05 श्रीमद्गीताभाष्यम् पञ्चमोऽध्याय:

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

पञ्चमोऽध्याय:

चतुर्थेऽध्याये कर्मयोगस्य ज्ञानाकारतापूर्वकस्वरूपभेदो ज्ञानांशस्य च प्राधान्यमुक्तम् ज्ञानयोगाधिकारिणो-ऽपि कर्मयोगस्यान्तर्गतात्मज्ञानत्वादप्रमादत्वात्सुकरत्वान्निरपेक्षत्वाच्च ज्यायस्त्वं तृतीय एवोक्तम् । इदानीं कर्मयोगस्यात्मप्राप्तिसाधनत्वे ज्ञाननिष्ठायाश्शैघ्र्यं कर्मयोगान्तर्गताकर्तृत्वानुसन्धान-प्रकारं च प्रतिपाद्य तन्मूलं ज्ञानं च विशोध्यते ॥

अर्जुन उवाच

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि  ।

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्    ॥ १ ॥

कर्मणां संन्यासं ज्ञानयोगं पुन: कर्मयोगं च शंससि । एतदुक्तं भवति  द्वितीयेऽध्याये मुमुक्षो: प्रथमं कर्मयोग एव कार्य:, कर्मयोगेन मृदितान्त:करणकषायस्य ज्ञानयोगेनात्मदर्शनं कार्यमिति प्रतिपाद्य पुनस्तृतीयचतुर्थयो: ज्ञानयोगाधिकारदशापन्नस्यापि कर्मनिष्ठैव ज्यायसी, सैव ज्ञाननिष्ठानिरपेक्षा आत्मप्राप्तौ साधनमिति कर्मनिष्ठां प्रशंशसि इति । तत्रैतयोर्ज्ञानयोगकर्मयोगयोरात्मप्राप्तिसाधनभावे यदेकं सौकार्यच्छैघ्र्याच्च श्रेय: श्रेष्ठमिति सुनिश्चितम्, तन्मे ब्रूहि ॥ १ ॥

श्रीभगवानुवाच

संन्यास: कर्मयोगश्च निश्श्रेयसकरावुभौ  ।

तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते  ॥ २ ॥

संन्यास: ज्ञानयोग:, कर्मयोगश्च ज्ञानयोगशक्तस्याप्युभौ निरपेक्षौ निश्श्रेयसकरौ । तयोस्तु कर्मसंन्यासाज्ज्ञानयोगात्कर्मयोग एव विशिष्यते ॥ २ ॥

कुत इत्यत्राह –

ज्ञेय: स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते             ॥ ३ ॥

य: कर्मयोगी तदन्तर्गतात्मानुभवतृप्तस्तद्व्यतिरिक्तं किमपि न काङ्क्षति, तत एव किमपि न द्वेष्टि, तत एव द्वन्द्वसहश्च स नित्यसंन्यासी नित्यज्ञाननिष्ठ इति ज्ञेय: । स हि सुकरकर्मयोगनिष्ठतया सुखं बन्धात्प्रमुच्यते ॥ ३ ॥

ज्ञानयोगकर्मयोगयोरात्मप्राप्तिसाधनभावेऽन्योन्यनैरपेक्ष्यमाह –

सांख्ययोगौ पृथग्बाला: प्रवदन्ति न पण्डिता:  ।

एकमप्यास्थितस्सम्यगुभयोर्विन्दन्ते फलम्         ॥ ४ ॥

ज्ञानयोगकर्मयोगौ फलभेदात्पृथग्भूतौ ये प्रवदन्ति, ते बाला: अनिष्पन्नज्ञाना: न पण्डिता: अकृत्स्नविद: । कर्मयोगो ज्ञानयोगमेव साधयति ज्ञानयोगस्त्वेक आत्मावलोकनं साधयतीति तयो: फलभेदेन पृथक्त्वं वदन्तो न पण्डिता इत्यर्थ: । उभयोरात्मावलोकनैकफलयोरेकफलत्वेन एकमप्यास्थितस्तदेव फलं लभते ॥ ४ ॥

एतदेव विवृणोति –

यत्सांख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते  ।

कं सांख्यं च योगं च य: पश्यति स पश्यति             ॥ ५ ॥

सांख्यै: ज्ञाननिष्ठै: । यदत्मावलोकनरूपं फलं प्राप्यते, तदेव कर्मयोगनिष्ठैरपि प्राप्यते । एवमेकफलत्वेनैकं वैकल्पिकं सांख्यं योगं च य: पश्यति, स पश्यति स एव पण्डित इत्यर्थ: ॥५॥

इयान् विशेष इत्याह –

संन्यासस्तु महाबाहो दु:खमाप्तुमयोगत:  ।

योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति         ॥ ६ ॥

संन्यास: ज्ञानयोगस्तु अयोगत: कर्मयोगाद्­ते प्राप्तुमशक्य: योगयुक्त: कर्मयोगयुक्त: स्वयमेव मुनि: आत्ममननशील: सुखेन कर्मयोगं साधयित्वा न चिरेण अल्पेनैव कालेन ब्रह्माधिगच्छति आत्मानं प्राप्नोति । ज्ञानयोगयुक्तस्तु महता दु:खेन ज्ञानयोगं साधयति दु:खसाध्यत्वादात्मानं चिरेण प्राप्नोतीत्यर्थ: ॥ ६ ॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रिय:  ।

सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते          ॥ ७ ॥

कर्मयोगयुक्तस्तु शास्त्रीये परमपुरुषाराधनरूपे विशुद्धे कर्मणि वर्तमान: तेन विशुद्धमना: विजितात्मा स्वाभ्यस्ते ते कर्मणि व्यापृतमनस्त्वेन सुखेन विजितमना: , तत एव जितेन्दिय: कर्तुरात्मनो याथात्म्यानुसन्धान-निष्ठतया सर्वभूतात्मभूतात्मा सर्वेषां देवादिभूतानामात्मभूत आत्मा यस्यासौ सर्वभूतात्मभूतात्मा । आत्मयाथात्म्य-मनुसन्धानस्य हि देवादीनां स्वस्य चैकाकार आत्मा देवादिभेदानां प्रकृतिपरिणामविशेषरूपतया-त्माकारत्वासंभवात् । प्रकृतिवियुक्त: सर्वत्र देवादिदेहेषु ज्ञानैकाकारतया समानाकार इति ‘निर्दोषं हि समं ब्रह्म‘ इति अनन्तरमेव वक्ष्यते । स एवंभूत: कर्म कुर्वन्नपि अनात्मन्यात्माभिमानेन न लिप्यते  न संबध्यते । अतोऽचिरेणात्मानं प्राप्नोतीत्यर्थ: ॥७ ॥

यत: सौकर्याच्छैघ्र्याच्च कर्मयोग एव श्रेयान्, अतस्तदपेक्षितं शृणु –

नैष किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।

पश्यन् शृण्वन् स्पृशन् जिघ्रनश्नन् गच्छन् स्वपन् श्वसन् ॥ ८ ॥

प्रलपन् विसृजन् गृह्णनुन्मिषन्निमिषन्नपि  ।

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्          ॥ ९ ॥

एवमात्मतत्त्वविच्श्रोत्रादीनि ज्ञानेन्द्रियाणि, वागादीनि च कर्मेन्द्रियाणि, प्रणाश्च स्वविषयेषु वर्तन्त इति धारयननुसन्धान: नाहं किंचित्करोमीति मन्येत  ज्ञानैकस्वभावस्य मम कर्ममूलेन्द्रियप्राणसंबन्धकृतमीदृशं कर्तृत्वम् न स्वरूपप्रयुक्तमिति मन्येतेत्यर्थ: ॥ ८ – ९॥

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य:  ।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा          ॥ १० ॥

ब्रह्मशब्देन प्रकृतिरिहोच्यते । मम योनिर्महद्ब्रह्म (भ.गी.१४.३) इति हि वक्ष्यते । इन्द्रियाणां प्रकृतिपरिणामविशेषरूपत्वेन इन्द्रियाकारेणावस्थितायां प्रकृतौ पश्यञ्छृण्वन् इत्याद्युक्तप्रकारेण कर्माण्याधाय, फलसङ्गं त्यक्त्वा, नैव किंचित्करोमीति य: कर्माणि करोति, स प्रकृतिसंसृष्टतया वर्तमानोऽपि प्रकृत्यात्माभिमानरूपेण बन्धहेतुना पापेन न लिप्यते । पद्मपत्रमिवाम्भसा  यथा पद्मपत्रमम्भसा संसृष्टमपि न लिप्यते, तथा न लिप्यत इत्यर्थ: ॥  ॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि  ।

योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये           ॥ ११ ॥

कायमनोबुद्धीन्द्रियसाध्यं कर्म स्वर्गादिफलसङ्गं त्यक्त्वा योगिन आत्मविशुद्धये कुरन्ति आत्मगतप्राचीनकर्मबन्धविनाशाय कुर्वन्तीत्यर्थ: ॥ ११ ॥

युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।

अयुक्त: कामकारेण फले सक्तो निबध्यते         ॥१२॥

युक्त:  आत्मव्यतिरिक्तफलेष्वचपल: आत्मैकप्रवण:, कर्मफलं त्यक्त्वा केवलमात्मशुद्धये कर्मानुष्ठाय नैष्ठिकीं शान्तिमाप्नोति  स्थिरामात्मानुभवरूपां निर्वृतिमाप्नोति । अयुक्त:  आत्मव्यतिरिक्तफलेषु चपल: आत्मावलोकनविमुख: कामकारेण फले सक्त: कर्माणि कुर्वन्नित्यं कर्मभिर्बध्यते  नित्यसंसारी भवति । अत: फलसङ्गरहित: इन्द्रियाकारेण परिणतायां प्रकृतौ कर्माणि संन्यस्य आत्मनो बन्धमोचनायैव कर्माणि कुर्वीतेत्युक्तं भवति ॥ १२ ॥

अथ देहाकारेण परिणतायां प्रकृतौ कर्तृत्वसंन्यास उच्यते –

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।

नवद्वारे पुरे देही नैव कुर्वन्न कारयन्            ॥ १३ ॥

आत्मन: प्राचीनकर्ममूलदेहसंबन्धप्रयुक्तमिदं कर्मणां कर्तृत्वम् न स्वरूपप्रयुक्तमिति विवेकविषयेण मनसा सर्वाणि कर्माणि नवद्वारे पुरे संन्यस्य देही स्वयं वशी देहाधिष्ठानप्रयत्नमकुर्वन् देहं च नैव कारयन् सुखमास्ते ॥१३॥ साक्षादात्मन: स्वाभाविकं रूपमाह –

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु:  ।

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते             ॥ १४ ॥

अस्य देवतिर्यङ्मनुष्यस्थावरात्मना प्रकृतिसंसर्गेण वर्तमानस्य लोकस्य देवाद्यसाधारणं कर्तृत्वं तत्तदसाधारणानि कर्माणि तत्तत्कर्मजन्यदेवादिफलसंयोगं च, अयं प्रभु: अकर्मवश्य: स्वाभाविकस्वरूपेणावस्थित आत्मा न सृजति नोत्पादयति । कस्तर्हि? स्वभावस्तु प्रवर्तते । स्वभाव: प्रकृतिवासना । अनादिकालप्रवृत्त-पूर्वपूर्वकर्मजनितदेवाद्याकारप्रकृति संसर्गकृततत्तदात्माभिमान-       जनितवासनाकृतमीदृशं कर्तृत्वादिकं सर्वम् न स्वरूपप्रयुक्तमित्यर्थ: ॥ १४ ॥

नादत्ते कस्यचित्पापं न चैव सुकृतं विभु:  ।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव:  ॥ १५ ॥

कस्यचित्स्वसंबन्धितयाभिमतस्य पुत्रादे: पापं दु:खं नादत्ते नापनुदति । कस्यचित् प्रतिकूलतयाभिमतस्य सुकृतं सुखं च नादत्ते नापनुदति । यतोऽयं विभु: न क्वाचित्क:, न देवादि-देहाद्यसाधारणदेश:, अत एव न कस्यचित्संबन्धी, न कस्यचित्प्रतिकूलश्च । सर्वमिदं वासनाकृतम्। एवंस्वभावस्य कथमियं विपरीतवासना उत्पद्यते? अज्ञानेनावृतं ज्ञानं ज्ञानविरोधिना पूर्वपूर्वकर्मणा स्वफलानुभवयोग्यत्वाय अस्य ज्ञानमावृतं संकुचितम् । तेन ज्ञानावरणरूपेण कर्मणा देवादिदेहसंयोगस्तत्तदात्माभिमानरूपमोहश्च जायते । ततश्च तथाविधात्माभिमान वासना, तदुचितकर्मवासना च वासनातो विपरीतात्माभिमान:, कर्मारम्भश्चोपपद्यते ॥ १५ ॥

सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यति (भ.गी.४.३६), ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते तथा (भ.गी.४.३७), न हि ज्ञानेन सदृशं पवित्रम् (भ.गी.४.३८) इति पूर्वोक्तं स्वकाले  संगमयति –

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन:  ।

तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्     ॥ १६ ॥

एवं वर्तमानेषु सर्वेष्वात्मसु येषामात्मनामुक्तलक्षणेन आत्मयाथात्म्योपदेशजनितेन आत्मविषयेण अहरहरभ्यासाधेयातिशयेन निरतिशयपवित्रेण ज्ञानेन तत् ज्ञानावरणमनादिकालप्रवृत्तानन्तकर्मसंचय-रूपमज्ञानं नाशितम्, तेषां तत्स्वाभाविकं परं ज्ञानमपरिमितमसंकुचितमादित्यवत्सर्वं यथावस्थितं प्रकाशयति । तेषामिति विनष्टाज्ञानानां बहुत्वाभिमानादात्मस्वरूपबहुत्वम्, न त्वेवाहं जातु नासम्  (भ.गी.२.१२) इत्युपक्रमावगतमत्र स्पष्टतरमुक्तम् । न चेदं बहुत्वमुपाधिकृतम् विनष्टाज्ञानानामुपाधिगन्धाभावात् । तेषामादित्यवज्ज्ञानम् इति व्यतिरेकनिर्देशाज्ज्ञानस्य स्वरूपानुबन्धिधर्मत्वमुक्तम् । आदित्यदृष्टान्तेन च ज्ञातृज्ञानयो: प्रभाप्रभावतोरिवावस्थानं च । तत एव संसारदशायां ज्ञानस्य कर्मणा संकोचो मोक्षदशायां विकासश्चोपपन्न: ॥ १६ ॥

तद्बुद्धयस्तदात्मनस्तन्निष्ठास्तत्परायणा:  ।

गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा:      ॥ १७ ॥

तद्बुद्धय: तथाविधात्मदर्शनाध्यवसाया:, तदात्मान: तद्विषयमनस:, तन्निष्ठा: तदभ्यासनिरता:, तत्परायणा: तदेव परमप्रयोजनमिति मन्वाना:, एवमभ्यस्यमानेन ज्ञानेन निर्धूतप्राचीनकल्मषा: तथाविधमात्मनमपुनरावृत्तिं गच्छन्ति । यदवस्थादात्मन: पुनरावृत्तिर्न विद्यते, स आत्मा अपुनरावृत्ति:। स्वेन रूपेणावस्थितमात्मानं गच्छन्तीत्यर्थ: ॥ १७ ॥

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि  ।

शुनि चैव श्वपाके च पण्डिता: समदर्शिन:  ॥ १८ ॥

विद्याविनयसंपन्ने, केवलब्राह्मणे, गोहस्तिश्वश्वपचादिषु अत्यन्तविषमाकारतया प्रतीयमानेषु आत्मसु पण्डिता: आत्मयाथात्म्यविद:, ज्ञानैकाकारतया सर्वत्र समदर्शिन:  विषमाकारस्तु प्रकृते:, नात्मन: आत्मा तु सर्वत्र ज्ञानैकाकारतया सम इति पश्यन्तीत्यर्थ: ॥ १८ ॥

इहैव तैर्जितस्स्वर्गो येषां साम्ये स्थितं मन: ।

निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिता:    ॥ १९ ॥

इहैव  साधनानुष्ठानदशायामेव तै: सर्गो जित: संसारो जित: येषामुक्तरीत्या सर्वेष्वात्मसु साम्ये स्थितं मन: । निर्दोषं हि समं ब्रह्म । प्रकृतिसंसर्गदोषवियुक्ततया सममात्मवस्तु हि ब्रम्ह । आत्मसाम्ये स्थिताश्चेद्ब्रह्मणि स्थिता एव ते ब्रह्मणि स्थितिरेव हि संसारजय: । आत्मसु ज्ञानैकाकारतया साम्यमेवानुसन्धाना मुक्ता एवेत्यर्थ: ॥ १९ ॥

येन प्रकारेणावथितस्य कर्मयोगिन: समदर्शनरूपो ज्ञनविपाको भवति, तं प्रकारमुपदिशति –

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्  ।

स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थित:              ॥ २० ॥

यादृशदेहस्थस्य यदवस्थस्य प्राचीनकर्मवासनया यत्प्रियं भवति, यच्चाप्रियम्, तदुभयं प्राप्य हर्षोद्वेगौ न कुर्यात् । कथम्? स्थिरबुद्धि:  स्थिरे आत्मनि बुद्धिर्यस्य स: स्थिरबुद्धि:, असंमूढो अस्थिएण शरीरेण स्थिरमात्मानमेकीकृत्य मोह: संमोह: तद्रहित: । तच्च कथम्? ब्रह्मविद्ब्रह्मणि स्थित: । उपदेशेन ब्रह्मवित्सन् तस्मिन् ब्रह्मण्यभ्यासयुक्त: । एतदुक्तं भवति  तत्त्वविदामुपदेशेन आत्मयाथात्म्यविद्भूत्वा तत्रैव यतमानो देहात्माभिमानं परित्यज्य स्थिररूपात्मावलोकनप्रियानुभवे व्यवस्थित: अस्थिरे प्राकृते प्रियाप्रिये प्राप्य हर्षोदेवेगौ न कुर्यादिति ॥ २० ॥

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि य: सुखम्  ।

स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते     ॥ २१ ॥

एवमुक्तेन प्रकारेण बाह्यस्पर्शेषु आत्मव्यतिरिक्तविषयानुभवेषु, असक्तात्मा असक्तमना: अन्तरात्मन्येव य: सुखं विन्दति लभते, स प्रकृत्यभ्यासं विहाय ब्रह्मयोगयुक्तात्मा  ब्रह्माभ्यासयुक्तमना: ब्रह्मानुभवरूपमक्षयं सुखं प्राप्नोति ॥ २१ ॥

प्राकृतस्य भोगस्य सुत्यजतामाह –

ये हि संस्पर्शजा भोगा दु:खयोनय एव ते  ।

आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध:  ॥ २२ ॥

विषयेन्द्रियस्पर्शजा: ये भोगा: दु:खयोनयस्ते  दु:खोदर्का: । आद्यन्तवन्त: अल्पकालवर्तिनो हि उपलभ्यन्ते । न तेषु तद्याथात्म्यविद्रमते ॥ २२ ॥

शक्नोतीहैव य: सोढुं प्राक्शरीरविमोक्षणात् ।

कामक्रोधोद्भवं वेगं स युक्त: स सुखी नर:        ॥ २३ ॥

शरीरविमोक्षणात्प्राकिहअएव साधनानुष्ठानदशायमेव आत्मानुभवप्रीत्या कामक्रोधोद्भवं वेगं सोढुं निरोद्धुं य: शक्नोति, स युक्त: आत्मानुभवायार्हा: । स एव शरीरविमोक्षोत्तरकालमात्मानुभवैक-सुखस्संपत्स्यते ॥ २३ ॥

योऽन्तस्सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव य:  ।

स योगी ब्रह्म निर्वाणं ब्रह्मभूतोऽधिगच्छति       ॥ २४ ॥

यो बाह्यविषयानुभवं सर्वं विहाय अन्तस्सुख: आत्मानुभवैकसुख:, अन्तराराम: आत्मैकोद्यान: स्वगुणैरात्मैव सुखवर्धको यस्य स तथोक्त:, तथान्तर्ज्योति: आत्मैकज्ञानो यो वर्तते, स ब्रह्मभूतो योगी ब्रह्मनिर्वाणमात्मानुभवसुखं प्राप्नोति ॥ २४ ॥

लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा:  ।

छिन्नद्वैधा यतात्मानस्सर्वभूतहिते रता:    ॥ २५ ॥

च्छिन्नद्वैधा: शीतोष्णादिद्वन्द्वैर्विमुक्ता:, यतात्मान: आत्मन्येव नियमितमनस:, सर्वभूतहिते रता: आत्मवत्सर्वेषां भूतानां हितेष्वेव निरता:, ऋषय: द्रष्टार: आत्मावलोकनपरा:, य एवम्भूतास्ते क्षीणाशेषात्मप्राप्तिविरोधिकल्मषा: ब्रह्मनिर्वाणं लभन्ते ॥ २५ ॥

उक्तलक्षणानां ब्रह्म अत्यन्तसुलभमित्याह –

कामक्रोधवियुक्तानां यतीनां यतचेतसाम्  ।

अभितो ब्रह्मनिर्वाणं वर्तते विजितात्मनाम्        ॥ २६ ॥

कामक्रोध्वियुक्तानां यतीनां यतनशीलानां यतचेतसां नियमितमनसां विजितात्मनां विजितमनसां, ब्रह्मनिर्वाणमभितो वर्तते । एवंभूतानां हस्तस्थं ब्रह्मनिर्वाणमित्यर्थ: ॥ २६ ॥

उक्तं कर्मयोगं स्वलक्ष्यभूतयोगशिरस्कमुपसंहरति –

स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो:  ।

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ        ॥ २७ ॥

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण:  ।

विगतेच्छाभयक्रोधो य: सदा मुक्त एव स:        ॥ २८ ॥

बाह्यान् विषयस्पर्शान् बहि: कृत्वा बाह्येन्द्रियव्यापारं सर्वमुपसंहृत्य, योगयोग्यासने ऋजुकाय उपविश्य चक्षुषी भ्रुवोरन्तरे नासाग्रे विन्यस्य नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा उच्छ्वासनिश्वासौ समगती कृत्वा आत्मावलोकनादन्यत्र प्रवृत्त्यनर्हेान्द्रियमनोबुद्धि:, तत एव विगतेच्छाभयक्रोध:, मोक्षपरायण: मोक्षैकप्रयोजन:, मुनि: आत्मावलोकनशील: य:, स: सदा मुक्त एव साध्यदशायामिव साधनदशायामपि मुक्त एवेत्यर्थ: ॥ २७ – २८॥

उक्तस्य नित्यनैमित्तिककर्मेतिकर्तव्यताकस्य कर्मयोगस्य योगशिरस्कस्य सुशकतामाह –

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्  ।

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति        ॥ २९ ॥

यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा शान्तिमृच्छति, कर्मयोगकरण एव सुखमृच्छति । सर्वलोकमहेश्वरं सर्वेषां लोकेश्वराणामपीश्वरम् । तमीश्वराणां परमं महेश्वरम् (श्वे.६.७) इति हि श्रूयते । मां सर्वलोकमहेश्वरं सर्वसुहृदं ज्ञात्वा मदाराधनरूप: कर्मयोग इति सुखेन तत्र प्रवर्तत इत्यर्थ: सुहृद आराधनाय हि सर्वे प्रवर्तन्ते ॥ २९ ॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये पञ्चमोऽध्याय:॥ ५॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.