08 श्रीमद्गीताभाष्यम् अष्टमाध्याय:

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

अष्टमाध्याय:

सप्तमे  परस्य ब्रह्मणो वासुदेवस्योपास्यत्वं निखिलचेतनाचेतनवस्तुशेषित्वम्, कारणत्वम्, आधारत्वम्, सर्वशरीरतया सर्वप्रकारत्वेन सर्वशब्दवाच्यत्वम्, सर्वनियन्तृत्वम्, सर्वैश्च कल्याणगुणगणैस्तस्यैव परतरत्वम्, सत्त्वरजस्तमोमयैर्देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर्भावैः अनादिकालप्रवृत्तदुष्कृतप्रवाहहेतुकैस्तस्य तिरोधानम्, अत्युत्कृष्टसुकृतहेतुक-भगवत्प्रपत्त्या सुकृततारतम्येन च प्रतिपत्तिवैशेष्यादैश्वर्याक्षरयाथात्म्यभगवत्प्राप्त्यपेक्षयोपासक भेदम्, भगवन्तं प्रेप्सोर्नित्ययुक्ततयैकभक्तितया चात्यर्थपरमपुरुषप्रियत्वेन च श्रैष्ठ्यं दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेयभेदांश्च प्रास्तौषीत् । इदानीमष्टमे प्रस्तुतान् ज्ञातव्योपादेयभेदान् विविनक्ति ॥

अर्जुन उवाच

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम  ।

अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते    ॥ १ ॥

अधियज्ञ: कथं कोऽत्र देहेऽस्मिन्मधुसूदनम्  ।

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभि:  ॥ २ ॥

जरामरणमोक्षाय भगवन्तमाश्रित्य यतमानानां ज्ञातव्यतयोक्तं तद्ब्रह्म अध्यात्मं च किमिति वक्तव्यम् । ऐश्वर्यार्थीनां ज्ञातव्यमधिभूतमधिदैवं च किम्? त्रयाणां ज्ञातव्योऽधियज्ञ-शब्दनिर्दिष्टश्च क:? तस्य चाधियज्ञभाव: कथम्? प्रयाणकाले च एभिस्त्रिभिर्नियतात्मभि: कथं ज्ञेयोऽसि?॥१-२॥

श्रीभगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते  ।

भूतभावोद्भवकरो विसर्ग: कर्मसंज्ञित:            ॥ ३ ॥

तद्ब्रह्मेति निर्दिष्टं परममक्षरं न क्षरतीत्यक्षरम्, क्षेत्रज्ञसमष्टिरूपम् । तथा च श्रुति:, अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते (सु.२) इत्यादिका । परममक्षरं प्रकृतिविनिर्मुक्तमात्म-स्वरूपम् । स्वभावोऽध्यात्ममुच्यते । स्वभाव: प्रकृति: । अनात्मभूतम्, आत्मनि संबध्यमानं भूतसूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतयोदितम् । तदुभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर्ज्ञातव्यम् । भूतभावोद्भवकरो विसर्ग: कर्मसंज्ञित: । भूतभाव: मनुष्यादिभाव: तदुद्भवकरो यो विसर्ग:, पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति (छा.५.९.१) इति श्रुतिसिद्धो योषित्संबन्धज:, स कर्मसंज्ञित: । तच्चाखिलं सानुबन्धमुद्वेजनीयतया, परिहरणीयतया च मुमुक्षुभिर्ज्ञातव्यम् । परिहरणीयतया चानन्तरमेव वक्ष्यते, ‘यदिच्छन्तो ब्रह्मचर्यं चरन्ति‘ इति ॥ ३ ॥

अधिभूतं क्षरो भाव: पुरुषश्चाधिदैवतम्  ।

अधियज्ञोऽहमेवात्र देहे देहभृतां वर         ॥ ४ ॥

ऐश्वर्र्यार्थिनां ज्ञातव्यतया निर्दिष्टमधिभूतं क्षरो भाव: वियदादिभूतेषु वर्तमान: तत्परिणामविशेष: क्षरणस्वभावो विलक्षण: शब्दस्पर्शादिस्सास्रय: । विलक्षणा: साश्रयाश्शब्दस्पर्श-रूपरसगन्धा: ऐश्वर्यार्थिभि: प्राप्यास्तैरनुसन्धेया: । पुरुषश्चाधिदैवतमधिदैवतशब्दनिर्दिष्ट: पुरुष: अधिदैवतं देवतोपरि वर्तमान:, इन्द्रप्रजापतिप्रभृतिकृत्स्नदैवतोपरि वर्तमान:, इन्द्रप्रजापतिप्रभृतीनां भोग्यजातद्विलक्षणशब्दादेर्भोक्ता पुरुष:। सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभि: प्राप्यतयानुसन्धेया । अधियज्ञोऽहमेव । अधियज्ञ: यज्ञैराराध्यतया वर्तमान: । अत्र इन्द्रादौ मम देहभूते आत्मतयावस्थितोऽहमेव यज्ञैराराध्य इति महायज्ञादिनित्य-नैमित्तिकानुष्ठानवेलायां त्रयाणामधिकारिणामनुसन्धेयमेतत् ॥ ४ ॥

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेबरम्  ।

य: प्रयाति स मद्भावं याति नास्त्यत्र संशय:  ॥ ५ ॥

इदमपि त्रयाणां साधारणम् । अन्तकाले च मामेव स्मरन् कलेवरं त्यक्त्वा य: प्रयाति, स मद्भावं याति मम यो भाव: स्वभाव: तं याति तदानीं यथा मामनुसन्धत्ते, तथाविधाकारो भवतीत्यर्थ: यथा आदिभरतादयस्तदानीं स्मर्यमाणमृगसजातीयाकारात्संभूता: ॥५ ॥

स्मर्तुस्स्वविषयसजातीयाकारतापादनमन्त्यप्रत्ययस्य स्वभाव इति सुस्पष्टमाह –

यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेबरम्  ।

तं तमेवैति कौन्तेय सदा तद्भावभावित:    ॥ ६ ॥

अन्ते अन्तकाले यं यं वापि भावं स्मरन् कलेबरं त्यजति, तं तं भावमेव मरणानन्तरमेति । अन्तिमप्रत्ययश्च पूर्वभावितविषय एव जायते ॥ ६ ॥

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च  ।

मय्यर्पितमनोबुद्धि: मामेवैष्यस्यसंशय:     ॥ ७ ॥   

यस्मात्पूर्वकालाभ्यस्तविषय एवान्त्यप्रत्ययो जायते, तस्मात्सर्वेषु कालेष्वाप्रयाणादहरहः मामनुस्मर। अहरहरनुस्मृतिकरं युद्धादिकं वर्णाश्रमानुबन्धि श्रुतिस्मृतिचोदितं नित्यनैमित्तिकं च कर्म कुरु । एवमुपायेन मय्यर्पितमनोबुद्धि: अन्तकले च मामेव स्मरन् यथाभिलषितप्रकारं मां प्राप्स्यसि नात्र संशय: ॥ ७ ॥

एवं सामान्येन स्वप्राप्यावाप्तिरन्त्यप्रत्ययाधीनेत्युक्त्वा तदर्थं त्रयाणामुपासनप्रकारभेदं वक्तुमुपक्रमते तत्रैश्वर्यार्थिनामुपासनप्रकारं यथोपासनमन्त्यप्रत्ययप्रकारं चाह –

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना  ।

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्     ॥ ८ ॥

अहरहरभ्यासयोगाभ्यां युक्ततया नान्यगामिना चेतसा अन्तकाले परमं पुरुषं दिव्यं मां वक्ष्यमाणप्रकारं चिन्तयन्मामेव याति  आदिभरतमृगत्वप्राप्तिवदैश्वर्यविशिष्टतया मत्समानाकारो भवति । अभ्यास: नित्यनैमित्तिकाविरुद्धेषु सर्वेषु कालेषु मनसोपास्यसंशीलनम् । योगस्तु अहरहर्योगकालेऽनुष्ठीयमानं यथोक्तलक्षणमुपासनम् ॥ ८ ॥

कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्य:  ।

सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमस: परस्तात्     ॥ ९ ॥

प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव  ।

भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम्  ॥ १० ॥

कविं सर्वज्ञन् पुराणं पुरातनमनुशासितारं विश्वस्य प्रशासितारमणोरणीयांसं जीवादपि सूक्ष्मतरम्, सर्वस्य धातारं सर्वस्य स्रष्टारम्, अचिन्त्यरूपं सकलेतरविसजातीयस्वरूपम्, आदित्यवर्णं तमस: परस्तादप्राकृतस्वासाधारणदिव्यरूपम्, तमेवंभूतमहरहरभ्यस्यमानभक्तियुक्तयोगबलेन आरूढसंस्कारतया अचलेन मनसा प्रयाणकाले भ्रुवोर्मध्ये प्राणमावेश्य संस्थाप्य तत्र भूमध्ये दिव्यं पुरुषं योऽनुस्मरेत् स तमेवोपैति  तद्भावं याति, तत्समानैश्वर्यो भवतीत्यर्थ: ॥ ९-१० ॥

अथ कैवल्यार्थिनां स्मरणप्रकारमाह –

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागा:  ।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये  ॥ ११ ॥

यदक्षरमस्थूलत्वादिगुणकं वेदविदो वदन्ति, वीतरागाश्च यतयो यदक्षरं विशन्ति, यदक्षरं प्राप्तुमिच्छन्तो ब्रह्मचर्यं चरन्ति, तत्पदं संग्रहेण ते प्रवक्ष्ये । पद्यते गम्यते चेतसेति पदम् तन्निखिलवेदान्तवेद्यं मत्स्वरूपमक्षरं यथा उपास्यम्, तथा संक्षेपेण प्रवक्ष्यामीत्यर्थ: ११ ॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च  ।

मूर्ध्न्याधायात्मन: प्राणमास्थितो योगधारणाम्  ॥ १२ ॥

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्  ।

य: प्रयाति त्यजन् देहं स याति परमां गतिम्  ॥ १३ ॥

सर्वाणि श्रोत्रादीनीन्द्रियाणि ज्ञानद्वारभूतानि संयम्य स्वव्यापारेभ्यो विनिवर्त्य, हृदयकमलनिविष्टे मय्यक्षरे मनो निरुध्य, योगाख्यां धारणामास्थित: मय्येव निश्चलां स्थितिमास्थित:, ओमित्येकाक्षरं ब्रह्म मद्वाचकं व्याहरन्, वाच्यं मामनुस्मरन्, आत्मन: प्राणं मूर्ध्न्याधाय देहं त्यजन् य: प्रयाति  स याति परमां गतिं प्रकृतिवियुक्तं मत्समानाकारमपुनरावृत्तिमात्मानं प्राप्नोतीत्यर्थ: । य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् ॥ (२०,२१) इत्यनन्तरमेव वक्ष्यते  ॥१२ – १३॥

एवमैश्वर्यार्थिन: कैवल्यार्थिनश्च स्वप्राप्यानुगुणं भगवदुपासनप्रकार उक्त: अथ ज्ञानिनो भगवदुपासनप्रकारं प्राप्तिप्रकारं चाह

अनन्यचेता: सततं यो मां स्मरति नित्यश:  ।

तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन:        ॥ १४ ॥

नित्यश: मामुद्योगप्रभृति सततं सर्वकालमनन्यचेता: य: स्मरति अत्यर्थमत्प्रियत्वेन मत्स्मृत्या विना आत्मधारणमलभमानो निरतिशयप्रियां स्मृतिं य: करोति तस्य नित्ययुक्तस्य नित्ययोगं काङ्क्षमाणस्य योगिन: अहं सुलभ: अहमेव प्राप्य: न मद्भाव ऐश्वर्यादिक: सुप्रापश्च । तद्वियोगमसहमानोऽहमेव तं वृणे । यमेवैष वृणुते तेन लभ्य: (कठ.२.२३, मु.३.२.३) इति हि श्रूयते । मत्प्राप्त्यनुगुणोपासनविपाकं तद्विरोधिनिरसनमत्यर्थमत्प्रियत्वादिकं चाहमेव ददामीत्यर्थ: । वक्ष्यते च तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपायान्ति ते ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तम:। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ (१०-१०,११) इति  ॥ १४॥

अत: परमध्यायशेषेण ज्ञानिन: कैवल्यार्थिनश्चापुनरावृत्तिमैश्वर्यार्थिन: पुनरावृत्तिं चाह

मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम्  ।

नाप्नुवन्ति महात्मान: संसिद्धिं परमां गता:       ॥ १५ ॥

मां प्राप्य पुनर्निखिलदु:खालयमशाश्वतमस्थिरं जन्म न प्राप्नुवन्ति । यत एते महात्मान: महामनस:, यथावस्थितमत्स्वरूपजानाना अत्यर्थमत्प्रियत्वेन मया विना आत्मधारणमलभमाना मय्यासक्तमनसो मदाश्रया मामुपास्य परमसंसिद्धिरूपं मां प्राप्ता: ॥ १५ ॥

ऐश्वर्यगतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनरावृत्तौ अपुनरावृत्तौ च हेतुमनन्तरमाह –

आ ब्रह्मभुवनाल्लोका: पुनरावर्तिनोऽर्जुन  ।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते  ॥ १६ ॥

ब्रह्मलोकपर्यन्ता: ब्रह्माण्डोदरवर्तिनस्सर्वे लोका भोगैश्वर्यालया: पुनरावर्तिन: विनाशिन: । अत ऐश्वर्यगतिं प्राप्तानां प्राप्यस्थानविनाशाद्विनाशित्वमवर्जनीयम् । मां सर्वज्ञं सत्यसङ्कल्पं निखिलजगदुत्पत्ति-स्थितिलयलीलं परमकारुणिकं सदैकरूपं प्राप्तानां विनाशप्रसङ्गाभावात्तेषां पुनर्जन्म न विद्यते १६ ॥

ब्रह्मलोकपर्यन्तानां लोकानां तदन्तर्वर्तिनां च परमपुरुषसङ्कल्पकृतामुत्पत्तिविनाश-कालव्यवस्थामाह-

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदु:  ।

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जना:     ॥ १७ ॥

अव्यक्ताद्व्यक्तय: सर्वा: प्रभवन्त्यहरागमे  ।

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके            ॥ १८ ॥

भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते  ।

रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे              ॥ १९ ॥

ये मनुष्यादिचतुर्मुखान्तानां मत्सङ्कल्पकृताहोरात्रव्यवस्थाविदो जना:, ते ब्रह्मणश्चतुर्मुखस्य यदह: तच्चतुर्युगसहस्रावसानं विदु:, रात्रिं च तथारूपाम् । तत्र ब्रह्मणोऽहरागमसमये त्रैलोक्यान्तर्वर्तिन्यो देहेन्द्रियभोग्यभोगस्थानरूपा व्यक्तश्चतुर्मुखदेहावस्थादव्यक्तात्प्रभवन्ति । तत्रैव अव्यक्तावस्थाविशेषे चतुर्मुखदेहे रात्र्यागमसमये प्रलीयन्ते । स एवायं कर्मवश्यो भूतग्रामोऽहरागमे भूत्वा भुत्वा रात्र्यागमे प्रलीयते । पुनरप्यहरागमे प्रभवति । तथा वर्षतावसानरूपयुगसहस्रान्ते ब्रह्मलोकपर्यन्ता लोका: ब्रह्मा च, पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते (सुबा.२) ) इत्यादिक्रमेण अव्यक्ताक्षरतम:पर्यन्तं मय्येव प्रलीयन्ते। एवं मद्व्यतिरिक्तस्य कृत्स्नस्य कालव्यवस्थया मत्त उत्पत्ते: मयि प्रलयाच्चोत्पत्तिविनाशयोगित्वं अवर्जनीयमित्यैश्वर्यगतिं प्राप्तानां पुनरावृत्तिरपरिहार्या । मामुपेतानां तु न पुनरावृत्तिप्रसङ्ग: ॥१९॥

अथ कैवल्यं प्रप्तानामपि पुनरावृत्तिर्न विद्यत इत्यह –

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन:  ।

यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति  ॥ २० ॥

अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम्  ।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम  ॥ २१ ॥

तस्मादव्यक्तादचेतनप्रकृतिरूपात्पुरुषार्थतया पर: उत्कृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्माद्विसजातीय:, अव्यक्त: केनचित्प्रमाणेन न व्यज्यत इत्यव्यक्त:, स्वसंवेद्यस्वासाधारणाकार इत्यर्थ: सनातन: उत्पत्तिविनाशानर्हातया नित्य: य: सर्वेषु वियदादिभूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र तत्र स्थितोऽपि न विनश्यति स: अव्यक्तोऽक्षर इत्युक्त:, ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते (१२.३), कूटस्थोऽक्षर उच्यते (१५.१६) इत्यादिषु  तं वेदविद: परमां गतिमाहु: । अयमेव, य: प्रयाति त्यजन् देहं स याति परमां गतिम् (८.१३) इत्यत्र परमगतिशब्दनिर्दिष्टोऽक्षर: प्रकृतिसंसर्गवियुक्तस्वस्वरूपेणावस्थित आत्मेत्यर्थ:। यमेवंभूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते तन्मम परमं धाम परं नियमनस्थानम् । अचेतनप्रकृतिरेकं नियमनस्थानम् तत्संसृष्टरूपा जीवप्रकृतिर्द्वितीयं नियमनस्थानम् । अचित्संसर्गवियुक्तं स्वरूएणावथितं मुक्तस्वरूपं परमं नियमनस्थानमित्यर्थ: । तच्चापुनरावृत्तिरूपम् । अथ वा प्रकाशवाची धामशब्द: प्रकाश: चेह ज्ञानमभिप्रेतम् प्रकृतिसंसृष्टात्परिछिन्नज्ञानरूपादात्मनोऽपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परं धाम ॥ २० – २१॥ ज्ञानिन: प्राप्यं तु तस्मादत्यन्तविभक्तमित्याह –

पुरुषस्स पर: पार्थ भक्त्या लभ्यस्त्वनन्यया  ।

यस्यान्तस्स्थानि भूतानि येन सर्वमिदं ततम्  ॥ २२ ॥

मत्त: परतरं नान्यत्किञ्चिदस्ति धनंजय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ (७.७), मामेभ्य: परमव्ययम् (७.१३) इत्यादिना निर्दिष्टस्य यस्य अन्तस्स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वमिदं ततम्, स पर: पुरुष: अनन्यचेतास्सततम् (८.१४) इत्यनन्यया भक्त्या लभ्य:  ॥ २२ ॥

अथात्मयाथात्म्यविदु: परमपुरुषनिष्टस्य च साधरणीमर्चिरादिकां गतिमाह  द्वयोरप्यर्चिरादिका गति: श्रुतौ श्रुता । सा चापुनरावृत्तिलक्षणा । यथा पञ्चाग्निविद्यायाम्, तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते, तेऽर्चिषमभिसंभवन्त्यर्चिषोऽह: (छा.५.१०.१) इत्यादौ । अर्चिरादिकया गतस्य परब्रह्मप्राप्तिरपुनरावृत्तिश्चाम्नाता, स एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते (छा.४.१५.६) इति । न च प्रजापतिवाक्यादौ श्रुतपरविद्याङ्गभूतात्मप्राप्तिविषयेयम्, तद्य इत्थं विदु: इति गतिश्रुति:, ये चेमेऽरण्ये श्रद्धा तप इत्युपासते इति परविद्याया: पृथक्छ्रुतिवैयार्थ्यात् । पञ्चाग्निविद्यायां च, इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति (छा.५.९.१) इति, रमणीयचरणा: … कपूयचरणा: (छा.५.१०.७) इति पुण्यपापहेतुको मनुष्यादिभावोऽपामेव भूतान्तरसंसृष्टानाम्, आत्मनस्तु तत्परिष्वङ्गमात्रमिति चिदचितोर्विवेकमभिधाय, तद्य इत्थं विदु:. तेऽर्चिषमसंभवन्ति … इमं मानवमावर्तं नावर्तन्ते इति विविक्ते चिदचिद्वस्तुनी त्याज्यतया प्राप्यतया च य इत्थं विदु: तेऽर्चिरादिना गच्छन्ति, न च पुनरावर्तन्त इत्युक्तमिति गम्यते । आत्मयाथात्म्यविद: परमपुरुषनिष्ठस्य च स एनान् ब्रह्म गमयति इति ब्रह्मप्राप्तिवचनादचिद्वियुक्तमात्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैकरसमित्यनुसन्धेयम् तत्क्रतुन्यायाच्च। परशेषतैकरसत्वं च य आत्मनि तिष्ठन् … यस्यात्मा शरीरम् (शत.माध्य.१४.६.५.३०) इत्यादिश्रुतिसिद्धम् ।

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन:  ।

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ  ॥ २३ ॥

अग्निर्ज्योतिरहश्शुक्ल: षण्मासा उत्तरायणम्  ।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना:       ॥ २४ ॥

अत्र कालशब्दो मार्गस्याह:प्रभृतिसंवतरान्तकालाभिमानिदेवताभूयस्तया मार्गोपलक्षणार्थ: । यस्मिन्मार्गे प्रयाता योगिनोऽनावृत्तिं पुण्यकर्माणश्चावृत्तिं यान्ति तं मार्गं वक्ष्यामीत्यर्थ: । अग्निर्ज्योतिरहश्शुक्ल: षण्मासा उत्तरायणम् इति संवत्सरादीनां प्रदर्शनम् ॥ २३ – २४ ॥

धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायणम्  ।

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते          ॥ २५ ॥

एतच्च धूमादिमार्गस्थपितृलोकादे: प्रदर्शनम् ।

अत्र योगिशब्द: पुण्यकर्मसंबन्धिविषय:                  ॥ २५ ॥

शुक्लकृष्णे गती ह्येते जगत: शाश्वते मते  ।

एकया यात्यनावृत्तिमन्ययावर्तते पुन:                   ॥ २६ ॥

शुक्ला गति: अर्चिरादिका, कृष्णा च धूमादिका । शुक्लयानावृत्तिं याति कृष्णया तु पुनरावर्तते। एते शुक्लकृष्णे गती ज्ञानिनां विविधानां पुण्यकर्मणां च श्रुतौ शाश्वते मते । तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्ति, अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति (छा.५.१०.१-३) इति ॥ २६ ॥

नैते सृती पार्थ जानन् योगी मुह्यति कश्चन  ।

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन           ॥ २७ ॥

एतौ मार्गौ जानन् योगी प्रयाणकाले कश्चन न मुह्यति अपि तु स्वेनैव देवयानेन पथा याति । तस्मादहरहर्चिरादिगतिचिन्तनाख्ययोगयुक्तो भव २७ ॥

अथाध्यायद्वयोदितशास्त्रार्थवेदनफलमाह –

वेदेषु यज्ञेषु तपस्सु चैव दाने च यत्पुण्यफलं प्रदिष्टम्  ।

अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्       ॥ २८ ॥

ऋग्यजुस्सामाथर्वरूपवेदाभ्यासयज्ञतपोदानप्रभृतिषु सर्वेषु पुण्येषु यत्फलं निर्दिष्टम्, इदमध्यायद्वयोदितं भगवन्माहात्म्यं विदित्वा तत्सर्वमत्येति एतद्वेदनसुखातिरेकेण तत्सर्वं तृणवन्मन्यते । योगी ज्ञानी च भूत्वा ज्ञानिन: प्राप्यं परमाद्यं स्थानमुपैति ॥ २८ ॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये अष्टमाध्याय: ॥ ८॥ 

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.