अधिकरणसारावली अन्तर्याम्यधिकरणम्
अधिकरणसारावली अन्तर्याम्यधिकरणम् 1.2.13 अन्तर्यामी स जीवो बहुविधकरणायत्तधीवृत्त्यनूक्ते- र्नान्यो द्रष्टेति चोक्तेरिति यदि न नियन्त्रन्तरस्य व्युदासात्। द्रष्टृत्वाद्यं च तत्तद्विषयघटितधीरूपमीशे हि मुख्यं तद्धर्माः काण्वमाद्ध्यन्दिनपठितिगतास्तस्य चात्मा शरीरम्।। 1.2.14 स्थानैक्यादत्र शाखाद्वयपरिपठितावात्मविज्ञानशब्दा- वेकार्थावित्यकम्प्यन्तदपि कथयतो बुद्धिमेवेत्यपार्थः। लोकाम्नायप्रसिद्ध्योरनुगमत इमौ चेतने ह्येकतानौ बाधः केनापि नास्मिन्भवति च सत इत्यादिभिस्सामरस्यम्।। *******
अधिकरणसारावली अन्तराधिकरणम्
अधिकरणसारावली अन्तराधिकरणम् 1.2.10 यद्वृत्तादेर्य एषोऽक्षिणि पुरुष इति श्रूयमाणोऽस्तु जीवो यद्वाऽक्ष्णोर्देवताऽर्कः प्रतिकृतिरथवा तत्र दृश्येति चेन्न। एतद्ब्रह्मैतदेवामृतमभयमिदं कं खमित्याद्यधीते- स्संयद्वामत्वमुख्यैस्स्थितिनियतिबलादर्चिराद्युक्तितश्च।। 1.2.11 स्वातन्त्र्योत्तंसितासु श्रुतिषु न फलदस्यैव वेद्यत्ववादः कल्याणालोकनादेरिव विधिबलतो वेदनस्यार्थवत्त्वात्। तस्मादक्ष्यन्तरस्थः प्रतिकृतिपुरुषो युज्यते पूर्वपक्षे सेयं पूर्वापरास्वप्यधिकृतिषु यथासम्भवं नीतिरूह्या।। 1.2.12 पूर्वन्यायेऽग्निविद्या पुरत उपनता मध्यतस्त्वत्र तस्मा- त्तद्वन्न ब्रह्मविद्यानुगतिरिति भवेदक्षिविद्या ततोऽन्या। मैवं विचछित्तिरङ्गैर्न हि भवति मिता चाङ्गगताऽनेकधाऽस्याः प्रोक्तं च ब्रह्मविद्यानुगुणमिह फलं […]
अधिकरणसारावली अत्त्रधिकरणम्
अधिकरणसारावली अत्त्रधिकरणम् 1.2.8 अत्ता खल्वोदनादेर्भवभुगिति कठश्रुत्यधीतोऽप्यसौ स्या- न्न स्यान्मृत्यूपसिक्तस्थिरचरनिखिलग्रासतस्तल्लयोक्तेः। जीवव्यावर्तनं च प्रकरणविदितं भोक्तृतोक्तिर्द्वयोस्तु प्रेर्यत्वप्रेरकत्वप्रतिनियतरसाच्छत्रिनीत्याऽथवा स्यात्।। 1.2.9 सत्त्वं स्वाद्वत्त्यनश्नन् ज्ञ इति विभजनात्पैङ्ग्यधीतन्तु सत्त्वं बुद्धिः प्राणोऽथवेति त्वृतमिह पिबतोर्जीव एकस्तयोश्चेत्। मैवं जन्तौ तु सत्त्वश्रुतिरियमुचिता कर्मभुङ्नाप्यनश्नन् तत्प्रश्नप्रक्रमोऽन्याशय इदमपि चाभाषि पूर्वापराद्यैः।। *******
अधिकरणसारावली सर्वत्रप्रसिद्ध्यधिकरणम्
अधिकरणसारावली सर्वत्रप्रसिद्ध्यधिकरणम् 1.2.5 यस्य प्राणश्शरीरं स खलु हिततमोपास्तिकर्मप्रसक्त- स्तस्मिञ़्जीवत्वशङ््काजगदुपजनके सौति शाण्डिल्यविद्या। पूर्वन्यायाच्च युक्तन्दमनमिह महावाक्यतः प्रक्रमस्ये- त्युत्थाने प्रक्रमोक्तानुगुणमिति महावाक्यमेकीकरोति।। 1.2.6 अन्वारुह्यात्र भेदं प्रथममधिकृतिर्भाषिता किंनिमित्तं विद्यैकत्वे़ऽनुवादः पर इह गुणविद्ध्यर्थमेवेति युक्तम्। सत्यं ब्रह्मानुमत्य क्वचिदुपनिषदि क्वापि कल्प्ये विवादे चिन्तैषोदाहृतिस्स्यात्परमतरचितेत्यर्थसिद्धिस्तु बोद्ध्या।। 1.2.7 सर्वत्वं कर्मभिस्स्वैर्जनिमति घटते ब्रह्मशब्दोऽत्र चैवे- त्यल्पस्थानोऽल्पमानस्सुखतदितरभुग्जीव एवेति चेन्न। तज्जत्वादेरनूक्तेर्विविधगुणभिदादर्शनात्सर्वतादे- स्स्वारस्स्यादप्यणुत्वं ह्युपधिकृतमिहोपास्तये ज्यायसि स्यात्।। ********
अधिकरणसारावली उपोद्घातम्
अधिकरणसारावली अथ प्रथमाध्याये द्वितीय: पाद: उपोद्घातम् 1.2.1 अत्रायोगान्ययोगव्यपनयननयैर्ब्रह्मपादत्रिपादी- भागारूढैर्मृदूपक्रमकठिनपरैः प्राय आद्ये प्रसाद्ध्यम्। कृत्स्नाक्षेपोपशान्त्यै प्रथम इह ततः पाद उक्तिस्त्रिपादी क्वाचित्काक्षेपपूर्वाखिलकलहसमुन्मूलनाय प्रणीता।। 1.2.2 अस्पष्टस्पष्टरूपस्फुटतरचिदचिल्लिङ्गवद्वाक्यचिन्ता भाष्ये दीपावतारेऽप्यभणि नयगणैस्सम्प्रवृत्ता त्रिपाद्याम्। अत्यन्तास्पष्टलिङ्गान्वितविषयमुशन्त्याद्यपादं तु केचित् तत्रेदन्तारतम्यं नियतनिजबलैः कर्मतार्तीयमानैः।। 1.2.3 पूर्वत्रासिद्धरूपैस्स्वमतिविरचितोन्नीतिभिः पूर्वपक्ष- स्सिद्धैस्साधारणैरप्युपधिनियमितैः प्रत्यवस्था द्वितीये। स्पष्टासाधारणत्वैरुपरिपरमतानूक्तिकल्पैरथेति न्यायैकत्रिंशदत्र प्रतिचरणविभक्त्यन्विताऽन्वेषणीया।। 1.2.4 विश्वं पादे द्वितीये वपुरिति कथयंश्चिन्त्यते वाक्यवर्गो विश्वाधारस्स आत्मेत्यभिलपनपरस्तर्कणीयस्तृतीये। तुर्ये साङ्ख्यादिपक्षोदितपरिपठनभ्रान्तिरुन्मूलनीये- त्येवं केचित्त्रिपादीं जगदुरयमपि […]
अधिकरणसारावली इन्द्रप्राणाधिकरणम्
अधिकरणसारावली इन्द्रप्राणाधिकरणम् 74.विद्या प्रातर्दनी सा वदति हिततमोपास्तिकर्मेन्द्रमेव ख्यातप्राणेन्द्रचिह्नान्वितमपि तदसौ विश्वकर्तेति चेन्न। ब्रह्म त्रेधा ह्युपास्यं बहुविधचिदचित्कञ़्चुकं स्वात्मना च प्राणेन्द्रप्रक्रमोऽपि प्रबलतरमहावाक्यवैघट्यभग्नः।। 75.यल्लिङ्गं कारणैकस्थितमिति कथितं ज्योतिषीन्द्रे च तत्तु प्रख्यातान्यैकनिष्ठं प्रथममितमतस्तन्मुखोत्थित्ययोगः। अप्राप्ते तद्विमर्शे प्रकृतशिथिलता नेति चेत्सत्यमेतत् विष्णूत्पत्त्यादिनीतिभ्रमत इह पुरोवादमुत्प्रेक्ष्य शङ्का।। 76.ज्योतिः प्राणेन्द्रशब्दाः परतरविषयाः कारणव्याप्तधर्मा- दित्येतत्साध्वमीषां बहुविहतिमती ख्यातमात्रे तु वृत्तिः। तत्कौक्षेयानलात्मा कथित इह तथा ध्यानतस्तत्फलाप्त्यै मुख्यप्राणादिलिङ्गं तदुपहितपरोपासनान्मोक्षणाय।। 77.कार्यं यत्कर्मवश्यं यदपि […]
अधिकरणसारावली ज्योतिरधिकरणम्
अधिकरणसारावली ज्योतिरधिकरणम् 72.कौक्षेयज्योतिषैक्यं कथितमिह परज्योतिषस्तस्य विश्वो- पादानत्वं च विद्यान्तरविदितमतः कारणं वह्निरस्तु। मैवं पुंसूक्तवाक्योदितपरपुरुषप्रत्यभिज्ञप्त्यबाधात् गायत्र्युक्तिस्तु साम्यादपि च निगदितास्तस्य भूतादिपादाः।। 73.उत्थानं ज्योतिरादावधिकरणयुगे कारणव्याप्तलिङ्गा- दित्याभाष्यान्यलिङ्गं स्ववचसि विहितं नेति भाष्यं कथं स्यात्। इत्थं विश्वादिलिङ्गं सदिह न तु पराभीष्टलिङ्गं समस्ती- त्युत्पश्यन् पूर्वपक्षी व्यवहरति तथा व्याहतिस्तन्न शङ्क्या।। ********
अधिकरणसारावली प्राणाधिकरणम्
अधिकरणसारावली प्राणाधिकरणम् 70. प्राणायत्तं हि देहादिकमिह विदितं तेन तत्कारणत्वं श्रुत्युक्तं रूढिशक्त्या सुदृढमिति न तद्व्योमवत् साधनीयम्। तन्न प्राणस्य काष्ठादिषु महिमहतेः पूर्ववच्चानुवादात् आकाशोक्तेरिवोक्ते भगवति निखिलप्राणनस्यापि दृष्टेः।। 71. नोक्तिं व्याहन्ति लिङ्गं किमपि भवति तु ख्याततत्त्वानुकूलं शब्दश्चानन्यनिष्ठश्श्रुत इति न परो ज्योतिराद्युक्तिवेद्यः। विश्वोत्पत्त्युक्त्यभावेऽप्यवगतमिह तल्लिङ्गमित्याक्षिपन्तं रुन्धेऽथाधिक्रियाभ्यां तदुचितचिदचिद्वर्गवैशिष्ट्ययुक्त्या।। ********
अधिकरणसारावली आकाशाधिकरणम्
अधिकरणसारावली आकाशाधिकरणम् 69.अत्राकाशस्त्वशेषप्रभवविलयभूस्साम्नि दृष्टस्स्वनाम्ना निर्दिष्टस्तैत्तिरीयेऽप्यनितरजनितस्स्वात्मनस्सम्भवोक्त्या। मैवं सिद्धानुवादो ह्ययमथ च परप्राप्यतादिर्न तस्मिं- स्तत्कर्तात्मा विपश्चिच्छ्रुत इति विहिता स्वात्मनस्तत्प्रसूतिः।। ********
अधिकरणसारावली अन्तरधिकरणम्
अधिकरणसारावली अन्तरधिकरणम् 62. भूयिष्ठानन्तपुण्योपचयबलसमुद्बुद्धपूर्वोक्तभूम्नां शक्रादिन्यायतस्स्यात् त्रिगुणतनुभृतामीश्वराणां प्रवाहः। तन्नाकर्मोत्थदिव्याकृतिजनिमहिमा शासिता सर्वपुंसां नित्यश्रीर्ब्रध्नबिम्बे श्रुत इति स य इत्युक्त एवैष एकः।। 63. सर्वेभ्यः कल्पकेभ्यो ह्युदित इति वदत्यन्तरादित्यविद्या तस्माच्छेषाभ्यनुज्ञानयत इति विभोः पुण्ययोगो़ऽस्तु मैवम्। आम्नातोऽनन्यशास्यस्स्ववशपरफलस्साधुना नैष भूयान् स्यात्पुण्ये लक्ष्मयोगादपि न सुकृतमित्यादिना पाप्मशब्दः।। 64. प्रख्यातं शुद्धसत्वं किमपि तदनघं द्रव्यमव्यक्ततोऽन्य- त्तद्रूपं रूपमैशं दिवि कनति तथा शेषशेषाशनाद्यैः। नित्यं तत्सूरिसेव्यं परतरमजहत्स्वस्वभावस्स देवः पुंसां संसारशान्त्यै […]