अधिकरणसारावली मध्वधिकरणम्
अधिकरणसारावली मध्वधिकरणम् 1.3.26 स्यादेवं देवमात्रे मनुज इव परोपास्तिमात्रे तथाऽपि स्वस्यैवाराद्ध्यभावस्स्वपदमपि फलं यत्र नात्राधिकारः। मैवं सर्वान्तरात्मा स्वतनुभृदिति चोपासते मुक्तिकामाः कामादावर्तते तु स्वपदमपि फलं कल्पमन्वन्तरादौ।। *******
अधिकरणसारावली देवताधिकरणम्
अधिकरणसारावली देवताधिकरणम् 1.3.20 शब्दात्मा लौकिकार्थाकृतिरियमथवा देवतातो न तस्या ब्रह्मोपासेत्यनार्षं श्रुतपरिहरणं कल्पनं चाश्रुतस्य। विश्वस्रष्टा च मा भूदनुमितिविषयस्तत्परैस्त्वेष शास्त्रै- निर्बाधैस्स्थापितः प्राक् स्वयमपि विभुना नैव शक्यापलापः।। 1.3.21 सामर्थ्यं देवतानामुचिततनुभृतामर्थिता तापभाजां सम्पद्येतेति तासामपि भवति परोपास्तिवर्गाधिकारः। ख्यातम्मन्त्रार्थवादप्रभृतिषु निखिलं दोषबाधाद्यभावे मिथ्येत्युद्धोषयन्तस्स्वत इह कथिताम्मानतां प्रस्मरन्ति।। 1.3.22 द्वेधा वृतिः स्तुतौ स्यात् स्वपरगुणमुखी प्राक्तनी तावदर्थ्या निर्धार्यः पश्चिमायामपि निपुणधियाम्मुख्यधर्मैकदेशः। रुच्यर्थायां च तस्यामनृतकथनतो रोचना न ह््यमुग्धे […]
अधिकरणसारावली प्रमिताधिकरणम्
अधिकरणसारावली प्रमिताधिकरणम् 1.3.18 प्राणेशोऽङ्गुष्ठमात्रः क्वचिदनुकथितस्सञ्चरन् कर्मभिः स्वै- रन्यत्राङ्गुष्ठमात्रं पुरुषमपि यमो निश्चकर्षेति दृष्टम्। तस्मादेतत्प्रमाणप्रमितमुपनिषज्जीवमाहेत्ययुक्तं वाक्यस्थेशानतादेर्नरहृदयपरिच्छित्तितस्तद्धि मानम्।। 1.3.19 नह्यङ्गुष्ठप्रमाणं हृदयमखिलजन्त्वाश्रयन्तत् परस्मि- न्व्याप्ते तन्मानतोक्तिः क्वचिदिति मनुजाधिक्रियोक्तिप्रसङ्गे। सूत्रद्वन्द्वद्वयान्तस्त्रिभिरधिकरणैश्चिन्त्यते तद्विशेष- स्तातीर्यैस्स्थापनीया त्ववजिगमिषिता नेतिकर्तव्यताऽत्र।। *******
अधिकरणसारावली दहराधिकरणम्
अधिकरणसारावली दहराधिकरणम् 1.3.13 दह्रं हृत्पुण्डरीके गगनमभिहितन्तैत्तिरीयश्रुतौ य- च्छन्दोगैस्तत्र गीतं यदपि च दहराकाश इत्येतदेकम्। भूताद्यं तत् प्रसिद्धेर्महिमत इति न प्रत्यनीकैरनेकैः श्रौती च स्यात् प्रसिद्धिर्भगवति बलिनी लिङ्गवर्गैस्सनाथा।। 1.3.14 बाह्याकाशश्च यावानयमपि हि तथेत्येतदक्लिष्टमीशे सत्यात्मप्राणशब्दा नभसि न कथमप्यन्वयं प्राप्नुवन्ति। कामाधारश्च योऽसौ समगणि दहराकाशवाचा़ऽत्र नित्य- स्तस्यैव ह्येष आत्मेत्यनुवदनमतस्तद्गुणाश्चिन्त्यकामाः।। 1.3.15 सर्वेशाधारतोक्त्या भवतु च हृदयव्योम तद्वाज्यधीतं छान्दोग्यस्थो निषादस्थपतिनयपदं ब्रह्मलोकादिशब्दः। आपस्तम्बश्च वैभाजनपुरमवदद्ब्रह्म सर्वात्मभूतं […]
अधिकरणसारावली ईक्षतिकर्माधिकरणम्
अधिकरणसारावली ईक्षतिकर्माधिकरणम् 1.3.11 लक्षीभूतोऽयमेकः खलु पुरुष इह ध्यायतेरीक्षतेश्च क्षेत्रज्ञस्सोऽयमण्डाधिप इतरपरात्स्वान्यजीवात्परोऽसौ। नो चेद्भौमादिभोगप्रकरणविहतिर्बोभवीतीत्ययुक्तं तस्मिञ्शान्तामृतत्वप्रभृतिपरगुणख्यात्यनूक्त्योरयोगात्।। 1.3.12 नन्वत्रोङ्कारमात्रात्रयफलगणनारूढभूम्यन्तरिक्ष- प्रत्यासत्त्या निवासस्सरसिजवसतेर्ब्रह्मलोकोऽस्तु मैवम्। पापोन्मुक्तेन लभ्यो ह्ययमिह कथितस्सूर्यसम्पत्तिपूर्वं सोढव्यो मद्ध्यलोकैव्यवधिरिति समस्तत्समाधानमार्गः।। *******
अधिकरणसारावली अक्षराधिकरणम्
अधिकरणसारावली अक्षराधिकरणम् 1.3.10 प्रख्याताकाशपूर्वस्वविकृतिवहनादक्षराख्यं प्रधानं तस्याप्याकाशतोक्तौ धृतनिखिलजगत् क्षेत्रितत्त्वन्तु तत्स्यात्। मैवन्द्रष्टृत्वपूर्वैरनितरनियतैश्शासनायत्तधृत्या किञ्च द्रष्ट्रन्तरस्य व्युदसनमिह तत्तुल्यतद्द्रष्ट्रपोहः।। *******
अधिकरणसारावली भूमाधिकरणम्
अधिकरणसारावली भूमाधिकरणम् 1.3.6 आत्माज्ञानाभिलापादनुपरतशुचे नारदाय प्रयुक्तं प्राणे सानत्कुमारं विरमति वचनं हिंसनार्हस्स जीवः। अल्पप्रत्यर्थिभूमा निरवधिकसुखोऽप्येष एवेति चेन्न प्राणाख्यात्सत्यशब्दोदितमधिकतयोपास्यमत्र ह्युपात्तम्।। 1.3.7 नामाद्याशान्तवेद्ये प्रतिवचनवशात् प्रश्नतश्चाधिकोक्ते प्राणे विश्रान्तिदृष्ट्या भवतु तदवधिः प्रस्तुतात्मोपदेशः। मैवं जातो हि नामादिवदिह परमादात्मनः प्राण उक्तः स्वस्मादित्यत्र तत्स्यादिति न विघटनात् स्वारसिक्या विभक्तेः।। 1.3.8 प्राणद्रष्टाऽतिवादी तदनुवदनतश्चोदितस्सत्यवाद- स्तस्मात्सर्वाहमर्थस्सकलजनयिता प्राण एवेति चेन्न। एष त्वित्यन्तोक्तेरतिवदनकृतः प्राक्तनादस्य तद्व- न्नत्वन्योऽस्त्यग्निहोत्री स्वमहिमनिलये ह्यत्र धर्मोपपत्तेः।। […]
अधिकरणसारावली द्युभ्वाद्यधिकरणम्
अधिकरणसारावली अथ प्रथमाध्याये तृतीय: पाद: द्युभ्वाद्यधिकरणम् 1.3.1 स्पषटैर्जीवादिलिङ्गैर्युतमिह हि वचस्साद्ध्यते ब्रह्मनिष्ठं मध्येऽत्राधिक्रियोक्तिस्त्रिषु किमिति न तत्तत्प्रसङ्गात्तदुक्तेः। किञ्चास्यामर्धलौकायतिकनिरसनं प्रस्तुतार्थोपयुक्तं ब्रह्मोत्कर्षश्च सिद्ध्येद्गलति दिविषदां कारणैक्यभ्रमश्च।। 1.3.2 न्यायास्सप्तैव साक्षात् परविषयतया सङ्घटन्तेऽत्र पादे सर्वाधारस्स आत्मा स्वमहिमनिलयस्तत्र तात्पर्यभूमिः। तत्सिद्ध्यै शासनाद्यं कथितमिह मिथस्स्यूतमालोचनीयं सर्वेशत्वं च षष्ठप्रमितनयमितं पश्चिमन्यायरक्ष्यम्।। 1.3.3 सिद्धं प्रागेव मुण्डोपनिषदि परमं ब्रह्म तद्धर्मभेदै- र्भेदोक्तेश्चेत्यकाण्डे किमिति पुनरिमां पिष्टपेषम्पिनष्टि। सत्यं क्षेत्रज्ञधर्मैः पटुभिरुपनता प्रक्रियाभेदशङ््का प्रख्याप्य […]
अधिकरणसारावली वैश्वानराधिकरणम्
अधिकरणसारावली वैश्वानराधिकरणम् 1.2.16 स्वर्लोकादित्यवाताम्बरसलिलमहीरूपमूर्द्धादिक्लृप्त्या ध्येयो वैश्वानरात्मा स्थिरबहुविशयश्शब्दलिङ्गादिसाम्यात्। मैवं ब्रह्मेत्यधीतेर्भुवनतनुतया योगतस्त्वग्निशब्दो वैशिष्ट्याद्वा क्रियाङ्गं स्ववपुषि परधीर्गार्हपत्यादिधीश्च।। 1.2.17 अन्यस्मिन्नन्यदृष्ट्या न भवति विदुषां क्वापि निश्श्रेयसाप्ति- स्तस्माद्वैश्वानरोऽसौ न पर इति फलं त्वन्नसिद्ध्यादि मैवम्। ब्रह्मैव ह्यन्यदृष्ट्यन्वितघटितमिह ब्रह्मशब्दाद्यभावात् सर्वाघध्वंस उक्तः फलमपि परमं ब्रह्म च व्याप्तमन्नम्।। 1.2.18 त्रिष्वत्रोपासितॄणां मितहृदयगुहाक्ष्यन्तरश्चिन्त्य उक्तो विश्वान्तर्यामितादेर्विपुलपरिमितश्चिन्तनीयस्त्रयेऽथ। षट्सु ब्रह्मात्मशब्दौ पुरुषपदमपि क्षेत्रतज्ज्ञप्रपञ्च- व्यावृत्ते विश्वहेतौ प्रकरणनियमान्नामवृत्त्या नमन्ति।। 1.2.19 तज्जत्वादेर्हि सर्वं जग्दभिगदितं […]
अधिकरणसारावली अदृश्यत्वादिगुणकाधिकरणम्
अधिकरणसारावली अदृश्यत्वादिगुणकाधिकरणम् 1.2.15 दृश्यत्वादेर्निषेधो विकृतिमति भवत्यक्षरे सन्निकर्षात् पञ्चम्युक्ताक्षरन्तत्तदवधिकपरः पञ्चविंशोऽस्तु मा भूत्। सर्वज्ञत्वादिदृष्टः प्रथमसमुदितं त्वक्षरं ब्रह्म शुद्धं पश्चादुक्तन्तु जीवादिकमवधितया भेदतस्तत्परोक्तेः।। ******