11 श्रीमद्गीताभाष्यम् एकादशोऽध्याय:

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

एकादशोऽध्याय:

एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याणगुणगणेन सह भगवत: सर्वात्मत्वं तत एव तद्व्यतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूपस्थितिप्रवृत्तित्वं चोक्तम् । तमेतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशादुपश्रुत्य एवमेवेति नित्यश्च तथाभूतं भगवन्तं साक्षात्कर्तुकामोऽर्जुन उवाच । तथैव भगवत्प्रसादादनन्तरं द्रक्ष्यति । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् … तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा: (भ.गी.११.१३) इति हि वक्ष्यते।

अर्जुन उवाच

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्  ।

यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम  ॥ १ ॥

देहात्माभिमानरूपमोहेन मोहितस्य ममानुग्रहैकप्रयोजनाय परमं गुह्यं परमं रहस्यमध्यात्मसंज्ञितमात्मनि वक्तव्यं वच:, न त्वेवाहं जातु नासम् (२.१२) इत्यादि, तस्माद्योगी भवार्जुन (६.४६) इत्येतदन्तं यत्त्वयोक्तम्, तेनायं ममात्मविषयो मोह: सर्वो विगत: दूरतो निरस्त: ॥ १ ॥ तथा च –

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया  ।

त्वत्त: कमलपत्राक्ष माहात्म्यमपि चाव्ययम्  ॥ २ ॥

सप्तमप्रभृति दशमपर्यन्ते त्वद्व्यतिरिक्तानां सर्वेषां भूतानां त्वत्त: परमात्मनो भवाप्ययौ उत्पत्तिप्रलयौ विस्तरशो मया श्रुतौ हि । कमलपत्राक्ष, तव अव्ययं नित्यं सर्वचेतनाचेतनवस्तुशेषित्वं ज्ञानबलादिकल्याणगुणगणैस्तवैव परतरत्वं सर्वाधारत्वं चिन्तितनिमिषितादिसर्वप्रवृत्तिषु तवैव प्रवर्तयितृत्वमित्यादि अपरिमितं माहात्म्यं च श्रुतम् । हिशब्दो वक्ष्यमाणदिदृक्षाद्योतनार्थ: ॥ २ ॥

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर  ।

द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम             ॥ ३ ॥

हे परमेश्वर!, एवमेतदित्यवधृतम्, यथाथ त्वमात्मानं ब्रवीषि । पुरुषोत्तम आश्रितवात्सल्यजलधे तवैश्वरं त्वदसाधारणं सर्वस्य प्रशासितृत्वे, पालयितृत्वे, स्रष्टृत्वे, संहर्तृत्वे भर्तृत्वे, कल्याणगुणाकरत्वे, परतरत्वे, सकलेतरविसजातीयत्वेऽवस्थितं रूपं द्रष्टुं साक्षात्कर्तुमिच्छामि ॥ ३ ॥

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो  ।

योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्  ॥ ४ ॥

तत्सर्वस्य स्रष्टृ, सर्वस्य प्रशासितृ, सर्वस्याधारभूतं त्वद्रूपं मया द्रष्टुं शक्यमिति यदि मन्यसे, ततो योगेश्वर  योगो ज्ञानादिकल्याणगुणयोग:, पश्य मे योगमैश्वरम् (८) इति हि वक्ष्यते  त्वद्व्यतिरिक्तस्य कस्याप्यसंभावितानां ज्ञानबलैश्वर्यवीर्यशक्तितेजसां निधे! आत्मानं त्वामव्ययं मे दर्शय । अव्ययमिति क्रियाविशेषणम् । त्वां सकलं मे दर्शयेत्यर्थ: ॥ ४ ॥

श्रीभगवानुवाच

एवं कौतूहलान्वितेन हर्षगद्गदकण्ठेन पार्थेन प्रार्थितो भगवानुवाच –

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश:  ।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च   ॥ ५ ॥

पश्य मे सर्वाश्रयाणि रूपाणि अथ शतश: सहस्रशश्च नानाविधानि नानाप्रकाराणि, दिव्यानि अप्राकृतानि, नानावर्णाकृतीनि शुक्लकृष्णादिनानावर्णानि, नानाकाराणि च पश्य ॥ ५ ॥

पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा  ।

बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत            ॥ ६ ॥

ममैकस्मिन् रूपे पश्य आदित्यान् द्वादश, वसूनष्टौ, रुद्रानेकादश, अश्विनौ द्वौ, मरुतश्चैकोनपञ्चाशतम् । प्रदर्शनार्थमिदम्, इह जगति प्रत्यक्षदृष्टानि शास्त्रदृष्टानि च यानि वस्तूनि, तानि सर्वाणि, अन्यान्यपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्वदृष्टपूर्वाणि बहून्याश्चर्याणि पश्य ॥ ६ ॥

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्  ।

मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि    ॥ ७ ॥

इह ममैकस्मिन् देहे, तत्रापि एकस्थमेकदेशस्थं सचराचरं कृत्स्नं जगत्पश्य यच्चान्यद्द्रष्टुमिच्छसि, तदप्येकदेहैकदेश एव पश्य ॥ ७ ॥

न तु मां शक्ष्यसे द्रष्टुमनेनैव स्वचक्षुषा ।

दिव्यं ददामि ते चक्षु: पश्य मे योगमैश्वरम्        ॥ ८ ॥

अहं मम देहैकदेशे सर्वं जगद्दर्शयिष्यामि त्वं त्वनेन नियतपरिमितवस्तुग्राहिणा प्राकृतेन स्वचक्षुषा, मां तथाभूतं सकलेतरविसजातीयमपरिमेयं द्रष्टुं न शक्ष्यसे । तव दिव्यमप्राकृतं मद्दर्शनसाधनं चक्षुर्ददामि । पश्य मे योगमैश्वरम्  मदसाधारणं योगं पश्य ममानन्तज्ञानादियोगमनन्तविभूतियोगं च पश्येत्यर्थ: ॥८॥

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि:  ।

दर्शयामास पार्थाय परमं रूपमैश्वरम्              ॥ ९ ॥

एवमुक्त्वा सारथ्येऽवस्थित: पार्थमातुलजो महायोगेश्वरो हरि: महाश्चर्ययोगानामीश्वर: परब्रह्मभूतो नारायण: परममैश्वरं स्वासाधारणं रूपं पार्थाय पितृष्वसु: पृथाया: पुत्राय दर्शयामास । तद्विविधविचित्रनिखिलजगदाश्रयं विश्वस्य प्रशासितृ च रूपम् तच्चेदृशम् ॥ ९॥

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्  ।

अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्     ॥ १० ॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्  ।

सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्            ॥ ११ ॥

देवं द्योतमानम्, अनन्तं कालत्रयवर्ति निखिलजगदाश्रयतया देशकालपरिच्छेदानर्हाम्, विश्वतोमुखं विश्वदिग्वर्तिमुखम्, स्वोचितदिव्याम्बरगन्धमाल्याभरणायुधान्वितम् ॥ १० – ११ ॥

तामेव देवशब्दनिर्दिष्टां द्योतमानतां विशिनष्टि –

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता  ।

यदि भास्सदृशी सा स्याद्भासस्तस्य महात्मन:॥ १२ ॥

तेजसोऽपरिमितत्वदर्शनार्थमिदम् अक्षयतेजस्स्वरूपमित्यर्थ: ॥ १२ ॥

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा  ।

अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा             ॥ १३ ॥

तत्र अनन्तायामविस्तारे, अनन्तबाहूदरवक्त्रनेत्रे, अपरिमिततेजस्के, अपरिमितदिव्यायुधोपेते, स्वोचितापरिमितदिव्यभूषणे, दिव्यमाल्याम्बरधरे, दिव्यगन्धानुलेपने, अनन्ताश्चर्यमये, देवदेवस्य दिव्ये शरीरे अनेकधा प्रविभक्तं ब्रह्मादिविविधविचित्रदेवतिर्यङ्मनुष्यस्थावरादिभोक्तृवर्गपृथिव्यन्तरिक्ष-स्वर्गपातालातल-वितलसुतलादिभोगस्थानभोग्यभोगोपकरणभेदभिन्नं प्रकृतिपुरुषात्मकं कृत्स्नं जगत्, अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (१०.८), हन्त ते कथयिष्यामि विभूतीरात्मनश्शुभा: (१९), अहमात्मा गुडाकेश सर्वभूताशयस्थित: (२०), आदित्यानामहं विष्णु: (२१) इत्यादिना, न तदस्ति विना यत्स्यान्मया भूतं चराचरम् (३९), विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् (४२) इत्यन्तेनोदितम्, एकस्थमेकदेशस्थम् पाण्डवो भगवत्प्रसादलब्धतद्दर्शनानुगुणदिव्यचक्षुरपश्यत् ॥ १३ ॥

ततस्स विस्मयाविष्टो हृष्टरोमा धनञ्जय:  ।

प्रणम्य शिरसा देवं कृताञ्जलिरभाषत            ॥ १४ ॥

ततो धनञ्जयो महाश्चर्यस्य कृत्स्नस्य जगत: स्वदेहैकदेशेनाश्रयभूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतमानन्तज्ञानादिकल्याणगुणगणं देवं दृष्ट्वा विस्मयाविष्टो हृष्टरोमा शिरसा दण्डवत्प्रणम्य कृताञ्जलिरभाषत ॥ १४ ॥

अर्जुन उवाच

पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्गान्  ।

ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दीप्तान्  ॥ १५ ॥

देव! तव देहे सर्वान् देवान् पश्यामि तथा सर्वान् प्राणिविशेषाणां संघान्, तथा ब्रह्माणं चतुर्मुखमण्डाधिपतिम्, तथेशं कमलासनस्थं  कमलासने ब्रह्मणि स्थितमीशं तन्मतेऽवस्थितं तथा देवर्षिप्रमुखान् सर्वानृषीन्, उरगांश्च वासुकितक्षकादीन् दीप्तान् ॥ १५ ॥

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्  ।

नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप  ॥ १६ ॥

अनेकबाहूदरवक्त्रनेत्रमनन्तरूपं त्वां सर्वत: पश्यामि विश्वेश्वर  विश्वस्य नियन्त:, विश्वरूप  विश्वशरीर! यतस्त्वमनन्त:, अतस्तव नान्तं न मध्यं न पुनस्तवादिं च पश्यामि ॥ १६ ॥

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम्  ।

पश्यामि त्वा दुर्निरीक्षं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्  ॥ १७ ॥

तेजोराशिं सर्वतो दीप्तिमन्तं समन्ताद्दुर्निरीक्षं दीप्तानलार्कद्युतिमप्रमेयं त्वां किरीटिनं गदिनं चक्रिणं च पश्यामि ॥ १७ ॥

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्  ।

त्वमव्यय: शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे  ॥ १८ ॥

उपनिषत्सु, द्वे विद्ये वेदितव्ये (मु.१.१.४) इत्यादिषु वेदितव्यतया निर्दिष्टं परममक्षरं त्वमेव अस्य विश्वस्य परं निधानं विश्वस्यास्य परमाधारभूतस्त्वमेव त्वमव्यय: व्ययरहित: यत्स्वरूपो यद्गुणो यद्विभवश्च त्वम्, तेनैव रूपेण सर्वदावतिष्ठसे । शाश्वतधर्मगोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्य एवमादिभिरवतारैस्त्वमेव गोप्ता । सनातनस्त्वं पुरुषो मतो मे,  वेदाहमेतं पुरुषं महान्तं (पु), परात्परं पुरुषम् (मु.३.२.८) इत्यादिषूदित: सनातनपुरुषस्त्वमेवेति मे मत: ज्ञात: । यदुकुलतिलकस्त्वमेवंभूत इदानीं साक्षात्कृतो मयेत्यर्थ: ॥ १८ ॥

अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्  ।

पश्यामि त्वा दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्  ॥ १९ ॥

अनादिमध्यान्तमादिमध्यान्तरहितम् । अनन्तवीर्यमनवधिकातिशयवीर्यम् वीर्यशब्द: प्रदर्शनार्थ: अनवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजसां निधिमित्यर्थ: । अनन्तबाहुं असंख्येयबाहुम् । सोऽपि प्रदर्शनार्थ: अनन्तबाहूदरपादवक्त्रादिकम् । शशिसूर्यनेत्रं शशिवत्सूर्यवच्च प्रसादप्रतापयुक्तसर्वनेत्रम् । देवादीननुकूलान्नमस्कारादि कुर्वाणान् प्रति प्रसाद:, तद्विपरीतानसुरराक्षसादीन् प्रति प्रतापः । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघा: (३६) इति हि वक्ष्यते । दीप्तहुताशवक्त्रं प्रदीप्तकालानलवत्संहारानुगुणवक्त्रम् । स्वतेजसा विश्वमिदं तपन्तम् । तेज: पराभिभवनसामर्थ्यम् स्वकीयेन तेजसा विश्वमिदं तपन्तं त्वां पश्यामि  एवम्भूतं सर्वस्य स्रष्टारं सर्वस्याधारभूतं सर्वस्य प्रशासितारं सर्वस्य संहर्तारं ज्ञानाद्यपरिमितगुणसागरमादिमध्यान्तरहितमेवंभूतदिव्यदेहं त्वां यथोपदेशं साक्षात्करोमीत्यर्थ: । एकस्मिन् दिव्यदेहे अनेकोदरादिकं कथम्? । इत्थमुपपद्यते । एकस्मात्कटिप्रदेशात् अनन्तपरिमाणादूर्ध्वमुद्गता यथोदितोदरादय:, अधश्च यथोदितदिव्यपादा: तत्रैकस्मिन्मुखे नेत्रद्वयमिति च न विरोध:॥ १९ ॥  एवंभूतं त्वां दृष्ट्वा देवादयोऽहं च प्रव्यथिता भवाम इत्याह –

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वा:  ।

दृष्ट्वाद्भुतं रूपमुग्रं तदेवं लोकत्रयं प्रव्यथितं महात्मन्     ॥ २० ॥

द्युशब्द: पृथिवीशब्दश्चोभौ उपरितनानामधस्तनानां च लोकानां प्रदर्शनार्थौ । द्यावापृथिव्यो: अन्तरमवकाश: । यस्मिन्नवकासे सर्वे लोकास्तिष्ठन्ति, सर्वोऽयमवकाशो दिशश्च सर्वास्त्वयैकेन व्याप्ता: । दृष्ट्वाद्भुतं रूपमुग्रं तवेदमनन्तायामविस्तारमत्यद्भुतमत्युग्रं च रूपं दृष्ट्वा लोकत्रयं प्रव्यथितं युद्धदिदृक्षया आगतेषु ब्रह्मादिदेवासुरपितृगणसिद्धगन्धर्वयक्षराक्षसेषु प्रतिकूलानुकूलमध्यस्थरूपं लोकत्रयं सर्वं प्रव्यथितमत्यन्तभीतम् । महात्मनपरिच्छेद्यमनोवृत्ते । एतेषामप्यर्जुनस्यैव विश्वाश्रयरूप-साक्षात्कारसाधनं दिव्यं चक्षुर्भगवता दत्तम् । किमर्थमिति चेत्, अर्जुनाय स्वैश्वर्यं सर्वं प्रदर्शयितुम् । अत इदमुच्यते, ‘दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यर्थितं महात्मन्‘ इति ॥ २०॥

अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीता: प्राञ्जलयो गृणन्ति  ।

स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा: स्तुवन्ति त्वां स्तुतिभि: पुष्कलाभि: ॥२१ ॥

अमी सुरसंघा: उत्कृष्टास्त्वां विश्वाश्रयमवलोक्य हृष्टमनस: त्वन् समीपं विशन्ति । तेष्वेव केचिदत्युग्रमत्यद्भुतं च तवाकारमालोक्य भीता: प्राञ्जलय: स्वज्ञानानुगुणं स्तुतिरूपाणि वाक्यानि गृणन्ति उच्चारयन्ति । अपरे महर्षिसंघा: सिद्धसंघाश्च परावरतत्त्वयाथात्म्यविद: स्वस्तीत्युक्त्वा पुष्कलाभिर्भवदनुरूपाभि: स्तुतिभि: स्तुवन्ति ॥ २१ ॥

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च  ।

गन्धर्वयक्षासुरसिद्धसङ्घा वीक्ष्यन्ते त्वां विस्मिताश्चैव सर्वे       ॥ २२ ॥

ऊष्मपा: पितर:, ऊष्मभागा हि पितर: (अष्ट.१.३.१०.६१) इति श्रुते: । एते सर्वे विस्मयमापन्नास्त्वां वीक्षन्ते॥२२॥

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्  ।

बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोका: प्रव्यथितास्तथाहम्  ॥ २३ ॥

बह्वीभिर्दंष्ट्राभिरतिभीषणाकारं लोका: पूर्वोक्ता: प्रतिकूलानुकूलमध्यस्थास्त्रिविधा: सर्व एव अहं च तदेवमीदृशं रूपं दृष्ट्वा अतीव व्यथिता भवाम: ॥ २३ ॥

नभस्स्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्  ।

दृस्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥२४॥

नमश्शब्द: तदक्षरे परमे व्योमन् (ना), आदित्यवर्णं तमस: परस्तात् (ना), क्षयन्तमस्य रजस: पराके (यजु.२.२.१२.६८), यो अस्याध्यक्ष: परमे व्योमन् (अष्ट.२.८.९.६)  इत्यादिश्रुतिसिद्धित्रिगुणप्रकृत्यतीतपरमव्योमवाची सविकारस्य प्रकृतितत्त्वस्य, पुरुषस्य च सर्वावस्थस्य,  कृत्स्नस्याश्रयतया नभस्स्पृशम् इति वचनात् द्यावापृथिव्योरिदमन्तरं हि व्याप्तम् इति पूर्वोक्तत्वाच्च। दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा प्रव्यथितान्तरात्मा अत्यन्तभीतमना: धृतिं न विन्दामि देहस्य धारणं न लभे, मनसश्चेन्द्रियाणां च शमं न लभे । विष्णो व्यापिन्! । सर्वव्यापिनमतिमात्रमत्यद्भुतमतिघोरं च त्वां दृष्ट्वा प्रशिथिकसर्वावयवो व्याकुलेन्द्रियश्च भवामीत्यर्थ: ॥ २४ ॥

दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि  ।

दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास    ॥ २५ ॥

युगान्तकालानलवत्सर्वसंहारे प्रवृत्तानि अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने सुखं च न लभे । जगतां निवास देवेश ब्रह्मादीनामीश्वराणामपि परममहेश्वर! मां प्रति प्रसन्नो भव । यथाहं प्रकृतिं गतो भवामि, तथा कुर्वित्यर्थ: ॥ २५ ॥

एवं सर्वस्य जगत: स्वायत्तस्थितिप्रवृत्तित्वं दर्शयन् पार्थसारथी राजवेषच्छद्मनावस्थितानां धार्तराष्ट्राणां यौधिष्ठिरेष्वनुप्रविष्टानां च असुरांशानां संहारेण भूभारावतरणं स्वमनीषितं स्वेनैव करिष्यमाणं पार्थाय दर्शयामास । स च पार्थो भगवत: स्रर्ष्ट्त्वादिकं सर्वैश्वर्यं साक्षात्कृत्य तस्मिन्नेव भगवति सर्वात्मनि धार्तराष्ट्रादीनामुपसंहारमनागतमपि तत्प्रसादलब्धेन दिव्येन चक्षुषा पश्यन्निदं चोवाच –

अमी च त्वा धृतराष्ट्रस्य पुत्रा: सर्वै: सहैवावनिपालसङ्घै:  ।

भीष्मो  द्रोण: सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यै:  ॥ २६ ॥

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि  ।

केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गै:     ॥ २७ ॥

अमी धृतराष्ट्रस्य पुत्रा: दुर्योधनादयस्सर्वे भीष्मो द्रोण: सूतपुत्र: कर्णश्च तत्पक्षीयैरवनिपालसमूहै: सर्वै:, अस्मदीयैरपि कैश्चिद्योधमुख्यैस्सह त्वरमाणा दंष्ट्राकरालानि भयानकानि तव वक्त्राणि विनाशाय विशन्ति तत्र केचिच्चूर्णितैरुत्तमाङ्गैर्दशानान्तरेषु विलग्नास्संदृश्यन्ते ॥ २६ – २७ ॥

यथा नदीनां बहवोऽम्बुवेगा: समुद्रमेवाभिमुखा द्रवन्ति  ।

तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति  ॥ २८ ॥

यथा प्रदीप्तज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगा:  ।

तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगा:        ॥ २९ ॥

एते राजलोका:, बहवो नदीनामम्बुप्रवाहा: समुद्रमिव, प्रदीप्तज्वलनमिव च शलभा:, तव वक्त्राण्यभिविज्वलन्ति स्वयमेव त्वरमाणा आत्मनाशाय विशन्ति ॥ २८ – २९ ॥

लेलिह्यसे ग्रसमान: समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भि:  ।

तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्रा: प्रतपन्ति विष्णो    ॥ ३० ॥

राजलोकान् समग्रान् ज्वलद्भिर्वदनैर्ग्रसमान: कोपवेगेन तद्रुधिरावसिक्तमोष्ठपुटादिकं लेलिह्यसे पुन: पुनर्लेहनं करोषि । तवातिघोरा भास: रश्मय: तेजोभि: स्वकीयै: प्रकाशै: जगत्समग्रमापूर्य प्रतपन्ति ॥ ३० ॥

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद  ।

विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्       ॥ ३१ ॥

दर्शयात्मानमव्ययम् (४) इति तवैर्यं निरङ्कुशं साक्षात्कर्तुं प्रार्थितेन भवता निरङ्कुशमैश्वर्यं दर्शयता अतिघोररूपमिदमाविष्कृतम् । अतिघोररूप: को भवान्, किं कर्तुं प्रवृत्त इति भवन्तं ज्ञातुमिच्छामि । तवाभिप्रेतां प्रवृत्तिं न जानामि । एतदाख्याहि मे । नमोऽस्तु ते देववर! प्रसीद  नमस्तेऽस्तु सर्वेश्वर एवं कर्तुम्, अनेनाभिप्रायेणेदं संहर्तृरूपमाविष्कृतमित्युक्त्वा प्रसन्नरूपश्च भव॥३१॥

आश्रितवात्सल्यातिरेकेण विश्वैश्वर्यं दर्शयतो भवतो घोररूपाविष्कारे कोऽभिप्राय इति पृष्टो भगवान् पार्थसारथि: स्वाभिप्रायमाह, पार्थोद्योगेन विनापि धार्तराष्ट्रप्रमुखमशेषं राजलोकं निहन्तुमहमेव प्रवृत्त इति ज्ञापनाय मम घोररूपाविष्कार:, तज्ज्ञापनं च पार्थमुद्योजयितुमिति ।

श्रीभगवानुवाच –

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्त:  ।

ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिता: प्रत्यनीकेषु योधा: ॥ ३२ ॥

कलयति गणयतीति काल: सर्वेषां धार्तराष्ट्रप्रमुखानां राजलोकानामायुरवसानं गणयन्नहं तत्क्षयकृत् घोररूपेण प्रवृद्धो राजलोकान् समाहर्तुमाभिमुख्येन संहर्तुमिह प्रवृत्तोऽस्मि । अतो मत्संकल्पादेव त्वामृतेऽपि  त्वदुद्योगादृतेऽपि एते धार्तराष्ट्रप्रमुखास्तव प्रत्यनीकेषु येऽवस्थिता योधा:, ते सर्वे न भविष्यन्ति  विनङ्क्ष्यन्ति ॥ ३२ ॥

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्  ।

मयैवैते निहता: पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्          ॥ ३३ ॥

तस्मात्त्वं तान् प्रति युद्धायोत्तिष्ठ । तान् शत्रून् जित्वा यशो लभस्व धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व । मयैवैते कृतापराधा: पूर्वमेव निहता: हनने विनियुक्ता: । त्वं तु तेषां हनने निमित्तमात्रं भव। मया हन्यमानानां शत्रादिस्थानीयो भव । सव्यसाचिन् । षच समवाये सव्येन शरसचनशील: सव्यसाची सव्येनापि करेण शरसमवायकर: करद्वयेन योद्धुं समर्थ इत्यर्थ: ॥ ३३ ॥

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधमुख्यान्  ।

मया हतांस्त्वं जहि मा व्यथिष्ठा: युध्यस्व जेतासि रणे सपत्नान्  ॥ ३४ ॥

द्रोणभीष्मकर्णादीन् कृतापराधतया मयैव हनने विनियुक्तान् त्वं जहि त्वं हन्या: । एतान् गुरून् बन्धूंश्च अन्यानपि भोगसक्तान् कथं हनिष्यामीति मा व्यथिष्ठा:  तानुद्दिश्य धर्माधर्मभयेन बन्धुस्नेहेन कारुण्येन च मा व्यथां कृथा: । यतस्ते कृतापराधा मयैव हनने विनियुक्ता:, अतो निर्विशङ्कोयुध्यस्व। रणे सपत्नान् जेतासि जेष्यसि । नैतेषां वधे नृशंसतागन्ध: अपि तु जय एव लभ्यत इत्यर्थ: ॥३४॥

सञ्जय उवाच –

एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमान: किरीटी  ।

नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीत: प्रणम्य  ॥ ३५ ॥

एतदश्रितवात्सल्यजलधे: केशवस्य वचनं श्रुत्वा अर्जुनस्तस्मै नमस्कृत्य भीतभीतो भूयस्तं प्रणम्य कृताञ्जलिर्वेपमान: किरीटी सगद्गदमाह ॥ ३५ ॥

स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च  ।

रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घा:  ॥ ३६ ॥

स्थाने युक्तम्। यदेतद्युद्धदिदृक्षयागतमशेषदेवगन्धर्वसिद्धयक्षविद्याधरकिन्नर-किंपुरुषादिकं जगत्, त्वत्प्रसादात्त्वां सर्वेश्वरमवलोक्य तव प्रकीर्त्या सर्वं प्रहृष्यति, अनुरज्यते च, यच्च त्वामवलोक्य रक्षांसि भीतानि सर्वा दिश: प्रद्रवन्ति, सर्वे सिद्धसंघा: सिद्धाद्यनुकूलसंघा: नमस्यन्ति च  तदेतत्सर्वं युक्तमिति पूर्वेण संबन्ध: ॥ ३६ ॥

युक्ततामेवोपपादयति –

कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे  ।

महात्मन्, ते तुभ्यं गरीयसे ब्रह्मण: हिरण्यगर्भस्यापि आदिभूताय कर्त्रे हिरण्यगर्भादय: कस्माद्धेतोर्न नमस्कुर्यु: ॥

अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्       ॥ ३७ ॥

अनन्त देवेश जगन्निवास त्वमेवाक्षरम् । न क्षरतीत्यक्षरं जीवात्मतत्त्वम् । न जायते म्रियते वा विपश्चित् (क.उ.२.१८) इत्यादिश्रुतिसिद्धो जीवात्मा हि न क्षरति। सदसच्च त्वमेव सदसच्छब्दनिर्दिष्टं कार्यकारणभावेनावस्थितं प्रकृतितत्त्वं, नामरूपविभागवत्तया कार्यावस्थं सच्छब्दनिर्दिष्टं तदनर्हातया कारणावस्थमसच्छब्दनिर्दिष्टं च त्वमेव । तत्परं यत्तस्मात्प्रकृते: प्रकृतिसंबन्धिनश्च जीवात्मन: परमन्यन्मुक्तात्मतत्त्वं यत्, तदपि त्वमेव ॥ ३७ ॥

त्वमादिदेव: पुरुष: पुराणस्त्वमस्य विश्वस्य परं निधानम्  ।

अतस्त्वमादिदेव:, पुरुष: पुराण:, त्वमस्य विश्वस्य परं निधानम् । निधीयते त्वयि विश्वं इति त्वमस्य विश्वस्य परं निधानम् विश्वस्य शरीरभूतस्यात्मतया परमाधारभूतस्त्वमेवेत्यर्थ: ॥३७॥

वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप       ॥ ३८ ॥

जगति सर्वो वेदिता वेद्यं च सर्वं त्वमेव । एवं सर्वात्मतयावस्थितस्त्वमेव परं च धाम स्थानम् प्राप्यस्थानमित्यर्थ: । त्वया ततं विश्वमनन्तरूप । त्वयात्मत्वेन विश्वं चिदचिन्मिश्रं जगत्ततं – व्याप्तम् ॥ ३८ ॥

अतस्त्वमेव वाय्वादिशब्दवाच्य इत्याह –

वायुर्यमोऽग्निर्वरुणश्शशाङ्क: प्रजापतिस्त्वं प्रपितामहश्च  ।

सर्वेषां प्रपितामहस्त्वमेव पितामहादयश्च । सर्वसां प्रजानां पितर: प्रजापतय:, प्रजापतीनां पिता हिरण्यगर्भ: प्रजानां पितामह:, हिरण्यगर्भस्यापि पिता त्वं प्रजानां प्रपितामह: । पितामहादीनामात्मतया तत्तच्छब्दवाच्यस्त्वमेवेत्यर्थ: ॥ ३९ ॥

अत्यद्भुताकारं भगवन्तं दृष्ट्वा हर्षोत्फुल्लनयनोऽत्यन्तसाध्वसावनत: सर्वतो नमस्करोति ॥

नमो नमस्तेऽस्तु सहस्रकृत्व: पुनश्च भूयोऽपि नमो नमस्ते  ॥ ३९ ॥

नम: पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व  ।

अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्व:  ॥ ४० ॥

अमितवीर्य, अपरिमितपराक्रमस्त्वं सर्वात्मतया समाप्नोषि तत: सर्वोऽसि । यतस्त्वं सर्वं चिदचिद्वस्तुजातमात्मतया समाप्नोषि, अत: सर्वस्य चिदचिद्वस्तुजातस्य त्वच्छरीरतया त्वत्प्रकारत्वात्सर्वप्रकारस्त्वमेव सर्वशब्दवाच्योऽसीत्यर्थ: । त्वमक्षरं सदसत् (३७), वायुर्यमोऽग्नि: (३७) इत्यादिसर्वसामानाधिकरण्यनिर्देशस्यात्मतया व्याप्तिरेव हेतुरिति सुव्यक्तमुक्तम्, त्वया ततं विश्वमनन्तरूप (३८), सर्वं समाप्नोषि ततोऽसि सर्व: इति च ॥ ४० ॥

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति  ।

अजानता महिमानं तवेमं मया प्रमादात्प्रणयेन वापि             ॥ ४१ ॥

यश्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु  ।

एकोऽथ वाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम्    ॥ ४२ ॥

तवानन्तवीर्यत्वामितविक्रमत्वसर्वान्तरात्मत्वस्रष्टृत्वादिको यो महिमा, तमिममजानता मया प्रमादान्मोहात्, प्रणयेन चिरपरिचयेन वा सखेति मम वयस्य: इति मत्वा, हे कृष्ण, हे यादव, हे सखा इति त्वयि प्रसभं विनयापेतं यदुक्तं, यच्च प्रिहासार्थं सर्वदैव सत्कारार्हास्त्वमसत्कृतोऽसि, विहारशय्यासनभोजनेषु च सहकृतेषु एकान्ते व: समक्षं वा यदसत्कृतोऽसि तत्सर्वं त्वामप्रमेयमहं क्षामये ॥ ४१ – ४२ ॥

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरु गरीयान्  ।

न त्वत्समोऽस्त्यभ्यधिक: कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥

अप्रतिमप्रभाव! त्वमस्य सर्वस्य चराचरस्य लोकस्य पितासि । अस्य लोकस्य गुरुश्चासि अतस्त्वमस्य चराचरस्य लोकस्य गरीयान् पूज्यतम: । न त्वत्समोऽस्त्यभ्यधिक: कुतोऽन्य:  लोकत्रयेऽपि त्वदन्य: कारुण्यादिना केनापि गुणेन न त्वत्समोऽस्ति । कुतोऽभ्यधिक:? ॥ ४३ ॥

तस्मात्प्रणम्य प्रणिधाय कार्यं प्रसादये त्वामहमीशमीड्यम्  ।

पितेव पुत्रस्य सखेव सख्यु: प्रिय: प्रियायार्हासि देव सोढुम्  ॥ ४४ ॥

यस्मात्त्वं सर्वस्य पिता पूज्यतमो गुरुश्च कारुण्यादिगुणैश्च सर्वाधिकोऽसि, तस्मात्त्वामीशमीड्यं प्रणम्य प्रणिधाय च कायं, प्रसादये यथा कृतापराधस्यापि पुत्रस्य, यथा च सख्यु:, प्रणामपूर्वं प्रार्थित: पिता वा सखा वा प्रसीदति तथा त्वं परमकारुणिक: प्रियाय मे सर्वं सोढुमर्हासि ॥ ४४ ॥

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे  ।

तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास  ॥ ४५ ॥

अदृष्टपूर्वम्  अत्यद्भुतमत्युग्रं च तव रूपं दृष्ट्वा हृषितोऽस्मि प्रीतोऽस्मि । भयेन प्रव्यथितं च मे मन: । अतस्तदेव तव सुप्रसन्नं रूपं मे दर्शय । प्रसीद देवेश जगन्निवास  मयि प्रसादं कुरु, देवानां ब्रह्मादीनामपीश, निखिलजगदाश्रयभूत ॥ ४५ ॥

किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव  ।

तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते          ॥ ४६ ॥

तथैव पूर्ववत्, किरीटिनं गदिनं चक्रहस्तं त्वां द्रष्टुमिच्छामि । अतस्तेनैव पूर्वसिद्धेन चतुर्भुजेन रूपेण युक्तो भव । सहस्रबाहो विश्वमूर्ते इदानीं सहस्रबाहुत्वेन विश्वशरीरत्वेन दृश्यमानरूपस्त्वं तेनैव रूपेण युक्तो भवेत्यर्थ: ॥ ४६ ॥

श्रीभगवानुवाच

मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।

तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्  ॥ ४७ ॥

यन्मे तेजोमयं तेजसां राशि: विश्व! विश्वात्मभूतम्, अनन्तमन्तरहितम् प्रदर्शनार्थमिदम् आदिमध्यान्तरहितम् आद्यं मद्व्यतिरिक्तस्य कृत्स्नस्यादिभूतम्, त्वदन्येन केनापि न दृष्टपूर्वं रूपम्  तदिदं प्रसन्नेन मया मद्भक्ताय ते दर्शितम् आत्मयोगादत्मनस्सत्यसंकल्पत्वयोगात् ॥ ४७ ॥

अनन्यभक्तिव्यतिरिक्तै: सर्वैरप्युपायैर्यथावदवस्थितोऽहं द्रष्टुं न शक्य इत्याह –

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रै:  ।

एवंरूपश्शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर  ॥ ४८ ॥

एवंरूपो यथावदवथितोऽहं मयि भक्तिमतस्त्वत्तोऽन्येन एकान्तभक्तिरहितेन केनापि पुरुषेण वेदयज्ञादिभि: केवलैर्द्रष्टुं न शक्य: ॥ ४८ ॥

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्  ।

व्यपेतभी: प्रीतमना: पुनस्त्वं तदेव मे रूपमिदं प्रपश्य      ॥ ४९ ॥

ईदृशघोररूपदर्शनेन ते या व्यथा, यश्च विमूढभावो वर्तते, तदुभयं मा भूत् त्वया अभ्यस्तपूर्वमेव सौम्यं रूपं दर्शयामि, तदेवेदं मम रूपं प्रपश्य ॥ ४९ ॥

सञ्जय उवाच –

इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूय:  ।

आश्वासयामास च भीतमेनं भूत्वा पुनस्सौम्यवपुर्महात्मा  ॥ ५० ॥

एवं पाण्डुतनयं भगवान् वसुदेवसूनुरुक्त्वा भूय: स्वकीयमेव चतुर्भुजं रूपं दर्शयामास अपरिचितरुपदर्शनेन भीतमेनं पुनरपि परिचितसौम्यवपुर्भूत्वा आश्वासयामास च, महात्मा सत्यसङ्कल्प:। अस्य सर्वेश्वरस्य परमपुरुषस्य परस्य ब्रह्मणो जगदुपकृतिमर्त्यस्य वसुदेवसूनोश्चतुर्भुजमेव स्वकीयं रूपम् कंसाद्भीतवसुदेवप्रार्थनेन आकंसवधाद्भुजद्वयमुपसंहृतं पश्चादाविष्कृतं च । जातोऽसि देव देवेश शङ्खचक्रगदाधर । दिव्यं रूपमिदं देव प्रसादेनोप्संहर ॥ ….. उपसंहर विश्वात्मन् रूपमेतच्चतुर्भुजम् (वि.पु.५.३.१३) इति हि प्रार्थितम् । शिशुपालस्यापि द्विषतोऽनवरतभावनाविषयश्चतुर्भुजमेव वसुदेवसूनो रूपम्, उदारपीवरचतुर्बाहुं शङ्खचक्रगदाधरम् (वि.पु.४.१५.१३) इति । अत: पार्थेनात्र तेनैव रूपेण चतुर्भुजेनेत्युच्यते ॥ ५० ॥

अर्जुन उवाच

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन  ।

इदानीमस्मि संवृत्त: सचेता: प्रकृतिं गत:    ॥ ५१ ॥

अनवधिकातिशयसौन्दर्यसौकुमार्यलावण्यादियुक्तं तवैवासाधारणं मनुष्यत्वसंस्थान-संस्थितमतिसौम्यमिदं तव रूपं दृष्ट्वा इदानीं सचेतास्संवृत्तोऽस्मि प्रकृतिं गतश्च ॥ ५१ ॥

श्रीभगवानुवाच

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम  ।

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिण:        ॥ ५२ ॥

मम इदं सर्वस्य प्रशासनेऽवस्थितं सर्वास्रयं सर्वकारणभूतं रूपं यद्दृष्टवानसि, तत्सुदुर्दर्शं न केनापि द्रष्टुं शक्यम् । अस्य रूपस्य देवा अपि नित्यं दर्शनकाङ्क्षिण:, न तु दृष्टवन्त: ॥ ५२ ॥        कुत इत्यत्र आह –

नाहं वेदैर्न तपसा न दानेन न चेज्यया  ।

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा    ॥ ५३ ॥

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन  ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप           ॥ ५४ ॥

वेदैरध्यापनप्रवचनाध्ययनश्रवणजपविषयै:, यागदानहोमतपोभिश्च मद्भक्तिविरहितै: केवलै: यथावदवस्थितोऽहं द्रष्टुमशक्य: । अनन्यया तु भक्त्या तत्त्वतश्शास्त्रैर्ज्ञातुं तत्त्वतस्साक्षात्कर्तुं, तत्त्वत: प्रवेष्टुं च शक्य: । तथा च श्रुति:, नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्  (कठ. २.२३) इति ॥ ५३ – ५४ ॥

मत्कर्मकृन्मत्परमो मद्भक्तस्सङ्गवर्जित:  ।

निर्वैरस्सर्वभूतेषु य: स मामेति पाण्डव            ॥ ५५ ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ……..विश्वरूपसन्दर्शनयोगो नाम एकादशोऽध्याय: ॥ ११॥

वेदाध्ययनादीनि सर्वाणि कर्माणि मदाराधनरूपाणीति य: करोति, स मत्कर्मकृत् । मत्परम:  सर्वेषामारम्भाणामहमेव परमोद्देश्यो यस्य, स मत्परम: । मद्भक्त:  अत्यर्थमत्प्रियत्वेन मत्कीर्तनस्तुति-ध्यानार्चनप्रणामादिभिर्विना आत्मधारणमलभमानो मदेकप्रयोजनतया य: सततं तानि करोति, स मद्भक्त: । सङ्गवर्जित: मदेकप्रियत्वेनेतरसङ्गमसहमान: । निर्वैरस्सर्वभूतेषु  मत्संश्लेषवियोगैकसुख-दु:खस्वभावत्वात् स्वदु:खस्य स्वापराधननिमित्तत्वानुसंधानाच्च सर्वभूतानां परमपुरुषपरतन्त्रत्वानुसंधानाच्च सर्वभूतेषु वैरनिमित्ताभावात्तेषु निर्वैर: । य एवं भूत:, स मामिति मां यथावदवस्थितं प्राप्नोति निरस्ताविद्याद्यशेषदोषगन्धो मदेकानुभवो भवतीत्यर्थ: ॥ ५५ ॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये एकादशोऽध्याय: ॥ ११॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.