18 श्रीमद्गीताभाष्यम् अष्टादशोऽध्यायः
भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् अष्टादशोऽध्यायः अतीतेनाध्यायद्वयेन अभ्युदयनिश्श्रेयससाधनभूतं वैदिकमेव यज्ञतपोदानादिकं कर्म, नान्यत् वैदिकस्य च कर्मणस्सामान्यलक्षणं प्रणवान्वय: तत्र मोक्षाभ्युदयसाधनयोर्भेद: तत्सच्छब्दनिर्देश्यत्वेन मोक्षसाधनं च कर्म फलाभिसन्धिरहितं यज्ञादिकम् तदारम्भश्च सत्त्वोद्रेकाद्भवति सत्त्ववृद्धिश्च सात्त्विकाहारसेवया इत्युक्तम् । अनन्तरं मोक्षसाधनतया निर्दिष्टयोस्त्यागसंन्यासयोरैक्यम्, त्यागस्य च स्वरूपम्, भगवति सर्वेश्वरे च सर्वकर्मणां कर्तृत्वानुसन्धानम्, सत्त्वरजस्तमसां कार्यवर्णनेन सत्त्वगुणस्यावश्योपादेयत्वम्, स्ववर्णोचितानां कर्मणां परमपुरुषाराधनभूतानां परमपुरुषप्राप्तिनिर्वर्तनप्रकार:, कृत्स्नस्य गीताशास्त्रस्य सारार्थो भक्तियोग इत्येते प्रतिपाद्यन्ते । तत्र तावत्त्यागसंन्यासयोर्पृथक्त्वैकत्व-निर्णयाय स्वरूपनिर्णयाय […]
17 श्रीमद्गीताभाष्यम् सप्तदशोऽध्यायः
भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् सप्तदशोऽध्यायः देवासुरविभागोक्तिमुखेन प्राप्यतत्त्वज्ञानं तत्प्राप्त्युपायज्ञानं च वेदैकमूलमित्युक्तम् । इदानीमशास्त्रविहितस्यासुरत्वेनाफलत्वम्, शास्त्रविहितस्य च गुणतस्त्रैविध्यम्, शास्त्रसिद्धस्य लक्षणं चोच्यते । तत्राशास्त्रविहितस्य निष्फलत्वमजानन्शास्त्रविहिते श्रद्धासंयुक्ते यागादौ सत्त्वादिनिमित्तफलभेदबुभुत्सया अर्जुन: पृच्छति – अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: ॥ १ ॥ शास्त्रविधिमुत्सृज्य श्रद्धयान्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वम् ? आहोस्विद्रज:? अथ […]
16 श्रीमद्गीताभाष्यम् षोडशोऽध्यायः
भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् षोडशोऽध्यायः अतीतेनाध्यायत्रयेण प्रकृतिपुरुषयोर्विविक्तयो: संसृष्टयोश्च याथात्म्यं तत्संसर्गवियोगयोश्च गुणसङ्गतद्विपर्ययहेतुत्वम्, सर्वप्रकारेणावस्थितयो: प्रकृतिपुरुषयोर्भगवद् विभूतित्वम्, विभूतिमतो भगवतो विभूतिभूतादचिद्वस्तुनश्चिद्वस्तुनश्च बद्धमुक्तोभयरूपात् अव्ययत्वव्यापनभरणस्वाम्यैरर्थान्तरतया पुरुषोत्तमत्वेन याथात्म्यञ्च वर्णितम् । अनन्तरम्, उक्तस्य कृत्स्नस्यार्थस्य स्थेम्ने शास्त्रवश्यतां वक्तुं शास्त्रवश्य-तद्विपरीतयोर्देवासुरसर्गयोर्विभागं – श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥ अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥ तेज: क्षमा धृति: […]
15 श्रीमद्गीताभाष्यम् पञ्चदशोऽध्यायः
भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् पञ्चदशोऽध्यायः क्षेत्राध्याये क्षेत्रक्षेत्रज्ञभूतयो: प्रकृतिपुरुषयो: स्वरूपं विशोध्य विशुद्धस्यापरिच्छिन्न-ज्ञानैकाकारस्यैव पुरुषस्य प्राकृतगुणसङ्गप्रवाहनिमित्तो देवाद्याकारपरिणतप्रकृतिसंबन्धोऽनादिः इत्युक्तम् । अनन्तरे चाध्याये पुरुषस्य कार्यकारणोभयावस्थप्रकृतिसंबन्धो गुणसङ्गमूलो भगवतैव कृत इत्युक्त्वा गुणसङ्गप्रकारं सविस्तरं प्रतिपाद्य गुणसङ्गनिवृत्तिपूर्वकात्म-याथात्म्यावाप्तिश्च भगवद्भक्तिमूलेत्युक्तम्। इदानीं भजनीयस्य भगवत: क्षराक्षरात्मकबद्ध-मुक्तविभूतिमत्ताम्, विभूतिभूतात्क्षराक्षरपुरुषद्वयान्निखिलहेय-प्रत्यनीककल्याणैक्तानतया अत्यन्तोत्कर्षेण विसजातीयस्य भगवत: पुरुषोत्तमत्वं च वक्तुमारभते । तत्र तावदसङ्गरूपशस्त्रच्छिन्नबन्धां अक्षराख्यविभूतिं वक्तुं छेद्यरूपबन्धाकारेण विततमचित्परिणाम-विशेषमश्वत्थवृक्षाकारं कल्पयन् – श्रीभगवानुवाच ऊर्ध्वमूलमधश्शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं […]
14 श्रीमद्गीताभाष्यम् चतुर्दशोऽध्यायः
भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् चतुर्दशोऽध्यायः त्रयोदशे प्रकृतिपुरुषय्ाोरन्योन्यसंसृष्टयो: स्वरूपयाथात्म्यं विज्ञाय अमानित्वादिभि: भगवद्भक्त्यनु-गृहीतै: बन्धान्मुच्यत इत्युक्तम् । तत्र बन्धहेतु: पूर्वपूर्वसत्त्वादिगुणमयसुखादिसङ्ग इति चाभिहितम्, कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु (२१) इति । अथेदानीं गुणानां बन्धहेतुताप्रकार:, गुणनिवर्तनप्रकारश्चोच्यते । श्रीभगवानुवाच परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: ॥ १ ॥ परं पूर्वोक्तादन्यत्प्रकृतिपुरुषान्तर्गतमेव सत्त्वादिगुणविषयं ज्ञानं भूय: प्रवक्ष्यामि । तच्च ज्ञानं सर्वेषां प्रकृतिपुरुषविषयज्ञानानामुत्तमम् […]
13 श्रीमद्गीताभाष्यम् त्रयोदशोऽध्याय:
भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् त्रयोदशोऽध्याय: पूर्वस्मिन् षट्के परमप्राप्यस्य परस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्युपायभूतभक्तिरूप-भगवदुपासनाङ्गभूतं प्राप्तु: प्रत्यगात्मनो याथात्म्यदर्शनं ज्ञानयोग-कर्मयोगलक्षणनिष्ठाद्वयसाध्यमुक्तम्। मध्यमे च परमप्राप्यभूतभगवत्तत्त्वयाथात्म्य-तन्माहात्म्यज्ञानपूर्वकैकान्तिकात्यन्तिकभक्तियोगनिष्ठा प्रतिपादिता । अतिशयितैश्वर्यापेक्षाणां आत्मकैवल्यमात्रापेक्षाणां च भक्तियोगस्तत्तदपेक्षितसाधनमिति चोक्तम् । इदानीमुपरितने षट्के प्रकृतिपुरुषतत्संसर्गरूपप्रपञ्चेश्वरतद्याथात्म्यकर्मज्ञानभक्तिस्वरूपतदुपादानप्रकाराश्च षट्कद्व-योदिता विशोध्यन्ते । तत्र तावत्त्रयोदशे देहात्मनो: स्वरूपम्, देहयाथात्म्यशोधनम्, देहवियुक्तात्मप्राप्त्युपाय:, विविक्तात्मस्वरूपसंशोधनम्, तथाविधस्यात्मनश्च अचित्संबन्धहेतु:, ततो विवेकानुसन्धानप्रकारश्चोच्यते । श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ […]
12 श्रीमद्गीताभाष्यम् द्वादशोध्याय:
भगवद्रामा नुजविरचितंश्रीमद्गीताभाष्यम् द्वादशोध्याय: भक्तियोगनिष्ठानां प्राप्यभूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशैश्वरर्यं साक्षात्कर्तुकामायार्जुनाय अनवधिकातिशयकारुण्याउदार्यसौशील्यादिगुणसागरेण सत्यसंकल्पेन भगवता स्वैश्वर्यं यथावदवस्थितं दर्शितम् उक्तं च तत्त्वतो भगवज्ज्ञानदर्शनप्राप्तीनामैकान्तिक-आत्यन्तिक-भगवद्भक्त्येकलभ्यत्वम् । अननतरमात्मप्राप्तिसाधनभूतादत्मोपासनाद्भक्तिरूपस्य भगवदुपासनस्य स्वसाध्यनिष्पादने शैघ्र्यात्सुसुखोपादानत्वाच्च श्रैष्ठ्यम्, भगवदुपासनोपायश्च, तदशक्तस्याक्षरनिष्ठता, तदपेक्षिताश्चोच्यन्ते । भगवदुपासनस्य प्राप्यभूतोपास्यश्रैष्ठ्याच्श्रैष्ठ्यं तु, योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मत: (६.४७) ॥ इत्यत्रोक्तम् । एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते […]
11 श्रीमद्गीताभाष्यम् एकादशोऽध्याय:
भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् एकादशोऽध्याय: एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याणगुणगणेन सह भगवत: सर्वात्मत्वं तत एव तद्व्यतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूपस्थितिप्रवृत्तित्वं चोक्तम् । तमेतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशादुपश्रुत्य एवमेवेति नित्यश्च तथाभूतं भगवन्तं साक्षात्कर्तुकामोऽर्जुन उवाच । तथैव भगवत्प्रसादादनन्तरं द्रक्ष्यति । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् … तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा: (भ.गी.११.१३) इति हि वक्ष्यते। अर्जुन उवाच […]
10 श्रीमद्गीताभाष्यम् दशमाध्यायः
भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् दशमोध्याय: भक्तियोग: सपरिकर उक्त: । इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भ्गवतो निरङ्कुश-ऐश्वर्यादिकल्याणगुणगणानन्त्यम्, कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपञ्च्यते – श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वच: । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१ ॥ मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्भक्त्युत्पत्तिविवृद्धिरूपहितकामनया भूयो मन्माहात्म्यप्रपञ्च-विषयमेव परमं वचो यद्वक्ष्यामि तदवहितमनाश्शृणु ॥ १ ॥ न मे विदु: सुरगणा: […]
09 श्रीमद्गीताभाष्यम् नवमोऽध्याय:
भगवद्रामानुजविरचितं श्रीमद्गीताभाष्यम् नवमोऽध्याय: उपासकभेदनिबन्धना विशेषा: प्रतिपादिता: । इदानीमुपास्यस्य परमपुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्तिरूपस्योपासनस्य स्वरूपमुच्यते । श्रीभगवानुवाच इदं तु गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्षसेऽशुभात् ॥ १ ॥ इदं तु गुह्यतमं भक्तिरूपमुपासनाख्यं ज्ञानं विज्ञानसहितमुपासनगतविशेषज्ञानसहितम्, अनसूयवे ते प्रवक्ष्यामि मद्विषयं सकलेतरविसजातीयमपरिमितप्रकारं माहात्म्यं श्रुत्वा, एवमेव संभवतीति मन्वानाय ते प्रवक्ष्यामीत्यर्थ: । यज्ज्ञानमनुष्ठानपर्यन्तं ज्ञात्वा मत्प्राप्तिविरोधिन: सर्वस्मादशुभान्मोक्ष्यसे ॥ […]