08 श्रीमद्गीताभाष्यम् अष्टमाध्याय:

भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् अष्टमाध्याय: सप्तमे  परस्य ब्रह्मणो वासुदेवस्योपास्यत्वं निखिलचेतनाचेतनवस्तुशेषित्वम्, कारणत्वम्, आधारत्वम्, सर्वशरीरतया सर्वप्रकारत्वेन सर्वशब्दवाच्यत्वम्, सर्वनियन्तृत्वम्, सर्वैश्च कल्याणगुणगणैस्तस्यैव परतरत्वम्, सत्त्वरजस्तमोमयैर्देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर्भावैः अनादिकालप्रवृत्तदुष्कृतप्रवाहहेतुकैस्तस्य तिरोधानम्, अत्युत्कृष्टसुकृतहेतुक-भगवत्प्रपत्त्या सुकृततारतम्येन च प्रतिपत्तिवैशेष्यादैश्वर्याक्षरयाथात्म्यभगवत्प्राप्त्यपेक्षयोपासक भेदम्, भगवन्तं प्रेप्सोर्नित्ययुक्ततयैकभक्तितया चात्यर्थपरमपुरुषप्रियत्वेन च श्रैष्ठ्यं दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेयभेदांश्च प्रास्तौषीत् । इदानीमष्टमे प्रस्तुतान् ज्ञातव्योपादेयभेदान् विविनक्ति ॥ अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम  । अधिभूतं […]

07 श्रीमद्गीताभाष्यम् सप्तमोऽध्याय:

भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् सप्तमोऽध्याय: प्रथमेनाध्यायषट्केन  परमप्राप्यभूतस्य परस्य ब्रह्मणो निरवधस्य निखिलजगदेककारणस्य सर्वज्ञस्य सर्वभूतस्य सत्यसङ्कल्पस्य महाविभूते: श्रीमतो नारायणस्य प्राप्त्युपायभूतं तदुपासनं वक्तुं तदङ्गभूतम्  आत्मज्ञानपूर्वककर्मानुष्ठानसाध्यं प्राप्तु: प्रत्यगात्मनो याथात्म्यदार्शनमुक्तम् । इदानीं मध्यमेन षट्केन परब्रह्मभूतपरमपुरुषस्वरूपं तदुपासनं च भक्तिशब्दवाच्यमुच्यते । तदेतदुत्तरत्र, यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: ॥  (भ.गी.१८.४६) इत्यारभ्य, विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते  । ब्रह्मभूत: प्रसन्नात्मा न […]

06 श्रीमद्गीताभाष्यम् षष्ठोऽध्याय:

भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् षष्ठोऽध्याय: श्रीभगवानुवाच अनाश्रित: कर्मफलं कार्यं कर्म करोति य:  । स संन्यसी च योगी च न निरग्निर्न चाक्रिय:  ॥ १ ॥ उक्त: कर्मयोग: सपरिकर:, इदानीं ज्ञानयोगकर्मयोगसाध्यात्मावलोकनरूपयोगाभ्यास-विधिरुच्यते। तत्र कर्मयोगस्य निरपेक्षयोगसाधनत्वं द्रढयितुं ज्ञानाकार: कर्मयोगो योगशिरस्कः अनूद्यते । कर्मफलं स्वर्गादिकमनाश्रित:, कार्यं कर्मानुष्ठानमेव कार्यम्, सर्वात्मनास्मत्सुहृद्भूत-परमपुरुषाराधनरूपतया कर्मैव मम प्रयोजनम्, न तत्साध्यं किंचिदिति य: कर्म करोति स संन्यासी च ज्ञानयोगनिष्ठश्च […]

05 श्रीमद्गीताभाष्यम् पञ्चमोऽध्याय:

भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् पञ्चमोऽध्याय: चतुर्थेऽध्याये कर्मयोगस्य ज्ञानाकारतापूर्वकस्वरूपभेदो ज्ञानांशस्य च प्राधान्यमुक्तम् ज्ञानयोगाधिकारिणो-ऽपि कर्मयोगस्यान्तर्गतात्मज्ञानत्वादप्रमादत्वात्सुकरत्वान्निरपेक्षत्वाच्च ज्यायस्त्वं तृतीय एवोक्तम् । इदानीं कर्मयोगस्यात्मप्राप्तिसाधनत्वे ज्ञाननिष्ठायाश्शैघ्र्यं कर्मयोगान्तर्गताकर्तृत्वानुसन्धान-प्रकारं च प्रतिपाद्य तन्मूलं ज्ञानं च विशोध्यते ॥ अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि  । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्    ॥ १ ॥ कर्मणां संन्यासं ज्ञानयोगं पुन: कर्मयोगं च शंससि । एतदुक्तं भवति  द्वितीयेऽध्याये […]

04 श्रीमद्गीताभाष्यम् चतुर्थोऽध्याय:

भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् चतुर्थोऽध्याय: तृतीयेऽध्याये  प्रकृतिसंसृष्टस्य मुमुक्षो: सहसा ज्ञानयोगेऽनधिकारात्कर्मयोग एव कार्य:, ज्ञानयोगाधिकारिणोऽप्यकर्तृत्वानुसन्धानपूर्वककर्मयोग एव श्रेयानिति  सहेतुकमुक्तम् शिष्टतया व्यपदेश्यस्य तु विशेषत: कर्मयोग एव कार्य इति चोक्तम् । चतुर्थेनेदानीम्  अस्यैव कर्मयोगस्य निखिलजगदुद्धरणाय मन्वन्तरादावेवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गतज्ञानतयास्यैव ज्ञानयोगाकरतां प्रदर्श्य, कर्मयोगस्वरूपम्, तद्भेदा:, कर्मयोगे ज्ञानांशस्यैव प्राधान्यं चोच्यते । प्रसङ्गाच्च भगवदवतारयाथात्म्यमुच्यते । श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्  । विवस्वान्मनवे प्राह मनुरीक्षवाकवेऽब्रवीत्          ॥ […]

03 श्रीमद्गीताभाष्यम् तृतीयोऽध्याय:

भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् तृतीयोऽध्याय: तदेवं मुमुक्षुभि: प्राप्यतया वेदान्तोदितनिरस्तनिखिलाविद्यादिदोषगन्धानवधिकातिशय- असंख्येयकल्याणगुणगणपरब्रह्मपुरुषोत्तमप्राप्त्युपायभूतवेदनोपासनध्यानादिशब्दवाच्यतदैकान्ति-कात्यन्तिकभक्तिं वक्तुं तदङ्गभूतं य आत्मापहतपाप्मा (छा.८.७.१) इत्यादिप्रजापति-वाक्योदितं प्राप्तुरात्मनो याथात्म्यदर्शनं तन्नित्यताज्ञानपूर्वकासङ्गकर्मनिष्पाद्यज्ञानयोगसाध्यमुक्तम् । प्रजापतिवाक्ये हि दहरवाक्योदितपरविद्याशेषतया प्राप्तुरात्मनस्स्वरूपदर्शनम्, यस्तमात्मानमनुविद्य विजानाति (छा.८.७.१) इत्युक्त्वा जागरितस्वप्नसुषुप्त्यतीतं प्रत्यगात्मस्वरूपमशरीरं प्रतिपाद्य, एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) इति दहरविद्याफलेनोपसंहृतम् । अन्यत्रापि, अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति (कठ. २.१२) इत्येवमादिषु, देवं मत्वेति विधीयमानपरविद्याङ्गतया अध्यात्मयोगाधिगमेनेति प्रत्यगात्मज्ञानमपि विधाय, […]

02 श्रीमद्गीताभाष्यम् द्वितीयाध्याय:

भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् द्वितीयाध्याय: सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्  । विषीदन्तमिदं वाक्यमुवाच मधुसूदन:                   ॥ १ ॥ श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्  । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन               ॥ २ ॥ मा क्लैब्यं गच्छ कौन्तेय नैतत्त्वय्युपपद्यते  । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप           ॥ ३ ॥ एवमुपविष्टे पार्थे कुतोऽयमस्थाने समुपस्थित: शोक इत्याक्षिप्य तमिमं विषमस्थं शोकमविद्वत्सेवितं परलोकविरोधिनमकीर्तिकरमतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धायोत्तिष्ठेति श्रीभगवानुवाच […]

01 श्रीमद्गीताभाष्यम् प्रथमाध्याय:

भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् प्रथमाध्याय: यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मष: । वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥ श्रिय: पति:, निखिलहेयप्रत्यनीककल्याणैकतान:, स्वेतरसमस्तवस्तुविलक्षणानन्त-ज्ञानानन्दैक स्वरूप:, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेज:प्रभृत्यसंख्येय-कल्याणगुणगणमहोदधि:, स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुतनित्यनिरवद्यनिरतिशय-औज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूप: , स्वोचितविविध-विचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषण:, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्य-निरवद्यनिरतिशयकल्याणदिव्यायुध:, स्वाभिमतानुरूपनित्यनिरवद्य-स्वरूपरूपगुणविभवैश्वर्य-शीलाद्यनवधिकातिशयासंख्येय कल्याणगुणगण श्रीवल्लभ:, स्वसङ्कल्पानुविधायिस्वरूप-स्थितिप्रवृत्तिभेदाशेषशेषतैकरतिरूपनित्यनिरवद्यनिरतिशय – ज्ञानक्रियैश्वर्याद्यनन्तगुणगण-अपरिमितसूरिभिरनवरताभिष्टुतचरणयुगल:, वाङ्मनसापरिच्छेद्यस्वरूपस्वभाव:, स्वोचितविविध-विचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाव्िाभवानन्तपरिमाण-नित्यनिरवद्याक्षरपरमव्योमनिलय:, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्ण निखिलजगदुदय-विभवलयलील:, परं ब्रह्म पुरुषोत्तमो नारायण:, ब्रह्मादिस्थावरान्तमखिलं जगत्सृष्ट्वा, स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचर:, अपारकारुण्यसौशील्य-वात्सल्यौदार्यमहोदधि:, स्वमेव रूपं तत्तत्सजातीयसंस्थानं स्वस्वभावमजहदेव कुर्वन् तेषु तेषु लोकेष्ववतीर्यावतीर्य तैस्तैराराधितस्तत्तदिष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनामपि […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.