अधिकरणसारावली समानाधिकरणम्

अधिकरणसारावली समानाधिकरणम् 3.3.21    शाखैक्येऽध्येतृभेदो न भवति न गुणः कश्चिदन्यो विधेयः तस्मादुक्ताविशेषश्रवणमिह पुनः किं न विद्यां विभिन्द्यात् । मैवं यद्यप्यनूक्तिर्नतु गुणविधये कल्पतेऽस्यास्तथापि व्यक्त्यै सौकर्यतश्च व्यसनसमसनन्यायतस्त्वैक्यसिद्धेः ।। 3.3.22    छन्दोगैर्वाजिभिश्च स्फुटमनुपठिता भाति शाण्डिल्यविद्या भेदाभेदावमर्शस्त्विह किमिति न सन्दर्शितो भाष्यकारैः । तद्ब्रूमो यत्रयत्राधिकपरिपठनं तत्रतत्राधिकानां अन्तर्भावादियुक्तावधिकमनधिकं वेति साधारणोक्तेः ।। 3.3.23    स्थानद्वन्द्वे वशित्वप्रभृतिविरहिता वाजिभिस्तद्युता चा- धीता शाण्डिल्यविद्या तदिह भिदुरता […]

अधिकरणसारावली कार्याख्यानाधिकरणम्

अधिकरणसारावली कार्याख्यानाधिकरणम् 3.3.19    आचामेदित्यपूर्वाचमनमिह विधेः प्राणविद्यावतस्स्यात् मैवं स्मृत्यादिसिद्धेः परमनुविहिता प्राणवासस्त्वदृष्टिः । भुञ्जीतेत्यादिनीत्या विधिरपि घटते प्राप्तधात्वर्थनिष्ठः प्रागुक्ता प्राणविद्या तदिदमवसरे चिन्तितं त्वङ्गमस्याः ।। 3.3.20    आदावन्ते च वासः परिधिरभिहितो मन्यतिश्चात्र दृष्ट्यै सा चाराध्यप्रियार्था स्तुतिरिह न भवेद्गत्यलाभाभिनन्द्या । युक्तश्चापूर्वभावात् परिदधतिगिरा तद्विधानाभिसन्धिः प्राणश्चाराधनीयः परिहितवसनो युज्यते सद्भिरद्भिः ।।

अधिकरणसारावली आनन्दाद्यधिकरणम्

अधिकरणसारावली आनन्दाद्यधिकरणम् 3.3.14    नानाशब्दादिभेदादिति खलु भिदुरां वक्ष्यति ब्रह्मविद्यां रूपं विद्यान्तरस्य प्रकरणपठितं नान्यदन्यत्र योज्यम् । तस्मात् सत्यत्वपूर्वास्तदितरगुणवत् स्युर्व्यवस्थापनीयाः मैवं ब्रह्मस्वरूपावगतिरिह यतस्तद्धि सर्वास्वपेक्ष्यम् ।। 3.3.15    सत्यत्वं विश्वहेतौ बहुविधचिदचिद्विक्रियाजालहानेः ज्ञानत्वं ज्ञातृभावात् स्वरबहुलतया स्वप्रकाशत्वतश्च । त्रिद्व्येकाभिस्तु सर्वं प्रमितमिह परिच्छित्तिभिर्ब्रह्मणोऽन्यत् तस्यानन्त्यं वियोगात् तिसृभिरपि सदा निर्मलानन्दधाम्नः ।। 3.3.16    उक्तं जन्मादिसूत्रे ननु निखिलजगद्धेतुता ब्रह्मलक्ष्म स्यात्तेनैव स्वरूपावगतिरिह मुधा सत्यतादीति चेन्न […]

अधिकरणसारावली सर्वाभेदाधिकरणम्

अधिकरणसारावली सर्वाभेदाधिकरणम् 3.3.13    ज्यैष्ठ्यश्रैष्ठ्यादिसाम्ये क्वचन समधिकं भाति वासिष्ठ्यपूर्वं तेनेत्थं रूपभेदाद्बहुनिगमगता भिद्यतां प्राणविद्या । मैवं वागादितत्तद्गुणपरवशतावर्णनस्याविशेषात् वागाद्यैस्स्वस्वधर्मोपचरणमकृतं तावता स्यान्न भेदः ।।

अधिकरणसारावली अन्यथात्वाधिकरणम्

अधिकरणसारावली अन्यथात्वाधिकरणम् 3.3.9      प्राग्वच्छाखाविभेदेऽप्युपशमितभिदा तादृगुद्गीथविद्या स्यादेका चोदनाद्यैस्तदसदुभयथा रूपभेदोपलब्धेः । गाता गेयश्च गेये सकलमसकल़ञ्चेति वैषम्यसिद्धौ शेषाभेदोऽप्यभेदं न गमयति भिदा त्वेकभेदेऽपि सिध्येत् ।। 3.3.10    छन्दोगोद्गीथशब्दस्तदवयवपरः प्रक्रमादिप्रसिद्धेः कृत्स््नोद्गीथाभिधायी प्रकरणनियमाभावतो वाजिनां स्यात् । उद््गीथोक्तिश्च नैषामुपचरितवती गातरि प्रक्रमस्था तत्कर्त्रा साधनीये द्विषदुपशमने तत्फलत्वोक्त्यबाधात् ।। 3.3.11    यद्यप्यब्रह्मविद्या परपरिभवनाद्यैहिकार्थप्रयुक्ता न ग्राह्या मोक्षशास्त्रे तदपि समतया तत्परीक्षेति केचित् । काम्या विद्याप्यनिष्टव्यपनयनमुखैर्ब्रह्मविद्योपयुक्तैः […]

अधिकरणसारावली सर्ववेदान्तप्रत्ययाधिकरणम्

अधिकरणसारावली सर्ववेदान्तप्रत्ययाधिकरणम् 3.3.6      भेदश्शब्दान्तराद्यैर्विधिषु नियमितः कर्मकाण्डे द्वितीये संयोगाद्यैक्यतोऽन्यस्समुदितनियतात् सैव विद्यासु नीतिः । आदौ तेनैव शाखान्तरनयमुदितं चोदनादेरभेदात् श्रुत्यैवाक्षिप्य भूयः प्रतिसमधित तं भेदकान्यार्थतोक्त्या ।। 3.3.7      शाखासु प्रक्रियान्या श्रवणमपि पुनर्दृष्टमत्राविशेषं विद्याभेदस्ततस्स्यादिति न तदुभयं युक्तमध्येतृभेदात् । तेषामेवेति वाक्यात् क्वचिदुपजनिता भेदशङ्का त्वयुक्ता स्वाध्याये ब्रह्मविद्यापदमिह हि भवेत्तद्व्रतेनान्वयोक्तेः ।। 3.3.8      रूपैक्यादैक्यसिद्धौ किमितरदुपसंहार्यमन्यो गुणश्चेत् भेदो न स्याद्विकल्पं […]

अधिकरणसारावली उपोद्घातम्

अधिकरणसारावली अथ तृतीयाध्याये तृतीय: पाद: उपोद्घातम् 3.3.1      तत्त्वज्ञानानुविद्धं हिततममनघं मोक्ष्यमाणस्य वक्तुं तत्त्वे निर्धूततर्कज्वरनियतमहासन्निपातप्रलापान् । निष्पन्ने तत्त्वबोधे न किमपि विदुषा साध्यमित्युद््गृणद्भ्यो यावज्जीवानुवर्त्यं मुररिपुभजनं मुक्तिलाभाय वक्ति ।। 3.3.2      भीष्माभ्यो यातनाभ्यः पितृपथगमनावर्तनादेश्च बिभ्यत् तृष्णां कृष्णामृताब्धौ परिणयति परां यावता तावदुक्तम् । इत्थं लब्धाधिकारः परमधिकुरुते साधने यत्र साङ्गे पादद्वन्द्वे परस्मिन्तदिह बहुभिदाबर्बरं निर्ब्रवीति ।। 3.3.3      […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.