अधिकरणसारावली सर्वापेक्षाधिकरणम्
अधिकरणसारावली सर्वापेक्षाधिकरणम् 3.4.13 त्यक्ते यज्ञादिधर्मे परभजनविधेरूर्ध्वरेतस्सु दृष्ट्या विद्या तेनानपेक्षा गृहवति च भवेदित्यनालोचितोक्तिः । यज्ञेनेत्यादिकाभिश्श्रुतिभिरवगता ह्यस्य सा तत्प्रसाध्या जिज्ञासार्थत्ववादो जिगमिषति पदेत्यादिनीत्या निवर्त्यः ।। 3.4.14 नन्विच्छार्थत्वहानिर्जिगमिषति पदेत्यादिके गत्यभावात् श्रुत्युक्तेऽस्मिंस्तथा नेत्यसदिह च यतो गत्यभावस्समानः । इच्छा स्याद्धीविशेषात्तदनुपजनने कर्मभिस्सा न साध्या जिज्ञासां प्राप्तुमिच्छोर्न च न भवति तज्ज्ञानमिष्टं पुरैव ।। 3.4.15 नन्वत्रेच्छानुवृत्तिं प्रति विहितमिदं कर्म योज्यम् ततः […]
अधिकरणसारावली अग्नीन्धनाद्यधिकरणम्
अधिकरणसारावली अग्नीन्धनाद्यधिकरणम् 3.4.12 यज्ञादेरङ्गभावाच्च तदनधिकृतेष्वङ्गिनोऽधिक्रिया स्यात् विद्यैवं नोर्ध्वरेतस्स्विति न बहुविधस्वाश्रमार्हाङ्गतोक्तेः । विद्यायोगश्चतुर्णां विधिरपि हि समश्श्रूयते स्मर्यते च प्रायेणौचित्यभूम्ना मुनिभिरभहितं क्वापि मोक्षाश्रमत्वम् ।।
अधिकरणसारावली पारिप्लवाधिकरणम्
अधिकरणसारावली पारिप्लवाधिकरणम् 3.4.11 विद्यास्वाख्यानभेदा विधिमहिमहृतास्सन्तु पारिप्लवार्थाः न स्युर्विद्याविधानैः प्रकरणपठितैरेकवाक्यत्वदृष्टेः । मन्वाद्याख्यानमात्रं भवति च कथितं तत्र पारिप्लवार्थं तेनाकाङ्क्षानिवृत्तौ न तदधिकपराख्यानतादर्थ्यक्लृप्तिः ।।
अधिकरणसारावली स्तुतिमात्राधिकरणम्
अधिकरणसारावली स्तुतिमात्राधिकरणम् 3.4.8 जुह्वादिस्तोत्रनीत्या भजतु रसतमाद्युक्तिरङ्गस्तुतित्वं मैवं तत्तद्विधानप्रकरणरहितापूर्वनिर्देशयुक्तेः । तत्तद्दृष्टेर्विधानं विविधमिह समालक्षि चैतत्समीपे तेनानन्यार्थशिष्टे फलवति च विधिर्युज्यते कल्प्यमानः ।। 3.4.9 किञ्च प्राप्तेरभावान्न तदनुवदनं नाधिरोप्यस्तुतिर्वा युक्ता विध्येकवाक्ये गतिरियमगतेस्सात्र नासक्तिहानेः । उत्कर्षः कल्प्यते चेदगतिकविषये तत्प्रसह्य प्रसह्यं मध्ये विद्याविधीनां वचनमिदमिति स्यात्तु विद्यार्थमेतत् ।। 3.4.10 विद्यार्थत्वेऽपि युक्ता स्तुतिरियमसतः कीर्तनादित्ययुक्तं दृष्ट्युद्देशेऽतिचारादथ च विशयनं स्यादिति त्वर्भकोक्तिः […]
अधिकरणसारावली पुरुषार्थाधिकरणम्
अधिकरणसारावली ॥ अथ तृतीयाध्याये चतुर्थ: पाद: ॥ पुरुषार्थाधिकरणम् 3.4.1 कर्म प्राक् चिन्तयित्वा ननु परममथ ब्रह्म जिज्ञास्यमुक्तं पादे विद्याङ्गतोक्तिः पुनरिह वितथानेकधा त्याज्यतोक्तेः । मैवं कर््््मैव तत्तद्गुणयुतविनियुक्त्यन्यभावेन भिन्नं विद्यानिष्पत्तिहेतुः किमपि च सुकृतं स्यान्नवृत्येकसंज्ञम् ।। 3.4.2 त्यागः काम्यक्रियायां क्वचन परविदः क्वाप्यनर्हक्रियायां स्वैकाधीनत्वबुद्धेः क्वचिदनुपधिकस्वार्थबुद्धेश्च गतिः । अत्राहिंसादिकानां त्वघविहतिकृतां सर्वसाधारणानां ब्रूते वर्णाश्रमादिप्रतिनियतिमतामप्युपास्त्यङ्गभावम् ।। 3.4.3 […]
अधिकरणसारावली यथाश्रयभावाधिकरणम्
अधिकरणसारावली यथाश्रयभावाधिकरणम् 3.3.68 तत्तद्विद्यासु तादृक्फलतरतमतां वारयित्वा प्रसङ्गात् प्रागुक्तोद्गीथविद्याफलमथ पुनराक्षिप्य गाढीकरोति । मा भूदुक्तं स्ववाक्ये फलमिह तु न सा पर्णमय्यादिनीतिः स्पष्टा खल्वत्र विद्या फलकरणतया वर्तमानोक्तितोऽपि ।। 3.3.69 तादर्थ्यं नात्र कर्मश्रुतिरवगमयेदाश्रयालम्बमात्राद् विद्याहानौ च युक्तं प्रतिविधिवचनं तत्फलार्थिप्रसङ्गे । तारे सोपासनेऽस्तु स्तवनमनुगमात् तावता सा तु नाङ्गं प्रग्वक्तव्यस्य हित्वा वच इदमुपरि स्थापनीयप्रसक्त्यै ।। 3.3.70 विद्यैक्योद्गीथविद्याद्वितयविभजनप्राणविद्यैकभावाः सर्वास्वानन्दतादेर्गुणिवदनुगतिः प्राणवासस्त्वदृष्टिः […]
अधिकरणसारावली विकल्पाधिकरणम्
अधिकरणसारावली विकल्पाधिकरणम् 3.3.66 ज्योतिष्टोमाग्निहोत्रप्रभृतिवदधिकानन्दसिद्ध्यै समुच्चि- त्यर्हास्स्युर्ब्रह्मविद्या न च भजनविधिः कश्चिदेकं प्रति स्यात् । कर्तुं ताः कालभेदात् क्षममिति न मिथो वासनास्थैर्यबाधात् सम्पूर्णब्रह्मलब्धै पृथगिह च विधिः प्रायणान्ते समाधौ ।। 3.3.67 रूपादीनां विशेषैर्ननु परभजनं नैकरूपं विभक्तं सामग्रीभेदतस्तत्फलमपि विषमं सम्मतं न्यायतस्स्यात् । न स्यात् सर्वासु विद्यास्वपि हि फलतया वक्ष्यते भोगसाम्यं प्राप्यैक्यञ्च प्रसिद्धं बहुसरणिजुषां लोकतो वेदतश्च ।।
अधिकरणसारावली शब्दादिभेदाधिकरणम्
अधिकरणसारावली शब्दादिभेदाधिकरणम् 3.3.63 सर्वासु ब्रह्म वेद्यं फलमपि खलु तद्ब्रह्मविद्येति चाख्या ध्यानाद्युक्त्येकलक्ष्ये विधिरपि भजने सर्वविद्यैक्यमित्थम् । तन्नाख्यारूपभेदात् तदुपहितविधौ तेन वैशिष्ट्यसिद्धेः मिश्रं मध्वादिविद्याफलमिह च पृथक्काम्यविद्यासु चैवम् ।। 3.3.64 नानाशब्दादिभेदादिति कथमवदत् सूत्रकृच्छब्दसाम्ये न ह्येते यागदानादय इव भिदुरा भक्तिविश्रान्तिसिद्धेः । सत्यं शब्दस्य भेदस्त्वयमुपचरितो रूपभेदद्रढिम्ने ज्ञानं ये चाविधेयं करणमिति जरतुस्तन्निरासेऽभिसन्धिः ।। 3.3.65 यद्वा शब्दादिभेदादिति तु कथयता सूत्रकारेण […]
अधिकरणसारावली भूमज्यायस्त्वाधिकरणम्
अधिकरणसारावली भूमज्यायस्त्वाधिकरणम् 3.3.61 व्यस्तो वैश्वानरात्मा प्रतिनियतफलोदाहृतेश्चिन्तनीयः कृत्स्नोपास्तौ फलोक्तिस्स्तुतिरिह यदि वा कृत्स्नरूपोऽप्युपास्यः । मैवं व्यस्तेषु दोषः पृथगनुकथितस्तत्फलोक्तिस्स्तुतिस्स्याद् दृष्टं ह्यष्टाकपालप्रभृतिषु च तथा तेन चिन्त्यस्समस्तः ।। 3.3.62 सामस्त्यस्यैव योगे द्रढिमवति महावाक्यतात्पर्यवृत्त्या व्यस्तेष्वंशाननूद्य स्तुतिनियतनयादान्यपर्यं फलोक्तेः । नामादीनामुपास्तौ फलमवधितयापेक्षितं भूमवाक्ये नाप्येवं प्रत्यवायश्श्रुत इति विषमोदाहृतिर्नार्थसिद्धै ।।
अधिकरणसारावली अङ्गावबद्धाधिकरणम्
अधिकरणसारावली अङ्गावबद्धाधिकरणम् 3.3.60 उद्गीथादेर्विशेषे भजनविधिरसौ स्यात् स्वसान्निध्यगीतेः मैवं सर्वाङ्गिभूतक्रतुमुखत इहाशेषसान्निध्यसिद्धेः । सामान्यं व्यक्त्यपेक्षक्रियमपि नियमादर्शने व्रीहितावत् शब्दश्चोद्गीथमात्रं वदति नतु भिदां छागनीतिस्तु नात्र ।।