अधिकरणसारावली कामाद्यधिकरणम्
अधिकरणसारावली कामाद्यधिकरणम् 3.3.44 आकाशं ताण्डिनस्तच्छयितमधिजगुर्वाजिनस्तेन विद्या भिद्येतात्रेति चेन्न द्विविध इह यतो ब्रह्मनिर्देश एषः । सर्वाधारत्वपूर्वैः परतरविषयस्सामगाकाशशब्दो विश्वेशाधारतोक्त्या सुषिरविषयतान्यत्र रूपं तु नान्यत् ।। 3.3.45 छन्दोगानामुपास्यं प्रथितमिह गुणैरष्टभिर्ब्रह्म जुष्टं तच्चान्येषां वशित्वप्रभृतिघटितमित्यस्तु रूपे तु भेदः । मैवं यत्तद्वशित्वाद्यपि तदिह भिदा सत्यसङ्कल्पतायाः इत्यैकार्थ्यं निरूढं परमपि दहरोपासनं तद्वदूह्यम् ।। 3.3.46 नन्वाकाशो गुणाद्यैः पर इति दहराधिक्रियायां पुरोक्तं तस्मान्नान्यार्थशङ्केत्यधिकरणमिदं […]
अधिकरणसारावली अन्तरत्वाधिकरणम्
अधिकरणसारावली अन्तरत्वाधिकरणम् 3.3.41 सूत्रस्वारस्यलाभात् प्रथममसुभृतः पूर्वपक्षे निवेशः सिद्धान्ते ब्रह्मणश्चेत्यधिकरणगतिस्तोकशङ्कापनुत्यै । साक्षाद्ब्रह्मेति वाक्यद्वयमवमृशतामन्यशङ्कैव न स्या- दित्यालोच्याथ भाष्ये परविषयतया पूर्वपक्षोऽप्युपात्तः ।। 3.3.42 यत्साक्षादित्यमुष्मिञ्छ्रुतिशिरसि परं ब्रह्मवैद्यं यदेवे- त्येतस्मिंश्चास्त्वथापि प्रतिवचनभिदा तत्र रूपं भिनत्ति । विद्याभित् प्रष्टृभेदोऽप्ययमिति यदि नानूद्य भूयोऽनुयोगात् पश्चादुक्तश्च दोषात्यय इह न भिदां सौति साधारणत्वात् ।। 3.3.43 सद्विद्यायां यथा हि प्रतिवचनभिदा प्रश्नभेदानुसारात् विद्यैकत्वे विशेष्यं प्रकटयति […]
अधिकरणसारावली अक्षरध्यधिकरणम्
अधिकरणसारावली अक्षरध्यधिकरणम् 3.3.38 यस्यामस्थूलतादि प्रपठितमुचितं चिन्तनं तस्य तस्यां नान्यस्यां मानहानेर्न यदि नियमनं कस्य कुत्रेति चेन्न । हेतुत्वोन्नेयदोषव्यपनयनमिह ब्रह्मविद्यासु सर्वा- स्वानन्दाधिक्रियोक्तक्रमनियमितमित्यस्य सार्वत्रिकत्वात् ।। 3.3.39 सत्यत्वाद्यैस्स्वरूपावगतिरभिहिता सर्वविद्यानुवृत्त्या भूयस्तत्तुल्यधर्मेष्वधिकरणमिदं स्याद् वृथैवेति चेन्न । कैश्चिज्ज्ञातस्वरूपे क्वचिदितरगतं किञ्चिदन्यन्निषेध्यं व्यावृत्त्या न स्वरूपावगतिरत इति प्रेक्षणस्यापि रोधात् ।। 3.3.40 व्यावर्त्यानन्त्यतस्तद्व्युदसनमपि हि स्यादनन्तं ततस्त- च्चिन्ता किञ्चिज्ज्ञसाध्या जलधितरणवन्नोपदिश्येत मैवम् । तत्तत्सामान्यधर्मानुहतिकबलिताशेषभेदोपदेशे तादृक्विन्तोपपत्तेरनवममिति […]
अधिकरणसारावली अनियमाधिकरणम्
अधिकरणसारावली अनियमाधिकरणम् 3.3.35 पन्थास्स्यादर्चिरादिः फलमिह सकलब्रह्मविद्यासु मा वा प्रारभ्याधीतियोगात् प्रकरणनियता तस्य चिन्तेति चेन्न । सर्वासां तद्य इत्थं विदुरिति वचसात्राथ येचेति चोक्त्या मार्गे साधारणेऽस्मिंन्स्तदनुसरणतस्तद्वदेवास्य चिन्ता ।। 3.3.36 हेयोपादेयमार्गद्वितयमुपदिशन् मुक्तिदाता मुमुक्षोः योगी यः कश्चनैतत्सरणियुगलविन्मुह्यते नेत्यगायत् । तस्मादस्मादृशाधीत्यविशदविशदीकर्तृवाक्यावमर्शात् ब्रह्मप्राप्त्यर्हकृत्स्नप्रणिहितविहितं मार्गचिन्ताविधानम् ।। 3.3.37 हानादेरर्चिरादेरपि किमभिहितं चिन्तनं सूत्रकारैः विद्याङ्गत्वादिसिद्ध्यै यदि भवतु तदानन्तरे पाद एतत् । मैवं विद्याङ्गतायामपि […]
अधिकरणसारावली साम्परायाधिकरणम्
अधिकरणसारावली साम्परायाधिकरणम् 3.3.33 कर्मोद्धूतिर्मुमुक्षोः क्वचिदुपनिषदि श्रूयते साम्पराये मार्गेऽन्यस्यां द्विधैवं शकलश इह तच्चिन्तनञ्चास्तु मा भूत् । नह्युक्तं कर्मसाध्यं पथि फलमथ गत्यर्थदेहानुवृत्तिं मुक्त्यै विद्यैव कुर्यादघहतिवचने पाठतोऽर्थो बलीयान् ।। 3.3.34 निश्शेषं कर्म नश्येदिह यदि विदुषस्स्थूलदेहान्तमात्रे विश्राम्येत् तस्य तावच्चिरमिति हि वचो नार्थँवत्त्वं गतेस्स्यात् । गत्वा सम्पद्य चाविर्भवनमिति न संबोभवीतीत्ययुक्तं स्याद्धीसङ्कोचमात्रस्थितिकृदनुगतस्सूक्ष्मसंस्कारयोगः ।।
अधिकरणसारावली हान्यधिकरणम्
अधिकरणसारावली हान्यधिकरणम् 3.3.30 शाखे द्वे मुक्तिभाजः क्वचन कथयतः पुण्यपापप्रहाणं ब्रूतेऽन्या तत्प्रवेशं प्रियतदितरयोर्दायसंक्रान्तिकाले । हानञ्चोपायनञ्च क्वचिदिति पृथगाम्नातसंपर्कसिद्धिः वाक्यं शाखान्तरस्थं भवति हि विहिताकाङ्क्षया वाक्यशेषम् ।। 3.3.31 इत्थं ब्रह्मज्ञकर्मत्यजनमितरसंक्रान्तिसम्पृक्तमस्तु स्याच्चिन्तायां व्यवस्था पृथगनुपठनादित्यसत् क्लृप्तिदौस्स्थ्यात् । सर्वेषां मुक्तिभाजां द्वितयमपि यथोपास्ति साध्यं समानं तच्चिन्तासौ तथा तन्महिमविद इति स्थापनीयोभयत्र ।। 3.3.32 कर्त्रा तेनैव भोग्यं शुभमितरदपि स्थापितं कर्मकाण्डे तस्माद् ब्रह्मज्ञकर्म […]
अधिकरणसारावली वेधाद्यधिकरणम्
अधिकरणसारावली वेधाद्यधिकरणम् 3.3.29 युज्येरन् ब्रह्मविद्यापरिसरपठिताश्शन्न इत्य़ादिमन्त्राः तादर्थ्यात् सर्वविद्यास्विति न तदुदिताधीतिशेषत्वलिङ्गात् । नो चेदन्येऽपि तद्वत् सविधपठनतस्सन्तु शुक्रं प्रविध्ये- त्येवम्प्रायास्तदर्था न च घटत इदं लिङ्गतो दुर्बलत्वात् ।।
अधिकरणसारावली पुरुषविद्याधिकरणम्
अधिकरणसारावली पुरुषविद्याधिकरणम् 3.3.26 आख्याद्यैक्यादभेदः पुरुषविषययोर्विद्ययोरित्ययुक्तं यज्ञाद्याकारक्लृप्तेरिह विषमतया रूपभेदप्रसिद्धेः । तादर्थ्यात् तैत्तिरीये परभजनफलं मुक्तिरत्राप्यनूक्ता छान्दोग्ये पूर्णमायुः फलमिति तु तयोर्भाति संयोगभेदः ।। 3.3.27 स्पष्टे रूपादिभेदे हठसमुपनतो नामसाम्यादिमात्रात् पुंविद्यापूर्वपक्षो मृदुरिति विफलाऽधिक्रियैषेति चेन्न । अन्यैव न्यासविद्या प्रकरणपठिता तद्विधानप्रधाने- त्यस्वातन्त्र्यादिसिद्ध्यै विभजनमनयोरित्यतीवार्थवत्त्वात् ।। 3.3.28 यद्येवं यज्ञदृष्टिः परविदि पुरुषे चोद्यते सानुबन्धे यज्ञस्यानङ्गभूतं कथमिह विविधं कल्प्यते तत्रतत्र । तस्मात् प्रक्रान्तविद्यास्तुतिरियमुचितेत्याहुरेकेऽन्यथाऽन्ये […]
अधिकरणसारावली संभृत्यधिकरणम्
अधिकरणसारावली संभृत्यधिकरणम् 3.3.25 सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावतस्सर्वविद्या- स्वन्वीयेतेति चेन्न क्वचिदगतिकतो लिङ्गतस्स्थापितत्वात् । अल्पस्थानासु विद्यास्वघटितवपुषस्स्वोचितस्थानवृत्तेः द्युव्याप्तेरेकमन्त्रे सहपठनवशात् तत्समस्थानिनोऽन्ये ।।
अधिकरणसारावली सम्बन्धाधिकरणम्
अधिकरणसारावली सम्बन्धाधिकरणम् 3.3.24 अक्ष्यादित्योपलक्ष्ये भगवति भजनं चोदनादेरभेदात् एकं स्यात् तेन नाम्नोरनियतिरिति न स्थानतो रूपभेदात् । स्थानं तत्स्थत्वबुद्ध्यै ह्युपदिशति न चेत् स्यान्न रूपातिदेशः तस्मादर्काक्षिय़ोगादहरहमिति तन्नामनी स्थापनीये ।।