18 श्रीमद्गीताभाष्यम् अष्टादशोऽध्यायः

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

अष्टादशोऽध्यायः

अतीतेनाध्यायद्वयेन  अभ्युदयनिश्श्रेयससाधनभूतं वैदिकमेव यज्ञतपोदानादिकं कर्म, नान्यत् वैदिकस्य च कर्मणस्सामान्यलक्षणं प्रणवान्वय: तत्र मोक्षाभ्युदयसाधनयोर्भेद: तत्सच्छब्दनिर्देश्यत्वेन मोक्षसाधनं च कर्म फलाभिसन्धिरहितं यज्ञादिकम् तदारम्भश्च सत्त्वोद्रेकाद्भवति सत्त्ववृद्धिश्च सात्त्विकाहारसेवया इत्युक्तम् । अनन्तरं मोक्षसाधनतया निर्दिष्टयोस्त्यागसंन्यासयोरैक्यम्, त्यागस्य च स्वरूपम्, भगवति सर्वेश्वरे च सर्वकर्मणां कर्तृत्वानुसन्धानम्, सत्त्वरजस्तमसां कार्यवर्णनेन सत्त्वगुणस्यावश्योपादेयत्वम्, स्ववर्णोचितानां कर्मणां परमपुरुषाराधनभूतानां परमपुरुषप्राप्तिनिर्वर्तनप्रकार:, कृत्स्नस्य गीताशास्त्रस्य सारार्थो भक्तियोग इत्येते प्रतिपाद्यन्ते । तत्र तावत्त्यागसंन्यासयोर्पृथक्त्वैकत्व-निर्णयाय स्वरूपनिर्णयाय चार्जुन: पृच्छति –

अर्जुन उवाच

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्  ।

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन  ॥ १ ॥

त्यागसंन्यासौ हि मोक्षसाधनतया विहितौ, न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशु:  वेदान्तविज्ञानसुनिश्चितार्थास्संन्यासयोगाद्यतयश्शुद्धसत्त्वा: । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे (ना) इत्यादिषु । अस्य संन्यासस्य त्यागस्य च तत्त्वं याथात्म्यं पृथक्वेदितुमिच्छामि। अयमभिप्राय:  किमेतौ संन्यासत्यागशब्दौ पृथगर्थौ, उतैकार्थवेव यदा पृथगर्थौ, तदा अनयो: पृथक्त्वेन स्वरूपं वेदितुमिच्छामि एकत्वेऽपि तस्य स्वरूपं वक्तव्यमिति ॥ १ ॥

अथानयोरेकमेव स्वरूपम्, तच्चेदृशमिति निर्णेतुं वादिविप्रतिपत्तिं दर्शयन्श्रीभगवानुवाच –

श्रीभगवानुवाच

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदु:  ।

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा:  ॥ २ ॥

केचन विद्वांस: काम्यानां कर्मणां न्यासं स्वरूपत्यागं संन्यासं विदु: । केचिच्च विचक्षणा: नित्यानां नैमित्तिकानां च काम्यानां सर्वेषां कर्मणां फलत्याग एव मोक्षशास्त्रेषु त्यागशब्दार्थ इति प्राहु:। तत्र शास्त्रीयत्याग: काम्यकर्मस्वरूपविषय: सर्वकर्मफलविषय इति विवादं प्रदर्शयनेकत्र संन्यासशब्दमितरत्र त्यागशब्दं प्रयुक्तवान् । अतस्त्यागसंन्यासशब्दयोः एकार्थत्वमङ्गीकृतमिति ज्ञायते। तथा निश्चयं शृणु मे तत्र त्यागे भरतसत्तम (४) इति त्यागशब्देनैव निर्णयवचनात्, नियतस्य तु संन्यास: कर्मणो नोपपद्यते । मोहात्तस्य परित्याग: तामस: परिकीर्तित: ॥ (७) अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मण: फलम्  । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ (१२) इति परस्परपर्यायतादर्शनाच्च तयोरेकार्थत्वमङ्गीकृतं इति निश्चीयते ॥ २ ॥

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिण:  ।

यज्ञदानतप:कर्म न त्याज्यमिति चापरे      ॥ ३ ॥

एके मनीषिण: कापिला: वैदिकाश्च तन्मतानुसारिण: रागादिदोषवद्बन्धकत्वात्सर्वं यज्ञादिकं कर्म मुमुक्षुणा त्याज्यमिति प्राहु:; अपरे पण्डिता: यज्ञादिकं कर्म न त्याज्यमिति प्राहु:॥३॥

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम  ।

त्यागो हि पुरुषव्याघ्र त्रिविधस्संप्रकीर्तित:    ॥ ४ ॥

तत्र एवं वादिविप्रतिपन्ने त्यागे त्यागविषयं निश्चयं मत्तश्शृणु त्याग: क्रियमाणेष्वेव वैदिकेषु कर्मसु फलविषयतया, कर्मविषयतया, कर्तृत्वविषयतया च पूर्वमेव हि मया त्रिविधस्संप्रकीर्तित:, मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वर: (३.३०) इति। कर्मजन्यं स्वर्गादिकं फलं मम न स्यादिति फलत्याग: मदीयफलसाधनतया मदीयमिदं कर्मेति कर्मणि ममताया: परित्याग: कर्मविषयस्त्याग: सर्वेश्वरे कर्तृत्वानुसंधानेनात्मन: कर्तृतात्याग: कर्तृत्वविषयस्त्याग:॥४॥

यज्ञदानतप:कर्म न त्याज्यं कार्यमेव तत् ।

यज्ञदानतप:प्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिदपि त्याज्यम्, अपि तु आ प्रयाणादहरह: कार्यमेव ॥ ४ ॥ कुत: ?

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्    ॥ ५ ॥

यज्ञदानतप:प्रभृतीनि वर्णाश्रमसंबन्धीनि कर्माणि मनीषिणां मननशीलानां पावनानि । मननमुपासनम् मुमुक्षूणां यावज्जीवमुपासनं कुर्वतामुपासननिष्पत्तिविरोधिप्राचीन-कर्मविनाशनानीत्यर्थ: ॥ ५ ॥

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च  ।

कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्  ॥ ६ ॥

यस्मान्मनीषिणां यज्ञदानतप:प्रभृतीनि पावनानि, तस्मादुपासनवदेतान्यपि यज्ञादिकर्माणि मदाराधनरूपाणि, सङ्गम्  कर्मणि ममतां फलानि च त्यक्त्वा अहरहराप्रयाणादुपासननिवृत्तये मुमुक्षुणा कर्तव्यानीति मम निश्चितमुत्तमं मतम् ॥ ६ ॥

नियतस्य तु संन्यास: कर्मणो नोपपद्यते  ।

मोहात्तस्य परित्यागस्तामस: परिकीर्तित:    ॥ ७ ॥

नियतस्य नित्यनैमित्तिकस्य महायज्ञादे: कर्मण: संन्यास: त्यागो नोपपद्यते, शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण: (३.८) इति शरीरयात्राया एवासिद्धे:, शरीरयात्रा हि यज्ञशिष्टाशनेन निर्वर्त्यमाना सम्यग्ज्ञानाय प्रभवति अन्यथा, ते त्वघं भुञ्जते पापा: (३.१३) इत्ययज्ञशिष्टाघरूपाशनाप्यायनं मनसो विपरीतज्ञानाय भवति । अन्नमयं हि सोम्य मन: (छा.६.५.४) इत्यन्नेन हि मन आप्यायते । आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृति: । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष: ॥ (छा.७.२६.२)  इति ब्रह्मसाक्षात्काररूपं ज्ञानमाहारशुद्ध्यायत्तं श्रूयते  । तस्मान्महायज्ञादिनित्यनैमित्तिकं कर्म आ प्रयाणाद्ब्रह्मज्ञानायैवोपादेयमिति तस्य त्यागो नोपपद्यते । एवं ज्ञानोत्पादिन: कर्मणो बन्धकत्वमोहात्परित्यागस्तामस: परिकीर्तित: । तमोमूलस्त्यागस्तामस: । तम:कार्याज्ञानमूलत्वेन त्यागस्य तमोमूलत्वम् । तमो ह्यज्ञानस्य मूलं, प्रमादमोहौ तमसो भवतोऽज्ञानमेव च (१४.१७) इत्यत्रोक्तम् । अज्ञानं तु ज्ञानविरोधि विपरीतज्ञानम् तथा च वक्ष्यते, अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान् विपरीतांश्च बुद्धि: सा पार्थ तामसी (३२) इति। अतो नित्यनैमित्तिकादे: कर्मणस्त्यागो विपरीतज्ञानमूल एवेत्यर्थ: ॥ ७॥

दु:खमित्येव य: कर्म कायक्लेशभयात्त्यजेत् ।

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥

यद्यपि परंपरया मोक्षसाधनभूतं कर्म, तथापि दु:खात्मकद्रव्यार्जनसाध्यत्वात् बह्वायासरूपतया कायक्लेशकरत्वाच्च मनसोऽवसादकरमिति तद्भीत्या योगनिष्पत्तये ज्ञानाभ्यास एव यतनीय इति । यो महायज्ञाद्याश्रमकर्म परित्यजेत्, स राजसं रजोमूलं त्यागं कृत्वा तदयथावस्थितशास्त्रार्थरूपमिति ज्ञानोत्पत्तिरूपं त्यागफलं न लभते अयथावत्प्रजानाति बुद्धिस्सा पार्थ राजसी (३१) इति हि वक्ष्यते । न हि कर्म दृष्टद्वारेण मन:प्रसादहेतु:, अपि तु भवगत्प्रसादद्वारेण ॥ ८ ॥

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन  ।

सङ्गं त्यक्त्वा फलं चैव, स त्याग: सात्त्विको मत: ॥ ९ ॥

नित्यनैमित्तिकमहायज्ञादिवर्णाश्रमविहितं कर्म मदाराधनरूपतया कार्यं स्वयंप्रयोजनमिति मत्वा सङ्गं कर्मणि ममतां फलं च त्यक्त्वा यत्क्रियते, स त्याग: सात्त्विको मत:, स सत्त्वमूल:, यथावस्थितशास्त्रार्थज्ञानमूल इत्यर्थ: । सत्त्वं हि यथावस्थितवस्तुज्ञानं उत्पादयतीत्युक्तम्, सत्त्वात्संजायते ज्ञानम् (१४.१७) इति । वक्ष्यते च, प्रवृत्तिं च निवृत्तिं च कार्याकार्यं भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धि: सा पार्थ सात्त्विकी॥ (३०) इति ॥

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते  ।

त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशय:       ॥ १० ॥

एवं सत्त्वसमाविष्टो मेधावी यथावस्थिततत्त्वज्ञान:, तत एव च्छिन्नसंशय:, कर्मणि सङ्गफलकर्तृत्वत्यागी, न द्वेष्ट्यकुशलं कर्म शुकले च कर्मणि नानुषज्जते । अकुशलं कर्म अनिष्टफलम्, कुशलं च कर्म इष्टरूपस्वर्गपुत्रपश्वन्नाद्यादिफलम् । सर्वस्मिन् कर्मणि ममतारहितत्वात्, त्यक्तब्रह्मव्यतिरिक्तसर्वफलत्वात्, त्यक्तकर्तृत्वाच्च तयो: क्रियमाणयो: प्रीतिद्वेषौ न करोति । अनिष्टफलं पापं कर्मात्र प्रामादिकमभिप्रेतम्  नाविरतो दुश्चरितान्नाशान्तो नासमाहित: । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥  इति दुश्चरिताविरतेर्ज्ञानोत्पत्तिविरोधित्वश्रवणात्। अत: कर्मणि कर्तृत्वसङ्गफलानां त्याग: शास्त्रीयत्याग:, न कर्मस्वरूपत्याग: ॥  १० ॥

तदाह

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषत:  ।

यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते  ॥ ११ ॥

न हि देहभृता ध्रियमाणशरीरेण कर्माण्यशेषतस्त्यक्तुं शक्यम् देहधारणार्थानामशनपानादीनां तदनुबन्धिनां च कर्मणामवर्जनीयत्वात् । तदर्थं च महायज्ञाद्यनुष्ठानमवर्जनीयम् । यस्तु तेषु महायज्ञादिकर्मसु फलत्यागी स एव, त्यागेनैके अमृतत्वमानशु: (१९) इत्यादिशास्त्रेषु त्यागीत्यभिधीयते । फलत्यागीति प्रदर्शनार्थं फलकर्तृत्वकर्मसङ्गानां त्यागीति त्रिविध: संप्रकीर्तित: (४) इति प्रक्रमात् ॥ ११ ॥

ननु कर्माण्यग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादीनि, महायज्ञादीनि च स्वर्गादिफलसंबन्धितया शास्त्रैर्विधीयन्ते नित्यनैमित्तिकानामपि प्राजापत्यं गृहस्थानाम् (वि.पु.१.५.३८) इत्यादिफलसंबन्धितयैव हि चोदना । अत: तत्तत्फलसाधनस्वभावतयावगतानां कर्मणामनुष्ठाने, बीजावापादीनामिव, अनभिसंहितफलस्यापि इष्टानिष्टरूपफलसंबन्ध: अवर्जनीय: । अतो मोक्षविरोधिफलत्वेन मुमुक्षुणा न कर्मानुष्ठेयमित्यत उत्तरमाह –

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मण: फलम्  ।

भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १२ ॥

अनिष्टं नरकादिफलम्, इष्टं स्वर्गादि, मिश्रमनिष्टसंभिन्नं पुत्रपश्वन्नाद्यादि एतत्त्रिविधं कर्मण: फलम्, अत्यागिनां कर्तृत्वममताफलत्यागरहितानां प्रेत्य भवति । प्रेत्य कर्मानुष्ठानोत्तरकालमित्यर्थ:। न तु संन्यासिनां क्वचित् न तु कर्तृत्वादिपरित्यागिनां क्वचिदपि मोक्षविरोधि फलं भवति । एतदुक्तं भवति  यद्यप्यग्निहोत्रमहायज्ञादीनि तान्येव, तथापि जीवनाधिकारकामाधिकारयोरिव मोक्षाधिकारे च विनियोगपृथक्त्वेन परिह्रियते । मोक्षविनियोगश्च, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन (बृ.६.४.२२) इत्यादिभिरिति । तदेवं क्रियमाणेष्वेव कर्मसु कर्तृत्वादिपरित्याग: शास्त्रसिद्धि: संन्यास: स एव च त्याग इत्युक्त: ॥१२॥

इदानीं भगवति पुरुषोत्तमे अन्तर्यामिणि कर्तृत्वानुसंधानेन आत्मनि अकर्तृत्वानुसंधानप्रकारमाह, तत एव फलकर्मणोरपि ममतापरित्यागो भवतीति । परमपुरुषो हि स्वकीयेन जीवात्मना स्वकीयैश्च करणकलेवरप्राणै: स्वलीलाप्रयोजनाय कर्माण्यारभते । अतो जीवात्मगतं क्षुन्निवृत्त्यादिकमपि फलम्, तत्साधनभूतं च कर्म परमपुरुषस्यैव ।

पञ्चैतानि महाबाहो कारणानि निबोधे मे ।

सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्  ॥ १३ ॥

सांख्या बुद्धि:, सांख्ये कृतान्ते यथावस्थिततत्त्वविषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्वकर्मणां सिद्धये उत्पत्तये, प्रोक्तानि पञ्चैतानि कारणानि निबोधे मे  मम सकाशादनुसंधत्स्व । वैदिकी हि बुद्धि: शरीरेन्द्रियप्राणजीवात्मोपकरणं परमात्मानमेव कर्तारमवधारयति, य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृत: (बृ.५.७.२२) , अन्त:प्रविष्ट: शास्ता जनानां सर्वात्मा (य.या.३.११.२) इत्यादिषु ॥१३॥

तदिदमाह –

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।

विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्   ॥ १४ ॥

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नर: ।

न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतव: ॥ १५ ॥

न्याय्ये शास्त्रसिद्धे, विपरीते प्रतिषिद्धे वा सर्वस्मिन् कर्मणि शरीरे, वाचिके, मानसे च पञ्चैते हेतव: । अधिष्ठानं शरीरम् अधिष्ठीयते जीवात्मनेति महाभूतसंघातरूपं शरीरमधिष्ठानम् । तथा कर्ता जीवात्मा अस्य जीवात्मनो ज्ञातृत्वं कर्तृत्वं च, ज्ञोऽत एव (ब्र.सू.२.३.१९) इति कर्ता शास्त्रार्थवत्त्वात् (ब्र.सू.२.३.३३) इति च सूत्रोपपादितम् । करणं च पृथग्विधम्  वाक्पाणिपादादिपञ्चकं समनस्कं कर्मेन्द्रियं पृथग्विधं कर्मनिष्पत्तौ पृथग्व्यापारम् । विविधा च पृथक्चेष्टा । चेष्टाशब्देन पञ्चात्मा वायुरभिधीयते तद्वृत्तिवाचिना शरीरेन्द्रियधारणस्य प्राणापानादिभेदभिन्नस्य वायो: पञ्चात्मनो विविधा च चेष्टा विविधा वृत्ति:। दैवं चैवात्र पञ्चमम्  अत्र कर्महेतुकलापे दैवं पञ्चमम्  परमात्मा अन्तर्यामी कर्मनिष्पत्तौ प्रधानहेतुरित्यर्थ:। उक्तं हि, सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिर्ज्ञानमपोहनं च (१५.१५) इति । वक्ष्यति च, ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥ (६१) इति । परमात्मायत्तं च जीवात्मन: कर्तृत्वम्, परात्तु तच्छ्रुते: (ब्र.सू.२.३.४०) इत्याद्युपपादितम् । नन्वेवं परमात्मायत्ते जीवात्मन: कर्तृत्वे जीवात्मा कर्मण्यनियोज्यो भवतीति विधिनिषेधशास्त्राण्यनर्थकानि स्यु: ॥ इदमपि चोद्यं सूत्रकारेण परिहृतम्, कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयार्थ्यादिभ्य: (ब्र.सू.२.३.४१) इति । एतदुक्तं भवति – परमात्मना दत्तैस्तदाधारैश्च करणकलेबरादिभिस्तदाहितशक्तिभि: स्वयं च जीवात्मा तदाधारस्तदाहितशक्तिस्सन् कर्मनिष्पत्तये स्वेच्छया करणाद्यधिष्ठानाकारं प्रयत्नं चारभते तदन्तरवस्थित: परमात्मा स्वानुमतिदानेन तं प्रवर्तयतीति जीवस्यापि स्वबुद्ध्यैव प्रवृत्तिहेतुत्वमस्ति यथा गुरुतरशिलामहीरुहादिचलनादिफलप्रवृत्तिषु बहुपुरुषसाध्यासु बहूनां हेतुत्वं विधिनिषेधभाक्त्वं चेति ॥ १४-१५॥

तत्रैवं सति कर्तारमात्मानं केवलं तु य: ।

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मति: ॥ १६ ॥

एवं वस्तुत: परमात्मानुमतिपूर्वके जीवात्मन: कर्तृत्वे सति, तत्र कर्मणि केवलमात्मानमेव कर्तारं य: पश्यति, स दुर्मति: विपरीतमति: अकृतबुद्धित्वादनिष्पन्न-यथावस्थितवस्तुबुद्धित्वान्न पश्यति न यथावस्थितं कर्तारं पश्यति॥१६॥

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।

हत्वापि स इमांल्लोकान्न हन्ति न निबध्यते ॥ १७ ॥

परमपुरुषकर्तृत्वानुसंधानेन यस्य भाव: कर्तृत्वविषयो मनोवृत्तिविशेष: नाहंकृत: नाहमभिमानकृत:। अहं करोमीति ज्ञानं यस्य न विद्यत इत्यर्थ: । बुद्धिर्यस्य न लिप्यते अस्मिन् कर्मणि मम कर्तृत्वाभावादेतत्फलं न मया संबध्यते, न च मदीयं कर्मेति यस्य बुद्धिर्जायत इत्यर्थ: । स इमान् लोकान् युद्धे हत्वापि तान्न निहन्ति न केवलं भीष्मादीनित्यर्थ: । ततस्तेन युद्धाख्येन कर्मणा न निबध्यते । तत्फलं नानुभवतीत्यर्थ: ॥१७॥

सर्वमिदमकर्तृत्वाद्यनुसन्धानं सत्त्वगुणवृद्ध्यैव भवतीति सत्त्वस्योपादेयताज्ञापनाय कर्मणि सत्त्वादिगुणकृतं वैषम्यं प्रपञ्चयिष्यन् कर्मचोदनाप्रकारं तावदाह –

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।

कारणं कर्म कर्तेति त्रिविध: कर्मसंग्रह:      ॥ १८ ॥

ज्ञानं कर्तव्यकर्मविषयं ज्ञानम्, ज्ञेयं च कर्तव्यं कर्म, परिज्ञाता तस्य बोद्धेति त्रिविधा कर्मचोदना। बोधबोद्धव्यबोद्धृयुक्तो ज्योतिष्टोमादिकर्मविधिरित्यर्थ: । तत्र बोद्धव्यरूपं कर्म त्रिविधं संगृह्यते करणं कर्म कर्तेति । करणं साधनभूतं द्रव्यादिकम् कर्म यागादिकम् कर्ता अनुष्ठातेति ॥ १८॥

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदत: ।

प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि   ॥ १९ ॥

कर्तव्यकर्मविषयं ज्ञानम्, अनुष्ठीयमानं च कर्म, तस्यानुष्ठाता च सत्त्वादिगुणभेदतस्त्रिविधैव प्रोच्यते गुणसंख्याने गुणकार्यगणने । यथावच्छृणु तान्यपि तानि गुणतो भिन्नानि ज्ञानादीनि यथावच्छृणु ॥ १९ ॥

सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥

ब्राह्मणक्षत्रियब्रह्मचारिगृहस्थादिरूपेण विभक्तेषु सर्वेषु भूतेषु कर्माधिकारिषु येन ज्ञानेनैकमात्माख्यं भावं, तत्राप्यविभक्तं ब्राह्मणत्वाद्यनेकाकारेष्वपि भूतेषु सितदीर्घादि-विभागवत्सु ज्ञानाकारे आत्मनि विभागरहितम्, अव्ययं व्ययस्वभावेष्वपि ब्राह्मणादिशरीरेषु अव्ययमविकृतं फलादिसङ्गानर्हं च कर्माधिकारवेलायामीक्षते, तज्ज्ञानं सात्त्विकं विद्धि ॥ २० ॥

पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् ।

वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्   ॥ २१ ॥

सर्वेषु भूतेषु ब्राह्मणादिषु ब्राह्मणाद्याकारपृथक्त्वेनात्माख्यानपि भावान्नानाभूतान् सितदीर्घादिपृथक्त्वेन च पृथग्विधान् फलादिसंयोगयोग्यान् कर्माधिकारवेलायां यज्ज्ञानं वेत्ति, तज्ज्ञानं राजसं विद्धि ॥२१॥

यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहेतुकम् ।

अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्        ॥ २२ ॥

यत्तु ज्ञानम्, एकस्मिन् कार्ये एकस्मिन् कर्तव्ये कर्मणि प्रेतभूतगणाद्याराधनरूपे अत्यल्पफले कृत्स्नफलवत्सक्तम्, अहेतुकं वस्तुतस्त्वकृत्स्नफलवत्तया तथाविधसङ्गहेतुरहितमतत्त्वार्थवत्पूर्ववदेवात्मनि पृथक्त्वादियुक्ततया मिथ्याभूतार्थविषयम्, अत्यल्पफलं च प्रेतभूताद्याराधनविषयत्वादल्पं च, तज्ज्ञानं तामसमुदाहृतम् ॥ २२ ॥     एवं कर्तव्यकर्मविषयज्ञानस्याधिकारवेलायामधिकार्यंशेन गुणतस्त्रैविध्यमुक्त्वा अनुष्ठेयस्य कर्मणो गुणतस्त्रैविध्यमाह –

नियतं सङ्गरहितमरागद्वेषत: कृतम् ।

अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते     ॥ २३ ॥

नियतं स्ववर्णाश्रमोचितम्, सङ्गरहितं कर्तृत्वादिसङ्गरहितम्, अरागद्वेषत: कृतं कीर्तिरागादकीर्तिद्वेषाच्च न कृतम् अदम्भेन कृतमित्यर्थ: अफलप्रेप्सुना अफलाभिसन्धिना कार्यमित्येव कृतं यत्कर्म, तत्सात्त्विकमुच्यते ॥ २३ ॥

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुन: ।

क्रियते बहुलायासं तद्राजसमुदाहृतम्        ॥ २४ ॥

यत्तु पुन: कामेप्सुना फलप्रेप्सुना साहंकारेण वा वाशब्दश्चार्थे कर्तृत्वाभिमानयुक्तेन च, बहुलायासं यत्कर्म क्रियते, तद्राजसं बहुलायासमिदं कर्म मयैव क्रियत इत्येवंरूपाभिमानयुक्तेन यत्कर्म क्रियते, तद्राजसमित्यर्थ: ॥ २४ ॥

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् ।

मोहादारभ्यते कर्म यत्तत्तामसमुच्यते        ॥ २५ ॥

कृते कर्मण्यनुबध्यमानं दु:खमनुबन्ध: क्षय: कर्मणि क्रियमाणे अर्थविनाश: हिंसा तत्र प्राणिपीडा पौरुषमात्मन: कर्मसमापनसामर्थ्यम् एतानि अनवेक्ष्य अविमृश्य, मोहात्परमपुरुषकर्तृत्वाज्ञानाद्यत्कर्मारभ्यते, तत्तामसमुच्यते ॥ २५ ॥

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वित: ।

सिद्ध्यसिद्ध्योर्निर्विकार: कर्ता सात्त्विक उच्यते॥ २६ ॥

मुक्तसङ्ग: फलसङ्गरहित: अनहंवादी कर्तृत्वाभिमानरहित:, धृत्युत्साहसमन्वित: आरब्धे कर्मणि यावत्कर्मसमाप्त्यवर्जनीयदु:खधारणं धृति: उत्साह: उद्युक्तचेतस्त्वम् ताभ्यां समन्वित:, सिद्ध्यसिद्ध्योर्निर्विकार: युद्धादौ कर्मणि तदुपकरणभूतद्रव्यार्जनादिषु च सिद्ध्यसिद्ध्योरविकृतचित्त: कर्ता सात्त्विक उच्यते ॥ २६ ॥

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचि: ।

हर्षशोकान्वित: कर्ता राजस: परिकीर्तित:    ॥ २७ ॥

रागी यशोऽर्थी, कर्मफलप्रेप्सु: कर्मफलार्थी लुब्ध: कर्मापेक्षितद्रव्यव्ययस्वभावरहित:, हिंसात्मक: परान् पीडयित्वा तै: कर्म कुर्वाण:, अशुचि: कर्मापेक्षितशुद्धिरहित:, हर्षशोकान्वित: युद्धादौ कर्मणि जयादिसिद्ध्यसिद्ध्योर्हार्षशोकान्वित: कर्ता राजस: परिकीर्तित: ॥ २७ ॥

अयुक्त: प्राकृत: स्तब्ध: शठो नैकृतिकोऽलस: ।

विषादी दीर्घसूत्री च कर्ता तामस उच्यते     ॥ २८ ॥

अयुक्त: शास्त्रीयकर्मायोग्य:, विकर्मस्थ:, प्राकृत: अनधिगतविद्य:, स्तब्ध: अनारम्भशील:, शठ: अभिचारादिकर्मरुचि:, नैकृतिक: वञ्चनपर:, अलस: आरब्धेष्वपि कर्मसु मन्दप्रवृत्ति:, विषादी अतिमात्रावसादशील: दीर्घसूत्री अभिचारादिकर्म कुर्वन् परेषु दीर्घकालवर्त्यनर्थपर्यालोचनशील:, एवंभूतो य: कर्ता, स तामस: ॥ १८.२८ ॥

एवं कर्तव्यकर्मविषयज्ञाने कर्तव्ये च कर्मणि अनुष्ठातरि च गुणतस्त्रैविध्यमुक्तम् इदानीं सर्वतत्त्वसर्वपुरुषार्थनिश्चयरूपाया बुद्धेर्धृतेश्च गुणतस्त्रैविध्यमाह –

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।

प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय       ॥ २९ ॥

बुद्धि: विवेकपूर्वकं निश्चयरूपं ज्ञानम्, धृति: आरब्धाया: क्रियाया विघ्नोानिपातेऽपि धारणम्, तयोस्सत्त्वादिगुणतस्त्रिविधं भेदं पृथक्त्वेन प्रोच्यमानं यथावच्छृणु ॥ २९ ॥

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।

बन्धं मोक्षं च या वेत्ति बुद्धि: सा पार्थ सात्त्विकी   ॥ ३० ॥

प्रवृत्ति: अभ्युदयसाधनभूतो धर्म:, निवृत्ति: मोक्षसाधनभूत:, तवुभौ यथावस्थितौ या बुद्धिर्वेत्ति कार्याकार्ये सर्ववर्णानां प्रवृत्तिनिवृत्तिधर्मयोरन्यतरनिष्ठानां देशकालावस्थाविशेषेषु ‘इदं कार्यम्, इदमकार्यम्‘ इति या वेत्ति भयाभये  शास्त्रातिवृत्तिर्भयस्थानं तदनुवृत्तिरभयस्थानम्, बन्धं मोक्षं च संसारयाथात्म्यं तद्विगमयाथात्म्यं च या वेत्ति सा सात्त्विकी बुद्धि: ॥ ३० ॥

यथा धर्ममधर्मं च कार्यं चाकार्यमेव च ।

अयथावत्प्रजानाति बुद्धि: सा पार्थ राजसी         ॥ ३१ ॥

यथा पूर्वोक्तं द्विविधं धर्मं तद्विपरीतं च तन्निष्ठानां देशकालावस्थादिषु कार्यं चाकार्यं च यथावन्न जानाति, सा राजसी बुद्धि: ॥ ३१ ॥

अधर्मं धर्ममिति या मन्यते तमसावृता ।

सर्वार्थान् विपरीतांश्च बुद्धि: सा पार्थ तामसी      ॥ ३२ ॥

तामसी तु बुद्धि: तमसावृता सती सर्वार्थान् विपरीतान्मन्यते । अधर्मं धर्मं, धर्मं चाधर्मं, सन्तं चार्थमसन्तम्, असन्तं चार्थं सन्तं, परं च तत्त्वमपरम्, अपरं च तत्त्वं परम् । एवं सर्वं विपरीतं मन्यत इत्यर्थ: ॥ ३२ ॥

धृत्या यया धारयते मन:प्राणेन्द्रियक्रिया: ।

योगेनाव्यभिचारिण्या धृति: सा पार्थ सात्त्विकी      ॥ ३३ ॥

यया धृत्या योगेनाव्यभिचारिण्या मन:प्राणेन्द्रियाणां क्रिया: पुरुषो धारयते योग: मोक्षसाधनभूतं भगवदुपासनम् योगेन प्रयोजनभूतेनाव्यभिचारिण्या योगोद्देशेन प्रवृत्तास्तत्साधनभूता मन:प्रभृतीनां क्रिया: यया धृत्या धारयते, सा सात्त्विकीत्यर्थ: ॥ ३३ ॥

यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ।

प्रसङ्गेन फलाकाङ्क्षी धृति: सा पार्थ राजसी       ॥ ३४ ॥

फलाकाङ्क्षी पुरुष: प्रकृष्टसङ्गेन धर्मकामार्थान् यया धृत्या धारयते, सा राजसी । धर्मकामार्थशब्देन तत्साधनभूता मन:प्राणेन्द्रियक्रिया लक्ष्यन्ते । फलाकाङ्क्षीत्यत्रापि फलशब्देन राजसत्वाद्धर्मकामार्था एव विवक्षिता: । अतो धर्मकामार्थापेक्षया मन:प्रभृतीनां क्रिया यया धृत्या धारयते, सा राजसीत्युक्तं भवति ॥ ३४ ॥

यया स्वप्नं भयं शोकं विषादं मदमेव च ।

न विमुञ्चति दुर्मेधा धृति: सा पार्थ तामसी ॥ ३५ ॥

यया धृत्या ।स्वप्नं निद्राम् । मदं विषयानुभवजनितं मदम् । स्वप्नमदवुद्दिश्य प्रवृत्ता मन:प्राणादीनां क्रिया: दुर्मेधा न विमुञ्चति धारयति । भयशोकविषादशब्दाश्च भयशोकादिदायिविषयपरा: तत्साधनभूताश्च मन:प्राणादिक्रिया यया धारयते, सा धृतिस्तामसी ॥ ३५ ॥

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।

पूर्वोक्ता: सर्वे ज्ञानकर्मकर्त्रादयो यच्छेषभूता:, तच्च सुखं गुणतस्त्रिविधमिदानीं शृणु ॥

अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति   ॥ ३६ ॥

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।

तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥

यस्मिन् सुखे चिरकालाभ्यासात्क्रमेण निरतिशयां रतिं प्राप्नोति, दु:खान्तं च निगच्छति निखिलस्य सांसारिकस्य दु:खस्यान्तं निगच्छति ॥ तदेव विशिनष्टि  यत्तत्सुखम्, अग्रे योगोपक्रमवेलायां बह्वायाससाध्यत्वाद्विविक्तस्वरूपस्याननुभूतत्वाच्च विषमिव दु:खमिव भवति, परिणामेऽमृतोपमम् । परिणामे विपाके अभ्यासबलेन विविक्तात्मस्वरूपाविर्भावे अमृतोपमं भवति, तच्च आत्मबुद्धिप्रसादजमात्मविषया बुद्धि: आत्मबुद्धि:, तस्या: निवृत्तसकलेतरविषयत्वं प्रसाद:, निवृत्तसकलेतरविषयबुद्ध्या विविक्तस्वभावात्मानुभवजनितं सुखममृतोपमं भवति तत्सुखं सात्त्विकं प्रोक्तम् ॥ ३७ ॥

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।

परिणामे विषमिव तत्सुखं राजसं स्मृतम्    ॥ ३८ ॥

अग्रे अनुभववेलायां विषयेन्द्रियसंयोगाद्यत्तदमृतमिव भवति, परिणामे विपाके विषयाणां सुखतानिमित्तक्षुदादौ निवृत्ते तस्य च सुखस्य निरयादिनिमित्तत्वाद्विषमिव पीतं भवति, तत्सुखं राजसं स्मृतम् ॥ ३८ ॥

यदग्रे चानुबन्धे च सुखं मोहनमात्मन: ।

निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्             ॥३९ ॥

यत्सुखमग्रे चानुबन्धे च अनुभववेलायां विपाके च आत्मनो मोहनं मोहहेतुर्भवति मोहोऽत्र यथावस्थितवस्त्वप्रकाशोऽभिप्रेत: निद्रालस्यप्रमादोत्थं निद्रालस्यप्रमादजनितम्, निद्रादयो ह्यनुभववेलायामपि मोहहेतव: । निद्राया मोहहेतुत्वं स्पृष्टम् । आलस्यमिन्द्रियव्यापारमान्द्यम् । इन्द्रियव्यापारमान्द्ये च ज्ञानमान्द्यं भवत्येव । प्रमाद: कृत्यानवधानरूप इति तत्रापि ज्ञानमान्द्यं भवति । ततश्च तयोरपि मोहहेतुत्वम् । तत्सुखं तामसमुदाहृतम् । अतो मुमुक्षुणा रजस्तमसी अभिभूय सत्त्वमेवोपादेयमित्युक्तं भवति ॥ ३९ ॥

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुन: ।

सत्त्वं प्रकृतिजैर्मुक्तं यदेभि: स्यात्त्रिभिर्गुणै: ॥ ४० ॥

पृथिव्यां मनुष्यादिषु दिवि देवेषु वा प्रकृतिसंसृष्टेषु ब्रह्मादिषु स्थावरान्तेषु प्रकृतिजैरेभिस्त्रिभिर्गुणैर्मुक्तं यत्सत्त्वं प्राणिजातम्, न तदस्ति ॥ ४० ॥

त्यागेनैके अमृतत्वमानशु: इत्यादिषु मोक्षसाधनतया निर्दिष्टस्त्याग: संन्यासशब्दार्थादनन्य: स च क्रियमाणेष्वेव कर्मसु कर्तृत्वत्यागमूल: फलकर्मणोस्त्याग: कर्तृत्वत्यागश्च परमपुरुषे कर्तृत्वानुसंधानेनेत्युक्तम् । एतत्सर्वं सत्त्वगुणवृद्धिकार्यमिति सत्त्वोपादेयताज्ञापनाय सत्त्वरजस्तमसां कार्यभेदा: प्रपञ्चिता: । इदानीमेवंभूतस्य मोक्षसाधनतया क्रियमाणस्य कर्मण: परमपुरुषाराधनवेषतां तथानुष्ठितस्य च कर्मणस्तत्प्राप्तिलक्षणं फलं प्रतिपादयितुं ब्राह्मणाद्यधिकारिणां स्वभावानुबन्धिसत्त्वादिगुणभेदभिन्नं वृत्त्या सह कर्तव्यकर्मस्वरूपमाह –

ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै:     ॥ ४१ ॥

ब्राह्मणक्षत्रियविशां स्वकीयो भाव: स्वभाव: ब्राह्मणादिजन्महेतुभूतं प्राचीनकर्मेत्यर्थ: तत्प्रभवा: सत्त्वादयो गुणा: । ब्राह्मणस्य स्वभावप्रभवो रजस्तमोऽभिभवेनोद्भूत: सत्त्वगुण: क्षत्रियस्य स्वभावप्रभव: तमस्सत्त्वाभिभवेनोद्भूतो रजोगुण: वैश्यस्य स्वभावप्रभव: सत्त्व-रजोऽभिभवेन अल्पोद्रिक्तस्तमोगुण: शूद्रस्य स्वभावप्रभवस्तु रजस्सत्त्वाभिभवेनात्युद्रिक्तः तमोगुण: । एभि: स्वभावप्रभवैर्गुणै: सह प्रविभक्तानि कर्माणि शास्त्रै: प्रतिपादितानि । ब्राह्मणादय एवंगुणका:, तेषां चैतानि कर्माणि, वृत्तयश्चैता इति हि विभज्य प्रतिपादयन्ति शास्त्राणि ॥ ४१ ॥

शमो दमस्तपश्शौचं क्षान्तिरार्जवमेव च ।

ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म स्वभावजम् ॥ ४२ ॥

शम: बाह्येन्द्रियनियमनम् दम: अन्त:करणनियमनम् तप: भोगनियमनरूप: शास्त्रसिद्ध: कायक्लेश: शौचं शास्त्रीयकर्मयोग्यता क्षान्ति: परै: पीड्यमानस्याप्यविकृतचित्तता आर्जवं परेषु मनोऽनुरूपं बाह्यचेष्टाप्रकाशनम् ज्ञानं परावरतत्त्वयाथात्म्यज्ञानम् विज्ञानं परतत्त्वगतासाधारणविशेषविषयं ज्ञानम् आस्तिक्यं वैदिकस्य कृत्स्नस्य सत्यतानिश्चय: प्रकृष्ट: केनापि हेतुना चालयितुमशक्य इत्यर्थ: । भगवान् पुरुषोत्तमो वासुदेव: परब्रह्मशब्दाभिदेयो निरस्तनिखिलदोषगन्ध: स्वाभाविकानवधिकातिशय-ज्ञानशक्त्याद्यसङ्ख्येयकल्याणगुणगणो निखिलवेदवेदान्तवेद्य: स एव निखिलजगदेककारणं निखिलजगदाधारभूत: निखिलस्य स एव प्रवर्तयिता तदाराधनभूतं च वैदिकं कृत्स्नं कर्म तैस्तैराराधितो धर्मार्थकाममोक्षाख्यं फलं प्रयच्छतीत्यस्यार्थस्य सत्यतानिश्चय आस्तिक्यम् वेदैश्च सर्वैरहमेव वेद्य: (१५.१५), अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (१०.८), मयि सर्वमिदं प्रोतम् (७.७), भोक्तारं यज्ञतपसां  ….. ज्ञात्वा मां शान्तिमृच्छति (५.२९), मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय (७.७), यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: (१८.४६), यो मामजमनादिं च वेत्ति लोकमहेश्वरम् (१०.३) इति ह्युच्यते। तदेतद्ब्राह्मणस्य स्वभावजं कर्म ॥४२॥

शैर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्    ॥ ४३ ॥

शैर्यं युद्धे निर्भयप्रवेशसामर्थ्यम्, तेज: परैरनभिभवनीयता, धृति: आरब्धे कर्मणि विघ्नोपनिपातेऽपि तत्समापनसामर्थ्यम्, दाक्ष्यं सर्वक्रियानिर्वृत्तिसामर्थ्यम्, युद्धे चाप्यपलायनं युद्धे चात्ममरणनिश्चयेऽप्पि अनिर्वर्तनम् दानमात्मीयस्य धनस्य परस्वत्वापादनपर्यन्तस्त्याग: ईश्वरभाव: स्वव्यतिरिक्तसकलजन-नियमनसामर्थ्यम् एतत्क्षत्रियस्य स्वभावजं कर्म ॥ ४३ ॥

कृषिगोरक्ष्यवाणिज्यं वैश्यं कर्म स्वभावजम् ।

कृषि: सत्योत्पादनं कर्षणम् । गोरक्ष्यं पशुपालनमित्यर्थ: । वाणिज्यं धनसञ्चयहेतुभूतं क्रयविक्रयात्मकं कर्म । एतद्वैश्यस्य स्वभावजं कर्म ॥

परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्    ॥ ४४ ॥

पूर्ववर्णत्रयपरिचर्यारूपं शूद्रस्य स्वभावजं कर्म । तदेतच्चतुर्णा वर्णानां वृत्तिभिस्सह कर्तव्यानां शास्त्रविहितानां यज्ञादिकर्मणां प्रदर्शनार्थमुक्तम् । यज्ञादयो हि त्रयाणां वर्णानां साधारणा: । शमादयोऽपि त्रयाणां वर्णानां मुमुक्षूणां साधारणा: । ब्राह्मणस्य तु सत्त्वोद्रेकस्य स्वाभाविकत्वेन शमदमादय: सुखोपादाना इति कृत्वा तस्य शमादय स्वभावजं कर्मेत्युक्तम् । क्षत्रियवैश्ययोस्तु स्वतो रजस्तम:प्रधानत्वेन शमदमादयो दु:खोपादाना इति कृत्वा न तत्कर्मेत्युक्तम् । ब्राह्मणस्य वृत्तिर्याजनाध्यापनप्रतिग्रहा: क्षत्रियस्य जनपदपरिपालनम् वैश्यस्य च कृष्यादयो यथोक्ता: शूद्रस्य तु कर्तव्यं वृत्तिश्च पूर्ववर्णत्रयपरिचर्यैव॥

स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नर: ।

स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छृणु ॥ ४५ ॥

स्वे स्वे यथोदिते कर्मण्यभिरतो नर: संसिद्धिं परमपदप्राप्तिं लभते । स्वकर्मनिरतो यथा सिद्धिं विन्दति परमपदं प्राप्नोति, तथा शृणु ॥ ४५ ॥

यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: ॥ ४६ ॥

यतो भूतानामुत्पत्त्यादिका प्रवृत्ति:, येन च सर्वमिदं ततम्, स्वकर्मणा तं मामिन्द्राद्यन्तरात्मतयावस्थितं अभ्यर्च्य मत्प्रसादान्मत्प्राप्तिरूपां सिद्धिं विन्दति मानव: । मत्त एव सर्वमुत्पद्यते, मया च सर्वमिदं ततमिति पूर्वमेवोक्तम्, अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा । मत्त: परतरं नान्यत्किंचिदस्ति धनञ्जय । (७.६), मया ततमिदं सर्वं जगदव्यक्तमूर्तिना (९.४), मयाध्यक्षेण प्रकृति: सूयते सचराचरम् (९.१०), अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (१०.७) इत्यादिषु ॥ ४६ ॥

श्रेयान् स्वधर्मो विगुण: परधर्मात्स्वनुष्ठितात् ।

एवं त्यक्तकर्तृत्वादिको मदाराधनरूप: स्वधर्म: । स्वेनैवोपादातुं योग्यो धर्म: प्रकृतिसंसृष्टेन हि पुरुषेणेन्द्रियव्यापाररूप: कर्मयोगात्मको धर्म: सुकरो भवति । अत: कर्मयोगाख्य: स्वधर्मो विगुणोऽपि परधर्मात् इन्द्रियजयनिपुणपुरुषधर्माज्ज्ञानयोगात्सकलेन्द्रिय-नियमनरूपतया सप्रमादात्कदाचित्स्वनुष्ठितात् श्रेयान् । तदेवोपपादयति –

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्       ॥ ४७ ॥

प्रकृतिसंसृष्टस्य पुरुषस्य इन्द्रियव्यापाररूपतया स्वभावत एव नियतत्वात्कर्मण:, कर्म कुर्वन् किल्बिषं संसारं न प्राप्नोति अप्रमादत्वात्कर्मण: । ज्ञानयोगस्य सकलेन्द्रियनियमनसाध्यतया सप्रमादत्वात्तन्निष्ठस्तु प्रमादात्किल्बिषं प्रतिपद्येतापि ॥ ४७ ॥

अत: कर्मनिष्ठैव ज्यायसीति तृतीयाध्यायोक्तं स्मारयति –

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।

सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृता:     ॥ ४८ ॥

अत: सहजत्वेन सुकरमप्रमादं च कर्म सदोषं सदु:खमपि न त्यजेत् ज्ञानयोगयोग्योऽपि कर्मयोगमेव कुर्वीतेत्यर्थ: । सर्वारम्भा:,  कर्मारम्भा: ज्ञानारम्भाश्च हि दोषेण दु:खेन धूमेनाग्निरिवावृता:। इयांस्तु विशेष:  कर्मयोग: सुकरोऽप्रमादश्च, ज्ञानयोगस्तद्विपरीत: इति ॥ ४८ ॥

असक्तबुद्धिस्सर्वत्र जितात्मा विगतस्पृह: ।

नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ ४९ ॥

सर्वत्र फलादिषु असक्तबुद्धि:, जितात्मा  जितमना:, परमपुरुषकर्तृत्वानुसंधानेनात्मकर्तृत्वे विगतस्पृह:, एवं त्यागादनन्यत्वेन निर्णीतेन संन्यासेन युक्त: कर्म कुर्वन् परमां नैष्कर्म्यसिद्धिमधिगच्छति  परमां ध्याननिष्ठां ज्ञानयोगस्यापि फलभूतमधिगच्छतीत्यर्थ: । वक्ष्यमाणध्यानयोगावाप्तिं सर्वेन्द्रियकर्मोपरतिरूपामधिगच्छति॥४९॥

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।

समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥

सिद्धिं प्राप्त: आप्रयाणादहरहरनुष्ठीयमानकर्मयोगनिष्पाद्यध्यानसिद्द्धिं प्राप्त:, यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति, तथा समासेन मे निबोध । तदेव ब्रह्म विशेष्यते निष्ठा ज्ञानस्य या परेति । ज्ञानस्य ध्यानात्मकस्य या परा निष्ठा  परमप्राप्यमित्यर्थ: ॥ ५० ॥

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।

शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥

विविक्तसेवी लघ्वाशी यतवाक्कायमानस: ।

ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रित:     ॥ ५२ ॥

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।

विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥

बुद्ध्या विशुद्धया यथावस्थितात्मतत्त्वविषयया युक्त:, धृत्या आत्मानं नियम्य च विषयविमुखीकरणेन योगयोग्यं मन: कृत्वा, शब्दादीन् विषयान् त्यक्त्वा  असन्निहितान् कृत्वा, तन्निमित्तौ च रागद्वेषौ व्युदस्य, विविक्तसेवी  सर्वैर्ध्यानविरोधिभिर्विविक्ते देशे वर्तमान:, लघ्वाशी  अत्यशनानशनरहित:, यतवाक्कायमानस:  ध्यानाभिमुखीकृतकायवाङ्मनोवृत्ति:, ध्यानयोगपरो नित्यम्  एवंभूतस्सना प्रायाणात् अहरहर्ध्यानयोगपर:, वैराग्यं समुपाश्रित:  ध्येयतत्त्वव्यतिरिक्तविषयदोषावमर्शेन तत्र तत्र विरागतां वर्धयन्, अहंकारम्  अनात्मनि आत्माभिमानं, बलं  तद्वृद्धिहेतुभूतवासनबलं, तन्निमित्तं दर्पं कामं क्रोधं परिग्रहं विमुच्य, निर्मम: सर्वेष्वनात्मीयेष्वात्मीयबुद्धिरहित:, शान्त:  आत्मानुभवैकसुख:, एवंभूतो ध्यानयोगं कुर्वन् ब्रह्मभूयाय कल्पते  सर्वबन्धविनिर्मुक्तो यथावस्थितमात्मानमनुभवतीत्यर्थ:॥ ५१ -५३॥

ब्रह्मभूत: प्रसन्नात्मा न शोचति न काङ्क्षति ।

समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम्          ॥ ५४ ॥

ब्रह्मभूत:  आविर्भूतापरिच्छिन्नज्ञानैकाकारमच्छेषतैकस्वभावात्मस्वरूप:, इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् (७.५) इति हि स्वशेषतोक्ता । प्रसन्नात्मा  क्लेशकर्मादिभिरकलुषस्वरूपो मद्व्यतिरिक्तं न कंचन भूतविशेषं प्रति शोचति न किंचन काङ्क्षति अपि तु मद्व्यतिरिक्तेषु सर्वेषु भूतेषु अनादरणीयतायां समो निखिलं वस्तुजातं तृणवन्मन्यमानो मद्भक्तिं लभते परां मयि सर्वेश्वरे निखिलजगदुद्भवस्थिति-प्रलयलीले निरस्तसमस्तहेयगन्धेऽनवधिकातिशयासंख्येयकल्याणगुणगणैकताने लावण्यामृतसागरे श्रीमति पुण्डरीकनयने स्वस्वामिनि अत्यर्थप्रियानुभवरूपां परां भक्तिं लभते ॥ ५४ ॥

तत्फलमाह –

भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वत: ।

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ ५५ ॥

स्वरूपत: स्वभावतश्च योऽहम् गुणतो विभूतितोऽपि यावांश्चाहम्, तं मामेवंरूपया भक्त्या तत्त्वतोऽभिजानाति मां तत्त्वतो ज्ञात्वा तदनन्तरम्  तत्त्वज्ञानानन्तरं तत: भक्तित: मां विशते प्रविशति। तत्त्वतस्स्वरूपस्वभावगुणविभूतिदर्शनोत्तरकालभाविन्या अनवधिकातिशयभक्त्या मां प्राप्नोतीत्यर्थ:। अत्र तत इति प्राप्तिहेतुतया, निर्दिष्टा भक्तिरेवाभिधीयते भक्त्या त्वनन्यया शक्य: (११.५४) इति तस्य एव तत्त्वत: प्रवेशहेतुत्वाभिधानात् ॥ ५५ ॥

एवं वर्णाश्रमोचितनित्यनैमित्तिककर्मणां परित्यक्तफलादिकानां परमपुरुषाराधनरूपेण अनुष्ठितानां विपाक उक्त: । इदानीं काम्यानामपि कर्मणामुक्तेनैव प्रकारेणानुष्ठितानां स एव विपाक इत्याह –

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रय: ।

मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्     ॥ ५६ ॥

न केवलं नित्यनैमित्तिकानि कर्माणि, अपि तु सर्वाणि काम्यान्यपि कर्माणि, मद्व्याश्रय: मयि संन्यस्तकर्तृत्वादिक: कुर्वाणो मत्प्रसादाच्छाश्वतं पदमव्ययमविकलं प्राप्नोति । पद्यते गम्यत इति पदम् मां प्राप्नोतीत्यर्थ: ॥ ५६ ॥

यस्मादेवम्, तस्मात्

चेतसा सर्वकर्माणि मयि संन्यस्य मत्पर: ।

बुद्धियोगमुपाश्रित्य मच्चित्तस्सततं भव     ॥ ५७ ॥

चेतसा  आत्मनो मदीयत्वमन्नियाम्यत्वबुद्ध्या । उक्तं हि, मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा (३.३०) इति । सर्वकर्माणि सकर्तृकाणि साराध्यानि मयि संन्यस्य, मत्पर:  अहमेव फलतया प्राप्य इत्यनुसंधान:, कर्माणि कुर्वनिममेव बुद्धियोगमुपाश्रित्य सततं मच्चित्तो भव ॥५७॥

मच्चित्त: सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।

अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि   ॥ ५८ ॥

एवं मच्चित्त: सर्वकर्माणि कुर्वन् सर्वाणि सांसारिकाणि दुर्गाणि मत्प्रसादादेव तरिष्यसि । अथ त्वमहंकारादहमेव कृत्याकृत्यविषयं सर्वं जानामीति भावान्मदुक्तं न श्रोष्यसि चेत्, विनङ्क्ष्यसि  विनष्टो भविष्यसि । न हि कश्चिन्मद्व्यतिरिक्त: कृत्स्नस्य प्राणिजातस्य कृत्याकृत्ययोर्ज्ञाता प्रशासिता वास्ति ॥ ५८ ॥

यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।

मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति       ॥ ५९ ॥

यदि अहंकारमात्मनि हिताहितज्ञाने स्वातन्त्र्याभिमानमाश्रित्य मन्नियोगमनादृत्य न योत्स्य इति मन्यसे, एष ते स्वातन्त्र्यव्यवसायो मिथ्या भविष्यति यत: प्रकृतिस्त्वां युद्धे नियोक्ष्यति मत्स्वातन्त्र्योद्विग्नं त्वामज्ञं प्रकृतिर्नियोक्षति ॥ ५९ ॥ तदुपपादयति –

स्वभावजेन कौन्तेय निबद्ध: स्वेन कर्मणा ।

कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ ६० ॥

स्वभावजं हि क्षत्रियस्य कर्म शौर्यम् । स्वभावजेन शौर्याख्येन स्वेन कर्मणा निबद्ध:, तदेवावश:, परैर्धर्षणमसहमानस्त्वमेव तद्युद्धं करिष्यसि, यदिदानीं मोहादज्ञानात्कर्तुं नेच्छसि ॥ ६० ॥

सर्वं हि भूतजातं सर्वेश्वरेण मया पूर्वकर्मानुगुण्येन प्रकृत्यनुवर्तने नियमितम् तच्छृणु ।

ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।

भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया     ॥ ६१ ॥

ईश्वर: सर्वनियमनशीलो वासुदेव: सर्वभूतानां हृद्देशे सकलप्रवृत्तिमूलज्ञानोदयप्रदेशे तिष्ठति । कथं किं कुर्वंस्तिष्ठति ? यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन् । स्वेनैव निर्मितं देहेन्द्रियावस्थं प्रकृत्याख्यं यन्त्रमारूढानि सर्वभूतानि स्वकीयया सत्त्वादिगुणमय्या मायया गुणानुगुणं प्रवर्तयंस्तिष्ठतीत्यर्थ:। पूर्वमप्येतदुक्तम्, सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिर्ज्ञानमपोहनं च (१५.१५) इति मत्तस्सर्वं प्रवर्तते इति च । य आत्मनि तिष्ठन् (बृ.५.७.२२) इत्यादिका श्रुतिश्च ॥ ६१ ॥

एतन्मायानिवृत्तिहेतुमाह –

तमेव शरणं गच्छ सर्वभावेन भारत ।

तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥

यस्मादेवम्, तस्मात्तमेव सर्वस्य प्रशासितारम्, आश्रितवात्सल्येन त्वत्सारथ्येऽवस्थितम्, इत्थं कुरु  इति च शासितारं सर्वभावेन सर्वात्मना शरणं गच्छ । सर्वात्मनानुवर्तस्व । अन्यथापि तन्मायाप्रेरितेनाज्ञेन त्वया युद्धादिकरणमवर्जनीयम् । तथा सति नष्टो भविष्यसि । अतस्तदुक्तप्रकारेण युद्धादिकं कुर्वित्यर्थ: । एवं कुर्वाणस्तत्प्रसादात्परां शान्तिं सर्वकर्मबन्धोपशमं शाश्वतं च स्थानं प्राप्स्यसि । यदभिधीयते श्रुतिशतै:, तद्विष्णो: परमं पदं सदा पश्यन्ति सूरय: (पु), ते ह नाकं महिमान: सचन्ते यत्र पूर्वे साध्या: सन्ति देवा: (पु), यत्र ऋषय: प्रथमजा ये पुराणा: (यजु.४.७.१३) , परेण नाकं निहितं गुहायाम्, योऽस्याध्यक्ष: परमे व्योमन् (तै.ब्रा.२.८.९), अथ यदत: परो दिवो ज्योतिर्दीप्यते (छा.३.१३.७) , सोऽध्वन: पारमाप्नोति तद्विष्णो: परमं पदम् (कठ.३.९) इत्यादिभि: ॥

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु             ॥ ६३ ॥

इति  एवं ते मुमुक्षुभिरधिगन्तव्यं ज्ञानं सर्वस्माद्गुह्याद्गुह्यतरं कर्मयोगविषयं ज्ञानयोगविषयं भक्तियोगविषयं च सर्वमाख्यातम् । एतदशेषेण विमृश्य स्वाधिकारानुरूपं यथेच्छसि, तथा कुरु कर्मयोगं ज्ञानयोगं भक्तियोगं वा यथेष्टमातिष्ठेत्यर्थ: ॥ ६३ ॥

सर्वगुह्यतमं भूय: शृणु मे परमं वच: ।

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ ६४ ॥

सर्वेष्वेतेषु गुह्येषु भक्तियोगस्य श्रैष्ठ्याद्गुह्यतममिति पूर्वमेवोक्तम् इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे (९.१) इत्यादौ । भूयोऽपि तद्विषयं परमं मे वच: शृणु । इष्टोऽसि मे दृढमिति ततस्ते हितं वक्ष्यामि॥१८.६४॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥

वेदान्तेषु, वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमस: परस्तात् । तमेवं विद्वानमृत इह भवति नान्य: पन्था विद्यतेऽयनाय (उ.ना) इत्यादिषु विहितं वेदनं ध्यानोपासनादिशब्दवाच्यं दर्शनसमानाकारं स्मृतिसंतानमत्यर्थप्रियमिह मन्मना भवेति विधीयते । मद्भक्त: अत्यर्थमत्प्रिय: । अत्यर्थमत्प्रियत्वेन निरतिशयप्रियां स्मृतिसंततिं कुरुष्वेत्यर्थ: । मद्याजी । तत्रापि मद्भक्त इत्यनुषज्यते । यजनं पूजनम्। अत्यर्थप्रियमदाराधनपरो भव । आराधनं हि परिपूर्णशेषवृत्ति: । मां नमस्कुरु । नम:  नमनम् । मय्यतिमात्रप्रह्वीभावमत्यर्थप्रियं कुर्वित्यर्थ:। एवं वर्तमानो मामेवैष्यसि । एतत्सत्यं ते प्रतिजाने  तव प्रतिज्ञां करोमि नोपच्छन्दनमात्रम् यतस्त्वं प्रियोऽसि मे । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: (७.१७) इति पूर्वमेवोक्तम्। यस्य मय्यतिमात्रता प्रीतिर्वर्तते, ममापि तस्मिनतिमात्रा प्रीतिर्भवतीति तद्वियोगमसहमानोऽहं तं मां प्रापयामि । अत: सत्यमेव प्रतिज्ञातम्, मामेवैष्यसीति ॥ १८.६५ ॥

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच:       ॥ ६६ ॥

कर्मयोगज्ञानयोगभक्तियोगरूपान् सर्वान् धर्मान् परमनिश्श्रेयससाधनभूतान्, मदाराधनत्वेन अतिमात्रप्रीत्या यथाधिकारं कुर्वाण एव, उक्तरीत्या फलकर्मकर्तृत्वादिपरित्यागेन परित्यज्य, मामेकमेव कर्तारमाराध्यं प्राप्यमुपायं चानुसंधत्स्व । एष एव सर्वधर्माणां शस्त्रीय: परित्याग इति, निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविध: संप्रकीर्तित: ॥ (४) इत्यारभ्य, सङ्गं त्यक्त्वा फलं चैव स त्यागस्सात्तिविको मत:  ॥ … न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषत:। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ (११)  इति अध्यायादौ सुदृढमुपपादितम्। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि  एवं वर्तमानं त्वां मत्प्राप्तिविरोधिभ्योऽनादिकालसंचितानन्ताकृत्यकरण-कृत्याकरणरूपेभ्य: सर्वेभ्य: पापेभ्यो मोक्षयिष्यामि । मा शुच:  – शोकं मा कृथा: । अथ वा, सर्वपापविनिर्मुक्तात्यर्थ-भगवत्प्रियपुरुषनिर्वर्त्यत्वाद्भक्तियोगस्य, तदारम्भविरोधिपापानामानन्त्यात्तत्प्रायश्चित्त-रूपैर्धर्मै: परिमितकालकृतैस्तेषां दुस्तरतया आत्मनो भक्तियोगारम्भानर्हातामालोच्य शोचतोऽर्जुनस्य शोकमपनुदन् श्रीभगवानुवाच  सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजेति । भक्तियोगारम्भविरोध्यनादि-कालसंचितनानाविधानन्तपापानुगुणान् तत्तत्प्रायश्चित्तरूपान् कृच्छ्रचान्द्रायणकूश्माण्ड-वैश्वानर-व्रातपतिपवित्रेष्टि-त्रिवृदग्निष्टोमादिकान्नानाविधान् अनन्तांस्त्वया परिमितकालवर्तिना दूरनुष्ठानान् सर्वान् धर्मान् परित्यज्य भक्तियोगारम्भ-सिद्धये मामेकं परमकारुणिकमनालोचितविशेषाश्ोषलोकशरण्यम् आश्रितवात्सल्यजलधिं शरणं प्रपद्यस्व । अहं त्वा सर्वपापेभ्य: यथोदितस्वरूपभक्त्यारम्भविरोधिभ्य: सर्वेभ्य: पापेभ्य: मोक्षयिष्यामि मा शुच:॥ ६६॥

इदं ते नातपस्काय नाभक्ताय कदाचन ।

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ ६७ ॥

इदं ते परमं गुह्यं शास्त्रं मयाख्यातमतपस्काय अतप्ततपसे त्वया न वाच्यम् त्वयि वक्तरि, मयि चाभक्ताय कदाचन न वाच्यम् । तप्ततपसे चाभक्ताय न वाच्यमित्यर्थ: । न चाशुश्रूषवे । भक्तायाप्यशुश्रूषवे न वाच्यम् । न च मां योऽभ्यसूयति । मत्स्वरूपे मदैश्वर्ये  मद्गुणेषु च कथितेषु यो दोषमाविष्करोति, न तस्मै वाच्यम् । असमानविभक्तिनिर्देश: तस्यात्यन्तपरिहरणीयताज्ञापनाय ॥ ६७ ॥

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।

भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशय: ॥ ६८ ॥

इदं परमं गुह्यं मद्भक्तेषु य: अभिधास्यति व्याख्यास्यति, स: मयि परमां भक्तिं कृत्वा मामेवैष्यति न तत्र संशय: ॥ ६८ ॥

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम: ।

भविता न च मे तस्मादन्य: प्रियतरो भुवि ॥ ६९ ॥

सर्वेषु मनुष्येष्वित: पूर्वं तस्मादन्यो मनुष्यो मे न कश्चित्प्रियकृत्तमोऽभूत् इत उत्तरं च न भविता । अयोग्यानां प्रथममुपादानं योग्यानामकथनादपि तत्कथनस्यानिष्टतमत्वात् ॥

अध्येष्यते च य इमं धर्म्यं संवादमावयो: ।

ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ॥ ७० ॥

य इममावयोर्धर्म्यं संवादमध्येष्यते, तेन ज्ञानयज्ञेनाहमिष्टस्स्यामिति मे मति:  अस्मिन् यो ज्ञानयज्ञोऽभिधीयते, तेनाहमेतदध्ययनमात्रेणेष्ट: स्यामित्यर्थ: ॥ ७० ॥

श्रद्धावाननसूयुश्च शृणुयादपि यो नर: ।

सोऽपि मुक्त: शुभांल्लोकान् प्राप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥

श्रद्धावाननसूयुश्च यो नर: शृणुयादपि, तेन श्रवणमात्रेण सोऽपि भक्तिविरोधिपापेभ्यो मुक्त: पुण्यकर्मणां मद्भक्तानां लोकान् समूहन् प्राप्नुयात् ॥ ७१ ।

कश्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।

कच्चिदज्ञानसंमोह: प्रनष्टस्ते धनञ्जय ॥ ७२ ॥

मया कथितमेतत्पार्थ त्वया अवहितेन चेतसा कच्चिच्श्रुतम्, तवाज्ञानसंमोह: कच्चित्प्रनष्ट:, येनाज्ञानेन मूढो न योत्स्यामीत्युक्तवान् ॥ ७२ ॥

अर्जुन उवाच

नष्टो मोह: स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।

स्थितोऽस्मि गतसंदेह: करिष्ये वचनं तव ॥ ७३ ॥

मोह: विपरीतज्ञानम् । त्वत्प्रसादान्मम तद्विनष्टम् । स्मृति: यथावस्थिततत्त्वज्ञानम् । त्वत्प्रसादादेव तच्च लब्धम् । अनात्मनि प्रकृतौ आत्माभिमानरूपो मोह:, परमपुरुषशरीरतया तदात्मकस्य कृत्स्नस्य चिदचिद्वस्तुन: अतदात्माभिमानरूपश्च, नित्यनैमित्तिकरूपस्य कर्मण: परमपुरुषाराधनतया तत्प्राप्त्युपायभूतस्य बन्धकत्वबुद्धिरूपश्च सर्वो विनष्ट: । आत्मन: प्रकृतिविलक्षणत्व-तत्स्वभावरहितता-ज्ञातृत्वैकस्वभावता-परमपुरुषशेषता-तन्नियाम्यत्वैक-स्वरूपताज्ञानम्, निखिलजगदुद्भवस्थितिप्रलय-लीलाशेषदोषप्रत्यनीककल्याणैकस्वरूप-स्वाभाविकानवधिकातिशय-ज्ञानबलाइश्वर्यवीर्यशक्तितेज:प्रभृति-समस्तकल्याणगुणगणमहार्णव-परब्रह्मशब्दाभिधेयपरमपुरुषयाथात्म्यज्ञानं च, एवंरूपपरावरतत्त्व-याथात्म्यविज्ञानतदभ्यास-पूर्वकाहरहरुपचीयमानपरमपुरुषप्रीत्येकफलनित्यनैमित्तिककर्मनिषिद्धपरिहारशमदमाद्यात्मगुण-निवर्त्यभक्तिरूपतापन्नपरमपुरुषोपासनैकलभ्यो वेदान्तवेद्य: परमपुरुषो वासुदेवस्त्वमिति ज्ञानं च लब्धम् । ततश्च बन्धस्नेहकारुण्यप्रवृद्धविपरीतज्ञानमूलात्सर्वस्मादवसादाद्विमुक्तो गतसंदेह: स्वस्थ: स्थितोऽस्मि । इदानीमेव युद्धादिकर्तव्यताविषयं तव वचनं करिष्ये – यथोक्तं युद्धादिकं करिष्य इत्यर्थ: ॥ ७३ ॥

धृतराष्ट्राय स्वपुत्रा: पाण्डवाश्च युद्धे किं करिष्यन्तीति पृच्छते –

सञ्जय उवाच

इत्यहं वासुदेवस्य पार्थस्य च महात्मन: ।

संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥

इति एवं वासुदेवस्य वसुदेवसूनो:, पार्थस्य च तत्पितृष्वसु: पुत्रस्य च महात्मन: महाबुद्धेस्तत्पदद्वन्द्वमाश्रितस्येमं रोमहर्षणमद्भुतं संवादमहं यथोक्तमश्रौषं श्रुतवानहम् ॥ ७४ ॥

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।

योगं योगेश्वरात्कृष्णात्साक्षात्कथयत: स्वयम्       ॥ ७५ ॥

व्यासप्रसादाद्व्यासानुग्रहेण दिव्यचक्षुश्श्रोत्रलाभादेतत्परं योगाख्यं गुह्यं योगेश्वराज्ज्ञानबलैर्यवीर्य-शक्तितेजसां निधेर्भगवत: कृष्णात्स्वयमेव कथयत: साक्षाच्श्रुतवानहम् ॥ ७५ ॥

राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।

केशवार्जुनयो: पुण्यं हृष्यामि च मुहुर्मुहु:     ॥ ७६ ॥

केशवार्जुनयोरिमं पुण्यमद्भुतं संवादं साक्षाच्छ्रुतं स्मृत्वा मुहुर्मुहुर्हृाष्यामि ॥

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरे: ।

विस्मयो मे महान् राजन् हृष्यामि च पुन: पुन: ॥ ७७ ॥

तच्चार्जुनाय प्रकाशितमैश्वरं हरेरत्यद्भुतं रूपं मया साक्षात्कृतं संस्मृत्य संस्मृत्य हृष्यतो मे महान् विस्मयो जायते पुन: पुनश्च हृष्यामि ॥ ७७ ॥ किमत्र बहुनोक्तेन ?

यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: ।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम      ॥ ७८ ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु श्रीकृष्णार्जुनसंवादे मोक्षसन्यासयोगो नाम अष्टादशोऽध्याय: ॥१८॥

॥ श्रीभगवद्गीता सम्पूर्णा ॥

यत्र योगेश्वर: कृत्स्नस्योच्चावचरूपेणावस्थितस्य चेतनस्याचेतनस्य च वस्तुनो ये ये स्वभावयोगा:, तेषां सर्वेषां योगानामीश्वर:, स्वसंकल्पायत्तस्वेतरसमस्तवस्तुस्वरूपस्थिति-प्रवृत्तिभेद:, कृष्ण: वसुदेवसूनु:, यत्र च पार्थो धनुर्धर: तत्पितृष्वसु: पुत्र: तत्पदद्वन्द्वैकाश्रय:, तत्र श्रीर्विजयो भूतिर्नीतिश्च ध्रुवा निश्चला इति मतिर्ममेति ॥ ७८ ॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये अष्टादशोऽध्याय: ॥ १८ ॥

॥ श्रीमद्गीताभाष्यम् सम्पूर्णम् ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.