अधिकरणसारावली आनन्दमयाधिकरणम्
अधिकरणसारावली आनन्दमयाधिकरणम् 58. मुख्येक्षा यद्यभीष्टा भवतु तदुचिते सा पुनर्जीवतत्त्वे सद्विद्यायां हि शब्दैस्त्रिभिरुपरि सतस्तस्य जीवैक्यमुक्तम्। इत्यूहादुज्जिहानं प्रशमयितुमथ प्रस्तुतो विश्वकर्मा जीवस्याप्यन्तरात्मा निरुपधिकमहानन्दथुस्स्थाप्यतेऽत्र।। 59.दृष्टः पूर्वं विकारे मयडिति चरमेऽप्येवमस्त्वित्ययुक्तं मध्ये तद्भङ्गदृष्टेः प्रचुरमिह वदेत् प्रत्ययोऽन्यस्य बाधात्। आनन्दप्राचुरीच प्रकृतपरसुखाल्पत्वलब्धावधित्वा- द्दुःखाल्पत्वानपेक्षा परदुरितभिदश्शासितुस्तद्विरोधात्।। 60.आत्मा तस्यैष एवेत्युदितमनितरात्मत्वमस्यैव वक्तुं शारीरोक्तिश्च तस्मिन्निखिलतनुतया स्यादसङ्कोचवृत्तिः। शोध्यत्वन्तत्तदर्थानुगुणमिति विभोस्तत्प्रसाद्यत्वमात्रं प्राप्येऽस्मिन्प्राप्तिरूपा परविद उपसंक्रान्तिरानन्दसिन्धौ।। 61. निर्देहेऽस्मिन्निरंशे न हि भवति शिरः पक्षपुच्छादि किञ्चि- […]
अधिकरणसारावली ईक्षत्यधिकरणम्
अधिकरणसारावली ईक्षत्यधिकरणम् 55. गौणेक्षासाहचर्यान्न तु बहुभवनप्रेक्षणं नैव मुख्यं दृष्टान्ताद्यैरिहाभात्यनुमितिरचितस्तादृशाज्जन्म युक्तम् । सच्छब्दस्तेन मूलप्रकृतिमविकृतिं व्याहरेदित्ययुक्तं श्रुत्याऽन्येषां निरोधात्त्वदभिमततिरस्कारिलिङ्गादिभिश्च ॥ 56. ज्ञाते ह्येकत्र सर्वं विदितमिति भवत्यैक्यसिद्ध्यै प्रतिज्ञा मृत्तत्कार्यादयश्च त्रय इह कथितास्तस्य दृष्टान्तभेदाः। तेनाव्याक्तानुमानं कथितमिति वृथोत्कण्ठितं हेत्वनुक्ते- स्सारूप्यादेश्च हेतोरुपरि परिहृतेरत्र संभावनोक्तेः।। 57.आदेशात्मस्वशब्दैरनियतशरणैस्त्वन्तदैक्योपदेशा- ज्जीवेन स्वेन साहंकरणमनहमोऽचिद्गणस्य प्रवेशात्। एकज्ञानेन सर्वं विदितमिति गिरा सर्वतादात्म्यवाचा शाखाविद्यान्तरादेरपि बहुभविता विश्वविद्विश्वमूर्तिः।। ********
अधिकरणसारावली समन्वयाधिकरणम्
अधिकरणसारावली समन्वयाधिकरणम् 46. कर्तव्ये ह्यर्थ उक्ते निशमयितृफलं सिद्धरूपे तु न स्यात् प्रीत्या साफल्यक्लृप्तौ वितथमपि वचः किन्न दृष्टन्तदर्थम्। विद्यार्थत्वेऽन्यदृष्टेर्विषयवदनृतं तत् परीक्ष्यन्न भावी- त्याक्षेपेऽनन्यशेषे निरवधिकसुखे शास्त्रतात्पर्यमाह।। 47. तात्पर्यं ब्रह्मतत्त्वेऽप्यविहिवीधिनाऽप्येकवाक्यत्वपक्षे भेदेऽपि स्यादसिद्धेर्न भवति बलिभुग्दन्तसङ्ख्योक्तिसाम्यम्। स्वादार्थत्वं मृषात्वक्षममिति न मृषेत्यूहने प्रीत्ययोगा- द्वालोपच्छन्दनादिष्वपि विषयतथाभावबुद््ध्यैव हर्षः।। 48. यत्प्रीत्यर्थं वचस्तन्निखिलमनृतमित्यर्भकप्रायवाक्यं सत्योक्त्यानन्ददृष्टेर्न च विहतिरिहाद्ध्यक्षतश्शास्त्रतो वा। तेनानन्यार्थसिद्धोक्त्यनृतविषयताशङ्कनस्तम्भनेन त्रय्यन्तास्सत्यनित्याद्भुतपरमपरब्रह्मनिष्ठाः प्रमाणम्।। 49. ब्रह्मैके निष्प्रपञ्चीकरणविधिपदं ध्यानविध्यर्थमन्ये निर्धर्माद्वैतवाक्योपचरितमितरे सिध्यतीति […]
अधिकरणसारावली शास्त्रयोनित्वाधिकरणम्
अधिकरणसारावली शास्त्रयोनित्वाधिकरणम् 41. वीतावीतप्रयोगक्रमनियतिमती कार्यता विश्वमेतत् सर्वज्ञेन प्रकॢप्तं गमयति विफलस्त्वत्र शास्त्रैर्विचारः। इत्युन्नीतौ लघुत्वादनुमितिवशतः कर्मजैश्वर्ययुक्तो विश्वामित्रादिनीत्या स्फुरति विभुमिहासूत्रयच्छास्त्रवेद्यम्।। 42. क्षित्याद्यं कार्यताद्यैः कटकमकुटवत् कर्तृपूर्वं स कर्ता सिद्ध्येदत्राण्वदृष्टप्रभृतिजनकदृक् सर्वशक्तिश्च मैवम्। श्रोत्राद्यैस्सौरभादिग्रहणरुचिरियन्तादृशव्याप्त्यभावात् सर्वं हेतुन्न पश्येत् घटकृदिह न चाकर्तृता तावताऽस्य।। 43. कार्यत्वात् स्याद्विवादास्पदमिदमखिलं सर्ववित् कर्तृपूर्वं यन्नैवन्तद्धि नैवं पुरुषवदिति नानन्यथासिद्ध्यभावात्। हेतावेतादृशात्मन्यविदुरभिदुरं व्याप्त्यसिद्ध्यादिदौःस्थ्य- न्तद्भङ्गे लक्षणानामगणि गमनिका तत्त्वमुक्ताकलापे।। 44. यद्यप्यात्मान्तरादेरनुमितिरनघा लिङ्गभेदैस्तथाऽपि प्रत्यक्षव्याप्तिशैली न […]
अधिकरणसारावली जन्माद्यधिकरणम्
अधिकरणसारावली जन्माद्यधिकरणम् 35 . जन्माद्यैश्चेद्विशेष्यं भवति बहुलताऽथोपलक्ष्यं ब्रवीषि ज्ञाताज्ञातादिदौःस्थ्यं व्यतिषजति न चालक्षिते स्यात्परीक्षा। उद्दिष्टब्रह्मचिन्ता तत इह कथमित्यत्र हेतुत्वलक्ष्यः पुंसूक्तादिप्रसिद्धो गुणनिधिरघजिद्ब्रशब्दार्थ उक्तः।। 36. नाना चेल्लक्षणानि स्वरसभिदुरता ब्रह्मणि स्याद्विशेष्ये खण़्डो मुण्डश्च गौरित्यभिलपनसमा धर्मिशब्दैकताऽत्र। तेष्वेकं चेद्यथाऽन्यत्समुदितमफलं स्याद्व्यवच्छेद्यहानेः खण्डत्वादिक्रमाच्चेत्यसदविहतितः खण्डतादेर्विशेषात्।। 37. तत्तत्स्वप्रत्यनीकव्युदसननियतं भेदकं नान्यबाधि व्याघातः कालभेदान्न भवति जननस्थापनध्वंसनानाम्। प्रत्येकं लक्षणत्वं सुवचमिह बहूदाहृतिर्धीमहिम्ने संभूयाप्याहुरेके फलमपि च तदाशङ्कितार्थव्युदासः।। 38. ज्ञातं चेन्नोपलक्ष्यन्न […]
अधिकरणसारावली जिज्ञासाधिकरणम्
अधिकरणसारावली जिज्ञासाधिकरणम् 27. कार्ये व्युत्पत्तिराद्या नियतमिति गिरस्तत्परा एव सर्वा नान्या वेदेऽपि नीतिस्तत उपनिषदामूषरप्रायतैव। नातस्तद्वेद्यमीमांसनमुचितमिति प्रत्यवस्थीयमाने सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन् ब्रह्म जिज्ञास्यमाह।। 28. अङ्गुल्या निर्दिशन्तः किमपिकिमपि तद्वाचकांशैः प्रयुक्तैः बालान् व्युत्पादयन्ति क्रमभवमिलितज्ञापकत्वं विदन्तः। सङ्घातास्ते पदानां विदधति च धियं क्वापि सिद्धे विशिष्टे कर्तव्ये क्वापि चेति क्वचिदिह नियतिश्शब्दशक्तेर्न कल्प्या ।। 29. संसारेऽनादिसिद्धे मुहुरनुभवतस्सञ्चितास्संस्क्रियास्स्यु- स्संस्कारोद्बोधकाश्च स्वयमुपनिपतन्त्यप्रकम्प्यात्प्रवाहात्। तत्तज्जातीयभेदग्रहणसमुचिता वृत्तयस्तन्निदानाः तद्वत्स्याच्छिक्षकादिव्यवहृतिषु शिशोरैदमर्थ्यादिबोधः।। 30. […]
अधिकरणसारावली-उपोद्घातम्
वेदान्ताचार्यविरचित अधिकरणसारावली प्रथमाध्याये प्रथम: पाद: उपोद्घातम् 1. स्वस्ति श्रीरङ्गभर्तुः किमपि दधदहं शासनन्तत्प्रसत्त्यै सत्यैकालम्बि भाष्यं यतिपतिकथितं शश्वदद्ध्याप्य युक्तान् । विश्वस्मिन्नामरूपाण्यनुविहितवता तेन देवेन दत्तां वेदान्ताचार्यसंज्ञामवहितबहुवित्सार्थमन्वर्थयामि ॥ 2. श्रीमद्भ्यां स्यादसावित्यनुपधि वरदाचार्यरामानुजाभ्यां सम्यग्दृष्टेन सर्वंसहनिशितधिया वेङ्कटेशेन क्लृप्तः । सेव्योऽसौ शान्तचित्तैः श्रवणरसनया शान्तिलाभार्थिभिर्वा सिद्धश्शारीरकार्थे सहजबहुगुणः स्रग्धरादुग्धराशिः ॥ 3. त्रय्यन्तस्वान्तवादिन्यधिकरणगणे पौनरुक्त्योक्तबाधौ मन्दत्वासङ्गतत्वे विशयमफलतां मानबाधं च मन्तॄन् । दिङ्मोहक्षोभदीनान् दिनकरकिरणश्रेणिकेवोज्जिहाना हृद्या पद्यावलीयं हृदयमधिगता […]