अधिकरणसारावली यथाश्रयभावाधिकरणम्
अधिकरणसारावली यथाश्रयभावाधिकरणम् 3.3.68 तत्तद्विद्यासु तादृक्फलतरतमतां वारयित्वा प्रसङ्गात् प्रागुक्तोद्गीथविद्याफलमथ पुनराक्षिप्य गाढीकरोति । मा भूदुक्तं स्ववाक्ये फलमिह तु न सा पर्णमय्यादिनीतिः स्पष्टा खल्वत्र विद्या फलकरणतया वर्तमानोक्तितोऽपि ।। 3.3.69 तादर्थ्यं नात्र कर्मश्रुतिरवगमयेदाश्रयालम्बमात्राद् विद्याहानौ च युक्तं प्रतिविधिवचनं तत्फलार्थिप्रसङ्गे । तारे सोपासनेऽस्तु स्तवनमनुगमात् तावता सा तु नाङ्गं प्रग्वक्तव्यस्य हित्वा वच इदमुपरि स्थापनीयप्रसक्त्यै ।। 3.3.70 विद्यैक्योद्गीथविद्याद्वितयविभजनप्राणविद्यैकभावाः सर्वास्वानन्दतादेर्गुणिवदनुगतिः प्राणवासस्त्वदृष्टिः […]
अधिकरणसारावली विकल्पाधिकरणम्
अधिकरणसारावली विकल्पाधिकरणम् 3.3.66 ज्योतिष्टोमाग्निहोत्रप्रभृतिवदधिकानन्दसिद्ध्यै समुच्चि- त्यर्हास्स्युर्ब्रह्मविद्या न च भजनविधिः कश्चिदेकं प्रति स्यात् । कर्तुं ताः कालभेदात् क्षममिति न मिथो वासनास्थैर्यबाधात् सम्पूर्णब्रह्मलब्धै पृथगिह च विधिः प्रायणान्ते समाधौ ।। 3.3.67 रूपादीनां विशेषैर्ननु परभजनं नैकरूपं विभक्तं सामग्रीभेदतस्तत्फलमपि विषमं सम्मतं न्यायतस्स्यात् । न स्यात् सर्वासु विद्यास्वपि हि फलतया वक्ष्यते भोगसाम्यं प्राप्यैक्यञ्च प्रसिद्धं बहुसरणिजुषां लोकतो वेदतश्च ।।
अधिकरणसारावली शब्दादिभेदाधिकरणम्
अधिकरणसारावली शब्दादिभेदाधिकरणम् 3.3.63 सर्वासु ब्रह्म वेद्यं फलमपि खलु तद्ब्रह्मविद्येति चाख्या ध्यानाद्युक्त्येकलक्ष्ये विधिरपि भजने सर्वविद्यैक्यमित्थम् । तन्नाख्यारूपभेदात् तदुपहितविधौ तेन वैशिष्ट्यसिद्धेः मिश्रं मध्वादिविद्याफलमिह च पृथक्काम्यविद्यासु चैवम् ।। 3.3.64 नानाशब्दादिभेदादिति कथमवदत् सूत्रकृच्छब्दसाम्ये न ह्येते यागदानादय इव भिदुरा भक्तिविश्रान्तिसिद्धेः । सत्यं शब्दस्य भेदस्त्वयमुपचरितो रूपभेदद्रढिम्ने ज्ञानं ये चाविधेयं करणमिति जरतुस्तन्निरासेऽभिसन्धिः ।। 3.3.65 यद्वा शब्दादिभेदादिति तु कथयता सूत्रकारेण […]
अधिकरणसारावली भूमज्यायस्त्वाधिकरणम्
अधिकरणसारावली भूमज्यायस्त्वाधिकरणम् 3.3.61 व्यस्तो वैश्वानरात्मा प्रतिनियतफलोदाहृतेश्चिन्तनीयः कृत्स्नोपास्तौ फलोक्तिस्स्तुतिरिह यदि वा कृत्स्नरूपोऽप्युपास्यः । मैवं व्यस्तेषु दोषः पृथगनुकथितस्तत्फलोक्तिस्स्तुतिस्स्याद् दृष्टं ह्यष्टाकपालप्रभृतिषु च तथा तेन चिन्त्यस्समस्तः ।। 3.3.62 सामस्त्यस्यैव योगे द्रढिमवति महावाक्यतात्पर्यवृत्त्या व्यस्तेष्वंशाननूद्य स्तुतिनियतनयादान्यपर्यं फलोक्तेः । नामादीनामुपास्तौ फलमवधितयापेक्षितं भूमवाक्ये नाप्येवं प्रत्यवायश्श्रुत इति विषमोदाहृतिर्नार्थसिद्धै ।।
अधिकरणसारावली अङ्गावबद्धाधिकरणम्
अधिकरणसारावली अङ्गावबद्धाधिकरणम् 3.3.60 उद्गीथादेर्विशेषे भजनविधिरसौ स्यात् स्वसान्निध्यगीतेः मैवं सर्वाङ्गिभूतक्रतुमुखत इहाशेषसान्निध्यसिद्धेः । सामान्यं व्यक्त्यपेक्षक्रियमपि नियमादर्शने व्रीहितावत् शब्दश्चोद्गीथमात्रं वदति नतु भिदां छागनीतिस्तु नात्र ।।
अधिकरणसारावली शरीरे भावाधिकरणम्
अधिकरणसारावली शरीरे भावाधिकरणम् 3.3.57 तत्कालाकारिणस्स्यादहमिति भजने कञ्चुकस्यात्मनो धीः आसत्तेर्मामुपास्स्वेत्युदितवदिति चेन्नान्यथा सन्निकर्षात् । शुद्धो ह्यात्मात्र साध्यः फलमतिरविनाभाविनी बोद्धृकृत्ये बुद्ध्यासन्नेऽन्तरङ्गे सति विधिनियता तत्क्रतुन्यायसिद्धिः ।। 3.3.58 कर्तुर्भोक्तृत्वमात्रं गणयितुमुचितं दृष्टभोगार्थयत्ने स्वर्गाद्यर्थेऽन्यदेहानुगतिरपि परं स्वाधिकारानुविद्धा । मुक्त्यर्थे प्राप्त्यवस्थाप्रणिधिकथनतस्तत्क्रतुन्यायवाचां तद्युक्तोपास्यरूपं विषय इति कुतोऽतिप्रसङ्गादिशङ्का ।। 3.3.59 विद्याभेदेषु वेद्याकृतिविषमतया यावदुक्तेऽपि चिन्त्ये प्राप्यं सर्वोपपन्नं खलु तदिह कथं प्राप्यचिन्तानिषेधः । तस्माद्बद्धस्य चिन्तास्त्विति न […]
अधिकरणसारावली पूर्वविकल्पाधिकरणम्
अधिकरणसारावली पूर्वविकल्पाधिकरणम् 3.3.55 अङ्गं पूर्वप्रसक्तेष्टकचितसमुपस्थापितस्य क्रतोस्स्याद् बुद्ध्यात्माग्निर्मनश्चित्प्रभृतिरपि यथा मानसं द्वादशाहे । तद्वीर्यस्यातिदेशादिति न सदुदितो ह्यत्र विद्यात्मकोऽङ्गी श्रुत्याद्यैरेव तस्मिन्नुपकृतिसमताबोधनार्थोऽतिदेशः ।। 3.3.56 कल्प्यो ह्यत्र क्रियात्मा क्रतुरपि तदपि प्रागुपात्ताङ्गशक्त्या वाक्यस्थैश्चानुबन्धैरिह समुपनतो भाति विद्यामयस्तु । दूरस्थाकृष्टयोगात् स्ववचनपठिताकृष्टयोगो लघीयान् अप्राप्तेऽर्थे विधित्वं ह्यनुवदनसमेऽप्याश्रितं तद्वदत्र ।।
अधिकरणसारावली लिङ्गभूयस्त्वाधिकरणम्
अधिकरणसारावली लिङ्गभूयस्त्वाधिकरणम् 3.3.52 प्रक्रान्ता दह्रविद्या प्रकटमुपरि च ज्ञायते तैत्तिरीये तस्मादूर्ध्वानुवाकः प्रकृतिविषयनिर्धारणार्थोऽस्तु, मैवम् । तत्तद्विद्योदितैस्तैः परमिह पुरुषं प्रत्यभिज्ञाप्य शब्दैः तस्मिन्नारायणत्वं वददधिकबलं प्रक्रियातो हि वाक्यम् ॥ 3.3.53 वाक्यैस्सर्वार्थतायां दहरभजनमप्यत्र भागीति सार्थः तल्लिङ्गोपेतभागो न च बहुभिरलं योद्धुमेकं गतार्थम् । नैकस्यास्योपकुर्यात् प्रकरणमलसं किञ्च सर्वोपजीव्ये तत्त्वे तात्पर्यमत्र स्फुटमिति वितथा तत्परित्यागक्लृप्तिः ॥ 3.3.54 आत्मैक्यं देवतैक्यं त्रिकसमधिगता तुल्यतैक्यं त्रयाणाम् […]
अधिकरणसारावली प्रदानाधिकरणम्
अधिकरणसारावली प्रदानाधिकरणम् 3.3.49 कामानेतांश्च सत्यानिति वचनबलाद्धर्म्युपास्तेर्विभक्ता धर्मोपास्तिस्तदर्थं गुणिपरिगणनं तन्त्रतोऽस्त्वित्ययुक्तम् । तत्तद्वैशिष्ट्यभेदात् प्रतिविधि गुणिनश्चिन्तनावृत्तिरर्थ्या राजत्वाद्यैः पृथक्त््वाद्भवति हि हविषो दानमावृत्तमिन्द्रे ।। 3.3.50 तत्तद्भोगप्रतीतेर्गुणघटितपरोपासना भोगहेतुः मुक्तिश्च स्यात् क्रमादित्यसदगुणवचस्यान्यपर्याभिधानात् । शास्त्रेऽस्मिन्ना समाप्तेः क्व फलमभिहितं निर्गुणोपास्तिसाध्यं नोच्छास्त्रञ्च प्रकल्प्यं गुणनियमनतः ख्यातिमांश्चैष पादः ।। 3.3.51 प्रत्येकं मेलनाद्वा दहरगुणगणेऽप्यत्र सञ्चिन्त्यमाने गुण्यावृत्त्यर्थलब्धेः कथमिह तदनावृत्तिशङ्केति चेन्न । बुद्ध्यारोहे गुणानां यदवधि गुणिनो रूपमर्थ्यं […]
अधिकरणसारावली तन्निर्धारणानियमाधिकरणम्
अधिकरणसारावली तन्निर्धारणानियमाधिकरणम् 3.3.47 उद्गीथादौ क्रियाङ्गे भजनमपि भवेत्पर्णताद्युक्तनीत्या कर्माङ्गं तत्फलोक्तिस्त्विह नुतिरिति गोदोहनन्यायभग्नम् । स्वर्गादीनां फलत्वं क्रतुषु तदधिके ह्यत्र वीर्यातिरेकः पर्णत्वादौ न वाक्यं वदति करणतां कर्म चाहानुपास्तौ ।। 3.3.48 उद्गीथे प्राणदृष्टौ क्रतुघटितफलादन्यदुक्तं फलं तत् स्वीकृत्य प्राग्विचारः स्थित इति विहतः पूर्वपक्षोऽत्र मैवम् । अत्रत्येऽनङ्गभावे स्थितनिहितधियस्तत्र विद्यैक्यशङ्का त्यक्त्वाङ्गानङ्गभावौ पृथगपृथगिति स्याच्च पूर्वत्र चिन्ता ।।