15 श्रीमद्गीताभाष्यम् पञ्चदशोऽध्यायः

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

पञ्चदशोऽध्यायः

क्षेत्राध्याये क्षेत्रक्षेत्रज्ञभूतयो: प्रकृतिपुरुषयो: स्वरूपं विशोध्य विशुद्धस्यापरिच्छिन्न-ज्ञानैकाकारस्यैव पुरुषस्य प्राकृतगुणसङ्गप्रवाहनिमित्तो देवाद्याकारपरिणतप्रकृतिसंबन्धोऽनादिः इत्युक्तम् । अनन्तरे चाध्याये पुरुषस्य कार्यकारणोभयावस्थप्रकृतिसंबन्धो गुणसङ्गमूलो भगवतैव कृत इत्युक्त्वा गुणसङ्गप्रकारं सविस्तरं प्रतिपाद्य गुणसङ्गनिवृत्तिपूर्वकात्म-याथात्म्यावाप्तिश्च भगवद्भक्तिमूलेत्युक्तम्। इदानीं भजनीयस्य भगवत: क्षराक्षरात्मकबद्ध-मुक्तविभूतिमत्ताम्, विभूतिभूतात्क्षराक्षरपुरुषद्वयान्निखिलहेय-प्रत्यनीककल्याणैक्तानतया अत्यन्तोत्कर्षेण विसजातीयस्य भगवत: पुरुषोत्तमत्वं च वक्तुमारभते ।

तत्र तावदसङ्गरूपशस्त्रच्छिन्नबन्धां अक्षराख्यविभूतिं वक्तुं छेद्यरूपबन्धाकारेण विततमचित्परिणाम-विशेषमश्वत्थवृक्षाकारं कल्पयन् –

श्रीभगवानुवाच

ऊर्ध्वमूलमधश्शाखमश्वत्थं प्राहुरव्ययम्  ।

छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्       ॥ १ ॥

यं संसाराख्यमश्वथमूर्ध्वमूलमधश्शाखमव्ययं प्राहु: श्रुतय:, ऊर्ध्वमूलोऽवाक्छाख एषोऽश्वत्थ: सनातन: (क.६.१), ऊर्ध्वमूलमवाक्छाखं वृक्षं यो वेद संप्रति (यजु.आ.१.११.५) इत्याद्या: । सप्तलोकोपरिनिविष्टचतुर्मुखादित्वेन तस्योर्ध्वमूलत्वम् । पृथिवीनिवासिसकल-नरपशुमृगक्रिमिकीटपतङ्गस्थावरान्ततया अधश्शाखत्वम् । असङ्गहेतुभूताद सम्यग्ज्ञानोदयात् प्रवाहरूपेणाच्छेद्यत्वेनाव्ययत्वम् । यस्य चाश्वत्थस्य छन्दांसि पर्णान्याहु: । छन्दांसि –  श्रुतय:, वायव्यं श्वेतमालभेत भूतिकाम: (यजु.२.१.१), ऐन्द्राग्नमेकादश कपालं निर्वपेत्प्रजाकाम: (यजु.२.२.१) इत्यादिश्रुतिप्रतिपादितै: काम्यकर्मभिर्वर्धतेऽयं संसारवृक्ष इति छन्दांस्येवास्य पर्णानि। पर्णैर्हि वृक्षो वर्धते । यस्तमेवंभूतमश्वत्थं वेद, स वेदवित् । वेदो हि संसारवृक्षच्छेदो-पायं वदति छेद्यवृक्षस्वरूपज्ञानं छेदनोपायज्ञनोपयोगीति वेदविदित्युच्यते॥ १५.१॥

अधश्चोर्ध्वं च प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवाला:  ।

तस्य मनुष्यादिशाखस्य वृक्षस्य तत्तत्कर्मकृता अपराश्च अध: शाखा: पुनरपि मनुष्यपश्वादिरूपेण प्रसृता भवन्ति ऊर्ध्वं च गन्धर्वयक्षदेवादिरूपेण प्रसृता भवन्ति । ताश्च गुणप्रवृद्धा: गुणै: सत्त्वादिभि: प्रवृद्धा:, विषयप्रवाला: शब्दादिविषयपल्लवा: । कथमित्यत्राह –

अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके  ॥ २ ॥

ब्रह्मलोकमूलस्यास्य वृक्षस्य मनुष्याग्रस्य, अधो मनुष्यलोके मूलान्यनुसन्ततानि तानि च कर्मानुबन्धीनि कर्माण्येवानुबन्धीनि मूलानि अधो मनुष्यलोके च भवन्तीत्यर्थ: । मनुष्यत्वावस्थायां कृतैर्हि कर्मभि: अधो मनुष्यपश्वादय:, ऊर्ध्वं च देवादयो भवन्ति ॥ २ ॥

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा  ।

अस्य वृक्षस्य चतुर्मुखादित्वेनोर्ध्वमूलत्वम्, तत्सन्तानपरम्परया मनुष्याग्रत्वेन अधश्शाखत्वम्, मनुष्यत्वे कृतै: कर्मभिर्मूलभूतै: पुनरप्यधश्चोर्ध्वं च प्रसृतशाखत्वमिति यथेदं रूपं निर्दिष्टम्, न तथा संसारिभिरुपलभ्यते । मनुष्योऽहं देवदत्तस्य पुत्रो यज्ञदत्तस्य पिता तदनुरूपप्रिग्रहश्चेत्येतावन्मात्रमुपलभ्यते। तथा अस्य वृक्षस्य अन्त: विनाशोऽपि गुणमयभोगेषु असङ्गकृत इति नोपलभ्यते । तथा अस्य गुणसङ्ग एवादिरिति नोपलभ्यते । तस्य प्रतिष्ठा च अनात्मनि आत्माभिमानरूपमज्ञानमिति नोपलभ्यते प्रतितिष्ठत्यस्मिन्न्अएवेति ह्यज्ञान-मेवास्य प्रतिष्ठा ॥ २ ॥

अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्वा  ॥ ३ ॥

तत: पदं तत्परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूय:  ।

एनमुक्तप्रकारं सुविरूढमूलं सुष्ठु विविधं रूढमूलमश्वत्थं सम्यग्ज्ञानमूलेन दृढेन गुणमयभोगासंगाख्येन शस्त्रेण छित्वा, तत: विषयासंगाद्धेतो: तत्पदं परिमार्गितव्यं -अन्वेषणीयम्, यस्मिन् गता भूयो न निवर्तन्ते ॥ ३ ॥

कथमनादिकालप्रवृत्तो गुणमयभोगसंग: तन्मूलं च विपरीतज्ञानं निवर्तत इत्यत आह –

तमेव चाद्यं पुरुषं प्रपद्येद्यत: प्रवृत्ति: प्रसृता पुराणी  ॥ ४ ॥

अज्ञानादिनिवृत्तये तमेव च आद्यं कृत्स्नस्यादिभूतम्, मयाध्यक्षेण प्रकृति: सूयते सचराचरम्‘, अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (भ.गी.९.१०), मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय (७.४) इत्यादिषूक्तमाद्यं पुरुषमेव शरणं प्रपद्येत्तमेव शरणं प्रपद्येत । यत: यस्मात्कृत्स्नस्य स्रष्टुरियं गुणमयभोगसङ्गप्रवृत्ति:, पुराणी पुरातनी प्रसृता । उक्तं हि मयैतत्पूर्वमेव, दैवी ह्येषा गुणमयी मम माया दूरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते (७.१४) इति । प्रपद्ये यत: प्रवृत्तिरिति वा पाठ: तमेव चाद्यं पुरुषं प्रपद्य – शरणमुपगम्य, इयत: अज्ञाननिवृत्त्यादे: कृस्त्नस्यैतस्य साधनभूता प्रवृत्ति: पुराणी पुरातनी प्रसृता । पुरातनानां मुमुक्षूणां प्रवृत्ति: पुराणी । पुरातना हि मुमुक्षवो मामेव शरणमुपगम्य निर्मुक्तबन्धास्संजाता इत्यर्थ: ॥ ४ ॥

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा:  ।

द्वन्द्वैर्विमुक्तास्सुखदु:खसंज्ञैर्गच्छन्त्यमूढा: पदमव्ययं तत् ॥ ५ ॥

एवं मां शरणमुपगम्य निर्मानमोहा: निर्गतानात्मात्माभिमानरूपमोहा:, जितसङ्गदोषा जितगुणमयभोगसङ्गाख्यदोषा: । अध्यात्मनित्या: आत्मनि यज्ज्ञानं तदध्यात्मम्, आत्मज्ञाननिरता:। विनिवृत्तकामा: विनिवृत्ततदितरकामा: सुखदु:खसज्ञैर्द्वन्द्वैश्च विमुक्ता:, अमूढा: आत्मानात्मस्वभवज्ञा:, तदव्ययं पदं गच्छन्ति अनवच्छिन्नज्ञानाकारमात्मानं यथावस्थितं प्राप्नुवन्ति मां शरणमुपगतानां मत्प्रसादादेरेवैता: सर्वा: प्रवृत्तय: सुशका: सिद्धिपर्यन्ता भवन्तीत्यर्थ: ॥ ५ ॥

न तद्भासयते सूर्यो न शशाङ्को न पावक:  ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम    ॥ ६ ॥

तदत्मज्योतिर्न सूर्यो भासयते, न शशाङ्क:, न पावकश्च । ज्ञानमेव हि सर्वस्य प्रकाशकम् बाह्यानि तु ज्योतींषि विषयेन्द्रियसंबन्धविरोधितमोनिरसनद्वारेणोपकारकाणि । अस्य च प्रकाशको योग: । तद्विरोधि चानादिकर्म । तन्निवर्तनं चोक्तं भगवत्प्रपत्तिमूलमसङ्गादि । यद्गत्वा पुनर्न निवर्तन्ते, तत्परमं धाम परं ज्योति: मम मदीयम् मद्विभूतिभूत: ममांश इत्यर्थ: । आदित्यादीनामपि प्रकाशकत्वेन तस्य परमत्वम् । आदित्यादीनि हि ज्योतींषि न ज्ञानज्योतिष: प्रकाशकानि ज्ञानमेव सर्वस्य प्रकाशकम् ॥ ६ ॥

ममैवांशो जीवलोके जीवभूत: सनातन:  ।

मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थितानि कर्षति  ॥ ७ ॥

इत्थमुक्तस्वरूप: सनातनो ममांश एव सन् कश्चिदनादिकर्मरूपाविद्यावेष्टितो जीवभूतो जीवलोके वर्तमानो देवमनुष्यादिप्रकृतिपरिणामविशेषशरीरस्थानि मनष्षष्ठानीन्द्रियाणि कर्षति । कश्चिच्च पूर्वोक्तेन मार्गेणास्या अविद्याया: मुक्त: स्वेन रूपेणावतिष्ठते । जीवभूतस्त्वतिसंकुचितज्ञानैश्वर्य: कर्मलब्धप्रकृति-परिणामविशेषरूपशरीरस्थानामिन्द्रियाणां मनष्षष्ठानामीश्वर: तानि कर्मानुगुणमितस्तत: कर्षति ॥७॥

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वर:  ।

गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्    ॥ ८ ॥

यच्शरीरमवाप्नोति, यमाच्छरीरादुत्क्रामति, तत्रायमिन्द्रियाणामीश्वर: एतानि इन्द्रियाणि भूतसूक्ष्मैस्सह गृहीत्वा संयाति वायुर्गन्धानिवाशयात् । यथा वायु: स्रक्चन्दनकस्तूरिकाद्याशयात्तत्स्थानात्सूक्ष्मावयवैस्सह गन्धान् गृहीत्वान्यत्र संयाति, तद्वदित्यर्थ: ॥ ८ ॥ कानि पुनस्तानीन्द्रियाणीत्यत्राह –

श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च  ।

अधिष्ठाय मनश्चायं विषयानुपसेवते        ॥ ९ ॥

एतानि मनष्षष्ठानीन्द्रियाणि अधिष्ठाय स्वस्वविषयवृत्त्यनुगुणानि कृत्वा, तान् शब्दादीन् विषयानुपसेवते उपभुङ्क्ते ॥ ९ ॥

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्  ।

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष:  ॥ १० ॥

एवं गुणान्वितं सत्त्वादिगुणमयप्रकृतिपरिणामविशेषमनुष्यत्वादिसंस्थानपिण्डसंसृष्टम्, पिण्डविशेषादुत्क्रामन्तं पिण्डविशेषेऽवथितं वा, गुणमयान् विषयान् भुञ्जानं वा कदाचिदपि प्रकृतिपरिणामविशेषमनुष्यत्वादि-पिण्डाद्विलक्षणं ज्ञानैकाकारं विमूढा नानुपश्यन्ति । विमूढा: मनुष्यत्वादिपिण्डात्मत्वाभिमानिन: । ज्ञानचक्षुषस्तु पिण्डात्मविवेकविषयज्ञानवन्त: सर्वावस्थमप्येनं विविक्ताकारमेव पश्यन्ति ॥ १०॥

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्  ।

यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस:  ॥ ११ ॥

मत्प्रपत्तिपूर्वकं कर्मयोगादिषु यतमानास्तैर्निर्मलान्त:करणा योगिनो योगाख्येन चक्षुषा आत्मनि शरीरेऽवस्थितमपि शरीराद्विविक्तं स्वेन रूपेणावस्थितमेनं पश्यन्ति । यतमाना अप्यकृतात्मान: मत्प्रपत्तिविरहिण: तत एवासंस्कृतमनस:, तत एव अचेतस: आत्मावलोकनसमर्थचेतोरहिता: नैनं पश्यन्ति ॥ ११ ॥

एवं रविचन्द्राग्नीनामिन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमुखेनेन्द्रियानुग्राहकतया प्रकाशकानां ज्योतिष्मतामपि प्रकाशकज्ञानज्योतिरात्मा मुक्तावस्थो जीवावस्थश्च भगवद्विभूतिः इत्युक्तम्, तद्धाम परमं मम , ममैवांशो जीवलोके जीवभूतस्सनातन: इति । इदानीमचित्परिणामविशेषभूतमादित्यादीनां ज्योतिष्मतां ज्योतिरपि भगवद्विभूतिरित्याह –

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्  ।

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्  ॥ १२ ॥

अखिलस्य जगतो भासकमेतेषामादित्यादीनां यत्तेज:, तन्मदीयं तेज: तैस्तैराराधितेन मया तेभ्यो दत्तमिति विद्धि ॥ १२ ॥ पृथिव्याश्च भूतधारिण्या धारकत्वशक्तिर्मदीयेत्याह –

गामाविश्य च भूतानि धारयाम्यहमोजसा ॥

पुष्णामि चौषधी: सर्वास्सोमो भूत्वा रसात्मक:  ॥ १३ ॥

अहं पृथिवीमाविश्य सर्वाणि भूतानि ओजसा ममाप्रतिहतसामर्थ्येन धारयामि । तथाहममृतरसमयस्सोमो भूत्वा सर्वौषधी: पुष्णामि ॥ १५.१३ ॥

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: ।

प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम्   ॥ १४ ॥

अहं वैश्वानरो जाठरानलो भूत्वा सर्वेषां प्राणिनां देहमाश्रित: तैर्भुक्तं खाद्यचूष्यलेह्यपेयात्मकं चतुर्विधमन्नं प्राणापानवृत्तिभेदसमायुक्त: पचामि ॥ १४ ॥

अत्र परमपुरुषविभूतिभूतौ सोमवैश्वानरौ अहं सोमो भूत्वा, वैश्वानरो भूत्वा इति तत्सामानाधिकरण्येन निर्दिष्टौ । तयोश्च सर्वस्य भूतजातस्य च परमपुरुषसामानाधिकरण्यनिर्देशहेतुमाह –

सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिज्ञानमपोहनं च ।

वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥

तयो: सोमवैश्वानरयो: सर्वस्य च भूतजातस्य सकलप्रवृत्तिनिवृत्तिमूलज्ञानोदयदेशे हृदि सर्वं मत्संकल्पेन नियच्छनहमात्मतया सन्निविष्ट: । तथाहु: श्रुतय:, अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा (य.आ.३.११.२), य: पृथिव्यां तिष्ठन्, य आत्मनि तिष्ठनात्मनोऽन्तरो … यमयति (बृ.५.७.२२.मा), पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् (ना), अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म (छा.८.१.१) इत्याद्या: । स्मृतयश्च, शास्ता विष्णुरशेषस्य जगतो यो जगन्मय: (वि.१.१७.२०) , प्रशासितारं सर्वेषामणीयांसमणीयसाम् (मनु.१२.१२२), यमो वैवस्वतो राजा यस्तवैष हृदि स्थित: (मनु.८.२२) इत्याद्या: । अतो मत्त एव सर्वेषां स्मृतिर्जायते । स्मृति: पूर्वानुभूतिविषयमनुभवसंस्कारमात्रजं ज्ञानम् । ज्ञानमिन्द्रियलिङ्गागमयोगजो वस्तुनिश्चय: सोऽपि मत्त: । अपोहनं च । अपोहनम्  ज्ञाननिवृत्ति: । अपोहनमूहनं वा ऊहनमूह: ऊहो नाम इदं प्रमाणमित्थं प्रवर्तितुमर्हातीति प्रमाणप्रवृत्त्यर्हाताविषयं सामग्र्यादिनिरूपणजन्यं प्रमाणानुग्राहकं ज्ञानम् स चोहो मत्त एव । वेदैश्च सर्वैरहमेव वेद्य: । अतोऽग्निसूर्यवायुसोमेन्द्रादीनां मदन्तर्यामिकत्वेन मदात्मकत्वात्तत्प्रतिपादनपरैरपि सर्वैर्वेदैरहमेव वेद्य:, देवमनुष्यादिशब्दैर्जीवात्मैव । वेदान्तकृद्वेदानाम्  इन्द्रं यजेत, वरुणं यजेत इत्येवमादीनामन्त: फलम् फले हि ते सर्वे वेदा: पर्यवस्यन्ति अन्तकृत्फलकृत् वेदोदितफलस्य प्रदाता चाहमेवेत्यर्थ: । तदुक्तं पूर्वमेव, यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति (७.११) इत्यारभ्य लभते च तत: कामान्मयैव विहितान् हि तान् इति, अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च (९.२४) इति च । वेदविदेव चाहम्  वेदविच्चाहमेव । एवं मदभिधायिनं वेदमहमेव वेद इतोऽन्यथा यो वेदार्थं ब्रूते न स वेदविदित्यभिप्राय: ॥ १५ ॥ अतो मत्त एव सर्ववेदानां सारभूतमर्थं शृणु –

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते    ॥ १६ ॥

क्षरश्चाक्षरश्चेति द्वाविमौ पुरुषौ लोके प्रथितौ । तत्र क्षरशब्दनिर्दिष्ट: पुरुषो जीवशब्दाभिलपनीय-ब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्टसर्वभूतानि। अत्राचित्संसर्गरूपैकोपाधिना पुरुष इत्येकत्वनिर्देश:। अक्षरशब्दनिर्दिष्ट: कूटस्थ:  – अचित्संसर्गवियुक्त: स्वेन रूपेणावस्थितो मुक्तात्मा। स त्वचित्संसर्गाभावात् अचित्परिणामविशेषब्रह्मादिदेहासाधारणो न भवतीति कूटस्थ इत्युच्यते । अत्राप्येकत्वनिर्देशोऽचिद्वियोग-रूपैकोपाधिनाभिहित: । न हि इत: पूर्वमनादौ काले मुक्त एक एव । यथोक्तम्, बहवो ज्ञानतपसा पूता मद्भावमागता: (४.१०), सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च (१४.२) इति॥१६॥

उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत: ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर:     ॥ १७ ॥

उत्तम: पुरुषस्तु ताभ्यां क्षराक्षरशब्दनिर्दिष्टाभ्यां बद्धमुक्तपुरुषाभ्यामन्य: अर्थान्तरभूत: परमात्मेत्युदाहृत: सर्वासु श्रुतिषु । परमात्मेति निर्देशादेव ह्युत्तम: पुरुषो बद्धमुक्तपुरुषाभ्यामर्थान्तरभूत इत्यवगम्यते । कथम्? यो लोकत्रयमाविश्य बिभर्ति । लोक्यत इति लोक: तत्त्रयं लोकत्रयम् । अचेतनं तत्संसृष्टश्चेतनो मुक्तश्चेति प्रमाणावगम्यमेतत्त्रयं य आत्मतया आविश्य बिभर्ति, स तस्माद्व्याप्याद्भर्तव्याच्चार्थान्तरभूत: । इतश्चोक्ताल्लोकत्रयादर्थान्तरभूत: यत: सोऽव्यय:, ईश्वरश्च अव्ययस्वभावो हि व्ययस्वभावादचेतनात्तत्संबन्धेन तदनुसारिणश्च चेतनादचित्संबन्धयोग्यतया पूर्वसंबन्धिनो मुक्ताच्चार्थान्तरभूत एव । तथैतस्य लोकत्रयस्येश्वर:, ईशितव्यात्तस्मादर्थान्तरभूत: ॥ १७ ॥

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम: ।

अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम:   ॥ १८ ॥

यस्मादेवमुक्तै: स्वभावै: क्षरं पुरुषमतीतोऽहम्, अक्षरान्मुक्तादप्युक्तैर्हेातुभिरुत्कृष्टतम:, अतोऽहं लोके वेदे च पुरुषोत्तम इति प्रथितोऽस्मि । वेदार्थावलोकनाल्लोक इति स्मृतिरिहोच्यते । श्रुतौ स्मृतौ चेत्यर्थ: । श्रुतौ तावत्, परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तम: पुरुष: (छा.८.१२.२)  इत्यादौ। स्मृतवपि, अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णो: (वि.५.१७.३३) इत्यादौ ॥ १८ ॥

यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।

स सर्वविद्भजति मां सर्वभावेन भारत      ॥ १९ ॥

य एवमुक्तेन प्रकारेण पुरुषोत्तमं मामसंमूढो जानाति क्षराक्षरपुरुषाभ्याम्, अव्ययस्वभावतया व्यापनभरणैश्वर्यादियोगेन च विसजातीयं जानाति, स सर्वविन्मत्प्राप्त्युपायतया यद्वेदितव्यं तत्सर्वं वेद भजति मां सर्वभावेन  ये च मत्प्राप्त्युपायतया मद्भजनप्रकारा निर्दिष्टा: तैश्च सर्वैर्भजनप्रकारैर्मां भजते । सर्वैर्मद्विषयैर्वेदनैर्मम या प्रीति:, या च मम सर्वैर्मद्विषयैर्भजनै:, उभयविधा सा प्रीतिरनेन वेदनेन मम जायते ॥ १९॥ इत्येतत्पुरुषोत्तमत्ववेदनं पूजयति

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।

एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥ २० ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु पुराणपुरुषोत्तमयोगो नाम एकादशोऽध्याय: ॥ ११॥

इत्थं मम पुरुषोत्तमत्वप्रतिपादनं सर्वेषां गुह्यानां गुह्यतममिदं शास्त्रम्, त्वमनघतया योग्यतम: इति कृत्वा मया तवोक्तम् । एतद्बुद्ध्वा बुद्धिमांस्स्यात्कृतकृत्यश्च  मां प्रेप्सुना उपादेया या बुद्धि: सा सर्वा उपात्ता स्यात्यच्च तेन कर्तव्यम्, तत्सर्वं कृतं स्यादित्यर्थ: । अनेन श्लोकेन, अनन्तरोक्तं पुरुषोत्तमविषयं ज्ञानं शास्त्रजन्यमेवैतत्सर्वं करोति, न तत्साक्षात्काररूपमित्युच्यते ॥ २० ॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये पञ्चदशोऽध्याय: ॥ १५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.