ये अनिष्टादिकार्यधिकरणम् ॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.